"आर्षेयकल्पः/अध्यायः ०३" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः १३३: | पङ्क्तिः १३३: | ||
ब्रह्मशब्देन ब्राह्मणाच्छंसी गृह्यते । तदनुशंसनीयत्वात् । तृतीयस्याज्यस्य तेन संबन्धः । अत्र निदानम् -अभिजितोऽतिरात्री भवतो ब्रह्मण आज्यमुद्धरति । आर्षभस्तोत्रीयं मा चीचरन् (नि०सू० ६. ४) इति ।। १ ।। |
ब्रह्मशब्देन ब्राह्मणाच्छंसी गृह्यते । तदनुशंसनीयत्वात् । तृतीयस्याज्यस्य तेन संबन्धः । अत्र निदानम् -अभिजितोऽतिरात्री भवतो ब्रह्मण आज्यमुद्धरति । आर्षभस्तोत्रीयं मा चीचरन् (नि०सू० ६. ४) इति ।। १ ।। |
||
सामतृचस्य लोके श्यावाश्वम् (ऊ० १. १. ११) ।। २ ।। |
सामतृचस्य लोके श्यावाश्वम् (ऊ० १. १. ११) ।। २ ।। |
||
इति । गौरीवित-( ऊ० ३.२.१४ )मेकस्याम् । मधुश्चुन्निधन- (ऊ० ३.२.१५ )मेकस्याम् । श्यावश्व(ऊ० १.१. ११ )मेकस्याम् इति योऽयं सामतृचः तिसृषु स्तोत्रीयासु क्रमात् क्रियमाणैरेकर्च्चैः सामभिः कल्पितस्तृचः तस्य स्थाने श्यावाश्व(ऊ० १.१.११) मित्यर्थः । अत्र च यद्यतिरात्र इत्यनुषज्यते तेनाग्निष्टोमातिरात्रयोर्द्वयोरपि श्यावाश्वमेव । गौरीवितं हि सत्रप्रयुक्तम् ।। २ ।। |
इति । गौरीवित-( ऊ० ३.२.१४ )मेकस्याम् । [https://sa.wikisource.org/s/1z89 मधुश्चुन्निधन]- (ऊ० ३.२.१५ )मेकस्याम् । श्यावश्व(ऊ० १.१. ११ )मेकस्याम् इति योऽयं सामतृचः तिसृषु स्तोत्रीयासु क्रमात् क्रियमाणैरेकर्च्चैः सामभिः कल्पितस्तृचः तस्य स्थाने श्यावाश्व(ऊ० १.१.११) मित्यर्थः । अत्र च यद्यतिरात्र इत्यनुषज्यते तेनाग्निष्टोमातिरात्रयोर्द्वयोरपि श्यावाश्वमेव । गौरीवितं हि सत्रप्रयुक्तम् ।। २ ।। |
||
प्रमँहिष्ठॊयं ( ऊ० २.२.६) हारिवर्णं ( ऊ० २. २ .६) नार्मेधम् (ऊ० १. १. १७) ।। ३ ।। |
प्रमँहिष्ठॊयं ( ऊ० २.२.६) हारिवर्णं ( ऊ० २. २ .६) नार्मेधम् (ऊ० १. १. १७) ।। ३ ।। |
||
[ इत्युक्थानि ।। |
[ इत्युक्थानि ।। |
०४:०९, ११ जुलै २०२० इत्यस्य संस्करणं
← अध्यायः २ | आर्षेयकल्पः अध्यायः ३ मशकः |
अध्यायः ४ → |
कॢप्तो ज्योतिष्टोमो ३-१-१ 3.1
गोर्वर्कजम्भस्य लोके दैर्घश्रवसं दैर्घश्रवसस्य बार्हदुक्थँ स्वासु श्यैतं गौरीवितस्य श्यावाश्वमुद्वंशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण ३-१-२ 3.2
आयुषो वार्कजम्भस्य लोके मैधातिथं मैधातिथस्य रौरवँ स्वासु नौधसं गौरीवितस्य श्यावाश्वम् उद्वँशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण ३-१-३ 3.3
अभि प्र गोपतिं गिरेत्यभिजितो ब्रह्मण आज्यं यद्यतिरात्रः सामतृचस्य लोके श्यावाश्वं प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरँ सांवत्सरिकेण ३-१-४ 3.4
विश्वजितः पवस्वेन्द्रमच्छेति सत्रासाहीयश्रुध्ये सफश्रुध्ये यद्यतिरात्रः सामतृचस्य लोक आन्धीगवं ज्योतिष्टोमोऽतिरात्रः षोडशिमान्त्समानमितरँ सांवत्सरिकेण ३-१-५ 3.5
व्रतस्या नो विश्वासु हव्यमिति श्यैतं ब्रह्मसाम गौरीवितस्य लोक औदलँ समानमितरँ सांवत्सरिकेण ३-१-६ 3.6
पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतय इति राथंतरं त्रीणि बार्हतान्यस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च यौधाजयं चायँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च स्वादोरित्था विषूवत इति श्यैतँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशत्रिवृन्त्याज्यानि सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्यैकविँश आर्भव एकविँशोऽग्निष्टोमः ३-२ 3.7
एषैवोत्तरस्य कॢप्तिस्तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यंदिनः पवमानस्त्रीणि च पृष्ठानि पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदश आर्भव एकविँशोऽग्निष्टोमो ३-३-१ 3.8
अग्निं दूतं वृणीमह इत्युभयान्याज्यानि श्रायन्तीयं ब्रह्मसाम यस्ते मदो वरेण्य इति गायत्रमौक्षे आन्धीगवादुत्तरमाथर्वनँ साकमश्वँ सौभरं त्रैककुभं वोद्वँशीयमित्युक्थानि चतुर्विँश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः समानमितरं पूर्वेण सस्तोमम् ३-३-२ 3.9
उपास्मै गायता नर उपो षु जातमप्तुरं पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतये पुरूरुणा चिध्यस्तीन्द्रमिद्गाथिनो बृहदिन्द्रे अग्ना नमो बृहदुच्चा ते जतमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इतीडानाँ संक्षार एकस्यां प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमिति यौधाजयं तिसृषु पुनानः सोम धारयेति रौरवमेकस्याँ रथंतरं तिसृषु शिशुं जज्ञानँ हर्यतं मृजन्तीति वामदेव्यमन्त्यं बृहत्पृष्ठं वामदेव्यस्यर्क्षु स्वारँ सौपर्णँ श्रायन्तियं च कालेयं च स्वादिष्ठया मदिष्ठयेति गयत्रसँहिते परि प्र धन्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि त्रिवृन्मैत्रावरुणस्य सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्य सप्तदश आर्भव एकविँशोऽग्निष्टोमः ३-४ 3.10
उपास्मै गायता नरः पवमानो अजीजनत् पवमानस्य ते कव इतीममू षु त्वमस्माकं मित्रं वयं हवामहे अहमिद्धि पितुष्परीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रमेकस्याम् आमहीयवमेकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वैष्टंभमेकस्यां कालेयं एकस्यां यौधाजयमेकस्याम् औशनमन्त्यँ रथंतरं वामदेव्यं च श्रायन्तीयस्यर्क्षु सौभरं कालेयस्यर्क्षु वारवन्तीयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफायास्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ३-५ 3.11
एषैवोत्तरस्य कॢप्तिस्तस्यैकविँशमग्निष्टोमसामोभौ त्रिवृतौ ३-६-१ 3.12
शाक्वरवर्णात्पूर्वँ स्वारँ सौपर्णमायास्यस्य लोके पौष्कलँ श्यावा-श्वात्पूर्वमैडमायास्यं चतुर्विंशावुत्तरौ पवमानौ तृचकॢप्तौ समानमितरं पूर्वेण सस्तोमँ ३-६-२ 3.13
रथंतरदैर्घश्रवसे अन्तरैडमायास्यमेकस्याँ सँहितादुत्तरं जराबोधीयँ समानमितरं विश्वजितैकाहिकेनाग्निष्टोमेनाष्टादशावुत्तरौ पवमानावेकविँशँ होतुः पृष्ठमेकविंशो ऽग्निष्टोमस्त्रिवृदितरँ सर्वम् ३-६-३ 3.14
पवमानस्य जिघ्नतः पुनानो अक्रमीदभि पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनन्मित्रँ हुवे पूतदक्षमु त्वा मन्दन्तु सोमास्ता हुवे ययोरिदमर्षा सोम द्युमत्तम इति गायत्रमेकस्यां वार्षाहरं एकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वषट्कारणिधनमेकस्याँ रौरवमेकस्यां यौधाजयमेकस्यामौशनमन्त्यँ रथँतरं च वामदेव्यं च बृहच्च कालेयं च यस्ते मदो वरेण्य इति गायत्र वार्षाहरे पवस्वेन्द्रमच्छेति सफौपगवे पुरोजिती वो अन्धस इति नानदान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृतः पवमाना अग्निष्टोमसाम च तिसृभिराज्यपृष्ठानि ३-७ 3.15
उपास्मै गायता नर इत्येकया बहिष्पवमानँ साद्यःक्राण्याज्यानीन्द्रायेन्दो मरुत्वत इति गायत्रं पुनानः सोम धारयेति उत्सेध औशनमन्त्यँ रथंतरं च वामदेव्यं च श्रायन्तीयस्यर्क्षि निषेधः स्वासु कालेयमया रुचा हरिण्या पुनान इति गायत्रपार्श्वं यज्ञायज्ञीयमग्निष्टोमसामैकत्रिक स्तोम एकयाथ तिसृभिः ३-८ 3.16
ज्योतिष्टोमं बहिष्पवमानमग्ने विश्वेभिरग्निभिरा नो मित्रावरुणा त्वेता निषीदतेन्द्राग्नी आगतँ सुतमुच्चा ते जातमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति यौधाजयं पुनानः सोम धारयेति रौरवमौशनमन्त्यँ रथंतरं च वामदेव्यं चाधा हीन्द्र गिर्वण एन्दुमिन्द्राय सिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते परि प्र धन्व नदँ वा ओदतीनामिति सफश्रुध्ये प्रयू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि षोडशमच्छावाकस्य षोडशो माध्यंदिनः पवमानः सप्तदशानि त्रीणि पृष्ठानि षोडशमच्छावाकस्य षोडश आर्भव एकविँशोऽग्निष्टोमः ३-९ 3.17
एते असृग्रमिन्दवो यवंयवं नो अन्धसेति पुरस्तात्पर्यासस्य तृचचतुरृचे आयुष उक्थानि षोडशाः पवमाना अच्छावाकसामानि चैकविँशोऽग्निष्टोमो द्वे चोक्थे समानमितरं पूर्वेण सस्तोमम् ३-१०-१ 3.18
इन्द्रायेन्दो मरुत्वत इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रौरव यौधाजये श्रुध्यस्य लोके मरुआँ! सँस्तोभो मरुताँ सँस्तोभस्य श्यावाश्वं पुरोजिती वो अन्धस इत्यान्धीगवं त्रिवृतावुत्तरौ पवमानौ समानमितरं प्रथमेन व्रात्यस्तोमेन सस्तोमम् ३-१०-२ 3.19
अग्रियवती प्रतिपत् पूर्वस्य प्रातःसवनम् उच्चा ते जातमन्धस इति गयत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रथंतरँ रौरवयौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं चाधा हीन्द्र गीर्वण एन्दुमिन्द्राय शिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते जराबोधीयं च स्वाशिरां चार्कः परि प्र धन्व नदं व ओदतीनामिति सफश्रुध्ये पर्यू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे आथर्वणं च बृहच्चाग्नेयं कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे पञ्चदशसप्तदशे द्वे एकविँशचतुर्विंशे द्वे चतुश्चत्वारिँशाष्टाचत्वारिँशे द्वे त्रिणवत्रयस्त्रिँशे द्वे द्वात्रिँशे ३-११ 3.20
अग्न आयूँषि पवसे अग्ने पावक रोचिषाग्निर्मुर्धा दिवः ककुदग्न आ याहि वीतये कस्ते जामिर्जनानामीडेन्यो नमस्यो ऽग्निर्वृत्राणि जङ्घनदुत्ते बृहन्तो अर्चय इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पाहि नो अग्न एकयेति यौधाजयं तिसृष्विनो राजन्नरतिः समिद्ध इत्यौशनमन्त्यमेना वो अग्निं नमसा कया ते अग्ने अङ्गिर इति रथंतरं च वामदेव्यं चाग्न आ याह्यग्निभिरच्छा नः शीरशोचिषमिति नौधसकालेये अदाभ्यः पुर०एतेति गायत्रसँहिते भद्रो नो अग्निराहुतो ऽग्ने वाजस्य गोमत इति सफ पौष्कले विशोविशो वो अतिथिमिति श्यावाश्वान्धीगवे समिद्धमग्निँ समिधा गिरा गृण इति यज्ञायज्ञीयमन्त्यमुप त्वा जामयो गिर इति वायव्यासु वारवन्तीयमग्निष्टोमसाम ३-१२ 3.21
एषैवोत्तरस्य कॢप्तिस्तस्य रेवतीषु वारवन्तीयमग्निष्टोमसामो उभौ त्रिवृताव् ३-१३ -१ 3.22
