"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) १ अवतरण: from old wikisource |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
::::::॥ छान्दोग्योपनिषद् ॥ |
|||
{{Upanishad}} |
|||
::::॥ तृतीयॊऽध्यायः ॥ |
|||
::::॥ प्रथमः खण्डः ॥ |
|||
::::असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥ |
|||
::::तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥ |
|||
::::एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ ३ ॥ |
|||
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितँरूपम् ॥ ४ ॥ |
|||
::::॥ द्वितीयः खण्डः ॥ |
|||
::::अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
|||
::::तानि वा एतानि यजूँष्येतं यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोजायत ॥ २ ॥ |
|||
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लँरूपम् ॥ ३ ॥ |
|||
::::॥ तृतीयः खण्डः ॥ |
|||
::::अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
|||
::::तानि वा एतानि सामान्येतँसामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥ |
|||
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णँरूपम् ॥ ३ ॥ |
|||
:::: ॥ चतुर्थः खण्डः ॥ |
|||
::::अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥ |
|||
::::ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥ |
|||
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णँरूपम् ॥ ३ ॥ |
|||
::::॥ पञ्चमः खण्डः ॥ |
|||
::::अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ |
|||
::::ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥ |
|||
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥ |
|||
::::ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥ |
|||
::::॥ षष्ठः खण्डः ॥ |
|||
::::तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
|||
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ |
|||
::::स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ |
|||
::::स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥ |
|||
::::॥ सप्तमः खण्डः ॥ |
|||
::::अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
|||
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ |
|||
::::स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ |
|||
::::स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥ |
|||
::::॥ अष्टमः खण्डः ॥ |
|||
::::अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
|||
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ |
|||
::::स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ |
|||
::::स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥ |
|||
::::॥ नवमः खण्डः ॥ |
|||
::::अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
|||
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ |
|||
::::स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ |
|||
::::स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ४ ॥ |
|||
::::॥ दशमः खण्डः ॥ |
|||
::::अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
|||
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ |
|||
::::स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ |
|||
::::स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥ |
|||
::::॥ एकादशः खण्डः ॥ |
|||
::::अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥ |
|||
::::न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥ |
|||
::::न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥ |
|||
::::तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥ |
|||
::::इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ५ ॥ |
|||
::::नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥ |
|||
::::॥ द्वादशः खण्डः ॥ |
|||
::::गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ॥ १ ॥ |
|||
::::या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँहीदँसर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥ |
|||
::::या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥ |
|||
::::यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ |
|||
::::सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥ |
|||
::::तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ |
|||
::::यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ |
|||
::::अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥ |
|||
::::अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद ॥ ९ ॥ |
|||
::::॥ त्रयोदशः खण्डः ॥ |
|||
::::तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥ |
|||
::::अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँस चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥ |
|||
::::अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥ |
|||
::::अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥ |
|||
::::अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥ |
|||
::::ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥ |
|||
::::अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषो ज्योतिस्तस्यैषा ॥ ७ ॥ |
|||
::::तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥ |
|||
::::॥ चतुर्दशः खण्डः ॥ |
|||
::::सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥ |
|||
::::मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ २ ॥ |
|||
::::एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥ |
|||
::::सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ |
|||
::::॥ पञ्चदशः खण्डः ॥ |
|||
::::अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँस एष कोशो वसुधानस्तस्मिन्विश्वमिदँश्रितम् ॥ १ ॥ |
|||
::::तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदँरोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदँरुदम् ॥ २ ॥ |
|||
::::अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥ |
|||
::::स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥ |
|||
::::अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥ |
|||
::::अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥ |
|||
::::अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥ |
|||
::::॥ षोडशः खण्डः ॥ |
|||
::::पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशतिवर्षाणि तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदँसर्वं वासयन्ति ॥ १ ॥ |
|||
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनँसवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥ |
|||
::::अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँसवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥ ३ ॥ |
|||
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनँसवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥ |
|||
::::अथ यान्यष्टाचत्वारिँशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदँसर्वमाददते ॥ ५ ॥ |
|||
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥ |
|||
::::एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥ |
|||
::::॥ सप्तदशः खण्डः ॥ |
|||
::::स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥ |
|||
::::अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥ |
|||
::::अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥ |
|||
::::अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥ |
|||
::::तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥ |
|||
::::तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥ |
|||
::::आदित्प्रत्नस्य रेतसः । उद्वयन्तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥ |
|||
::::॥ अष्टादशः खण्डः ॥ |
|||
::::मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥ |
|||
::::तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद अदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥ |
|||
::::वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ |
|||
::::प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥ |
|||
::::चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥ |
|||
::::श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ |
|||
::::॥ एकोनविंशः खण्डः ॥ |
|||
::::आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥ |
|||
::::तद्यद्रजतँसेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु ते पर्वता यदुल्बँसमेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकँस समुद्रः ॥ २ ॥ |
|||
::::अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥ |
|||
::::स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनँ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥ |
