अवाप्यते धनं धन्यैर्यशश्च विशदाशयैः ।
निरवद्यैस्तथा विद्यास्तनयस्तु सुदुर्लभः ॥ २३ ॥
राजा ब्रह्मधनां नाम चित्रकूटाधिपोऽभवत् ।
सेवकः सत्त्वशीलाख्यस्तस्याभूदुचिताशयः ॥ २४ ॥
स सुवर्णशतं लेभे राज्ञः प्रत्यहवेतनम् ।
निजभोजनपर्यन्तं तञ्चार्थिभ्यः सदा ददौ ॥ २६ ॥
विवृत्तानि निधानानि तस्योदारमतेः पुरः ।
आसं(?)स्तद्रविणैः सोऽर्थिसार्थसंख्यामपूरयत् ॥ २६ ॥
सगोत्रैः शत्रुभिर्दाता स राज्ञे विनिवेदितः ।
निधिपूर्ण इति क्षिप्रं नृपाहूतश्च सोऽवदत् ।। २७ ।।
देव प्राप्तनिधानोऽहमिहापि त्वत्पुरो लभे ।
गृहाणेति समुद्धाठ्य निधानं भूभुजे ददौ ॥ २८ ॥
एवं स सत्त्वसंप्राप्तविभवो नृपपूजितः ।
त्र्यम्बकत्रतसंपन्नो दाता पुत्रमयाचत ॥ २९ ॥
तमाह तुष्टो भगवान्वत्स सिद्धिमवाप्स्यसि ।
न तु दृष्टोऽसि पुत्रस्य जन्मन्यस्मिन्मुखाम्बुजम् ॥ ३० ॥
इत्येवं सत्त्वशीलेन तुष्टेऽपि शशिशेखरे ।
न प्राप्तस्तनयो देवि कुलश्रीमणिदर्पणः ॥ ३१ ॥
इति सत्वशीलाख्यायिका ॥ १ ॥
अलंकारवती श्रुत्वा पत्युरित्युचितं वचः ।
उवाच देव धन्यस्य किं नाम तब दुर्लभम् ॥ ३१ ॥
व्रतीनां दानशीलानां भक्तानां पार्वतीपतौ ।
अधीनाः सिद्धयः सर्वाः कियन्मात्रं तु पुत्रकाः ॥ ३३ ॥
राजा विक्रमतुङ्गोऽभूत्पुरे पाटलिपुत्रके ।
यत्सत्वकौमुदीधौता विबभौ भुवनावली ॥ ३४ ॥
पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७१
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-महासत्वाख्यायिका ।
४७१
बृहत्कथामञ्जरी,