उद्धरति जराबोधीयं यौधाजयात्पूर्वँ रौरवं पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्य कावँ समानमितरं पूर्वेण ज्योतिष्टोम स्तोमो ३-१३ -२ 3.23
अवा नो अग्न ऊतिभिरग्निँ हिन्वन्तु नो धिय इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे पाहि नो अग्न एकयेति रौरवं तिसृषु दैर्घश्रवसमेकस्याँ समन्तं विष्टारपङ्क्तौ यौध्जयं तिसृषु १९
समानमितरं पूर्वेण सर्वः सप्तदशः ३-१३-३ 3.24
पवस्वेन्दो वृषा सुत एते असृग्रजिन्दवः पवमानस्य ते कवे व्रात्यान्याज्यान्युच्चा ते जातमन्धस इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पुनानः सोम धारयेति यौधाजयं तिसृषु स्वासु नौधसस्यर्क्ष्वभीवर्तो ब्रह्मसाम समानमितरं ज्योतिष्टोमेन ३-१३-४ 3.25
एष एवोत्तरस्य मध्यंदिनो ज्योतिष्टोममितरँ सर्वँ ३-१३-५ 3.26
शाक्वरवर्णस्य लोके जरबोधीयं वषट्कारणिधनस्य सप्तहं बृहतो वषट्कारणिधनँ समानमितरच्छ्येनेन ३-१३-६ 3.27
प्र सोमास अधन्विषुः क्प्र स्वानासो रथा इवा सृग्रमिन्दवः पथो पप्रयन्तो अध्वरं प्र वो मित्राय गायत प्र व इन्द्राय मादनं प्र वामर्चन्त्युक्थिनः प्र सोमासो विपश्चित इति गायत्रं प्र सोम देववीतय इति गौङ्गवं प्र तु द्रवेत्यौशनमन्त्यं वामदेव्यं च मैधातिथं च हारायणं च कौल्मलबर्हिषं च प्र सोमासो मदच्युत इति गायत्रं चाशु भार्गवम् अभि द्युम्नं बृहद्यशः प्र धन्व सोम जागृविरिति सफ सत्रासाहीये प्र सुन्वानायान्धस इति श्यावाश्वौदले प्रो अयासीदिति कावमन्त्यं प्र दैवोदासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसाम दैर्घश्रवसँ स्वासु यदि जीवेत् सर्वः स्वारः सर्वे त्रिवृतः शान्तिर्वामदेव्यँ शान्तिर्वामदेव्यम् ३-१४ 3.28
157
तृतीयोऽध्यायः
एकाहः - अथ ये ब्राह्मणेऽध्यायैश्चतुर्भिः षोडशादिभिः ।
एकाहा विहितास्तेषां क्लूप्तिस्त्रिभिरिहोच्यते ।। १ ।।
ज्योतिष्टोमः आरम्भकालदीक्षोपसद्दिवसदक्षिणादिकं सूत्रे उदगयनपूर्वपक्षे- (ला० श्रौ० ८.१.१ )त्याद्यैः पटलैश्चतुर्भिरुक्तम् । तत्रौद्गात्रतन्त्रं प्रवक्ष्यतेऽस्माभिरत्र । न त्वन्यत् । तद्ध्यापस्तम्बाद्यैरध्वर्युप्रत्ययं कथितम् । तत्र तावत् प्रजापतिर्वा इदमेक आसीत् (तां० ब्रा० १६. १.१) इत्यनुवाकोक्तस्य ज्योतिष्टोमस्य क्लृप्तिमाह- क्लृप्तो ज्योतिष्टोमः ।। १ ।। प्रजापतिरकामयत बहु स्यां प्रजायेति । स एतमग्निष्टोममपश्यत् (तां० ब्रा० ६. १. १) इत्यादि ब्राह्मणेन ज्योतिष्टोमोऽग्निष्टोमसंस्थः क्लृप्त इत्यर्थः । तस्यैवैकाहप्रकरणे प्रथमं संस्थात्वविधानं दक्षिणाविधानं च ब्राह्मणेन क्रियते । तदुक्तम्-शेषविधेः पुनराम्नान- ( ला० श्रौ० ९.६.२३ )मिति । तस्य च प्रयोगः प्रागेवास्माभिर्दर्शितः ।। १ ।। इति ज्योतिष्टोम; ।। १ ।। गौः अथैष गौर् ( तां. ब्रा० १ ६. २.१) इत्यनुवाकेन गौरुक्तः । तस्य क्लृप्तिमाह ---
158
गौः ।। १ ।। वार्कजम्भस्य लोके दैर्घश्रवसम् (ऊ० ५.२.४) । दैर्घश्रवसस्य बार्हदुक्थम् ( ऊ० ९.३.७) । स्वासु श्यैतम् ( सा० ८११-२; ऊ० २. १. ३) । गौरीवितस्य श्यावाश्वम् (ऊ० १. १.११) । उद्वंशीयस्य नार्मेधम् (ऊ० १. १. १७) । यदि रात्रिः ।। २ ।। समानमितरं सांवत्सरिकेण ।। ३ ।। इति । गौर्गवामयने द्वितीयाध्यायोपान्त्यखण्डेन क्लृप्तः । तत्र चावृत्तस्याभिप्लवस्य यत् षष्ठमहो राथन्तरम् तस्य राथन्तरेणायुषा संनिपाते जामिता स्यादिति तत्परिहारार्थमायुषो माध्यंदिने बृहन्निधनं वार्कजम्भं कल्पितम् । उक्तं हि निदाने- अथ यत्र समानसामान्ते संनिपातस्तज्जामीत्याचक्षते । यत्र वा समान- पृष्ठेऽहनी (नि० सू० १. १२) इति । तत्रैतान्यष्टौ जामिकरणानि । सौभरं प्रत्नवत्यो बृहदित्येषोऽभिव्याहारो वार्कजम्भं बृहन्निधनम् । वृहन्निधनानीत्याह रथन्तरसंनिपातेष्विति च । ईनिधनं तु वार्क- जम्भम् । द्वयोः साम्नोर्विप्रयोगो मा भूदिति । आयुःसहचरस्य गोर्माध्यंदिने कृतम् । ऐकाहिके त्वायुषि जाम्यभवात् बृहन्निधनं वार्कजम्भमुद्धरिष्यत इति गोष्टोमे तत्सहचरमीनिधनमप्युद्धृत्य तस्य स्थाने दैर्घश्रवसं नित्यं कर्तव्यम् । असंचाराय च तस्य बार्हदुक्थम् । इन्द्रक्रतोर्गवामयनोत्तरपक्षप्रयुक्तत्वादिह स्वासु
159
एकाहः-गौः [ अ. ३. ख. २]
श्यैतम् । गौरीवितस्य सत्रप्रयुक्तत्वात् तस्य स्थाने प्राकृतं श्यावाश्वमेव । यदि गोष्टोमोऽतिरात्रसंस्थः स्यात् तदोद्वंशीयस्य नार्मेधं विच्छन्दस ऋचो भवन्ति । अहोरात्रयो रूपमिति तस्य रात्र्यनुरूपत्वश्रवणात् । अन्यत्सर्वं गवामयनिकेन गवा सममित्यर्थः । तस्येयं क्लृप्तिः-पवस्व वाचो अग्रियो-( सा० ७७५-७) दविद्युतत्या रुचा( सा० ६५४-५) पवस्वेन्दो वृषा सुतो-(सा० ७७८-८०) वृषा सोम द्युमाँ असि( सा० ७८१-३) पवमानस्य ते कव-(सा० ६५७-९) इति बहिष्पवमानम् । अग्निन्दू-मित्रं वयम्-इन्द्रमिद्गा- चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ७९०-८०२ त्याज्यानि । अस्य प्रत्ने-( सा० ७५५-७) ति गायत्रं चामहीयवं ( ऊ० ९.२.३) च । परीतोषी-(सा० १ ३१३-५)ति समन्तं (ऊ० ९ १. ३) प्रथमायाम् । दैर्घश्रवस-(ऊ० ५. २. ४) बार्हदुक्थे (ऊ० ४. २. १३) तिसृषु । यौधाजय( ऊ० १. १. ३ )मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ-( ऊ० ९. २. ५ )मन्त्यम् इति माध्यंदिनः । वृहच्च ( र० १.१. ५) वामदेव्यं ( ऊ. १. १.५) च श्यैतं (ऊ० २. १. ३) च कालेयं ( ऊ० १. १. ७ )चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४. १. १०) । पवस्वेन्द्रमच्छे( सा० ६९२-६) ति सफ(ऊ० १. १.९) श्रुध्ये( ऊ० ९. १.२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावश्वान्धीगवे (ऊ० १.१. ११-२) । सूर्यवतीषु काव- (ऊ० ९.२. ११ )मन्त्यमित्यार्भवः । यज्ञायज्ञीय(ऊ० १. १. १४)मग्निष्टोमसाम । साकमश्व (ऊ० १.१ .१५) सौभर(ऊ० १.१.१६) मुद्वंशीय-(ऊ० ६.१.८)मित्युक्थानि । अतिरात्रपक्षे नार्मेध( ऊ० १. १. १७ )मुक्थानामन्त्यम् । पञ्चदशं बहिष्पवमानम् । त्रिवृन्त्या- ज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयं सवनम् । सोक्थम् । पञ्चदशी रात्रिस्त्रिवृत्संधिरिति स्तोमक्लृप्तिः ।।
160
यद्यप्यतिरात्राणामहीनप्रकरणे ब्राह्मणाम्नानात्तत्रैवाभिधानं युक्तम्, तथापि प्रातिस्विको विशेषो लाघवार्थमिह कथ्यते । सामान्यत- स्त्वाहीनिकी रात्रिस्तत्र वक्ष्यति । तत्रानुक्तं सर्वं ज्योतिष्टोमवत् ।। ३ ।। इति गौः ।। २ ।। आयुः अथैष आयु(तां० ब्रा० १६.३ )रित्यनुवाकेनायुरुक्तः । आयुषः ।। १ ।। वार्कजम्भस्य लोके मैधातिथम् (ऊ० ९.३.६) । मैधातिथस्य रौरवम् (ऊ० ७. १. १३) । स्वासु नौधसम् (सा० ६८५- ६; ऊ० १. १. ६) । गौरीवीतस्य श्यावाश्वम् (ऊ० १. १. ११) । उद्वंशीयस्य नार्मेधम् ( ऊ० १.१. १७) । यदि रात्रि ।। २ ।। समानमितरं सांवत्सरिकेण ।। ३ ।। इति । गवामयने ज्योतिष्टोममाज्यबहिष्पवमान-(आ० क० २. ८ १ )मित्यनुवाकेनायुः क्लृप्तः । तस्यैकाहिकस्योक्ते द्रव्यविकारे । निदानं पूर्वानुसारेण सुगमम् । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्र - आयाहि - इन्द्राग्नी-( सा० ६६०- ७१ )त्याज्यानि ।। उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च अभिसोमास (सा० ८५६-७) इति द्विहिंकारं (ऊ० ४.२.७) प्रथमायाम् । मैधातिथं (ऊ० ९.२.६) तिसृषु । रौरवं (ऊ० ७.१.१३) तिसृषु । यौधाजय-(ऊ० १.१ .३)- मध्यास्यायाम् । औशन-( ऊ० १.१.४ )मन्त्यम् ।।
161
एकाहः-गौः (अ.३ ख.४)
रथन्तरं (र० १.१. १) च वामदेव्यं (ऊ० १.१. ५) च नौधसं ( ऊ० १. १. ६) च कालेय-( ऊ० १. १.७ )मिति पृष्ठानि ।। स्वादिष्ठये-(सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफपौष्कले (ऊ० १.१.९-१०) । पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । काव( ऊ० १. १. १३ )मन्त्यम् ।। यज्ञायज्ञीय-(ऊ० १. १. १४ )मग्निष्टोमसाम ।। प्रमंहिष्ठीयं (ऊ० २.२.५ )हारिवर्ण-(ऊ० २.२.५ )मुद्वंशीय- (ऊ० ६.१. ८)मित्युक्थानि । प्रमंहिष्ठीयस्य ककुप् छन्दः । हारि- वर्णस्योष्णिक् । अतिरात्रश्चेदायुः । तदोद्वंशीयस्य स्थाने नार्मेधम् (ऊ० १. १. १७) ।। त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि ।। सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थम् । पञ्चदशी रात्रिः । त्रिवृत्संधिरिति स्तोमः । उक्तस्य ज्योतिर्गौरायुरिति त्रिकस्य त्रिकद्रुका इति संज्ञा । एते वै त्रिकद्रुका स्तोमा (तां० ब्रा० १६.३.८) इति श्रुतेः ।। ३ ।। इति आयुः ।। ३ ।।
अभिजित् अथाभिजिद्विश्वजितौ प्रजापतिः प्रजा असृजते- (तां० ब्रा० १ ६. ४. १ )त्यनुवाकेनोक्तौ । विश्वजिदुत्तराभ्यां चानुवाकाभ्याम् । तत्रा- भिजतः क्लृप्तिमाह- अभि प्र गोपतिं गिरे-(सा० १४८९-९१ )त्यभिजितो ब्रह्मण आज्यम् । यद्यतिरात्रः ।। १ ।।
162
ब्रह्मशब्देन ब्राह्मणाच्छंसी गृह्यते । तदनुशंसनीयत्वात् । तृतीयस्याज्यस्य तेन संबन्धः । अत्र निदानम् -अभिजितोऽतिरात्री भवतो ब्रह्मण आज्यमुद्धरति । आर्षभस्तोत्रीयं मा चीचरन् (नि०सू० ६. ४) इति ।। १ ।। सामतृचस्य लोके श्यावाश्वम् (ऊ० १. १. ११) ।। २ ।। इति । गौरीवित-( ऊ० ३.२.१४ )मेकस्याम् । मधुश्चुन्निधन- (ऊ० ३.२.१५ )मेकस्याम् । श्यावश्व(ऊ० १.१. ११ )मेकस्याम् इति योऽयं सामतृचः तिसृषु स्तोत्रीयासु क्रमात् क्रियमाणैरेकर्च्चैः सामभिः कल्पितस्तृचः तस्य स्थाने श्यावाश्व(ऊ० १.१.११) मित्यर्थः । अत्र च यद्यतिरात्र इत्यनुषज्यते तेनाग्निष्टोमातिरात्रयोर्द्वयोरपि श्यावाश्वमेव । गौरीवितं हि सत्रप्रयुक्तम् ।। २ ।। प्रमँहिष्ठॊयं ( ऊ० २.२.६) हारिवर्णं ( ऊ० २. २ .६) नार्मेधम् (ऊ० १. १. १७) ।। ३ ।। [ इत्युक्थानि ।। प्रत्यस्मै पिपीषत (सा० १४४०-१३) इति नानदं षोडशिसाम ऊ० १०. १. १) । रात्रिः संधिः ।। ४ । समानमितरं सांवत्सरिकेण । ।५ । उक्थादिकं साम स्यादतिरात्रविषयम् ।।
163
एकाहः- अभिजित् [अ. ३. ख.४)
