पृष्ठम्:मृच्छकटिकम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
मृच्छकटिके

 चेटी'-एदु एदु अज्जो । इमं सत्तमं पओट्ठं पविसद् अज्जो । {एत्वेत्वार्यः । इमं सप्तमं प्रकोष्ठं प्रविशत्वार्यः ।।

 विदकः-- प्रविश्यावलोक्य च ) ही ही भो ! इदो वि सत्तमे पओट्ठे सुसिलिट्टविहंगवाडीसुणिसण्णाइं अण्णोण्णचंुबणपराइं सुहं. अणुभवंति पारावदमिहुणाइं । दहिभत्तपूरिदोदरो बम्हणो विअ सुत्तं पढदि पंजरसुओ । इअं अवरा संमाणणालद्धपसरा विअ घरदासी अधिअं कुरुकुराअदि मदणसारिआ । अणेअफलरसास्सादपहृट्टकंठा कुंभदासी विअ कुअदि परपुट्ठा । आलंबिदा मागदंतेसु पंजरपरंपराओं । जोधीअंति लावआ । आलवीअंति कविंजला । पेसीअंति पंजरकवोदा । इदो तदो विविहमणिचित्तलिदो विअ अअं सहरिसं णच्चंतो रविकिरणसंतत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं धरमोरो । { अन्यतोऽवलोक्य च ) इदो पिंडीकिदा विअ चंदपादा पदगर्दि सिक्खंता विअ कामिणीणं पच्छादो परिब्भमंति राअहंसमिहुणा । एदे अवरे वुड्ढमहल्लका विअ इदो तदो संचरंति घरसारसा । ही ही भो, पसारणअं किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चे खु णंद- णवणं विअ मे गणिआघरं पडिभासदि। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि सप्तमे प्रकोष्ठे सुश्लिष्टविहङ्गवाटीसुखनिषण्णान्यन्योन्यचुम्बनपराणि


चारास्त्यकान्यकर्तव्या अत एवं तत्रैवात्यन्तमस्थाना गणिकाभिर्ये मुक्ता नि:सारिता इत्युक्तं ते पुरुषा वारंवारं पुनःपुनर्मद्यमेव पिबन्ति । मदिराया अवारितसत्रत्वमुक्तम् ॥ इह सप्तमे प्रकोष्ठे, सुश्लिष्टायां विहङ्गपाल्यां कपोतपालिकायां सुखनिषण्णान्यन्योन्यचुम्बनपराणि सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदो ब्राह्मण इव सूक्तं पठति पञ्जरशुकः । ऋक्समुदायः सुक्तम् । शोभनोक्तं च यथा स्यादेवम् । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुञ्जति परपुष्टा कोकिला । आलम्बिता नागदन्तेषु गृहभित्तिस्थदारुविशेषेषु । नागदन्तका इति प्रकृतौ कः । ..... . :-