|||
::::॥ चतुर्थोऽध्यायः ॥ |
|||
::::॥ प्रथमः खण्डः ॥ |
|||
::::जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ १ ॥ |
|||
::::अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥ |
|||
::::तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँसयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ३ ॥ |
|||
::::यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥ |
|||
::::तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ५ ॥ |
|||
::::यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥ |
|||
::::स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ७ ॥ |
|||
::::सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥ |
|||
::::॥ द्वितीयः खण्डः ॥ |
|||
::::तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद ॥ १ ॥ |
|||
::::रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु म एतां भगवो देवताँशाधि यां देवतामुपास्स इति ॥ २ ॥ |
|||
::::तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥ |
|||
::::तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४ ॥ |
|||
::::तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ५ ॥ |
|||
::::॥ तृतीयः खण्डः ॥ |
|||
::::वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥ |
|||
::::यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥ |
|||
::::अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ३ ॥ |
|||
::::तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ |
|||
::::अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥ |
|||
::::स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं दत्तमिति ॥ ६ ॥ |
|||
::::तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥ |
|||
::::तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥ |
|||
::::॥ चतुर्थः खण्डः ॥ |
|||
::::सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रोन्वहमस्मीति ॥ १ ॥ |
|||
::::सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥ |
|||
::::स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥ |
|||
::::तँ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥ |
|||
::::तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रँ संपेदुः ॥ ५ ॥ |
|||
::::॥ पञ्चमः खण्डः ॥ |
|||
::::अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥ |
|||
::::ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥ |
|||
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥ |
|||
::::॥ षष्ठः खण्डः ॥ |
|||
::::अग्निष्टे पादं वक्तेति स ह श्वोभूते गा आभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥ |
|||
::::तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
|||
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥ |
|||
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ |
|||
::::॥ सप्तमः खण्डः ॥ |
|||
::::हँसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥ |
|||
::::तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
|||
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ |
|||
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ |
|||
::::॥ अष्टमः खण्डः ॥ |
|||
::::मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥ |
|||
::::तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
|||
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥ |
|||
::::स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥ |
|||
::::॥ नवमः खण्डः ॥ |
|||
::::प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥ |
|||
::::ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात् ॥ २ ॥ |
|||
::::श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥ |
|||
::::॥ दशमः खण्डः ॥ |
|||
::::उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादशवार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न समावर्तयति ॥ १ ॥ |
|||
::::तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥ |
|||
::::स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥ |
|||
::::अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥ |
|||
::::प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ |
|||
::::॥ एकादशः खण्डः ॥ |
|||
::::अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
|||
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ |
|||
::::॥ द्वादशः खण्डः ॥ |
|||
::::अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
|||
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ |
|||
::::॥ त्रयोदशः खण्डः ॥ |
|||
::::अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
|||
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ |
|||
::::॥ चतुर्दशः खण्डः ॥ |
|||
::::ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ १ ॥ |
|||
::::भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥ |
|||
::::इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥ |
|||
::::॥ पञ्चदशः खण्डः ॥ |
|||
::::य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥ |
|||
::::एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥ |
|||
::::एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ |
|||
::::एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ |
|||
::::अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान्मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः ॥ ५ ॥ |
|||
::::स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ६ ॥ |
|||
::::॥ षोडशः खण्डः॥ |
|||
::::एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति । यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥ |
|||
::::तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ २ ॥ |
|||
::::अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥ |
|||
::::अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥ |
|||
::::स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥ |
|||
::::॥ सप्तदशः खण्डः ॥ |
|||
::::प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँरसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ १ ॥ |
|||
::::स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँरसान्प्रावृहदग्नेर्ऋचो वायोर्यजूँषि सामान्यादित्यात् ॥ २ ॥ |
|||
::::स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥ |
|||
::::तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ सन्दधाति ॥ ४ ॥ |
|||
::::स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ॥ ५ ॥ |
|||
::::अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥ |
|||
::::तद्यथा लवणेन सुवर्णँ सन्दध्यात्सुवर्णेन रजतँ रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥ |
|||
::::एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥ |
|||
::::एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥ |
|||
::::मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥ |
|||
॥छान्दोग्योपनिषद्॥ तृतीयोऽध्यायः, चतुर्थोऽध्यायः<br> |
|||
<br> |
|||
==॥तृतीयोऽध्यायः॥== |
|||
<br> |
|||
॥प्रथमः खण्डः॥<br> |
|||
<br> |
|||
असौ वा आदित्यो देवमधु तस्य द्यौरेव<br> |
|||
तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥३.१.१॥<br> |
|||
<br> |
|||
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः।<br> |
|||
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता<br> |
|||
आपस्ता वा एता ऋचः ॥३.१.२॥<br> |
|||
<br> |
|||
एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज<br> |
|||
इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥३.१.३॥<br> |
|||
<br> |
|||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br> |
|||
एतद्यदेतदादित्यस्य रोहितँरूपम्॥३.१.४॥<br> |
|||
<br> |
|||
॥इति प्रथमः खण्डः॥<br> |
|||
<br> |
|||
॥द्वितीयः खण्डः॥<br> |
|||
<br> |
|||
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा<br> |
|||
मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं<br> |
|||
ता अमृत आपः ॥३.२.१॥<br> |
|||
<br> |
|||
तानि वा एतानि यजूँष्येतं<br> |
|||
यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br> |
|||
वीर्यमन्नाद्यँरसोजायत ॥३.२.२॥<br> |
|||
<br> |
|||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br> |
|||
एतद्यदेतदादित्यस्य शुक्लँ रूपम्॥३.२.३॥<br> |
|||
<br> |
|||
॥इति द्वितीयः खण्डः॥<br> |
|||
<br> |
|||
॥तृतीयः खण्डः॥<br> |
|||
<br> |
|||
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो<br> |
|||
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं<br> |
|||
ता अमृता आपः॥३.३.१॥<br> |
|||
<br> |
|||
तानि वा एतानि सामान्येतँ<br> |
|||
सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br> |