तत्राग्निष्टोमस्येयं क्लृप्तिः । पवस्व वाचो अग्रियः (सा० ७७५) पुनानो अक्रमीदभि(सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७) इति बहिष्पवमानम् ।। अग्निं दूतं वृणीमहे (सा० ७९०-२) आ नो मित्रावरुणा-(सा० ६६३-५) अभि त्वा वृषभा सुत ( सा० ७३१-३) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ।। उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १.१) च सत्रासाहीयं (ऊ० ८. २.१२) च । पुनानः सोमे-(सा० ७७५-६)त्यभीवर्तः रौरवयौधाजये (ऊ० १. १. २-३) । अभि वायु-( सा० १४२६-८) मिति पार्थ (ऊ० ८.२.१४) मन्त्यम् ।। बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १. १.५) च श्यैतं ( ऊ० १. १. ६) च कालेयं (ऊ० १ .१.७) चेति पृष्ठानि ।। स्वादिष्ठये(सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १. १.८) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सफ( ऊ० १. १.९ )सुज्ञाने (ऊ० २. १.७) । पुरोजिती( सा० ६९७-९ )ति श्यावाश्वन्धीगवे (ऊ० १. १. ११) । यज्ञायज्ञीयं (ऊ० १. १. ४) च बृहच्चा- ग्नेयं ( ऊ० ९. १. १७) काव( ऊ० १. १ . १ ३) मन्त्यम् ।। यज्ञायज्ञीस्यर्क्षु रथन्तर( र० १. १.६ )मग्निष्टोमसाम । अति- रात्रपक्षे अभि प्र गोपतिं गिरेति तृतीयमाज्यम् । प्रमंहिष्ठीयं (ऊ० २.२. ५) हारिवर्णं ( ऊ० २.२.६) नार्मेध( ऊ० २.१.१७ )मित्युक्थानि । प्रत्यस्मै पिपीषत (सा० १४४०-३) इति नानदं (ऊ० १०.१. १) षोडशिसाम । तस्यानुष्टुप् छन्दः । षोडशिसाम्ना स्तोष्यमाण इत्यादिना षोडशिधर्मा उक्ताः । ततो- ऽतिरात्रिः । संधिश्च । सर्वस्तोमस्य सतः आवृत्तस्तोमाश्चतुष्प्रणया
164
इत्यग्निष्टोमस्य स्तोमक्लृप्तिः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिस्त्रिवृत्संधिरित्यतिरात्रस्य ।। ५ ।। इति अभिजित् ।। ४ ।। - विश्वजित् विश्वजितः क्लृप्तिमाह-
विश्वजितः ।। १ ।। पवस्वेन्द्रमच्छे(सा० ६९२-६) ति सत्रासाहीय (ऊ० ९.२.७) श्रुध्ये (ऊ० ९. १.२०) । सफ-( ऊ० १. १.९) श्रुध्ये (ऊ० ९. १.२०) यद्यतिरात्रः ।। २ ।। सामतृचस्य लोक आन्धीगवम् (ऊ० १. १. १२) । ज्योतिष्टोमो- ऽतिरात्रः षोडशिमान् ।। ३ ।। समानमितरं सांवत्सरिकेण ।। ४ । इति । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय(ऊ० ९.२.७) क्षुध्ये( ऊ० ९. १.२०) इति सिद्धानुवादः । सफश्रुध्ये यद्यतिरात्र इति विशेषविवक्षायाम् अत्र निदानम्-सफश्रुध्ये यद्यतिरात्र इति तु भवत्यतिरात्रः । सन् कृत्स्नीभवति । सफीभवति । तस्मात् सफी- भवतः सफं वा विच्यावयिष्य-(नि० सू० ६. ६)दिति । तत्राग्निष्टोम- स्येयं क्लृप्तिः । उप त्वा जा-( सा० १५७०-२) जनीयन्तो- (सा० १४६०) उत नः प्रियाप्रियासु ( सा० १४६१) तत्सवितुर्वरेण्यम्( सा० १४६२) सोभानां स्वरणम् (सा० १४६३)
165
एकाहः-विश्वजित् (अ. ३ ख. ५)
अग्न आयूंषि पवसे ( सा० १४६४) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । अन्त्यवर्जमेकर्चाः । देवताभेद उक्तः ।। सुषमिद्धो (सा० १३ ४७-५०) ता नः शक्तं ( सा. १४६५-७) युञ्जन्ति ब्रध्नम् (सा० १ ४६८-७०) तमीडिष्व योऽर्चिषे(सा० १ १ ४९-५१) त्याज्यानि ।। अस्य प्रत्ने(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुते(सा० १३१ ३-५)ति कालेय(ऊ० ९. २.४ )माद्यायाम् । रथन्तर०(ऊ० २.४.३ )दैर्घश्रवसे(ऊ० ५.२.४) तिसृषु । यौधाजय(ऊ० १.१.३ )मध्यास्यायाम् । अयं सोम (सा० १४७१) इति पार्थ(ऊ० ९.२. ५)मन्त्यम् ।। वैराजं (र० ५.२.१४) च महानाम्न्यश्च वैरूपं (ऊ० ४.१.२०) च रेवत्य(र० १.२.७)श्चेति पृष्ठानि । उक्ताः पृष्ठधर्माः ।। परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रसंहिते ( ऊ० ९.२.६) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय- ( ऊ० ९.२.७) श्रुध्ये ( ऊ० ९.१.२०) । पर्यूष्वि( सा० १३६४-६ )ति वामदेव्यम् ( ऊ० ९.२.८) । पुरोजिती(सा० ६९७-९) त्यान्धीगवं ( ऊ० १. १. १२) च । यज्ञायज्ञीयं (ऊ० १.१.१४) च । परि प्रधन्वे( सा० १३६७-९ )ति द्विपदासु वारवन्तीयम् (ऊ० ९.२.१०) । सूर्यवतीषु( सा० १३७०-२) काव-(ऊ० ९. २. ११ )मन्त्यम् ।। त्वमग्ने यज्ञाना-( सा० १४७४-६ )मिति बृहद( र० २. ४ ५ )ग्निष्टोमसाम ।। साकमश्वसौभर नार्मेधानि( ऊ० १. १.१५-७)
166
उक्थानि । रात्रिः संधिः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः । अन्यत्सर्वमग्निष्टोमवत् । विश्वजिदभिजिद्भ्यां यमाभ्यां वा यजेतेति पक्षद्वयम् । तदुक्तम्- विश्वजिदभिजिद्भ्यां यमाभ्यां यजमान (ला० श्रौ० ८.१. १९) इत्यादि ।। ३ ।। इति विश्वजित् ।। ५ ।। महाव्रतम् अथ महाव्रतस्य सर्वजिदपरनामधेयस्य पञ्चविंशोऽग्निष्टोम तां० ब्रा० १६.७) इत्यनुवाकोक्तस्य क्लृप्तिः ।। व्रतस्य ।। १ ।। आ नो विश्वासु हव्यम् (सा० १४९२-३) इति श्यैतं ब्रह्मसाम (ऊ० १०.१.२) । गौरीवितस्य लोके औदलम् (ऊ० १०.१.३) ।। २ । समानमितरं सांवत्सरिकेण ।। ३ ।। इति । संवत्सरद्वितीयाध्यायान्त्यखण्डेन महाव्रतं क्लृप्तम् । तस्यैकाहिकस्य पञ्चनिधनं वामदेव्यमपनीय तस्य स्थाने आ नो विश्वासु हव्य (सा० १४९२-३ )मिति श्यैतं (ऊ० १०.१.२) ब्रह्मसाम कार्यम् । अत्र निदानम्-ऐकाहिकाद् व्रतात् पञ्चनिधनं वामदेव्यमपनयती(नि०सू० ६.७ )त्यादि । पुरोजिती-(सा० ६९७-९)ति गौरीवितस्थाने तस्यामेवौदलम् (ऊ० १०. १.३) । अन्यत् सर्वं समम् । महाव्रतस्य पृष्ठ्ये उपाकृते (ला० श्रौ० ३.९.१) इत्यादि-
167
एकाहः-महाव्रतम् (अ.३. ख. ७)
पटलद्वयोक्ताः पृष्ठधर्मा अत्रापि कर्तव्याः । सह धर्मैः सर्वत्र पृष्ठ्यः स्याद्दशमव्रते चे-( ला० श्रौ० ३. ६. १६-७) ति वचनात् ।। इति महाव्रतम् ।। ६ ।। प्रथमः साहस्रः अथ चत्वारः साहस्रा निकायिनः । तेषां प्रथमो ऽथैष ज्योतिर् (तां० ब्रा० १६. ८. १) इत्यनुवाकेनोक्तः । तस्य क्लृप्तिमाह- पवस्व वाचो अग्रियो (सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) । १ ।। इति बहिष्पवमानम् ।। अग्न आ याहि वीतये (सा० ६६०-२) इति राथन्तरम् । त्रीणि बार्हतानि ।। २ ।। इत्याज्यानि ।। अग्न आ याहि वीतये (सा० ६६०-२) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रमिद्गाथिनो बृहत् (सा० ७९६-९) इन्द्रे अग्ना (सा० - ००-२) इत्याज्यानि ।। २ ।। अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-६) इति समन्तं च ( ऊ० ९. १. १३) रथन्तरं च (र० २.२.६) दैर्घश्रवसं ( ऊ० ५. २.४) च यौधाजयं (ऊ० ७.२.५) चायं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९.२. ५ ) अन्त्यम् ।। ३ ।। इति माध्यंदिनः पवमानः ।।
168
समन्तं ( ऊ० ९. १. ३) प्रथमायाम् । यौधाजय( ऊ० ७. २. ५. )मध्यास्यायाम् । रथन्तरस्य ककुबुत्तरा बृहती छन्दः ।। ३ ।। बृहच्च ( र० १. १. ५) वामदेव्यं च ( ऊ ० १. १. ५) स्वादोरित्था विषूवत (सा. १००५-७) इति श्यैतम् (ऊ ० १०. १. ४) । स्वासु कालेयम् (१. १. ७) ।। ४ ।। इति पृष्ठानि । । श्यैतस्य पङ्क्तिच्छन्दः । ४ । स्वादिष्ठया मदिष्ठया ( सा ० ६८९-९१) इति गायत्र संहिते ( ऊ ० १. १. ८) । पवस्वेन्द्रमच्छे-(सा ० ६९२- ६) ति सफ (ऊ ० १. १. ९) श्रुध्ये ( ऊ ० ९. १. २०) । पुरोजिती वो अन्धस (सा ० ६९७-९) इति श्यावाश्वा (ऊ ० १. १. ११ )न्धीगवे (ऊ ० १. १. १२) । सूर्यवतीषु कावम् ( ९.२. ११) अन्त्यम् । ५ ।।
इत्यार्भवः पवमानः ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ ० १. १. १४) । । ६ ।।
स्तोमक्लृप्तिमाह त्रिवृद्बहिष्पवमानम् । पञ्चदशत्रिवृन्त्याज्यानि । सप्तदशो मध्यंदिनः पवमानो होतुश्च पृष्ठम् । पञ्चदशं मैत्रावरुणस्य । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्तदशमाच्छावाकस्यैकविंश आर्भवः । एकविंशो- ऽग्निष्टोमः ।। ७ ।। प्रथममाज्यं पञ्चदशम् । द्वितीयं त्रिवृत् । तृतीयं पञ्चदशम् ।
169
एकाहः-प्रथमः साहस्रः [अ. ३. ख. ७)
चतुर्थं त्रिवृत् । इत्येवं व्यत्यासेन पञ्चदशत्रिवृतोराज्येषु प्रयोगः । तथा चोक्तमुपग्रन्थे-यत्र हि त्रिवृत् पञ्चदश इति वामनन्ति बृहद्रथन्तर० पृष्ठ्यः षडह इति वा व्यत्यासप्रयोग एव तत्र भवती-(उ०ग्र०सू० ३. १)ति । स्पष्टमन्यत् । पञ्चदशस्य विष्टुतिरुच्यते । ब्राह्मणे येषां स्तोमानां विष्टुतिराम्नाता तेषां सूत्रे जातिसंहारो युग्मायुक्संहार इति द्वौ पक्षावुक्तौ तस्य यावभित ( ला० श्रौ० ६. ५. २२-२०) इत्यादिना । तत्र जातिसंहारे एकविंशादाद्यः पर्याय आहर्तव्यः । त्रिणवाद् द्वौ समौ । तेषामेककनीयस्त्वादेकविंशस्य मध्ये कार्यः । त्रिणवस्य पर्यायौ प्रथमोत्तमौ । तद्यथा- नवभ्यो हिंकरोति । स तिसृभिः स पञ्चभिः स एकया । सप्तभ्यो हिंकरोति । स एकया । स तिसृभिः । स तिसृभिः । नवभ्यो हिंकरोति । स पञ्चभिः । स एकया । स तिसृभिः । इति । युग्मायुक्संहारे तु द्वौ पर्यायौ चतुर्विंशादाहर्तव्यौ । त्रिणवादेकः । तैषां चैकज्याय- स्त्वात्त्रिणवस्य मध्ये कार्यः । चतुर्विंशस्य पर्यायौ प्रथमोत्तमौ । तद्यथा । अष्टाभ्यो हिंकरोति । स तिसृभिः । स चतसृभिः । स एकया । नवभ्यो हिंकरोति । स एकया । स तिसृभिः । स पञ्चभिः । अष्टाभ्यो हिंकरोति । स चतसृभिः । स एकया । म् तिसृभिरिति । तदुक्तम्- त्रयोदशत्रयोविंशयोः पञ्चविंशे च
170
मध्यमः पर्यायो ज्यायानेकः । ज्यायःसु कनीयानेकः । कनीयःसु तथैकान्नत्रिंशैकत्रिंशयो(ला० श्रौ० ६.७. ५-६ )रिति ।। ७ ।। इति प्रथमः साहस्रः ।।७।। द्वितीयः साहस्रः अथैष सर्वज्योतिर् (तां० ब्रा० १६.९. १) इत्यनुवाकेन द्वितीयः साहस्र उक्तः । एषैवोत्तरस्य क्लृप्तिः ।। १ ।। तस्य त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । त्रीणि च पृष्ठानि । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ।। २ ।। इति स्तोमक्लृप्तावेव विशेषः । शेषं पूर्ववत् ।। २ ।। इति द्वितीयः साहस्रः ।।८।। - तृतीयः साहस्रः अथैष विश्वज्योतिर्( तां० ब्रा० १६. १०. १) इत्यनुवाकेन विहितं तृतीयं साहस्रं कल्पयति । अग्निं दूतं वृणीमह (सा० ७९०-२) इत्युभयान्याज्यानि ।।१।। श्रायन्तीयं ब्रह्मसाम (ऊ० २.२.९) । यस्ते मदो वरेण्य (सा०८१५-७) इति गायत्रमौक्षे (ऊ० ४.१ .१ ०) । आन्धीगवादुत्तरमाथर्वणम् (र० ३. १.१) । साकमश्वं(ऊ० १. १. १५) सौभरं ( ऊ० १.
