सामग्री पर जाएँ

A Collection of six Dramas of Vatsaraja

विकिस्रोतः तः
A Collection of six Dramas of Vatsaraja
वत्सराजः
१९१८

BarcOde : 99999990291744
Title - Kavi Vatsraj Pranit roop kastm A Collection of SiX Dramas
Author - Dalal,C.D.
Language - sanskrit
Pages - 198
Publication Year - 1918
BarcOde EAN.UCC-13

GAEKWAD'S ORIENTAL SERIES
Edited undcr the supervision of
the Curator of State Libraries,
Baroda.

             

             

कालञ्जराधिपतिपरमर्द्दिदेवामात्य

-

कविवत्सराजप्रणीतरूपकषट्कम्


A COLLECTION OF SIX DRAMAS


OF


VATSA RAJA




EDITED WITH INTRODUCTION


BY


CHIMANLAL, D. DALAL, M. A.


SAMSKRTA LIBRARIAN, CENTRAL LIBRARY




PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF


HIS HIGHNESS THE MAHARAJA GAEKWAD OF BARODA.




CENTRAL LIBRARY


BARODA


1918





             

 The present volume consists of six dramatical pieces from this xxxxxxxxx and the same author. In the whole range of Sanskrita literature, no author excepting the famous dramatist Bhàsa, is to be found whose so many dramas, all of a diverse nature, are bought to light in.this way. All the dramas are of different varieties ---Vyàyoga, Bhana, Dima, Ihamrga, Prahasaua, Samavakāra. Vryāyoga, Bhãna and Prahasan are types which are :not rare. But it will be noted that this collection publishes for the first time Ihàrga, Dima and Samavakàra, which are known to Sanskrit readers only through the definitions given in rhetorical and dramatical works.

 The themes of the dramas-'The author bias taken the plots of his dramas both from the Puranas and real life, The Kiràtàrjuniya Vyāyoga (a Military spectacle) consisting of one act, has the same theme as that of the famous Mahàkàvya of the same name by Bhàravi i.e. the practice of penance by Arjuna, the combat of Arjuna and Siva in the garb of a mountainueer and the 1atter's giving to Arjuna thie great weapon (Mahàstra) • Rukmintharana an Ihà-


1. These are defined as under:-

एकाइचरितैकाङ्को गर्भामर्शयिवर्जितः । अस्त्रीनिमित्तसङ्ग्रामो नियुद्धस्पर्धनोद्धतः ॥ स्बल्पयोपिञ्जनः ख्यात्तधस्नुर्दीप्तरसाश्रयः । अदिव्यभूपतिः स्वामी व्यायोगो नायकां वेिना ॥ विज्ञेयः समवकारः स्यात् रव्यातार्यो निर्विमर्पकः । उदात्तदेवदैत्येशो वीय्यङ्गी वीररौद्रवान् ॥ अन द्वादशा नेतारः फलं तेर्पा पृयक् पृथक् । अङ्कास्रयस्त्रिशृङ्गारास्त्रिकपटास्निविद्रवाः ॥ पड्युग्मैकमुहूर्ताः स्युर्निष्ठितार्थाः स्यफार्यतः । मद्दावाक्ये च सम्बद्धाः क्रमादेकैकसन्घयः ॥ शृङ्गारम्रिविघो धर्मङ्गामार्यफलद्देतुकः । वत्र्यवञ्चदेवेभ्यः संभवी क्पटम्रिधा ॥ जीयाजीवोमयस्थः स्याद्विद्रवत्रिरमीयु तु । प्रत्येकमङ्केष्वेकैक्रं पद्यं च स्रग्परादिकम् ॥ भाणः प्रधानशृङ्गारवीरो मुखनिवादृवान्.। एकाङ्को दशलास्याङ्गः प्रायो लोकानुरञ्जकः ॥ एको विटेा वा धूर्तो या वेश्यदिः स्वस्य वा स्थितिम् । व्येामोत्तया वर्णयेदत्र वृत्तिः प्रायेण भारती ॥ वैमुख्यकार्ये घीय्यङ्गि ख्यातफौलीनदं भवेत् | इास्याङ्गि भाणसन्प्यङ्कवृत्ति प्रहसनं द्विधा ॥ निन्द पाषण्डियिप्रादेरक्ष्लीषासम्यवर्जितम् | परिदासवचःमायं शुद्धमेकत्र धेष्टितम् | अश्रान्तइाल्यशृङ्गारविमर्शः ख्थातयत्नुकः । रौद्रमुख्यश्चतुरङ्कः सेन्द्रजालरणो डिमः ॥ अनोल्कापातनिर्घाताश्चन्द्रसूर्योपरस्तयः । सुरामुरपिशााचाघाः प्रायः पोद्वश नायकाः ॥ ईहामृगः सवीप्यङ्गो दिव्येशो दृप्तमानवः । एकाङ्कश्श्रतुरङ्को या ख्यात्ताख्यातेतिवृत्तवान् ॥ दिव्यन्त्रीहेतुसद्वामो निर्विश्वासः सविद्रपः । रुपपहारभेददण्डप्रायो द्वादशनायक्: ॥ व्याजेनाऽत्र रणामावो यघासन्ने दारीरिणि । व्यायोगोत्ता रसाः सन्धिवृत्तयोऽनुचिता रःति ॥