|||
वीर्यमन्नाद्यँरसोऽजायत ॥३.३.२॥<br> |
|||
<br> |
|||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br> |
|||
एतद्यदेतदादित्यस्य कृष्णँरूपम्॥३.३.३॥<br> |
|||
<br> |
|||
॥इति तृतीयः खण्डः॥<br> |
|||
<br> |
|||
॥चतुर्थः खण्डः॥<br> |
|||
<br> |
|||
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो<br> |
|||
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत<br> |
|||
इतिहासपुराणं पुष्पं ता अमृता आपः॥३.४.१॥<br> |
|||
<br> |
|||
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँ<br> |
|||
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां<br> |
|||
वीर्यमन्नाद्यँरसोऽजायत ॥३.४.२॥<br> |
|||
<br> |
|||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br> |
|||
एतद्यदेतदादित्यस्य परं कृष्णँरूपम्॥३.४.३॥<br> |
|||
<br> |
|||
॥इति चतुर्थः खण्डः॥<br> |
|||
<br> |
|||
॥पञ्चमः खण्डः॥<br> |
|||
<br> |
|||
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा<br> |
|||
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव<br> |
|||
पुष्पं ता अमृता आपः ॥३.५.१॥<br> |
|||
<br> |
|||
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँ<br> |
|||
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br> |
|||
वीर्यमन्नाद्यँरसोऽजायत ॥३.५.२॥<br> |
|||
<br> |
|||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br> |
|||
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥३.५.३॥<br> |
|||
<br> |
|||
ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते<br> |
|||
रसास्तानि वा एतान्यमृतानाममृतानि वेदा<br> |
|||
ह्यमृतास्तेषामेतान्यमृतानि॥३.५.४॥<br> |
|||
<br> |
|||
॥इति पञ्चमः खण्डः॥<br> |
|||
<br> |
|||
॥षष्ठः खण्डः॥<br> |
|||
<br> |
|||
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै<br> |
|||
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा<br> |
|||
तृप्यन्ति॥३.६.१॥<br> |
|||
<br> |
|||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति॥३.६.२॥<br> |
|||
<br> |
|||
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव<br> |
|||
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव<br> |
|||
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.६.३॥<br> |
|||
<br> |
|||
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता<br> |
|||
वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.६.४॥<br> |
|||
<br> |
|||
॥इति षष्ठः खण्डः॥<br> |
|||
<br> |
|||
॥सप्तमः खण्डः॥<br> |
|||
<br> |
|||
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण<br> |
|||
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br> |
|||
दृष्ट्वा तृप्यन्ति॥३.७.१॥<br> |
|||
<br> |
|||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.७.२॥<br> |
|||
<br> |
|||
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव<br> |
|||
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br> |
|||
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.७.३॥<br> |
|||
<br> |
|||
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता<br> |
|||
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव<br> |
|||
तावदाधिपत्यँस्वाराज्यं पर्येता॥३.७.४॥<br> |
|||
<br> |
|||
॥इति सप्तमः खण्डः॥<br> |
|||
<br> |
|||
॥अष्टमः खण्डः॥<br> |
|||
<br> |
|||
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन<br> |
|||
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br> |
|||
दृष्ट्वा तृप्यन्ति ॥३.८.१॥<br> |
|||
<br> |
|||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.८.२॥<br> |
|||
<br> |
|||
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव<br> |
|||
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br> |
|||
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.८.३॥<br> |
|||
<br> |
|||
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता<br> |
|||
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव<br> |
|||
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.८.४॥<br> |
|||
<br> |
|||
॥इति अष्टमः खण्डः॥<br> |
|||
<br> |
|||
॥नवमः खण्डः॥<br> |
|||
<br> |
|||
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन<br> |
|||
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br> |
|||
दृष्ट्वा तृप्यन्ति ॥३.९.१॥<br> |
|||
<br> |
|||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.९.२॥<br> |
|||
<br> |
|||
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव<br> |
|||
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br> |
|||
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.९.३॥<br> |
|||
<br> |
|||
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता<br> |
|||
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव<br> |
|||
तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥३.९.४॥<br> |
|||
<br> |
|||
॥इति नवमः खण्डः॥<br> |
|||
<br> |
|||
॥दशमः खण्डः॥<br> |
|||
<br> |
|||
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा<br> |
|||
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br> |
|||
दृष्ट्वा तृप्यन्ति ॥३.१०.१॥<br> |
|||
<br> |
|||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.१०.२॥<br> |
|||
<br> |
|||
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा<br> |
|||
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br> |
|||
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.१०.३॥<br> |
|||
<br> |
|||
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता<br> |
|||
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव<br> |
|||
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.१०.४॥<br> |
|||
<br> |
|||
॥इति दशमः खण्डः॥<br> |
|||
<br> |
|||
॥एकादशः खण्डः॥<br> |
|||
<br> |
|||
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव<br> |
|||
मध्ये स्थाता तदेष श्लोकः ॥३.११.१॥<br> |
|||
<br> |
|||
न वै तत्र न निम्लोच नोदियाय कदाचन।<br> |
|||
देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति॥३.११.२॥<br> |
|||
<br> |
|||
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै<br> |
|||
भवति य एतामेवं ब्रह्मोपनिषदं वेद॥३.११.३॥<br> |
|||
<br> |
|||
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे<br> |
|||
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय<br> |
|||
पिता ब्रह्म प्रोवाच॥३.११.४॥<br> |
|||
<br> |
|||
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म<br> |
|||
प्रब्रूयात्प्रणाय्याय वान्तेवासिने॥३.११.५॥<br> |
|||
<br> |
|||
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां<br> |
|||
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव<br> |
|||
ततो भूय इति॥३.११.६॥<br> |
|||
<br> |
|||
॥इति एकादशः खण्डः॥<br> |
|||
<br> |
|||
॥द्वादशः खण्डः॥<br> |
|||
<br> |
|||
गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री<br> |
|||
वाग्वा इदँ सर्वं भूतं गायति च त्रायते च॥३.१२.१॥<br> |
|||
<br> |
|||
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ<br> |
|||
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते॥३.१२.२॥<br> |
|||
<br> |
|||
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे<br> |
|||
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव<br> |
|||
नातिशीयन्ते॥३.१२.३॥<br> |
|||
<br> |
|||
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः<br> |
|||
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव<br> |
|||
नातिशीयन्ते॥३.१२.४॥<br> |
|||
<br> |
|||
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्<br> |
|||
॥३.१२.५॥<br> |
|||
<br> |
|||
तावानस्य महिमा ततो ज्यायाँश्च पूरुषः।<br> |
|||
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति॥३.१२.६॥<br> |
|||
<br> |
|||
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा<br> |
|||
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः॥३.१२.७॥<br> |
|||
<br> |
|||
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः<br> |
|||
पुरुष आकाशः ॥३.१२.८॥<br> |
|||
<br> |
|||
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति<br> |
|||
पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद॥३.१२.९॥<br> |
|||
<br> |
|||
॥इति द्वादशः खण्डः॥<br> |
|||
<br> |
|||
॥त्रयोदशः खण्डः॥<br> |
|||
<br> |
|||
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः<br> |
|||
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः<br> |
|||
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत<br> |
|||
तेजस्व्यन्नादो भवति य एवं वेद॥३.१३.१॥<br> |
|||
<br> |
|||
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ<br> |