171
एकाहः-तृतीयः साहस्रः (अ. ३. ख. ९)
१. १६) त्रैककुभं ( ऊ० ६. १.७) चोद्वंशीयम् (ऊ० ६. १.८) इत्युक्थानि ।। २ ।। चतुर्विंश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः ।। ३ ।। समानमितरं पूर्वेण सस्तोमम् ।। ४ ।। उभयान्याज्यानीत्यस्यार्थो निदानकारेणोक्तः पूर्वे बार्हते । उत्तरे राथन्तरे इति शौचिवृक्षिः । एकदेवत्ये बार्हते । द्विदेवत्ये राथन्तरे । इति धानंजय्यः ( नि० सू० ६.८) इति । पूर्वेणेति द्वितीयेन साहस्रेन । तत्रेयमस्य क्लृप्तिः- पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानं त्रिवृत् ।। अग्निं दू-( सा० ७९०-२) मित्रं वयम्-( सा० ७९३-५) आयाहि- सुषमा-( सा० ६६६-८) इन्द्राग्नी आगतम् ( सा० ६६९-७१) इत्याज्यानि । अग्निं दूतम् -आ नो मित्रावरुण-इन्द्रमिद्गाथिन इन्द्राग्नी(सा० ७९०- ८०२)ति वा पञ्चदशान्याज्यानि ।। अस्य प्रत्ना-द्युत-(सा० ७५५-७)मिति गायत्रामहीयवे (ऊ० ९. २. ३) । परीतो षिञ्च-(सा० १३१ ३-५) समन्तं (ऊ० ९. १. ३) प्रथमायाम् । रथन्तरं (र० २.४.३) तिसृषु । दैर्घश्रवस (ऊ० ५.२.४) तिसृषु । यौधाजय(ऊ० १. १. ३)मध्यास्यायाम् । अयं सोम (सा० १४७१-३) पार्थ-(ऊ० ९.२. ५)मन्त्यम् । इति सप्तदशो माध्यंदिनः पवमानः ।।
172
बृहच्च ( र० १. १.५) वामदेव्यं ( ऊ० १.१.५) च श्रायन्तीयं ( ऊ० ५.२.९,) च कालेयं (ऊ० १. १. ७) ति पृष्ठानि । त्रीणि पृष्ठानि सप्तदशानि । पञ्चविंशं ब्रह्मसाम ।। यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४.१.१०) । पवस्वेन्द्रमच्छे(सा० ६९२-७)ति सफ(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १.२०) । पुरोजिती( सा० ६९७-९)ति श्यावाश्वं (ऊ० १.१.११) चान्धीगवं (ऊ० १. १.१२) चाथर्वणं (र० ३.१.१) च । सूर्यवतीषु (सा० १३७०-२) काव(ऊ० ९.२. १ १)मित्यार्भवः चतुर्विंशः ।। यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम ।। ५ ।। एकविंशं साकमश्व ( ऊ० १. १. १५) सौभरं (ऊ० १. १. १६) त्रैककुभं (ऊ० ६. १ . ७) चोद्वंशीय-(ऊ० ६. १. ८)मि- त्युक्थानि एकविंशानि । त्रैककुभस्योष्णिक् छन्द ।। ४ ।। इति तृतीयः साहस्र ।।९।। चतुर्थः साहस्रः यो वा अग्निष्टोमे( तां० ब्रा० १६. ११. १) इत्यनुवाकोक्तं साहस्रोत्तममाह उपास्मै गायता नर ( सा० ६५१) उपोषु जातमप्तुरम् ( सा० ७६२) पवस्व वाचो अग्रियः (सा० ७७५) दविद्युतत्या रुचा ( सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) । १।। इति बहिष्पवमानम् ।। दविद्युतत्या-पवमानस्य ते कव (सा० ६५४-९) इति तृचौ । शिष्टा एकर्चाः । उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमे चातुर्मास्येषु (ला० श्रौ० ६.३.७-८) इति वचनात् ।। १ ।।
173
एकाहः-चतुर्थः साहस्रः [ अ. ३. ख. १०]
अग्न आयाहि वीतये (सा० ६६०-२) पुरूरुणा चिद्ध्यस्ती- (सा० ९८५-७)न्द्रमिद्गाथिनो बृहद् ( सा० ७९६-८) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ।। रे । इत्याज्यानि ।। उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ ० १. १.१) । पवस्व मधुमत्तम (सा० ६९२-३) इतीडानां संक्षार एकस्याम् ( ऊ० १०. १. ५) । प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् ( सा० १४९४-६) इति यौधाजयं तिसृषु (ऊ० १०.१.६) । पुनानः सोम धारये-(सा० ६७५-६)ति रौरवमेकस्याम् (ऊ० १. १. २) । रथन्तरं तिसृषु (र० १. २. १०) । शिशुं जज्ञानं हर्यतम् (सा० १ १ ७५-७) इति वामदेव्यम् (ऊ० १०. १.७) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।।] इडानां संक्षारस्योष्णिक् । यौधाजयस्य सतो बृहती । रथन्तरस्य ककुबुत्तरा बृहती ।। ३ ।। बृहत्पृष्ठं ( र० १. १. ५) वामदेव्यस्यर्क्षु स्वारं सौपर्णम् ( सा० ६८२-४; ऊ० १०. १. ८) । श्रायन्तीयं च (ऊ० ५.२.९) कालेयं (ऊ० १. १. ७) च ।। ४ ।। इति पृष्ठानि ।। स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्र-संहिते (ऊ० १. १. ८) । परि प्र धन्वे-(सा० १३६७-९)न्द्रमच्छे-(सा० ६९४-६)ति सफ-(ऊ० १०. १. ९) श्रुध्ये (ऊ० ९.१ .२ ०) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वा-( ऊ० १. १. ११)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२. ११) अन्त्यम् ।। ५ ।। [ इत्यार्भवः पवमानः ।।
174
परि प्र धन्वेति द्विपदा । सफश्रुध्ये एकर्चयोः ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम(ऊ० १ . १. १ ४) ।। ६ ।। अथ स्तोमः- त्रिवृद् बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । त्रिवृन्मैत्रा- वरुणस्य । सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठम् । पञ्चदशं मैत्रावरुणस्य । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्त- दशमाच्छावाकस्य । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ।। ७ ।। इति चतुर्थः साहस्रः ।। १०।।
प्रथमः साद्यस्क्रः अथ चत्वारः साद्यस्क्राः । श्येनेनैकत्रिकाभ्यां सह षट् साद्यस्क्रा इति शौचिवृक्षिः । दीक्षाप्रभृति सद्यः सर्वं कुर्युः । प्रथमद्वितीययोः श्येनस्य च साद्यस्क्रेष्वग्निष्टोमीयस्य पशोः स्थाने अग्निषोमीयेष्टिर्विहिता । तत्र वपाकालायाः सुब्रह्मण्यायाः लोपः । तत्र प्रथमः साद्यस्क्रः आदित्याश्चाङ्गिरसश्च (तां० ब्रा० १६. १२.१) इत्यनुवाकेन विहितः । तस्य क्लृप्तिमाह- उपास्मै गायता नरः ( सा० ६५१-३) पवमानो आजीजनत् (सा० ८८९-९१) पवमानस्य ते कवे (सा० ६५७-९) ।। इति बहिष्पवमानम् ।। १ ।। इममूषु त्वमस्माकम् (सा० १ ४९७-९) मित्रं वयं हवामहे-(सा० ७९३-५)ऽहमिद्धि पितुः परी-(सा० १५००-३ यं वामस्य मन्मनः (सा० ९१६-८) ।। २ ।। इत्याज्यानि ।। उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रमेकस्याम् । आमहीयवमेकस्याम् ( ऊ० १. १ १) । शाक्वर०
175
एकाहः-द्वितीयः साद्यस्क्रः [ अ. ३. ख. ११]
वर्णमेकस्याम् (ऊ ० १०. १. ११) । पुनानः सोम धारये-(सा ० ६ ७५- ६) ति वैष्टम्भमेकस्याम् (ऊ० १०. १. १२) । कालेय- मेकस्याम् (ऊ ० १०. १. १३) । यौधाजयमेकस्याम् (ऊ ० १. १. ३) । औशनम् (ऊ० १. १. ४) अन्त्यम् । । ३ ।। [ इति माध्यंदिनः पवमानः । । रथन्तरं च (र० १. १. १) वामदेव्यं च (ऊ ० १. १. ५) श्रायन्तीयस्यर्क्षु सौभरम् ( ऊ ० १०. १. १४) कालेयस्यर्क्षु वारवन्तीयम् (ऊ ० १०. १. १५) ।। ४ । । इति पृष्ठानि । । स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्रं च व ० ० स्वाशिरामर्कः (र० ३. १. २) । पवस्वेन्द्रमच्छे- (सा० ६ ९२- ६ )ति सफा-(ऊ० १. १. ९) यास्ये (ऊ ० १०. १. १६) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा- (ऊ ० १. १. ११ )न्धीगवे (ऊ० १. १. १२) । कावम् (ऊ० १. १. १३) अन्त्यम् । । ५ ।। [ इत्यार्भवः पवमानः । ।] काववर्ज सर्वे एकर्चाः । संभवति स्तोमेऽन्त्यं सर्वत्र तृचे (ला० श्रौ ० ६. ४. २) इति वचनात् ।। ५ । । यज्ञायज्ञीय-(ऊ० १. १. १४ )ग्निष्टोमसाम । । ६ ।। सर्वाणि स्तोत्राणि त्रिवृन्ति । उभौ त्रिवृतौ ( आ० क० ३. १२) इति वक्ष्यमाणत्वात् । साद्यस्क्रेण (ला० श्रौ० ८. ३. २) इत्यादि- सूत्रोक्तम् आध्वर्यवत्वादिह सर्वं नोक्तम् । । ६ । । इति प्रथमः साद्यस्क्रः । । ११ । । द्वितीयः साद्यस्क्रः एतस्यैवैकविंशम् (तां ० ब्रा ० १६. १३. १) इत्यनुवाकेन द्वितीयः साद्यस्क्र उक्तः ।
176
एषैवोत्तरस्य क्लृप्तिः ।। १ ।। इति । प्रथमस्य या क्लृप्तिः सैव द्वितीयस्येत्यर्थः ।। १ ।। विशषमाह तस्यैवैकविंशमग्निष्टोमसाम ।। २ ।। प्रथमद्वितीययोः स्तोमक्लृप्तिमाह- उभौ त्रिवृता । ३ प इति ।। ३ ।। इति द्वितीयः साद्यस्क्रः ।। १२।। - तृतीयः साद्यस्क्रः अथैषोऽङ्गिरसामनुक्रीर्( तां० ब्रा० १६. १४. १) इति तृतीयः । एकरात्रीणो द्व्यहीनोऽनुक्रीर् (ला० श्रौ० ८.४.३ इति सूत्रम् । एकया रात्र्या द्वाभ्यां चाहोभ्यां निर्वर्त्यत इत्यर्थः । तस्य क्लृप्तिमाह- शाक्वरवर्णात् पूर्वं स्वारम् सौपर्णम् ( ऊ० १०. १. १०) आयास्यस्य लोके पौष्कलम् (ऊ० १. १. १० । श्यावाश्वात् पूर्वमैडमायास्यम् (ऊ० १० १. १७) ।। १ ।। चतुर्विंशावुत्तरौ पवमानौ तृचक्लृप्तौ ।। २ ।। समानमितरं पूर्वेण सस्तोमम् ।। ३ ।।
177
एकाहः-चतुर्थः साद्यस्क्रः [अ. ३. ख. १४)
इति । उपास्मै ( सा० ६५१-३) पवमानो अजीजनत् (सा० ८८९-९१) पवमानस्य ते कव(सा० ६५७-९) इति बहिष्पवमानं त्रिवृत् । इममूषु त्वमस्माकं (सा० १ ४९७-९) मित्रं वयं हवामहे (सा० ७९३-५) अहमिद्धि पितुः परि(सा० १५००-२) इयं वामस्य मन्मनः (सा० ९ १६-८) इत्याज्यानि त्रिवृन्ति । उच्चाते (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च स्वारं सौपर्णं (ऊ० १०. १. १०) च शाक्वरवर्णं ( ऊ० १०. १. ११) च । पुनानः सो-(सा० ६९५-६) वैष्टम्भं ( ऊ० १०. १. १२) च कालेयं (ऊ० १०. १. १३) च यौधाजयं (ऊ० १.१.३) चौशन (ऊ० १.१.४ )मन्त्यम् । इति माध्यंदिनः चतुर्विंशः । तृचाः सर्वे ।। रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १.५) च श्रायन्तीयस्यर्क्षु सौभरं ( ऊ० १०. १. १४) कालेयस्यर्क्षु वारवन्तीय-(ऊ० १०.१. १५)मिति पृष्ठानि त्रिवृन्ति ।।
स्वादिष्ठये-(सा० ६८९-१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सफपौष्कले (ऊ० १. १. ९-१०) । पुरोजिती व ( सा० ६९७-९) इत्यैडमायास्यम् (ऊ० १०.१.१७) । श्यावाश्वान्धीगवे (ऊ० १.१.१ १-२) । काव-(ऊ० १.१.१३ )मन्त्यम् । इत्यार्भवः चतुर्विंशः । सर्वे तृचाः ।। यज्ञायज्ञीयम( ऊ० १.१.१४ )ग्निष्टोमसामैकविंशम् ।। ३ ।। इति तृतीयः साद्यस्क्रः ।। १३ ।। चतुर्थः साद्यस्क्रः विश्वजिच्छिल्पाख्यः अथैष विश्वजिच्छिल्पम् (तां० ब्रा० १६. १५) इति चतुर्थः । स चैकरात्रीणो द्व्यहीनः द्विरात्रीणस्त्र्यहीन इति धानंजय्यः ।
