ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरो- तीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च,-
एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति । |
भवतु, तत्कुत्र युष्माकमार्या? ।]
चेटी–अज्ज ! ओणामेहि दिट्ठिं , पैक्ख अज्जअं । [ आर्य ! अव- नमय दृष्टिम् , पश्यार्याम् ।]
विदूषकः-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
वसन्तसेना-( संस्कृतमाश्रित्य ) अये, मैत्रेयः । ( उत्थाय ) स्वाग- तम्, इदमासनम् ; अत्रोपविश्यताम् ।
विदूषकः---उपविसदु भोदी । [ उपविशतु भवती ।]
( उभावुपविशतः )
वसन्तसेना--अपि कुशलं सार्थवाहपुत्रस्य ? ।
विदूषकः----भोदि ! कुशलं । [ भवति ! कुशलम् ।]
वसन्तसेना–आर्य मैत्रेय ! अपीदानीं
गुणप्रवालं विनयप्रशाखं विश्रम्भमूलं महनीयपुष्पम् । |
विदूषकः— (खगतम् ) सुट्ठु उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ) अध ईं । [ सुष्टूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।
वसन्तसेना---अये ! किमागमनप्रयोजनम् १ ।।
वृक्षः। घनरुधिरपङ्कचर्चिका यस्य सः ॥ ३१ ॥ ओणमेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे क्त योगे षष्ठी (?)।
टिप्पः--1 अन्न चारुदत्तानुराग एव परमार्थ इति हेतुगर्भितमिदं पद्यम् ।