पृष्ठम्:मृच्छकटिकम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
चतुर्थोऽङ्कः

सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मणे इव सूक्तं पठति परशुकः । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुजति परपुष्टा । आलम्बिता नागदन्तेषु पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलाप्यन्ते कपिञ्जलाः । प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विवि- धमणिचित्रित इवायं सहर्षं नृत्यन्रविकिरणसंतप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृहमयूरः । इतः पिण्डीकृता इव चन्द्वपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात्परिभ्रमम्ति राजहंसमिथुनानि । एतेऽपरे वृद्ध महलुका इव इतस्ततः संचरन्ति गृहसारसाः। आश्चर्य भो, प्रसारण कृतं गणिकया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते आदिशतु भवती । ]

 चेटी–एदु एदु अज्जो। इमं अट्टमं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इममष्टमं प्रकोष्ठं प्रविशत्वार्यः ।

 विदूषकः--( प्रविश्यावलोक्य च ) भोदि ! को एसो पट्टपावरअपाउदो अधिअदरं अञ्चब्भुदपुणरुत्तालंकारालंकिदो अंगभगेहिं परिक्खलंतो इदो तदो परिब्भमदि १ । [ भवति ! के एष पट्टप्रोवारकप्रावृतोऽधि- कसरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति ?।]

 चेटी--अज्ज ! एसो अज्जआए भादा भोदि । [ आर्य ! एष आर्याया भ्राता भवति ।]

 विदूषकः–केत्तियं तवच्चरणं कदुअ वसंतसेणारे भादा भोदि ? । अधवा


पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलप्यन्ते कपिजला गौरस्तितिरयः । प्रेष्यन्ते पञ्जरकपोताः । योद्धमित्यथोत् । इतस्ततो विविधमणि विचित्रित इवायं सहचरीसहितः सहर्षं नृत्यन्तरविकिरणसंतप्तं पक्षोत्क्षेपैवींजयतीव प्रासादं गृहमयुरः । इतः पिणही कृताञ्चन्द्रकिरणा इव पदगतिं विक्षमाणानि कामिनीनां पश्चात्परिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहल्लका इव इतस्ततः परिभ्रमन्ति गृहसारसाः । प्रसारणकं दत्तं गणिकाभिर्नानापक्षिसमूहे । यत्सत्यं खल्वेतच्चन्दन,