178
दैक्षं प्रथममहः । क्रयप्रभृत्युपवसथान्तं द्वितीयम् । सौत्यमुत्तमम् । तस्य कल्पः- रथन्तरदैर्घश्रवसे अन्तरैडमायास्यमेकस्याम् ( ऊ० ७.१. १४) संहितादुत्तरं जराबोधीयम् (ऊ० १०. १. १८) । समानमितरं विश्वजितैकाहिकेनाग्निष्टोमेन ।। १ ।। अष्टादशावुत्तरौ पवमानौ । एकविंशं होतुः पृष्ठम् । एकविंशो- ऽग्निष्टोमः । त्रिवृदितरं सर्वम् ।। २ ।। इति । ऐकाहिकेनेति सांवत्सरिकस्य व्यावृत्तिः । अग्निष्टोमेनेति तिरात्रविच्छेदः ।। उप त्वाजा-(सा० १५७०-२) जनीयन्त (सा० १४६०-२) इत्यादि पवमानस्य ते कवे (सा० ६५७-९१) इत्यन्तं बहिष्पवमानं त्रिवृत् । सुषमिद्धे( सा० १३४७-९ इत्यादीनि तमीडिष्वे( सा० ११४ ८- ५१ )त्यन्तानि आज्यानि त्रिवृन्ति ।। अस्य प्रत्नामनुद्युतं ( सा० ७५५-७) गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति कालेय-(ऊ० ९.२. ४)माद्यायाम् । रथन्तरं (र० २.४. ३) तिसृषु । ऐडमायास्य-( ऊ० ७.१. ४ )माद्यायाम् । दैर्घश्रवसं ( ऊ० ५.२.४) तिसृषु । यौधाजय- ( ऊ० १३. १. ५) मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ( ऊ० ९.२.५ )मन्त्यम् । इति माध्यदिनोऽष्टादशः ।। वैराजं (र० १. १. १०) होतुः पृष्ठमेकविंशम् । महानाम्न्यो वैरूप(र० १ . १. ११ )रेवत्य (र० १.२.७) इत्युत्तराणि पृष्ठानि त्रिवृन्ति ।।
179
एकाहः-श्येनः (अ.३ ख. १५)
परि स्वानो गिरिष्ठा (सा० १ ०९३-५) इति गायत्रं च संहितं (ऊ० ९.२.६) च जराबोधीयं (ऊ० १०. १. १८) च । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय-(ऊ० ९.२. ७)श्रुध्ये (ऊ० ९. १.२०) । पर्यूष्वि-(सा० १३६४-६) ति वामदेव्यम् (ऊ० ९.२.८) । पुरोजिती व (सा० ६९७-९) इति आन्धीगवं (ऊ० १.१.१२) च यज्ञायज्ञीयं ( ऊ० ८.२. १६) च । परि प्र धन्वे(सा० १३६७-९ )ति द्विपदासु वारवन्तीयम् (ऊ० ८. २. १०) । सूर्यवतीषु(सा० १ ३७०-२) कावम् (ऊ० ८.२. ११) मन्त्यम् । इत्यार्भवोऽष्टादशः । वामदेव्ययज्ञायज्ञीयवारवन्तीयकावानि तृचेषु । शिष्टान्येकर्चेषु । वामदेव्यं तु तृचे विश्वजिच्छिल्पे यज्ञायज्ञीय- प्रभृतीनि च त्रीणी-(ला० श्रौ० ६.४. १ ) इति वचनात् । तत्र गायत्रसंहितजराबोधीयानि सामतृचः । त्रीनेकतृचे नानास्तोत्रीयास्विति वचनात् ।। त्वमग्ने यज्ञाना-(सा० १४७४-६ )मिति बृहद( र० २.४.५) ग्निष्टोमसामैकविंशम् । छन्दोदेवताः विश्वजित्येवोक्ताः । पृष्ठधर्माश्च पृष्ठे ।। इति चतुर्थः साद्यस्क्रः ।। १४।। श्येनः अथैष श्येनोऽभिचरन् यजेते-( ष०.विं ब्रा० ३.८.१) ति षइविंशब्राह्मणे श्येन उक्तः । तस्य क्लृप्तिमाह- पवमानस्य जिघ्नतः ( सा० १३१०-२) पुनानो अक्रमीदभि (सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।। इति बहिष्पवमानम् ।।
180
अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) मित्रं हुवे पूतदक्षम् (सा० ८४७-९) उ त्वा मन्दस्तु सोमा (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) ।। २ ।। इत्याज्यानि ।। अर्षा सोम युमत्तम ( सा० ९९४-६) इति गायत्रमेकस्याम् । वार्षाहरमेकस्याम् ( र० ३. १. ३) । शाक्वरवर्ण- मेकस्याम् (ऊ० १०. १. १९) । पुनान. सोम धारये( सा० ६७५-६)ति वषट्कारणिधनमेकस्याम् (ऊ० १०.१.२०) । रौरवमेकस्याम् (ऊ० १. १.२) । यौधाजयमेकस्याम् (ऊ० १. १.३) । औशन(ऊ० १. १.४) मन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।।] गायत्रीबृहत्यौ सामतृचौ ।। ३ ।। रथन्तरं च (र० ३. १. ५) वामदेव्यं च ( ऊ० १. १. ५) बृहच्च (र० ३. १. ६) कालेयम् (ऊ० १. १. ७) ।। ४ ।। इति पृष्ठानि ।। रथन्तरबृहती पराचीषु कार्ये । तथा चैकाहेष्वधीमहे । श्रुतिश्चात्र पराचीषु रथन्तरं भवती- (ष० विं० ब्रा० ४.२. १०) ति ।। ४ ।। यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्र- वार्षाहरे (र० ३. १. ४) । पवस्वेन्द्रमच्छे(सा० ६९२-६) ति सफौ-(ऊ० १. १. ९)पगवे( ऊ० १०.२. १) । पुरोजिती वो अन्धसः (सा० ६९७-९) इति नानदा-( ऊ० २.२.१८) न्धीगवे (ऊ० १. १. १२) । कावम् ( ऊ० १.१. १३) अन्त्यम् ।। ५ ।। [ इत्यार्भवः पवमानः
181
एकाहः-श्येनः [अ. ३ ख. १५)
काववर्जमकेर्चाः ।। ५ ।। यज्ञायज्ञीयमनिष्टोमसाम (ऊ० १. १. १४) ।। ६ ।। स्तोमक्लृप्तिमाह- त्रिवृतः पवमानाः । अग्निष्टोमसाम च । तिसृभिराज्यपृष्ठानि ।। ७ ।। इति । एकस्यै हिंकरोति । स प्रथमया । एकस्यै हिंकरोति स प्रथमया । एकस्यै हिंकरोति स प्रथमयेति त्रिकस्तोमस्य विष्टुतिः । एकस्यै हिंकरोति । स प्रथमया । एकस्यै हिंकरोति । स मध्यमया । एकस्यै हिंकरोति स उत्तमयेति वा । तदुक्तम्- एकिन्यावर्तिस्थानगते त्रिष्पुरस्ताद्धिंकारं शाण्डिल्यः त्रिके च प्रथमया स्तोमपूरणम् । तृचेन धानंजय्यः सकृच्चैकिनि हिंकारम् (ला० श्रौ० ६.६. १२-३) इति । विष्टावाभावात्तृचभागस्थाने कुशाविधानम् । एकः पर्यायः । एकस्यै हिंकरोति स प्रथमया । तिसृभ्यो हिंकरोति स मध्यमया । पञ्चभ्यो हिंकरोति स उत्तमयेति त्रिवृतो विष्टुतिः । इषोर्व्यत्यासमिषुभ्याम् । तयोः पूर्वा श्येनस्याग्निष्टोमसामनी- ( ला० श्रौ० ६.२.७-८) ति वचनात् । व्रातीनानां यौधानां पुत्रा अनूचाना अभिचारणीयायामृत्विजः प्रचरन्ति । अर्हतामेव पुत्रा इति धानंजय्यः । ते च लोहितोष्णीषा लोहितवाससो निवीताः प्रचरन्ति । गृहीतकाण्डा आरोपितधन्वानश्च दक्षिणावेलायां
182
दक्षिणार्थानां गवां लोहितं जनयेयुः । तीक्ष्णैः कण्टकैर्वितुदेयु- रिति तत्रोपायः सूत्रान्तरोक्तः ( आप० श्रौ० २२.४.२५) । श्येनेषुवज्रसंदंशा अभिचारप्रयोजनाः । सहैव तद्विष्टुतिभिरुद्धृताः पञ्चविंशकात् ।। षड्विशब्राह्मणेऽधीताः पुरुषैरिह गम्यते । कल्पे तत्तत्प्रदेशेषु तेषां क्लृप्तिर्विधानतः ।।७।। इति श्येनः ।।१५।। एकत्रिकः अथैष एकत्रिक ( तां० ब्रा० १६.१६) इत्यनुवाकेनैकत्रिक उक्तः । एकत्रिके सद्य. सर्वं कुर्युः । एकदीक्षस्त्र्युपसत्कः इति गौतमः (ला० श्रौ० ८.५.१८) । तस्य क्लृप्तिमाह- उपास्मै गायता नर ( सा० ६५१) इत्येकया बहिष्पवमानम् ।। १ ।। सा चैका रेतस्यैव कार्या । रेतस्यैकत्रिकस्य बहिष्पवमान- (ला० श्रौ० ६.३.४ )मिति वचनात् ।। साद्यस्क्राण्याज्यानि ।। २ ।। इममूषु त्वमस्माकम्( सा० १४९७-९ मित्रं वयं हवामहे सा० ७९३-५) अहमिद्धि पितुः परि(सा० १५००-२) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि ।। २ ।।
183
एकाहः-एकत्रिकः [अ. ३. ख. १६)
इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति गायत्रम् पुनानः सोम धारये -(सा० ६७५-६) ति उत्सेधः (ऊ० ६. १ . ११) । औशनम् (ऊ० १. १. ४) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।।] एकर्चाः सर्वे ।। ३ ।। रथन्तरं च (र० १. १. १) वामदेव्यं च (ऊ० १.१ .५) । श्रायन्तीयस्यर्क्षु निषेधः (ऊ० १०.२.२) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।। इति पृष्ठानि । । अथार्भवः- अया रुचा हिरण्या (सा० १५९०-२) इति गायत्रपार्श्वम् (ऊ ० १०.२. ३) ।। ५ ।। [ इत्यार्भव पवमानः ।।] यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।। आख्यासिद्ध एवास्य स्तोम इति दर्शयति- एकत्रिकः स्तोमः ।। ७ ।। एतदेव व्याचष्टे एकयाथ तिसृभिः ।। ८ ।। इति । बहिष्पवमानम् एकया स्तोत्रीयया । प्रथमं तिसृभिः । डितीयमेकया । तृतीयं तिसृभिरिति । एवं व्यत्यासेन एकत्रिकौ स्तोमावित्यर्थः । एकस्यै हिंकरोति । स प्रथमयेति एकस्तोमस्य
184
विष्टुतिः । स च हिंकारस्त्रिर्वा । सकृदेव वा । त्रिकस्य- विष्टुतिरुक्ता ।। ८ ।। इति एकत्रिकः ।। १६ ।। प्रथमो व्रात्यस्तोमः अथ व्रात्यस्तोमाश्चत्वारो निकायिनः । व्रात्या उपनयनादि- संस्कारहीनाः । तेषां प्रायश्चित्तार्था इमे । व्रात्यस्तोमैः यक्ष्यमाणाः अनन्यपूर्वाम् असमानगोत्रां भार्यात्वेन अमन्त्रकं परिगृह्य पृथक्- पृथगग्नीनाधाय यज्ञसाधनानि च संपाद्य दीक्षेरन् । ज्योतिष्टोमेनानिष्ट्वेति निदानकारस्य मतम् । इष्ट्वैवेति सूत्रकारस्य । य एषामध्ययनकुशलो बन्धुमानर्थवान् स गृहपतिः । भक्षांश्च तमनु भक्षयेयुः । देवा वै स्वर्गं लोकमायन् (तां० ब्रा० १७. १.१) इत्यनुवाकेन प्रथमो व्रात्यस्तोमश्चतुष्षोडशिसंज्ञ उक्तः । तस्य कल्पे-- ज्योतिष्टोमं बहिष्पवमानम् ।। १ ।। अग्ने विश्वेभिरग्निभि ( सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदते-( सा० ७४०-२ )न्द्राग्नी आगतं सुतम् (सा० ६६९-७१) ।। २ ।। इत्याज्यानि ।। उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. ९०. १) च । पवस्व मधुमन्तम् (सा०
185
एकाहं-वात्यस्तोमः (अ. ३. ख. १७)
६९२-३) इति कालेयम् ( ऊ० १० . २.५) । त्वे सोम प्रथमा वृक्तबर्हिष (सा० १५०६- ८) इति यौधाजयम् (ऊ० १०.२.६) । पुनानः सोम धारये-( सा० ६७५-६ ति रौरवम् ( ऊ० १. १. २) औशनम् ( ऊ० १. १. ४) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।। कालेयमेकर्चे । ककुब्यत्र मध्यंदिन एकर्चः । तस्यामन्यत्रोत्तमाद् व्रात्यस्तोमा-(ला० श्रौ० ६. ४. ७ )दिति वचनात् । त्वे सोमे(सा० १५०६-८)ति सतो बृहती ।। ३ ।। रथन्तरं च (र० १. १. १) वामदेव्यं (ऊ० १. १ .५) चाधाहीन्द्र गिर्वणः (सा० ७१०-२) एन्दुमिन्द्राय सिञ्चते(सा० १५०९- ११ )ति द्यौतान-(ऊ० १०.२.८) मारुते (ऊ० १०.२.९) ।। ४ । इति पृष्ठानि ।। द्यौतानरय ककुप् प्रथमाथोष्णिक् अथ पुरउष्णिगनुष्टुबिति छन्दांसि । मारुतस्योष्णिक् ।। ४ ।। स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्रसंहिते ऊ० १. १. ८) । परि प्र धन्व (सा० १३ ६७-९) नदँ व ओदतीनाम् (सा० १५१२) इति सफ- (ऊ० १. १. ९) श्रुध्ये (ऊ० १०.२. ११) । पर्यूष्वि(सा० १३६४-६ ति मरुताँ संस्तोभः (र० ३. १. ७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १. १. ११ )न्धीगवे (ऊ० १. १. १२) कावम् (ऊ० १. १. १३) अन्त्यम् ।। ५ ।। [ इत्यार्भवः पवमानः ।।]