|||
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत<br> |
|||
श्रीमान्यशस्वी भवति य एवं वेद॥३.१३.२॥<br> |
|||
<br> |
|||
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः<br> |
|||
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत<br> |
|||
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद॥३.१३.३॥<br> |
|||
<br> |
|||
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः<br> |
|||
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत<br> |
|||
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद॥३.१३.४॥<br> |
|||
<br> |
|||
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः<br> |
|||
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी<br> |
|||
महस्वान्भवति य एवं वेद॥३.१३.५॥<br> |
|||
<br> |
|||
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य<br> |
|||
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य<br> |
|||
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते<br> |
|||
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य<br> |
|||
लोकस्य द्वारपान्वेद॥३.१३.६॥<br> |
|||
<br> |
|||
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु<br> |
|||
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव<br> |
|||
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः॥३.१३.७॥<br> |
|||
<br> |
|||
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं<br> |
|||
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव<br> |
|||
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च<br> |
|||
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद<br> |
|||
य एवं वेद ॥३.१३.८॥<br> |
|||
<br> |
|||
॥इति त्रयोदशः खण्डः॥<br> |
|||
<br> |
|||
॥चतुर्दशः खण्डः॥<br> |
|||
<br> |
|||
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत।<br> |
|||
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके<br> |
|||
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत<br> |
|||
॥३.१४.१॥<br> |
|||
<br> |
|||
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प<br> |
|||
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः<br> |
|||
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥३.१४.२॥<br> |
|||
<br> |
|||
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा<br> |
|||
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष<br> |
|||
म आत्मान्तर्हृदये ज्यायान्पृथिव्या<br> |
|||
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो<br> |
|||
लोकेभ्यः ॥३.१४.३॥<br> |
|||
<br> |
|||
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः<br> |
|||
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय<br> |
|||
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा<br> |
|||
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः<br> |
|||
॥३.१४.४॥<br> |
|||
<br> |
|||
॥इति चतुर्दशः खण्डः॥<br> |
|||
<br> |
|||
॥पञ्चदशः खण्डः॥<br> |
|||
<br> |
|||
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो<br> |
|||
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँ स एष कोशो<br> |
|||
वसुधानस्तस्मिन्विश्वमिदँ श्रितम् ॥३.१५.१॥<br> |
|||
<br> |
|||
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा<br> |
|||
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां<br> |
|||
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न<br> |
|||
पुत्ररोदँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं<br> |
|||
वेद मा पुत्ररोदँरुदम्॥३.१५.२॥<br> |
|||
<br> |
|||
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना<br> |
|||
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना<br> |
|||
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना<br> |
|||
॥३.१५.३॥<br> |
|||
<br> |
|||
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं<br> |
|||
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥३.१५.४॥<br> |
|||
<br> |
|||
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं<br> |
|||
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम्॥३.१५.५॥<br> |
|||
<br> |
|||
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं<br> |
|||
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम्॥३.१५.६॥<br> |
|||
<br> |
|||
अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये<br> |
|||
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम्॥३.१५.७॥<br> |
|||
<br> |
|||
॥इति पञ्चदशः खण्डः॥<br> |
|||
<br> |
|||
॥षोडशः खण्डः॥<br> |
|||
<br> |
|||
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशति वर्षाणि<br> |
|||
तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं<br> |
|||
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव<br> |
|||
एते हीदँसर्वं वासयन्ति ॥३.१६.१॥<br> |
|||
<br> |
|||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा<br> |
|||
वसव इदं मे प्रातःसवनं माध्यंदिनँसवनमनुसंतनुतेति<br> |
|||
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br> |
|||
तत एत्यगदो ह भवति ॥३.१६.२॥<br> |
|||
<br> |
|||
अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँ<br> |
|||
सवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं<br> |
|||
माध्यंदिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा<br> |
|||
वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥३.१६.३॥<br> |
|||
<br> |
|||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा<br> |
|||
इदं मे माध्यंदिनँसवनं तृतीयसवनमनुसंतनुतेति<br> |
|||
माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br> |
|||
तत एत्यगदो ह भवति ॥३.१६.४॥<br> |
|||
<br> |
|||
अथ यान्यष्टाचत्वारिँशद्वर्षाणि<br> |
|||
तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा<br> |
|||
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः<br> |
|||
प्राणा वावादित्या एते हीदँसर्वमाददते ॥३.१६.५॥<br> |
|||
<br> |
|||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा<br> |
|||
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं<br> |
|||
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br> |
|||
तत एत्यगदो हैव भवति ॥३.१६.६॥<br> |
|||
<br> |
|||
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः<br> |
|||
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति<br> |
|||
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं<br> |
|||
वर्षशतं जीवति य एवं वेद ॥३.१६.७॥<br> |
|||
<br> |
|||
॥इति षोडशः खण्डः॥<br> |
|||
<br> |
|||
॥सप्तदशः खण्डः॥<br> |
|||
<br> |
|||
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य<br> |
|||
दीक्षाः ॥३.१७.१॥<br> |
|||
<br> |
|||
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥३.१७.२॥<br> |
|||
<br> |
|||
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव<br> |
|||
तदेति ॥३.१७.३॥<br> |
|||
<br> |
|||
अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति<br> |
|||
ता अस्य दक्षिणाः ॥३.१७.४॥<br> |
|||
<br> |
|||
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य<br> |
|||
तन्मरणमेवावभृथः ॥३.१७.५॥<br> |
|||
<br> |
|||
तद्धैतद्घोर् आङ्गिरसः कृष्णाय<br> |
|||
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव<br> |
|||
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि<br> |
|||
प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥३.१७.६॥<br> |
|||
<br> |
|||
आदित्प्रत्नस्य रेतसः।<br> |
|||
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः<br> |
|||
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म<br> |
|||
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥३.१७.७॥<br> |
|||
<br> |
|||
॥इति सप्तदशः खण्डः॥<br> |
|||
<br> |
|||
॥अष्टादशः खण्डः॥<br> |
|||
<br> |
|||
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो<br> |
|||
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च<br> |
|||
॥३.१८.१॥<br> |
|||
<br> |
|||
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः<br> |
|||
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः<br> |
|||
पादो वायुः पादा अदित्यः पादो दिशः पाद<br> |
|||
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च<br> |
|||
॥३.१८.२॥<br> |
|||
<br> |
|||
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा<br> |
|||
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br> |
|||
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.३॥<br> |
|||
<br> |
|||
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा<br> |
|||
भाति च तपति च् भाति च तपति च कीर्त्या यशसा<br> |
|||
