पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
काव्यमाला ।


तस्मिन्हते व्योमगतिर्भवितासीति शासनम् ।
स्वप्ने भगवतः प्राप्य तदकार्षं यथोदितम् ॥ २५९ ॥

ततः प्रभृति मे जातः कुबेरो [१]वरदः सखा ।
तद्धनैः पूरयाम्येनामद्य वारविलासिनीम् ॥ २६० ॥

इत्युक्त्वा धनदं ध्यात्वा सुवर्णपुरुषान्ददौ ।
पञ्च तस्यै सदा येषां छिन्नमङ्गं प्रजायते ॥ २६१ ॥

तान्दत्वा व्योमगो गूढं स निजं नगरं ययौ ।
तद्वियोगाग्नितप्ता च सा तस्थौ निधनो[२]द्यता ॥ २६२ ॥

छित्त्वा तान्बहुशो दत्वा द्विजेभ्यः काञ्चना[३]न्नरान् ।
षण्मासानवधिं चक्रे प्राणत्यागे प्रियं विना ॥ २६३ ॥

([४]अत्रान्तरे तत्कनकपूर्णाञ्ज्ञात्वा द्विजन्मनः)
भक्ति मदनमालाया भूपतिः पुनराययौ ॥ २६४ ॥

चिर संगमसंतोषप्रत्युज्जीवितया तया ।
रममाणश्चिरं तस्थौ स राजा गुप्तमन्दिरे ॥ २६५ ॥

नरसिंहोऽपि नृपतिस्तां पूर्वपरिसेविताम् ।
वाराङ्गनां समभ्यायात्ततः स्मृत्वा स्मरातुरः ॥ २६६ ॥

द्वारपालेन विधृतो नाम्ना तेनैव सूचितः ।
(वि[५]क्रमादित्यदेवोऽत्र तिष्ठति ब्रुवतेत्यतिः) ॥ २६७ ।।

ततः प्रतिज्ञासाफल्यं मेने[६] राजान्तरं स्थितः ।
मनोरथा[७]र्थमुत्तीर्य सौहार्दं तेन भूभुजा ॥ २६८ ॥

विधाय विक्रमादित्यस्तां निनाय निजां पुरीम् ।
(इ[८]ति देव मृगाक्षीणां सहजप्रेमशालिनी।
कुलेऽपि पण्यनारीणां भक्तिरव्यभिचारिणी) ॥ २६९ ॥
इति मदनमालाख्यायिका ॥ ६ ॥



१."धनदः" ख । २. "त्सुका" ख.। ३."नोत्तरान्" ख । ४. एतात्कोष्टान्तर्गतपाठः खा-पुस्तेके त्रुटितः ।
५. xxxxम्नाजा पुरः स्थितः " ख । ७. "ब्धि" ख । ८. "एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटित्ः ॥


धनदा नः । २. 'त्सुका ख... 'नोत्तरान्' ख, ४. एतत्कोष्टान्तर्गतपाठः

तब पुस्तके त्रुटिता. ५. एसत्स्थाने स्व-पुस्तके 'भग्नावले व्यकश्चेति नामार्थ मागधैरपि' इति पादाः ६. साम्राजा धुरः स्थितः स्व. ७. ब्धि ख. ८. एतरकोछान्तर्गत- पाठा पाई मस्तक त्रुटितः