186
परि प्र धन्वेति अक्षरपङ्क्तिः । नदं व इत्युष्णिक् । पर्यूष्वित्यनुष्टुप् पिपीलिकामध्या । अत्र चतुर्ष्वेकर्चेषु कर्तव्येषु द्विप्रभृतीन् ककुप- प्रभृत्यानन्तर्येणे( ला०. श्रौ० ६.३.२६)ति वचनात् ककुप्स्थाना- पन्नायां द्विपदायां क्रियमाणं सफमारभ्य चतुर्णामेकत्वे प्राप्ते मरुताँ संस्तोभस्यारण्येगेयत्वेनापचितत्वात् तृचे कार्यं । गायत्रं चैकर्चे । प्रथमातिक्रमे हेत्वभावादिति गायत्रसंहितसफश्रुध्य- श्यावश्वान्येकर्चानि इत्येकं मतम् । गायत्रमुख्यत्वात् तृच एव कार्यमिति । सफादीनि चत्वारि नैरन्तर्येणैकर्चानीत्यपरम् । तदुक्तम्- गायत्रमेकर्चे धानञ्जय्यः । तृचे मरुतांसंस्तोभं विपरीतं शाण्डिल्यः (ला०श्रौ० ६.४.८-९) इति ।। ५ ।। देवो वो द्रावणोद ( सा १५१३-४) इति यज्ञायज्ञीय- वै ४-. २.. मनिष्टोमसाम् (ऊ० १०.२. १२) ।। ६ ।। अथ स्तोमविधिः त्रिवृद् बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । षोडशमच्छा- वाकस्य । षोडशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि । षोडशमच्छावाकस्य । षोडश आर्भवः । एकविंशोऽग्निष्टोमः ।। ७ ।। इति । षोडशस्तोमस्यैवं विष्टुतिः । पञ्चभ्यो हिंकरोति । स तिसृभिः । स एकया । स एकया । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स एकया । षड्भ्यो हिंकरोति । स द्वाभ्याम् । स एकया । स तिसृभिरिति । षड्भ्यो हिंकरोति । स एकया । स द्वाभ्याम् । स तिसृभिरिति वा । तदुक्तम-
187
एकाहः-व्रात्यस्तोमः [अ. ३. ख. १८]
दाशरात्रिकेभ्य एकया ज्यायःसु तस्मात् पूर्वस्योत्तमे पर्याय आवपेत् । ब्रह्मायतनीया तु तेषु क्षत्रायतनीया वे-(ला०श्रौ० ६.६. १७-८)ति प्रथमायाः प्रयोगे भूयिष्ठे ब्रह्मायतनीया । मध्यमायाः क्षत्रायतनीयेति ।। ७ ।। इति प्रथमो व्रात्यस्तोमः ।। १७ ।। द्वितीयः षट्षोडशी वा व्रात्यस्तोमः अथैष षोडशी(तां.ब्रा० १७.२)ति विहितं द्वितीयं व्रात्यस्तोममाह- एते असृग्रमिन्दवो (सा. ८३०-२) यवं यवं नो अन्धसे(सा० ९७५-८) ति पुरस्तात् पर्यायस्य तृचचतुर्ऋचे । आयुष उक्थानि ।। १ ।। षोडशाः पवमानाः । अच्छावाकसामानि चैकविंशोऽग्निष्टोमो द्वे चोक्थे ।। २ ।। समानमितरं पूर्वेण सस्तोमम् ।। ३ ।। इति । पर्यासो बहिष्पवमानस्योत्तमस्तृचः । उपास्मै गायता नरो दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवो (सा० ८३०-२) यवं यवं नो अन्धसा( सा० ९७५-८ )पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अथाग्निष्टोमसामान्तं पूर्ववत् । प्रमहिष्ठीयं हारिवर्ण-(ऊ० २.२.५-६]मुद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । षोडशं बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । षोडशमच्छावाकस्य । षोडशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि । षोडशमच्छावाकस्य । षोडश आर्भवः । एकविंशोऽग्निष्टोमः । द्वे चोक्थे । षोडशमच्छावाकस्येति स्तोमक्लृप्तिः ।। ३ ।। इति द्वितीयः व्रात्यस्तोमः ।। १८ ।।
188
तृतीयो द्विषोडशी व्रात्यस्तोमः अथैष षोडशी- (तां० ब्रा० १७. ३. १ )त्युक्तं व्रात्यस्तोममाह- इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति गायत्रं चामहीयवं (ऊ० १०.२.४) च । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२.५) । त्वं सोम प्रथमा वृक्तबर्हिष (सा० १५०६-८) इति दैर्घश्रवसम् (ऊ० १०. २.७) । पुनानः सोम धारये(सा० ६७५-६ ति रौरव(ऊ० १ . १.२) यौधाजये (ऊ० १. १.३) । श्रुध्यस्य लोके मरुताँ संस्तोभो (र० ३. १.८) मरुतां संस्तोभस्य श्यावाश्वम् (ऊ० ६. १. १८) । पुरोजिती वो अन्धस (सा० ६९७-९) इति आन्धीगवम् (ऊ० १. १. १२) ।। १ ।। त्रिवृतावुत्तरौ पवमानौ ।। २ ।। समानमितरं प्रथमेन व्रात्यस्तोमेन सस्तोमम् । ३ ।। इति । उप-दवि-पवे-( सा० ६५१ -९) ति त्रिवृद् बहिष्पवमानम् । अग्ने विश्वेभिर् (सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदत (सा० ७४०-२) इन्द्राग्नी आगतं सुत(सा० ६६९-७१ )मित्याज्यानि । त्रीणि पञ्चदशानि । अन्त्यं षोडशम् । इन्द्रायेन्दो ( सा० १०७६-८) इति गायत्रं चामहीयवं (ऊ० १०.२. ४) च । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२.५) । त्वे सोम (सा० १५०६-८) इति दैर्घश्रवसम् ( ऊ० १०.२.७) । पुनानस्सो (सा० ६७५-६) रौरवयौधाजये (ऊ० १. १.२-३) । स्वास्वौशन-( ऊ० १. १.४) मन्त्यम् । इति माध्यंदिनस्त्रिवृत् । अन्त्यवर्जमेकर्चाः ।।
189
एकाहः-व्रात्यस्तोमः [ अ. ३. ख. २०] ।
रथन्तरं ( र० १.१. १) च वामदेव्यं (ऊ० १. १.५) चाधाहीन्द्र गिर्वणः (सा० ७१ ०-२) एन्दुमिन्द्राये-(सा० १५०९-१) ति द्यौतानमारुते ( ऊ० १०. २.८-९) । इति पृष्ठानि । त्रीणि सप्तदशानि । उत्तमं षोडशम् । स्वादिष्ठये( सा० ६८८-९१) ति गायत्रसहिते (ऊ० १. १.८) । परि प्र धन्वे( सा० १३६७-९) ति सफम् (ऊ० १० .१.९) । नदं व ओ-(सा० १५१२) मरुतां संस्तोभः (र. ३.२.८ )। पर्यूष्वि-(सा० १३६४-६) ति श्यावाश्वम् ( ऊ० ६.१. १८) । पुरोजिती(सा० ६९७-९)ति आन्धीगवम् (ऊ० १. १. १२) । काव(ऊ० १.१.१३ )मन्त्यम् । इत्यार्भवस्त्रिवृत् । अन्त्यवर्जमेकर्चाः । छन्दांसि प्रथमवत् । देवो वो द्रविणादा (सा० १५१३-४) डति यज्ञायज्ञीय(ऊ० १०.२-१२ )मग्निष्टोमसामैक- विंशम् ।। ३ ।। इति तृतीयो व्रात्यस्तोमः ।.। १९ ।। - चतुर्थो व्रात्यस्तोमः (शमनीचामेढ्राणां स्तोमः) अथैष शमनीचामेढ्राणां स्तोमः ( तां० ब्रा० १४.४. १) । इत्युक्तं चतुर्थव्रात्यस्तोममाह-- अग्रियवती प्रतिपत् । पूर्वस्य प्रातःसवनम् ।। १ ।। पवस्व वाचो (सा० ७७५-७) दविद्युतत्या-(सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।। अग्ने विश्वेभिर् ( सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदते-( सा० ७४०-२ )न्द्राग्नी आगतं सुत- (सा० ६६९-७१ )मित्याज्यानि ।। १ ।। उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२. ५) । त्वे सोम प्रथमा वृक्तबर्हिषे (सा० १५०६-८) इति दैर्घश्रवसम् (ऊ०
190
१०.२.७) । पुनानः सोम धारये (सा० ६७५-६) ति रथन्तरं ( ऊ० ४ .१. ४) रौरव-( ऊ० १. १.२ )यौधाजये (ऊ० १. १. ३) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। २ ।। [ इति माध्यंदिनः पवमानः] सर्वे तृचाः ।। २ ।। बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १ . १. ५) चाधाहीन्द्र गिर्वण (सा० ७१ ०-२) एन्दुमिन्द्राय सिञ्चते-(सा० १ ५०९- ११) ति द्यौतान- (ऊ० १०.२.८) मारुते (ऊ० १०.२.९) ।। ३ ।। इति पृष्ठानि ।। स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१) इति गायत्र० संहिते (ऊ० १. १. ८) । जराबोधीयं (ऊ० १०.२.१०) च स्वाशिरामर्कः (र० ३. १. २) । परि प्र धन्व-(सा० १ ३६७-९) नदं व ओदतीनाम् (सा० १५१२) इति सफ-(ऊ० १०. १. ९ ) श्रुध्ये (ऊ० १०.२. ११) । पर्यूषु (सा० १३६४-६) इति मरुताँ संस्तोभः (र० ३. १. ७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा(ऊ० १. १. ११ )न्धीगवे (ऊ० (१. १. १२) । आथर्वणं (र० ३. १. १) बृहच्चाग्नेयं(ऊ० ८. २. ७) कावम् (ऊ० १. १. १३) अन्त्यम् ।। ४ ।। [ इत्यार्भवः पवमानः ।। सफश्रुध्ये एकर्चे । शिष्टास्तृचः । छन्दांस्युक्तानि ।। ४ ।। देवो वो द्रविणोदा ( सा० १५१३-४) इति यज्ञायज्ञीय- मग्निष्टोमसाम (ऊ० १०.२. १२) ।। ५ ।। अथ स्तोमकल्पः- द्वे त्रिवृती स्तोत्रे । द्वे पञ्चदशसप्तदशे । द्वे एकविंश-
191
एकाहः-अग्निष्टुत् अ, ३. ख २१
चतुर्विंशे । द्वे चतुश्चत्वारिंशाष्टाचत्वारिशे । द्वे त्रिणवत्रयस्त्रिंशे । द्वे द्वात्रिंशे ।।६।। इति । द्वात्रिंशे तिस्रो विष्टुतीः कुर्यादिति धानंजय्य । तासां पर्यायकृतिप्रयोगौ चतुश्चत्वारिंशेन व्याख्यातौ ( ला० श्रौ० ६. ७.१ ८-९) इति सूत्रम् । तत्र प्रथमा विष्टुतिर्यथा--एकादशभ्यो हिंकरोति । स तिसृभिः स सप्तभिः स एकया दशभ्यो हिंकरोति । स एकया स तिसृभिः । स षड्भिरेकादशभ्यो हिंकरोति । स सप्तभिः स एकया स तिसृभिरिति । एवमुत्तरे-ऽपि द्रष्टव्ये । तासां च सवनसमीषन्ती स्तोत्रसमीषन्तीति प्रयोगद्वयं च चतुश्चत्वारिंशवत् । इह तु द्वात्रिंशचतुश्चत्वारिंशयो-र्द्वयोरपि प्रथमैकविष्टुतिः कार्या । न तु समीषन्ती । तथा कुर्यादहर्भाजि पथ्यामन्यत्रे(ला० श्रौ० ६.२.२ ३-४)ति वचनात् ।। ६ ।। इति चतुर्थो व्रात्यस्तोमः ।। २० ।। अग्निष्टुत् प्रथमः अथाग्निष्टुतश्चत्वारो निकायिनः । इन्द्रो वै त्रिशिरसम्(तां० ब्रा० १७.५.१) इत्यनुवाके सामान्येनाग्निष्टुतां समष्टिर्वर्ण्यते । त्रिवृदनिष्टोमः ( तां० ब्रा० ( १७.६) इत्यनुवाकेन प्रथम उक्तः । एतस्यैव रेवतीषु द्वितीयः । ज्योतिष्टोमनाग्निष्टुता यज्ञविभ्रष्टो यजेतेति तृतीयः । सप्तदशेनाग्निष्टुतां नाद्यकाम इति चतुर्थः ।
192