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.४॥<br> |
|||
<br> |
|||
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा<br> |
|||
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br> |
|||
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.५॥<br> |
|||
<br> |
|||
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा<br> |
|||
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br> |
|||
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥३.१८.६॥<br> |
|||
<br> |
|||
॥इति अष्टादशः खण्डः॥<br> |
|||
<br> |
|||
॥एकोनविंशः खण्डः॥<br> |
|||
<br> |
|||
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र<br> |
|||
आसीत्। तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत<br> |
|||
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले<br> |
|||
रजतं च सुवर्णं चाभवताम्॥३.१९.१॥<br> |
|||
<br> |
|||
तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु<br> |
|||
ते पर्वता यदुल्बँ समेघो नीहारो या धमनयस्ता<br> |
|||
नद्यो यद्वास्तेयमुदकँ स समुद्रः ॥३.१९.२॥<br> |
|||
<br> |
|||
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा<br> |
|||
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च<br> |
|||
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा<br> |
|||
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः<br> |
|||
॥३.१९.३॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह<br> |
|||
यदेनँ साधवो घोषा आ च गच्छेयुरुप च<br> |
|||
निम्रेडेरन्निम्रेडेरन्॥३.१९.४॥<br> |
|||
<br> |
|||
॥इति एकोनविंशः खण्डः॥<br> |
|||
<br> |
|||
॥इति तृतीयोऽध्यायः॥<br> |
|||
==॥चतुर्थोऽध्यायः॥== |
|||
<br> |
|||
॥प्रथमः खण्डः॥<br> |
|||
<br> |
|||
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस<br> |
|||
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव<br> |
|||
मेऽन्नमत्स्यन्तीति॥४.१.१॥<br> |
|||
<br> |
|||
अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद<br> |
|||
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य<br> |
|||
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा<br> |
|||
मा प्रधाक्षीरिति॥४.१.२॥<br> |
|||
<br> |
|||
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँ सयुग्वानमिव<br> |
|||
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.३॥<br> |
|||
<br> |
|||
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं<br> |
|||
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद<br> |
|||
यत्स वेद स मयैतदुक्त इति॥४.१.४॥<br> |
|||
<br> |
|||
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव<br> |
|||
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव<br> |
|||
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.५॥<br> |
|||
<br> |
|||
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं<br> |
|||
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद<br> |
|||
यत्स वेद स मयैतदुक्त इति॥४.१.६॥<br> |
|||
<br> |
|||
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच<br> |
|||
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति॥४.१.७॥<br> |
|||
<br> |
|||
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश<br> |
|||
तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व<br> |
|||
इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति<br> |
|||
प्रत्येयाय॥४.१.८॥<br> |
|||
<br> |
|||
॥इति प्रथमः खण्डः॥<br> |
|||
<br> |
|||
॥द्वितीयः खण्डः॥<br> |
|||
<br> |
|||
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां<br> |
|||
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद<br> |
|||
॥४.२.१॥<br> |
|||
<br> |
|||
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु<br> |
|||
म एतां भगवो देवताँ शाधि यां देवतामुपास्स इति<br> |
|||
॥४.२.२॥<br> |
|||
<br> |
|||
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह<br> |
|||
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः<br> |
|||
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय<br> |
|||
प्रतिचक्रमे॥४.२.३॥<br> |
|||
<br> |
|||
तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं<br> |
|||
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो<br> |
|||
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति॥४.२.४॥<br> |
|||
<br> |
|||
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव<br> |
|||
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम<br> |
|||
महावृषेषु यत्रास्मा उवास स तस्मै होवाच॥४.२.५॥<br> |
|||
<br> |
|||
॥इति द्वितीयः खण्डः॥<br> |
|||
<br> |
|||
॥तृतीयः खण्डः॥<br> |
|||
<br> |
|||
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति<br> |
|||
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति<br> |
|||
वायुमेवाप्येति॥४.३.१॥<br> |
|||
<br> |
|||
यदाप उच्छुष्यन्ति वायुमेवापियन्ति<br> |
|||
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम्॥४.३.२॥<br> |
|||
<br> |
|||
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव<br> |
|||
वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो<br> |
|||
ह्येवैतान्सर्वान्संवृङ्क्त इति॥४.३.३॥<br> |
|||
<br> |
|||
तौ वा एतौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु<br> |
|||
॥४.३.४॥<br> |
|||
<br> |
|||
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं<br> |
|||
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः<br> |
|||
॥४.३.५॥<br> |
|||
<br> |
|||
स होवाच महात्मनश्चतुरो देव एकः कः स जगार<br> |
|||
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या<br> |
|||
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा<br> |
|||
एतन्न दत्तमिति॥४.३.६॥<br> |
|||
<br> |
|||
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां<br> |
|||
जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य<br> |
|||
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं<br> |
|||
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति॥४.३.७॥<br> |
|||
<br> |
|||
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश<br> |
|||
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा<br> |
|||
विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं<br> |
|||
भवत्यन्नादो भवति य एवं वेद य एवं वेद॥४.३.८॥<br> |
|||
<br> |
|||
॥इति तृतीयः खण्डः॥<br> |
|||
<br> |
|||
॥चतुर्थः खण्डः॥<br> |
|||
<br> |
|||
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे<br> |
|||
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति<br> |
|||
॥४.४.१॥<br> |
|||
<br> |
|||
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि<br> |
|||
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे<br> |
|||
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि<br> |
|||
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो<br> |
|||
ब्रवीथा इति॥४.४.२॥<br> |
|||
<br> |
|||
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति<br> |
|||
वत्स्याम्युपेयां भगवन्तमिति॥४.४.३॥<br> |
|||
<br> |
|||
तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच<br> |
|||
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ<br> |
|||
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने<br> |
|||
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु<br> |
|||
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ<br> |
|||
सत्यकामो जाबालोऽस्मि भो इति॥४.४.४॥<br> |
|||
<br> |
|||
तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ<br> |
|||
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय<br> |
|||
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः<br> |
|||
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच<br> |
|||
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा<br> |
|||
सहस्रँ संपेदुः॥४.४.५॥<br> |
|||
<br> |
|||
॥इति चतुर्थः खण्डः॥<br> |
|||
<br> |
|||
॥पञ्चमः खण्डः॥<br> |
|||
<br> |
|||
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति<br> |
|||
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः<br> |
|||
प्रापय न आचार्यकुलम्॥४.५.१॥<br> |
|||
<br> |
|||
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br> |
|||
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला<br> |
|||
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः<br> |
|||
पादो ब्रह्मणः प्रकाशवान्नाम॥४.५.२॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः<br> |
|||
प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति<br> |
|||
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br> |