नाटयदपर्ण
 


            </poem> 
           

VI

mrga in four acts treats of the abduction of Rukmatntby Kshna and the defeat of Rukmt and Sisupàla at the hands of Krishna The Tripuradàha is a Drma in four acts . The plot is based on the Pauranic legend of the burning of the capital of Tnpuràsura by Siva with his bow The Samudramathana, a Sama vakara in three acts, relates the churning of the ocean by gods and demons and the marriage of Vishnu w1th Laxmi. The cue to the Tnpuradāha and the Samudram1athanas 5eems to have been taken from the Bharatatanàtyasastra and from a remiark- 1n the Dasarupa Out of the remain1ng two pieces Karpurchantra describes the revelry, gamling and love of a gambler with a courtezan The Hãsyachudamana a farce 1n one act-holds up to ridicule an Acharya of the Bhàgavata School and his knowledge of Kevah V1dyà with which he professes to trace lost articles and discover buried treasures

 The author and h1s style--The author of all these works 1s Vatsaraja, who calls himself a minister of Parmāradudeva of Kàhnjara. This Vatsaràja need not be confounded w1th the son of Mahidhara arid minister of Kirtivar madeva, who erected a flight of steps in Samvat 1154 or with the grand father of Sallakshana, a minister of Paramardtr, who erected a temple of V1shnta in Samvat 1252 One verse of Vatsarāja 1s quoted in Jahlana's Suktumutaval but ltke Sukhs of many well known poets quoted there1n it is not to be found in any of the dramas collected here. The style of the author is easy, forcible and graceful it contains neither very long compounds nor jaw breaking words. The plots too are well exectuted. The dramas make very pleasant read1ng even in lesure hours .

The date of the author-'The Kirãtàrjuna was first represented on stage under the order of king Tralokyavarmadeva and the other five under the order


1 तया त्रिपुरदाहे डिमसज्ञ प्रयोजित् ।

Bharata Nàtyasàstta
 

इदं त्रिपुरदाहे तु लशणं व्रझणोदितम् ॥

ततस्पुिरदाद्दक्ष्च डिमसंज्ञ प्रयोञ्नित् । इति भरतमुनिना स्वयमेव त्रिपुरदाहेतिवृतस्य तुस्यत्वं दर्रितम् ॥ यद्रदम्मोधिमथने यया समुद्रमयने वामुद्रेवादीनां लश्म्यादिळामा ॥

Dasarhpavaloka III
 

आज्ञापय विभो ! क्षिप्र क प्रयोग प्रयुज्यताम् ॥ १ ॥

ततोऽस्म्युक्तो भगवता योनयामृतमयनम् | एतदुत्साइनननं सर्वप्रीतिकरं तथा ॥ २ ॥

सोऽप समस्तकार्यस्य घर्मकामार्थसाघक । मया प्रग्रपितो विद्वन्स प्रयोग प्रयुज्यताम् ॥ ३ ॥

Bharata Natyasastra
 

मया समयकारस्तु योऽप सृष्ट सुरोत्तम ! । थवणे दर्शने चास्य प्रमाद कर्तुमईसि ॥

2 सन्क्राब्यपीयूपसमुद्रमघ्ये न घाडपाग्निर्न च कालफूट ।
तस्यावगाद्देन दयापि चित्रं खलस्य ताप परमोऽम्युदेति ॥

vii

of his father Paramardideva. The reign1 of Paramardideva extended from 1163 to 1203 A. ry. while that of Trailekyavarmadeva seems to have lasted till about the end of the first half of the thirteenth century. Our author, therefore, should have flourished between the Second half of the twelth and the first quarter of the thirteenth century A. D.

 Parmaradideva, the author's master--Paramardideva was th& immediate 5ttccessor of Madanavarma, who was defeated by Siddharàja, king of Gujarat.


1 नीलफण्ठजत्तामहोवसमागदेहिं विअदृसामाञ्जिएईि परिअरिदो राआ परमट्टिएबो अत्तणो अमञ्चेण कविणा चच्छराएण विरइदं इासचूड़ामर्णि नाम पइसणं अहिणेदुमादिसदि मवंतं ।

Hãsyachudamani p. 118.
 

वीररसैकघासनावासितोऽयं कालञ्जराधिपतिस्त्रैलोक्यवर्मदेवः कविवत्सराजचरितं किरातार्जुनीर्य नाम व्यायोगमभिनेनुमादिशवे |

Kiràtàrjt1niya p, 1.
 