सूत्रे तु षट् पञ्च वाग्निष्टुत इत्यपि पक्षद्वयमुपन्यस्य चत्वार इत्ययमेव पक्षः स्थापितः । षडग्निष्टुतः त्रिवृज्ज्योतिष्टोमश्चाद्यौ स्वर्कवारवन्तीयावित्यादिना । अग्निष्टुत्सु सोमाप्ययनमन्त्रे आप्यायता-मग्नय एकधनविद आ तुभ्यमग्निः प्यायतामा त्वमग्न प्यायस्वेत्यूहः । सुब्रह्मण्यायां तु सुब्रह्मण्योमिति त्रिर्वचनानन्तरमाग्नेयो निगदो वक्तव्यः । तत्र गौतमीयं मतम्- अग्न आगच्छ रोहिताभ्यां बृहद्भानो धूमकेतो जातवेदो विचर्षण आङ्गिरसब्राह्मणाङ्गिरस ब्रुवाणेत्युक्त्वा त्र्यहे सुत्यामग्नयो ब्रह्माण आगच्छतेत्यादि ब्रूयादिति । धानंजय्यमतं तु--अग्न आगच्छ रोहितव आगच्छ भरद्वाजस्याजसहसस्सूना वारावस्कन्दिन्नुषसोजार आङ्गिरस-ब्राह्मणाङ्गिरसब्रुवाण त्र्यहे सुत्यामागच्छाग्नयो ब्रह्माण आगच्छतेत्यादि ब्रूयादिति । आगच्छतेति पूर्वं देवाह्वानाद्धानंजय्य ( ला० श्रौ० १.३.४) इति वचनात् । धानंजय्यमतेऽग्नय इत्यस्मात् पूर्व-मागच्छतेति वक्तव्यम् । न तु गौतममते । तत्र पूर्वस्मिन्- निगदे विचर्षणेत्यत्र विरमेत् । उत्तरस्मिन् जारेत्यत्र । शेषं प्रकृतिवत् ।। प्रथममग्निष्टुतमाह- अग्न आयूंषि पवसे (सा० १५१८ २०) अग्ने पावक शोचिषा( सा० १५२१-३ )ग्निर्मूर्धा दिवः ककुत् (सा० १५३ २ -४) ।।१ ।। इति बहिष्पवमानम् ।।
193
एकाहः-अग्निष्टुत् प्रथम [ अ. ३ ख. २१]
अग्निष्टुत्सु सर्वेषां स्तोत्राणामाग्निर्देवता ।। १ ।। अग्न आयाहि वीतये (सा० ६६०-२) कस्ते जामिर्जनानाम् ( सा० १५३५-७) ईडेन्यो नमस्योऽ (सा० १५३८-४०) ग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) ।। २ ।। इत्याज्यानि ।। उत्ते बृहन्तो अर्चय (सा० १५४१-३) इति गायत्रम् एकस्याम् । आमहीयवमेकस्याम् (ऊ० १० .२. १४) । जराबोधीयमेकस्याम् ( ऊ० १०. २. १५) । पाहि नो अग्न एकया ( सा० १५४४-५) इति यौधाजयं तिसृषु ( ऊ० १०. २. १९) । इनो राजन्नरतिः समिद्धः (सा० १५४६-८) इत्यौशनम् ( ऊ० १०.२.२०) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः । ।] एना वो अग्निं नमसा ( सा० ७४९-५०) कया ते अग्ने अङ्गिरः (सा० १५४९-५१) इति रथन्तरं (र० १. १. २) च वामदेव्यं ( ऊ० ११. १. १) च । अग्न आयाह्यग्निभिर् ( सा० १५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४ - ५) इति नौधस-(ऊ० ११. १ .२) काळेये (ऊ० ११. १. ३) ।।४ ।। इति पृष्ठानि ।। अदाभ्यः पुर एते (सा० १५५६-८ )ति गायत्रसंहिते (ऊ० ११. १. ४) । भद्रो नो अग्निराहुतोऽ( सा० १५५९-६ ०) ग्ने वाजस्य गोमतः (सा० १५६१-३) इति सफ-(ऊ० ११.१. ५) पौष्कले ( ऊ० ११. १ . ६) । विशोविशो वो अतिथिम् (सा० १५६४-६) इति श्यावाश्वा(ऊ० ११. १.८) न्धीगवे (ऊ० ११. १. ९) । समिद्धमग्निम् (सा० १५६७-९) इति यज्ञायज्ञीयम् (ऊ० ११. १. ११) अन्त्यम् ।। ५ । [ इति आर्भवः पवमानः । ।
194
यज्ञायज्ञीयं तिसृषु । शिष्टान्याद्यासु । संभवति स्तोमेऽन्त्यम् सर्वत्र तृच (ला० श्रौ० ६.४.२) इति वचनात् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् । द्वौ तस्यामेवे (ला० श्रौ० ६.३. १२)ति च ।। ५ ।। उप त्वा जामयो गिर(सा० १५७०-२) इति वायव्यासु वारवन्तीयम-ग्निष्टोमसाम (ऊ० ३.२.७) ।। ६ ।। वायव्यास्विति वचनमुत्तरव्यवहारार्थम् । यस्य वायव्यास्वग्निष्टोम ( आ० क० ९.१.८) इति हि सत्रे वक्ष्यति । सर्वाणि स्तोत्राणि त्रिवृन्ति । उभौ त्रिवृतौ (आ० क० ३.२२.३) इति वक्ष्यमाणत्वात् ।। ६ ।। [ इति अग्निष्टुत् प्रथमः ।। २१ ।। अग्निष्टुत् द्वितीयः प्रथमस्य क्लृप्तिं द्वितीयस्यातिदिशति- एषैवोत्तरस्य क्लृप्तिः ।। १ ।।
इति । विशषमाह- तस्य रेवतीषु वारवन्तीयमग्निष्टोमसाम ( ऊ० ३.२.७) । २ । इति । तस्येन्द्रो देवता ।। २ ।। प्रथमद्वितीययोस्तोममाह- उभौ त्रिवृतौ । ३ । इति । इतःप्रभृति सुब्रह्मण्यायां देवा ब्रह्माण इति वा । उत्तरेष्वग्नय इति स्थाने सुब्रह्मण्यायां देवा इति ब्रूयात् । ऐन्द्रत्वादग्निष्टोमसाम्न इत्येके ( नि०सू० ६. १३) इति निदानवचनात् ।।३।। इति अग्निष्टुत् द्वितीयः ।। २२ ।।
195
एकाहः-अग्निष्टुत्् तृतीयः अ. ३. .ख. २३
अग्निष्टुत् तृतीयः तृतीयमग्निष्टुतमाह- उद्धरति जराबोधीयम् । यौधाजयात् पूर्वं रौरवम् (ऊ० १०.२. १६) । पौष्कलस्य लोके श्रुध्यम् (ऊ० ११. १. ७) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ११. १. १०) । यज्ञायज्ञीयस्य कावम् (ऊ० ११. १. १२) ।। १ ।। समानमितरं पूर्वेण ।। २ ।। ज्योतिष्टोमाः स्तोमाः ।। ३ ।। इति । अग्न आयूंषि पवसे ( सा० १५१८ -२०) अग्ने पावक रोचिषा (सा० १५२१-३) अग्निर्मूर्धा दिवः ककुत् (सा० १५३२-४) इति बहिष्पवमानं त्रिवृत् ।। अग्न आ याहि वीतये (सा० ६६०-२) कस्ते जामिर्जनानाम् (सा० १५३५-७) ईडेन्यो नमस्योऽ-(सा० १५३८-४० )ग्निर्वृत्राणि जङ्घनत् (सा० १ ३८६-८). इत्याज्यानि पञ्चदशानि ।। उत्ते बृहन्तो अर्चय ( सा० ५५४-१३) इति गायत्रं चामहीयवं ( ऊ० १०. २. १४) च । पाहि नो अग्न एकये-(सा० १५४ ४-५)ति रौरव(ऊ० १०.२.१६) यौधाजये (ऊ० १०.२. १९) । इनो राजन्नरतिर् ( सा० १५४६-८) इत्यौशन(ऊ० १०.२. २०)मन्त्यम् । इति पञ्चदशो माध्यंदिनः ।। एना वो अग्निं नमसा ( सा० ७४९-५०) कया ते अग्ने अङ्गिर (सा० १५४९-५१) इति रथन्तरं ( र० १. १.२) च वामदेव्यं (ऊ० ११. १. १) च । अग्न आयाह्यग्निभिर् (सा०
196
१५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४-५) इति नौधसकालेये (ऊ० ११. १. २-३) । इति पृष्ठानि सप्तदशानि ।। अदाभ्यः पुर एते(सा० १५५६-८)ति गायत्रसंहिते (ऊ० ११. १. ४) । भद्रो नो (सा० १५५९-६०) अग्ने वाजस्ये (सा० ११६१-३ )ति सफ(ऊ० ११. १. ५)श्रुध्ये (ऊ० ११. १. ७) । विशोविशो वो अतिथिम् (सा० १५६४-६) इति यज्ञायज्ञीया( ऊ ० ११.१. १० )न्धीगवे (ऊ ० ११. १.९) । समिद्धमग्निम् (सा० १५६७-९) इति काव-(ऊ० ११. १. १२)मिति सप्तदश आर्भवः । सफश्रुध्ये एकर्चे ।। 1० रेवतीषु ( सा० १०८४-६) वारवन्तीयम् (ऊ० ३.२.८) मग्निष्टोमसामैकविंशम् ।। ३ ।। इति अग्निष्टुत् तृतीयः ।। २३ ।। अग्निष्टुत् चतुर्थः चतुर्थमग्निष्टुतमाह- अवा नो अग्न ऊतिभिर् ( सा० १५२४-६) अग्निं हिन्वन्तु नो धियः (सा० १५२७-३१) इति पुरस्तात् पर्यासस्य तृच-पञ्चर्चे । पाहि नो अग्न एकये-(सा० १५४४-१५)ति रौरवं तिसृषु (ऊ० १०.२. १६) । दैर्घश्रवसमेकस्याम् (ऊ० १०. २ . १७) । समन्तं विष्टारपड्रक्तौ (ऊ० १०.२. १८) । यौधाजयं तिसृषु (ऊ० १०.२. १९) ।। १ ।। समानमितरं पूर्वेण ।। २ !। सर्वः सप्तदशः ।। ३ ।। अग्न आयूंषि पवसे (सा० १५१८-२०) अग्ने पावक रोचिषा (सा० १५२ १-३) अवा नो अग्न ऊतिभिर् (सा० १५२ ४-६) अग्निं
197
एकाहः-अग्निष्टुत् चतुर्थः [ अ. ३ ख. २४
हिन्वन्तु नो धियोऽ-(सा० १५२७-३१ ग्निं मूर्द्धा (सा० १५३२-४) इति बहिष्पवमानम् ।। अग्न आ याहि ( सा० ६६०-२) कस्ते जामिर् (सा० १५३५-७) ईडेन्यो नमस्योऽ-( १५३८-४० ग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) इत्याज्यानि ।। उत्ते बृहन्तो (सा० १५४१-३) गायत्रं चामहीयवं ( ऊ० १०.२. १४) च । पाहि नो अग्न ( सा० १५४४-१५) इति रौरवं (ऊ० १०.२.१६) तिसृषु । दैर्घश्रवसमेकस्याम् (ऊ० १०.२. १७) । समन्तं (ऊ० १०. २. १८) विष्टारपङ्क्तौ । पाहि विश्वस्माद् (सा० १५४५) इत्यस्यामृचि यौधाजयं (ऊ० १०. २. १९) तिसृषु । इनो राजन् ( सा० १५४६-८) इति औशन(ऊ० १०. २.२ ०)मन्त्यम् ।। एना वो (सा० ७९९-८००) कया ते अग्न (सा० १ ५४९- ५१) इति रथन्तरं (र० १. १. २) च वामदेव्यं (ऊ० ११.१. १) च । अग्न आयाह्यग्निभिर् (सा० १५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४-५) इति नौधसकालेये (ऊ० ११. १२-३) इति पृष्ठानि ।। अदाभ्यः पुर एते(सा० १ ५५६-८)ति गायत्र-संहिते ( ऊ० ११. १. ४) । भद्रो नो (सा० १५५९-६०) अग्ने वाजस्ये(सा० १५६ १-३)ति सफ(ऊ० ११.१.५) श्रुध्ये (ऊ० ११ . १.७) । विशोविशो वो अतिथिम् ( सा. १५६४-६) इति यज्ञायज्ञीया-(ऊ० ११. १. १० )न्धीगवे (ऊ० ११. १. ९) । समिद्धमग्निं समिधा गिरा (सा० १५६७-९) इति काव(ऊ० ११. १. १२)मन्त्यम् । सफश्रुध्य एकर्चे ।।
198
रेवतीषु ( सा० १०८४-६) वारवन्तीय-( ऊ० ३.२.८)मग्निष्टोमसाम । सर्वाणि स्तोत्राणि सप्तदशानि ।। ३ ।। इति अग्निष्टुत् चतुर्थः ।। २४ ।। प्रजापतेरपूर्वः अथ चत्वारस्त्रिवृतोऽग्निष्टोमाः । तेषां प्रथमः प्रजापतेरपूर्वः । त्रिवृदग्निष्टोमस्तस्यानिरुक्तं प्रातःसवनम् ( तां० ब्रा० १ ७. १०.१) इत्यनुवाकेनोक्तं कचिदर्थमर्हन्यो न प्राप्नुयात् स त्रिवृतां प्रथमेन यजेत । तस्यानिरुक्तप्रातःसवनत्वात् । सुब्रह्मण्याह्वाने शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । इन्द्रं शक्रेति ब्रूयात् । विश्वे इति देवान् । अनिरुक्तेष्वनिरुक्तप्रातःसवनयोश्चे(ला० श्रौ० १.४.५-६ ति वचनात् ।।
स्तोमक्लृप्तिमाह- पवस्वेन्दो वृषा सुत (सा ६७८-८०) एते असृग्रमिन्दव (सा० ८३ ०-२) पवमानस्य ते कवे (सा. ६५७-९) ।। १ ।। इति बहिष्पवमानम् ।। व्रात्यान्याज्यानि ।। २ ।। उच्चा ते जातमंधसः (सा ६२-४) इति गायत्रमेकस्याम् । आमहीयवमेकस्याम् ( ऊ० १. १.१ । जराबोधीयमेकस्याम् (ऊ० ११. १. १४) । पुनानः सोम धारये(सा० ६७५-६) ति यौधाजयं तिसृषु (ऊ० १ . १.३) । नौधसस्यर्क्षु अभीवर्तो ब्रह्मसाम (ऊ० ६. २. १४) ।। ३ ।। समानमितरं ज्योतिष्टोमेन ।। ४ ।
199
एकाहः-प्रजापतेरपूर्वः [अ. ३. ख. २५