|||
पादं ब्रह्मणः प्रकाशवानित्युपास्ते॥४.५.३॥<br> |
|||
<br> |
|||
॥इति पञ्चमः खण्डः॥<br> |
|||
<br> |
|||
॥षष्ठः खण्डः॥<br> |
|||
<br> |
|||
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग<br> |
|||
आभिप्रस्थापयांचकार ता यत्राभि सायं<br> |
|||
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय<br> |
|||
पश्चादग्नेः प्राङुपोपविवेश ॥४.६.१॥<br> |
|||
<br> |
|||
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति<br> |
|||
ह प्रतिशुश्राव ॥४.६.२॥<br> |
|||
<br> |
|||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br> |
|||
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला<br> |
|||
समुद्रः कलैष वै सोम्य चतुष्कलः पादो<br> |
|||
ब्रह्मणोऽनन्तवान्नाम ॥४.६.३॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वाँश्चतुष्कलं पादं<br> |
|||
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके<br> |
|||
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br> |
|||
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥४.६.४॥<br> |
|||
<br> |
|||
॥इति षष्ठः खण्डः॥<br> |
|||
<br> |
|||
॥सप्तमः खण्डः॥<br> |
|||
<br> |
|||
हँसस्ते पादं वक्तेति स ह श्वोभूते गा<br> |
|||
अभिप्रस्थापयांचकार ता यत्राभि सायं<br> |
|||
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय<br> |
|||
पश्चादग्नेः प्राङुपोपविवेश॥४.७.१॥<br> |
|||
<br> |
|||
तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव<br> |
|||
इति ह प्रतिशुश्राव॥४.७.२॥<br> |
|||
<br> |
|||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br> |
|||
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला<br> |
|||
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो<br> |
|||
ज्योतिष्मान्नाम॥४.७.३॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो<br> |
|||
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति<br> |
|||
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br> |
|||
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते॥४.७.४॥<br> |
|||
<br> |
|||
॥इति सप्तमः खण्डः॥<br> |
|||
<br> |
|||
॥अष्टमः खण्डः॥<br> |
|||
<br> |
|||
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार<br> |
|||
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा<br> |
|||
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश॥४.८.१॥<br> |
|||
<br> |
|||
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति<br> |
|||
ह प्रतिशुश्राव॥४.८.२॥<br> |
|||
<br> |
|||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br> |
|||
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः<br> |
|||
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम<br> |
|||
॥४.८.३॥<br> |
|||
<br> |
|||
स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण<br> |
|||
आयतनवानित्युपास्त आयतनवानस्मिँल्लोके<br> |
|||
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं<br> |
|||
विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते<br> |
|||
॥४.८.४॥<br> |
|||
<br> |
|||
॥इति अष्टमः खण्डः॥<br> |
|||
<br> |
|||
॥नवमः खण्डः॥<br> |
|||
<br> |
|||
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति<br> |
|||
भगव इति ह प्रतिशुश्राव॥४.९.१॥<br> |
|||
<br> |
|||
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये<br> |
|||
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात्<br> |
|||
॥४.९.२॥<br> |
|||
<br> |
|||
श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता<br> |
|||
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन<br> |
|||
वीयायेति वीयायेति॥४.९.३॥<br> |
|||
<br> |
|||
॥इति नवमः खण्डः॥<br> |
|||
<br> |
|||
॥दशमः खण्डः॥<br> |
|||
<br> |
|||
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले<br> |
|||
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार<br> |
|||
स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न<br> |
|||
समावर्तयति॥४.१०.१॥<br> |
|||
<br> |
|||
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा<br> |
|||
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव<br> |
|||
प्रवासांचक्रे॥४.१०.२॥<br> |
|||
<br> |
|||
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच<br> |
|||
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच<br> |
|||
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः<br> |
|||
प्रतिपूर्णोऽस्मि नाशिष्यामीति॥४.१०.३॥<br> |
|||
<br> |
|||
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः<br> |
|||
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म<br> |
|||
कं ब्रह्म खं ब्रह्मेति॥४.१०.४॥<br> |
|||
<br> |
|||
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न<br> |
|||
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव<br> |
|||
कमिति प्राणं च हास्मै तदाकाशं चोचुः॥४.१०.५॥<br> |
|||
<br> |
|||
॥इति दशमः खण्डः॥<br> |
|||
<br> |
|||
॥एकादशः खण्डः॥<br> |
|||
<br> |
|||
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य<br> |
|||
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स<br> |
|||
एवाहमस्मीति॥४.११.१॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br> |
|||
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br> |
|||
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br> |
|||
विद्वानुपास्ते॥४.११.२॥<br> |
|||
<br> |
|||
॥इति एकादशः खण्डः॥<br> |
|||
<br> |
|||
॥द्वादशः खण्डः॥<br> |
|||
<br> |
|||
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि<br> |
|||
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि<br> |
|||
स एवाहमस्मीति॥४.१२.१॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br> |
|||
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br> |
|||
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br> |
|||
विद्वानुपास्ते॥४.१२.२॥<br> |
|||
<br> |
|||
॥इति द्वादशः खण्डः॥<br> |
|||
<br> |
|||
॥त्रयोदशः खण्डः॥<br> |
|||
<br> |
|||
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति<br> |
|||
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स<br> |
|||
एवाहमस्मीति॥४.१३.१॥<br> |
|||
<br> |
|||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br> |
|||
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br> |
|||
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br> |
|||
विद्वानुपास्ते॥४.१३.२॥<br> |
|||
<br> |
|||
॥इति त्रयोदशः खण्डः॥<br> |
|||
<br> |
|||
॥चतुर्दशः खण्डः॥<br> |
|||
<br> |
|||
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या<br> |
|||
चाचार्यस्तु ते गतिं वक्तेत्याजगाम<br> |
|||
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति<br> |
|||
॥४.१४.१॥<br> |
|||
<br> |
|||
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति<br> |
|||
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव<br> |
|||
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे<br> |
|||
किं नु सोम्य किल तेऽवोचन्निति॥४.१४.२॥<br> |
|||
<br> |
|||
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं<br> |
|||
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त<br> |
|||
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे<br> |
|||
भगवानिति तस्मै होवाच॥४.१४.३॥<br> |
|||
<br> |
|||
॥इति चतुर्दशः खण्डः॥<br> |
|||
<br> |
|||
॥पञ्जदशः खण्डः॥<br> |
|||
<br> |
|||
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति<br> |
|||
होवाचैतदमृतमभयमेतद्ब्रह्मेति<br> |
|||
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव<br> |
|||
गच्छति॥४.१५.१॥<br> |
|||
<br> |
|||
एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि<br> |
|||
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति<br> |
|||
य एवं वेद॥४.१५.२॥<br> |
|||
<br> |
|||
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति<br> |
|||
सर्वाणि वामानि नयति य एवं वेद॥४.१५.३॥<br> |
|||
<br> |
|||
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति<br> |
|||
सर्वेषु लोकेषु भाति य एवं वेद॥४.१५.४॥<br> |
|||
<br> |
|||
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च<br> |
|||
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न<br> |
|||
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति<br> |
|||
मासाँस्तान्मासेभ्यः संवत्सरँ<br> |
|||
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं<br> |
|||
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो<br> |
|||
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते<br> |
|||
नावर्तन्ते॥४.१५.५॥<br> |
|||
<br> |
|||
॥इति पञ्चदशः खण्डः॥<br> |
|||
<br> |
|||
