पृष्ठम्:मृच्छकटिकम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
चतुर्थोऽङ्कः

ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरो- तीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च,-

एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति ।
सुभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ।

भवतु, तत्कुत्र युष्माकमार्या? ।]

 चेटी–अज्ज ! ओणामेहि दिट्ठिं , पैक्ख अज्जअं । [ आर्य ! अव- नमय दृष्टिम् , पश्यार्याम् ।]

 विदूषकः-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]

 वसन्तसेना-( संस्कृतमाश्रित्य ) अये, मैत्रेयः । ( उत्थाय ) स्वाग- तम्, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः---उपविसदु भोदी । [ उपविशतु भवती ।]

( उभावुपविशतः )

 वसन्तसेना--अपि कुशलं सार्थवाहपुत्रस्य ? ।

 विदूषकः----भोदि ! कुशलं । [ भवति ! कुशलम् ।]

 वसन्तसेना–आर्य मैत्रेय ! अपीदानीं

गुणप्रवालं विनयप्रशाखं विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ? ॥३२॥

 विदूषकः— (खगतम् ) सुट्ठु उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ) अध ईं । [ सुष्टूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।

 वसन्तसेना---अये ! किमागमनप्रयोजनम् १ ।।


वृक्षः। घनरुधिरपङ्कचर्चिका यस्य सः ॥ ३१ ॥ ओणमेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे क्त योगे षष्ठी (?)।

टिप्पः--1 अन्न चारुदत्तानुराग एव परमार्थ इति हेतुगर्भितमिदं पद्यम् ।