इति । पवस्वेन्दो वृषा सुत (सा० ६७८-८०) एते असृग्रमिन्दवः (सा० ८३ ०-२) पवमानस्य ते कवे (सा० ६५७-९,) इति बहिष्पवमानम् ।। होता देवो अमर्त्यः (सा० १४७७) ता नः शक्तं पार्थिवस्य (सा० १४६५-७) सुरूपकृप्नुमूतये (स० १ ०८७-९) आसुते षिञ्चत श्रियम् (सा० १४८०-३) इत्याज्यानि । अनिरुक्तप्रातः-सवनत्वात् होता देव इत्यत्र देवशब्दस्थाने यज्ञशब्दो वक्तव्यः । तथा चोपहव्यमनिरुक्तमधिकृत्य सूत्रम्-होता देवो महीमित्रस्येत्येते होता यज्ञे महीयज्ञस्येति हूयत (ला० श्रौ० ८. ९. ४) इति । उच्चा ते (सा० ६७२-४) इति गायत्रामहीयवे (ऊ० १. १. १) जराबोधीय-(ऊ० ११. १.१४)मिति सामतृचः । पुनानः सोम धारये (सा० ६७५-६)ति यौधाजयं (ऊ० १. १. ३) तिसृषु । औशन(ऊ०१. १. ४ )मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । नौधसस्यर्क्ष्वभीवर्तो (ऊ० ६.२.१४) ब्रह्मसाम । स्वासु कालेय(ऊ० १. १. ७)मिति पृष्ठानि ।। स्वादिष्ठये-( सा० ६८९-९१) ति गायत्रसंहिते (ऊ० ११ .८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफ-पौष्कले (ऊ० १.१ .९ -१ ०) । पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१. ११-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । काववर्ज-मेकर्चाः ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१. १४) । सर्वं त्रिवृत् ।। ४ ।। इति प्रजापतेरपूर्वः ।। २५ ।।
200
बृहस्पतिसवः बृहस्पतिसवो द्वितीयः । त्रिवृदग्निष्टोमस्तस्य प्रातःसवने (तां०ब्रा० १७.११) इत्यनुवाकेनोक्तः । यं ब्राह्मणाः स्वराजानः पुरस्कुर्वीरन् स बृहस्पतिसवेन यजेते(ला० श्रौ० ८.७.५) त्यादि सूत्रम् । तेन ब्राह्मणस्यैवस्मिन्नधिकारो न राजन्यवैश्ययोः । तस्य क्लृप्तिमाह- एष एवोत्तरस्य माध्यंदिनः ।। १ ।। ज्योतिष्टोमसमानमितरं सर्वम् ।। २ ।। इति । योऽयं प्रजापतेरपूर्वस्य माध्यंदिनः पवमानः स एव बृहस्पतिसवस्य अन्यत् सर्वं ज्योतिष्टोमवदित्यर्थः । उप-दवि- पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रमाद्यायाम् । आमहीयवं (ऊ० १. १. १) द्वितीयायाम् । जराबोधीयं (ऊ० ११ .१. १४) तृतीयायाम् । पुनानः सोम धारये-(स० ६७६-७ )ति यौधाजयं (ऊ० १. १. ३) तिसृषु । औशन-(ऊ० १. १. ४)मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं(ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १. १. ८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६) ति सफपौष्कले (ऊ० १. १. ९-१०) । पुरोजिती वो अन्धस (ऊ० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । कावं तिसृषु । शिष्टान्याद्यासु ।। यज्ञायज्ञीय( ऊ० १. १. १४ )मग्निष्टोमसाम । सर्वं त्रिवृत् । केचिदत्र कल्पे माध्यंदिनशब्दं माध्यदिनसवनवाचिनं मत्वा
201
एकाहः-प्रथमः साहस्रः [अ. ३. ख. २६
प्रजापतेरपूर्वस्य माध्यंदिनं सवनं वृहस्पतिसवेऽतिदिश्यते इत्यङ्गीकुर्वाणा नौधसस्यर्क्षु अभीवर्तो ब्रह्मसामेत्याहुः । तदयुक्तम् । यतोऽयं माध्यंदिनशब्दः कल्पे सर्वत्र माध्यंदिनस्य पवमानस्यैव वाचको न तु सवनस्य । तथा हि-सोमः पवते ( सा० ९४३-५) जनित्र(ऊ० ८.२. १ )मन्त्यं माध्यंदिनस्य । प्रत आश्विनी-(सा० ८८६-८)रिति लौश-(ऊ० ८.८. २)मन्त्यम् आर्भवस्य । इत्यादौ तावत् पवमानस्यैव वाचक इति सुस्पष्टम् । तथा द्वितीयमेकस्तोममधि-कृत्य वक्ष्यति । गोराज्ये बहिष्पवमानमिन्द्रस्तोमस्य माध्यंदिनः । पुनानः सोम धारयेति बृहती । स्वासु श्यैतम् । समानमितरं प्रथमेन साहस्रेणे-( आ०क० ६.२.१ )ति । तत्र स्वासु श्यैतमिति वचनात् अवगम्यते पवमानस्यैवायं वाचक इति । यदि हि सवनस्य वाचकः स्यात्तदा इन्द्रस्तोमे स्वास्वेव श्येतस्य विधानादिति तेनैव सिद्धत्वाद्वचनमनर्थकं स्यात् । किं च बृहस्पतिसवमेवाधिकृत्य मध्ये पृष्ठ्ये वक्ष्यति- क्लृप्तमा बृहस्पतिस्तोमात् । तस्याभीवर्तो ब्रह्मसामे-(आ० क० सू० १०.१ )ति । तत्र यदि पूर्वमेव ब्रह्मसामत्वेन विहितः स्यात्तदा पुनः किं तद्विधानेन? तस्मात्तन्तौधसमेव ब्रह्मसाम बृहस्पतिसवस्येति सिद्धम् ।। २ ।। इति बृहस्पतिसवः ।। २६।।
202
इषुः इषुस्तृतीयः षड्विंशब्राह्मणे विहितः । त्रिवृदग्निष्टोमः । तस्येषु विष्टुतिं कृत्वा (ष० वि० ब्रा० ३.९) इत्यनुवाकेन । तस्य कल्पः- शाक्वरवर्णस्य लोके जराबोधीयम् (ऊ० ११. १. १५) । वषट्कारणिधनस्य सप्तहम् (र० ३. १.९) । बृहतो वषट्कार०णिधनम् (सा० १५७३-४; ऊ० ११. १. १६) ।। १ ।। समानमितरच्छयेनेन ।। २ ।। पवमानस्य जिघ्नतः ( सा० १३१०-२) पुनानो अक्रमीदभि ( सा० ९२४-६) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।
अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) इन्द्रं हुवे पूतदक्षम् (सा० ८४७-९) उ त्वा मन्दस्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ।। अर्षा सोम द्युमत्तम ( सा० ९४४-६) इति गायत्रं वार्षाहरं (र० ३. १.३) जराबोधीय-(ऊ० १. १४.५ )मिति सामतृचः । पुनानः सोम धारये- (सा० ६७५-६) ति सप्तहं (र० ३.२.९) रौरवं (ऊ० १. १.२) यौधाजय-(ऊ० १. १.३)मिति । सामतृचः । औशन-( ऊ० १. १. ४ )मन्त्यम् ।। रथन्तरं (र० १.१. १) च वामदेव्यं ( ऊ० १.१.५) च वषट्कारणिधनं ( ऊ० १०. १. २०) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।। यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रवार्षाहरे ( र० ३. १.४) । पवस्वेन्द्रमच्छे ( ता ० ६९२-६ )ति सफौपगवे (ऊ० १०.२.१) । पुरोजिती-( सा० ६९७-९ )ति।। नानदा-
203
एकाहः-सर्वस्वारः ( अ. ३. ख. २८]
(ऊ० २.२.१ ८)न्धीगवे (ऊ० १. १.१२) । काव-( ऊ० १.१.१३)मन्त्यम् । कावव्यतिरिक्ता एकर्चाः ।। यज्ञायज्ञीयम(ऊ० १. १. १ ४)ग्निष्टोमसाम । सर्वं त्रिवृत् । त्रिवृतः इषुसंज्ञे द्वे विष्टुती षड्विंशब्राह्मणे विहिते । एकस्यै हिंकरोति । स प्रथमये( ष० विं० ब्रा० ३.९.) त्यादिना । तयोः प्रथमया प्रथमस्याज्यस्य कुशाविधानम् । द्वितीयया द्वितीयस्य । पुनः प्रथमया तृतीयस्य । इत्येवम् । प्रथमाज्य-प्रभृति व्यत्यस्ताभ्यामिषुभ्यां कुशाविधानम् । इषोर्व्यत्यासमिषुभ्यां (ला० श्रौ० सू० ६.२.७) इति वचनात् । ऋत्विजां लोहितोष्णीषत्वादि सर्वं श्येनवत् ।। २ ।। इति इषुः ।। २७ ।। सर्वस्वारः अथवा शुनस्कर्णस्तोमः सर्वस्वारश्चतुर्थः । त्रिवृदग्निष्टोमः स सर्वस्वारः (तां ब्रा० १७. १२. १) इत्यनुवाकेनोक्तः । स एव शुनस्कर्णस्तोम इत्याख्यायते । तस्य कल्पः- प्र सोमासो अधन्विषुः ( सा० ९७१-३) प्र स्वानासो रथा इवा-(सा० १११९-२१ )सृग्रमिदवः पथा (सा. १ १२८-३०) ।। १ ।। इति बहिष्पवमानम् ।। सर्वे तृचाः । सर्वे सर्वस्वारे (ला० श्रौ० सू० ६.३.९) इति वचनात् ।। १ ।। उप प्रयन्तो अध्वरम् (सा० १ ३७५-८०, ८२) प्र वो मित्राय
204
गायत (सा० ११४३-५) प्र व इन्द्राय मादनम् (सा० ७१६-८) प्र वामर्चन्त्युक्थिनः (सा० १५७५. ७-८) ।। २ ।। इत्याज्यानि ।। उपप्रयं चतुर्ऋचस्य तृतीयामृचमुद्धरेत् । प्र वामर्चं चतुर्ऋचस्य द्वितीयाम् । तृतीयां सर्वस्वारस्वरसाम्नोः । प्र वामर्चन्तीति द्वितीयाम् (ला० श्रौ० सू० ६.४.११ -२) इति वचनात् ।। २ ।। प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रम् । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवं (ऊ० ११. १. १७) । प्र तु द्रव (सा० ६७७-९) इत्यौशनम् (ऊ० १.१. ४) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः] वामदेव्यं (ऊ० १. १.५) च मैधातिथं (ऊ० ६. १. १५) च हारायणं (ऊ० ११. १. १८) च कौल्मलबर्हिषं (सा० १५८१-२; ऊ० ११. १. १९) च ।। ४ ।। इति पृष्ठानि ।। ४ ।। होतुः पृष्ठस्य गायत्री छन्दः । शिष्टानां बृहती । ४ ।। प्र सोमासो मदच्युतः ( सा० ७६९-७१) इति गायत्रं चाशुभार्गवं (ऊ० ११. १. २०) च । अभि द्युम्नं बृहद्यशः (सा० १०११-२) प्र धन्व सोम जागृविर् ( सा० ५६७)
205
एकाहः -सर्वस्वारः [ अ.३ ख. २८ ।
इति सफ-(ऊ० ९. १. १३) सत्रासाहीये (ऊ० ११. २.१) । प्र सुन्वानायान्धस ( सा० १३८६-८) इति श्यावाश्वौ-( ऊ० ११. २.२) दले (ऊ० ११.२.३) । प्रो अयासीद् (सा० ११५२-४) इति कावम् ( ऊ० ६. २. १०) अन्त्यम् ।। ५ ।। [ इत्यार्भवः पवमानः] अन्त्यवर्जमेकर्चाः । ५ ।। प्र दैवोदासो अग्निर् (सा० १५१७, १५१६,१५१५) इति यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० ११. २. ४) । दैर्घश्रवसं स्वासु यदि जीवेत् ।। ६ ।। सोऽयं सर्वस्वारो मरणकामयज्ञः । तस्य सूत्रम्-सर्वस्वारेण यक्ष्यमाणो दीक्षाप्रभृति प्रयतेत । यया सौत्येऽहनि प्रयामि-( ला० श्रौ० सू० ८.८.१)त्यादि तस्य कृतान्तं दक्षिणे-( ला० श्रौ० सू० ८.८.४२) त्यन्तम् । तत्र दीक्षावृद्धिः भक्षणं प्राणभक्षण-मित्यादि मरणोपाय उक्तः । आर्भवे पवमाने स्तूयमाने दक्षिणेनौदुम्बरीं गत्वा कृष्णाजिनसुपस्तीर्य दक्षिणाशिराः प्रावृतो निपद्यत इति मरणकालश्चोक्तः । तदानीं मृतं हविर्भिः सहर्जीषै-राहवनीये प्रहृत्य प्रव्रजेयुरिति शाण्डिल्यः । नेदिष्टिना समापयेयुः
206
इति धानंजय्यः । तत्र शेषसमापनपक्षाश्रयेण कल्पकारोऽग्निष्टोमसाम व्यधात् ।। दैर्घश्रवसं स्वासु यदि जीवेदिति । उक्ते काले यदि न म्रियेत तदा स्वासु दैर्घश्रवसमग्निष्टामेसाम कार्यम् । किमर्थमिति चेत् । तत्रोक्तं निदानकारेण दैर्घश्रवसं स्वासु यदि जीवेदिति तु भवति । न चेदशकन्मर्तुमुत दीर्घं शृणुयादित्यपि प्रयाणार्थं स्या- (नि० सू० ७.२)दिति ।। ६ ।। सर्वस्वारः ।। ७ ।। सर्वस्वार इति समाख्याकथनं सर्वाणि स्वाराणि अस्येति समाख्ययैवात्र जामिकल्पो न दोषायेति सूचनार्थम् । तथा च सूत्रवचनात्तन्त्रविलोपो यथा जामिकल्पः-सर्वस्वार इति ।। ७ ।। प्रजापतेरपूर्वमारभ्य चतुर्णां स्तोमक्लृप्तिमाह- सर्वे त्रिवृतः ।। ८ ।। इति ।। ८ । शान्तिर्वामदेव्यम् । शान्तिर्वामदेव्यम् ।। ९ ।।
207
एकाहः - सर्वस्वार [ अ. ३. ख. २८ ।
शान्तिर्वामदेव्यमिति सूत्रोक्तप्रकारेण मृतस्य दहने कृते परिसाम्नामन्ते शान्तिरूपं वामदेव्यं गेयम् । एतच्च मङ्गलार्थमुक्तं कल्पकारेणेति सर्वं भद्रम् ।। ९ ।। इति श्रीवामनार्यसुत वरदराजविरचितायाम् आर्षेयकल्पव्याख्यायाम् एकाहेषु प्रथमः आदितस्तृतीयोऽध्यायः ।। ३ ।।