॥षोडशः खण्डः॥<br> |
|||
<br> |
|||
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति<br> |
|||
यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य<br> |
|||
मनश्च वाक्च वर्तनी॥४.१६.१॥<br> |
|||
<br> |
|||
तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा<br> |
|||
होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके<br> |
|||
पुरा परिधानीयाया ब्रह्मा व्यवदति॥४.१६.२॥<br> |
|||
<br> |
|||
अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा<br> |
|||
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो<br> |
|||
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं<br> |
|||
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति॥४.१६.३॥<br> |
|||
<br> |
|||
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा<br> |
|||
व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा<br> |
|||
॥४.१६.४॥<br> |
|||
<br> |
|||
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः<br> |
|||
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं<br> |
|||
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति॥४.१६.५॥<br> |
|||
<br> |
|||
॥इति षोडशः खण्डः॥<br> |
|||
<br> |
|||
॥सप्तदशः खण्डः॥<br> |
|||
<br> |
|||
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँ<br> |
|||
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः<br> |
|||
॥४.१७.१॥<br> |
|||
<br> |
|||
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ<br> |
|||
रसान्प्रावृहदग्नेरृचो वायोर्यजूँषि सामान्यादित्यात्<br> |
|||
॥४.१७.२॥<br> |
|||
<br> |
|||
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया<br> |
|||
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति<br> |
|||
सामभ्यः॥४.१७.३॥<br> |
|||
<br> |
|||
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव<br> |
|||
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ संदधाति<br> |
|||
॥४.१७.४॥<br> |
|||
<br> |
|||
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ<br> |
|||
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य<br> |
|||
विरिष्टँ संदधाति॥४.१७.५॥<br> |
|||
<br> |
|||
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये<br> |
|||
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य<br> |
|||
विरिष्टं संदधाति॥४.१७.६॥<br> |
|||
<br> |
|||
तद्यथा लवणेन सुवर्णँ संदध्यात्सुवर्णेन रजतँ<br> |
|||
रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु<br> |
|||
दारु चर्मणा॥४.१७.७॥<br> |
|||
<br> |
|||
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया<br> |
|||
वीर्येण यज्ञस्य विरिष्टँ संदधाति भेषजकृतो ह वा<br> |
|||
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति॥४.१७.८॥<br> |
|||
<br> |
|||
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ<br> |
|||
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते<br> |
|||
तत्तद्गच्छति॥४.१७.९॥<br> |
|||
<br> |
|||
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध<br> |
|||
वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति<br> |
|||
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्<br> |
|||
॥४.१७.१०॥<br> |
|||
<br> |
|||
॥इति चतुर्थोऽध्यायः॥<br> |
|||
==संबंधित कड़ियाँ== |
==संबंधित कड़ियाँ== |
||
#[[उपनिषद्]] |
#[[उपनिषद्]] |
०५:२०, १९ जुलै २०११ इत्यस्य संस्करणं
- ॥ छान्दोग्योपनिषद् ॥
- ॥ तृतीयॊऽध्यायः ॥
- ॥ प्रथमः खण्डः ॥
- असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥
- तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥
- एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ ३ ॥
- तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितँरूपम् ॥ ४ ॥
- ॥ द्वितीयः खण्डः ॥
- अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥
- तानि वा एतानि यजूँष्येतं यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोजायत ॥ २ ॥
- तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लँरूपम् ॥ ३ ॥
- ॥ तृतीयः खण्डः ॥
- अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥
- तानि वा एतानि सामान्येतँसामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
- तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णँरूपम् ॥ ३ ॥
- ॥ चतुर्थः खण्डः ॥
- अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥
- ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
- तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णँरूपम् ॥ ३ ॥
- ॥ पञ्चमः खण्डः ॥
- अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
- ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
- तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
- ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥
- ॥ षष्ठः खण्डः ॥
- तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
- त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
- स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
- स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
- ॥ सप्तमः खण्डः ॥
- अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
- त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
- स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
- स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
- ॥ अष्टमः खण्डः ॥
- अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
- त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
- स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
- स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
- ॥ नवमः खण्डः ॥
- अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
- त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
- स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
- स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ४ ॥
- ॥ दशमः खण्डः ॥
- अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
- त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
- स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
- स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
- ॥ एकादशः खण्डः ॥
- अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥
- न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥
- न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥
- तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥
- इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ५ ॥
- नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥
- ॥ द्वादशः खण्डः ॥
- गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ॥ १ ॥
- या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँहीदँसर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
- या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
- यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
- सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥
- तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
- यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
- अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
- अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद ॥ ९ ॥
- ॥ त्रयोदशः खण्डः ॥
- तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥
- अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँस चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥
- अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥
- अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥
- अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥
- ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥
- अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषो ज्योतिस्तस्यैषा ॥ ७ ॥
- तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥
- ॥ चतुर्दशः खण्डः ॥
- सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
- मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ २ ॥
- एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
- सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
- ॥ पञ्चदशः खण्डः ॥
- अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँस एष कोशो वसुधानस्तस्मिन्विश्वमिदँश्रितम् ॥ १ ॥
- तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदँरोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदँरुदम् ॥ २ ॥
- अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
- स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
- अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
- अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
- अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥
- ॥ षोडशः खण्डः ॥
- पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशतिवर्षाणि तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदँसर्वं वासयन्ति ॥ १ ॥
- तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनँसवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
- अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँसवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥ ३ ॥
- तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनँसवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥
- अथ यान्यष्टाचत्वारिँशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदँसर्वमाददते ॥ ५ ॥
- तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥
- एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
- ॥ सप्तदशः खण्डः ॥
- स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥
- अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥
- अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥
- अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥
- तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥
- तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
- आदित्प्रत्नस्य रेतसः । उद्वयन्तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
- ॥ अष्टादशः खण्डः ॥
- मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
- तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद अदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
- वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥
- प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥
- चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥
- श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥
- ॥ एकोनविंशः खण्डः ॥
- आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥
- तद्यद्रजतँसेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु ते पर्वता यदुल्बँसमेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकँस समुद्रः ॥ २ ॥
- अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥
- स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनँ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥
- ॥ चतुर्थोऽध्यायः ॥
- ॥ प्रथमः खण्डः ॥
- जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ १ ॥
- अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥
- तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँसयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ३ ॥
- यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥
- तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ५ ॥
- यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥
- स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ७ ॥
- सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥
- ॥ द्वितीयः खण्डः ॥
- तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद ॥ १ ॥
- रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु म एतां भगवो देवताँशाधि यां देवतामुपास्स इति ॥ २ ॥
- तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥
- तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४ ॥
- तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ५ ॥
- ॥ तृतीयः खण्डः ॥
- वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥
- यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥
- अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ३ ॥
- तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥
- अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥
- स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं दत्तमिति ॥ ६ ॥
- तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥
- तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥
- ॥ चतुर्थः खण्डः ॥
- सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रोन्वहमस्मीति ॥ १ ॥
- सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥
- स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥
- तँ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥
- तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रँ संपेदुः ॥ ५ ॥
- ॥ पञ्चमः खण्डः ॥
- अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥
- ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥
- स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥
- ॥ षष्ठः खण्डः ॥
- अग्निष्टे पादं वक्तेति स ह श्वोभूते गा आभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
- तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
- ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥
- स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥
- ॥ सप्तमः खण्डः ॥
- हँसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
- तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
- ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥
- स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥
- ॥ अष्टमः खण्डः ॥
- मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
- तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
- ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥
- स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥
- ॥ नवमः खण्डः ॥
- प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥
- ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात् ॥ २ ॥
- श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥
- ॥ दशमः खण्डः ॥
- उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादशवार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न समावर्तयति ॥ १ ॥
- तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
- स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
- अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥
- प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥
- ॥ एकादशः खण्डः ॥
- अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
- स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
- ॥ द्वादशः खण्डः ॥
- अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
- स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
- ॥ त्रयोदशः खण्डः ॥
- अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
- स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
- ॥ चतुर्दशः खण्डः ॥
- ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ १ ॥
- भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥
- इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥
- ॥ पञ्चदशः खण्डः ॥
- य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥
- एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥
- एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥
- एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
- अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान्मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः ॥ ५ ॥
- स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ६ ॥
- ॥ षोडशः खण्डः॥
- एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति । यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥
- तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ २ ॥
- अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥
- अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥
- स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥
- ॥ सप्तदशः खण्डः ॥
- प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँरसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ १ ॥
- स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँरसान्प्रावृहदग्नेर्ऋचो वायोर्यजूँषि सामान्यादित्यात् ॥ २ ॥
- स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥
- तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ सन्दधाति ॥ ४ ॥
- स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ॥ ५ ॥
- अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥
- तद्यथा लवणेन सुवर्णँ सन्दध्यात्सुवर्णेन रजतँ रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥
- एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥
- एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥
- मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥
संबंधित कड़ियाँ
- उपनिषद्
- छान्दोग्य उपनिषद्
- छान्दोग्य उपनिषद् 1 प्रथमोऽध्यायः, द्वितीयोऽध्यायः
- छान्दोग्य उपनिषद् 2 तृतीयोऽध्यायः, चतुर्थोऽध्यायः
- छान्दोग्य उपनिषद् 3 पञ्चमोऽध्यायः, षष्ठोऽध्यायः
- छान्दोग्य उपनिषद् 4 सप्तमोऽध्यायः, अष्टमोऽध्यायः
- छान्दोग्य उपनिषद्