अथ केिल नीलकण्ठयात्रामहोत्सवसमागतैर्विदग्धसामाजिकैः काल्रञ्जरपतेर्महारानश्रीपरमर्द्दिदेवस्यामा- त्येन कविना चत्सराजेन......

Karpdracharitra p. 23.
 

 2 I. A.. vol. XXXVII 121-124.

 3 c.f. सभायां वैदेशिकेन मट्टेन मणितम्, अहो ! सिद्धनृपतैः सभा मदनर्मण इव मनोविस्मयञ्जननीति । राज्ञा पृष्टः, कोसौ मदनवर्मा नृपः ! !, भट्टः प्राइ, देव ! पूर्वस्यां महोवकं नाम पत्तनं, तन राज्ञ श्रीमदनवर्मा प्राज्ञत्त्यागी भोगी घमाँ नयी च । तस्य च राज्ञः पुरं सद्दस्रशेो दृष्टमपि वर्णयितुं न शक्नोति कोऽपि यदि मम वचोविश्वासो न स्यात्, तदा कोऽपि विदुरो मन्त्री प्रेप्यते, स च विज्ञपयति इति श्रुत्वा मन्त्रिणं प्राद्दिणोत् । सद्द भट्टेन पण्मासान् यावद्विलोक्य पश्चादायातेन मन्निणा विशतम् । श्रीसिद्धभूप ! वयमितः प्रहितास्तन बसन्तोत्सवे प्राप्ताः | तन च वसन्तोत्सवे गीयन्ते वसन्तान्दोलकादेिरागैगीतानि । भ्रमन्ति दिव्यगृङ्गारा नार्यः । मवरध्वजघ्भ्रान्तिकारिणो विलसन्ति लक्षशो युवानः । क्रियन्ते प्रतिरथ्यं छण्टनफानि यक्षकर्दमैः | प्रासादे प्रासादे संगीतकानि | देवे देवे मइापूजाः | प्रतिग्रइं सारा भोजनव्यापाराः | राज्ञः सत्रागारे तु कूरायस्रायणानि मुत्कलानि न मुच्यन्ते, किन्तु गर्ताया निक्षिप्यन्ते, यदि मुच्यन्ते तदा सघण्टो हस्सी'निमञ्जाते । रज्ञाटेक्ष्ववारा;' परितः" पुरं भ्रमन्तो” वटिकानि'ददते लोकाय कपूर्रचूणैर्धूलिपर्वोत्सवः: रत्रौ विपणीन् वणिजो न संवृण्वन्ति, उद्धाटान्विमुञ्चन्ति । प्रातरागत्योपविशन्ति ! एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैय लोकानाम्, तं विनाऽपि प्रकारान्तरैरपि सिद्धार्यत्वात् । राज्ञा तु मया न दृष्टः । इदं तु थुतम् । नारीकुञ्जरः स सभायां कदाऽपि नोपविशति केवळं इसित्तललितानि प्रत्यश् इन्द्र इश्व तनोति । एवं मन्विवचः श्रुत्वा सिद्धराज्ञैोऽमितसैन्यैर्महोबकं प्रदितः प्रतस्थे | तदासन्नक्रोशाष्टकप्रदेशे तस्यौ | क्षुभितो देशः | स्यानाञ्चलितं महोबकपत्तनम् । प्रधानैर्मदनवमो दिव्योद्यानस्थः स्त्रीसइससमावृतो विज्ञतः स्वामिन् ! गौर्जरः मिद्धराज्ञ उपनगरमायातोऽस्ति, स कथं निवर्तनीयः | मदनवर्मणा स्मित्वा भणितम् | सिद्धराजः सोऽयं यो घरायां द्वादशवर्षाणि विग्रइायास्यात् | कबाटी राजा वाच्यः स भवद्भिर्यदि नो भुवं जिघृक्षसि तदा युद्धं करिष्याम;,

अयार्थेन तृप्यसि तदाऽर्थ ग्रद्दाणेति | ततो यद्याचते स वराकस्तद्देयं भवद्भिः, न वयं घने दत्तै त्रुटयामः ।

viii

Madanavarma appears to have been a very luxurious king Parmardt, too, accordtng to the Frabartdhtachrntamant led a luxurious life and daily killed one cook at the time of serv1ng and consequently got the title of kopakàlànala


सोपेि जीवतु चिर वित्तार्थे कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति ] राज्ञो वचो लात्वा मन्त्रिण स्यानमगु | तावता सिद्वेशेन कयापितम्, दण्ड दत्य । मदनवर्मदबाय शापित भवदागमनम् । तेनास्मत्प्रभुणोत्दम्, कबाडी राजा ऽर्येन तर्पणीय । स सिद्धराजस्तल्लीलया विस्मित पण्णवती कोटी कनफस्यायाचीत् | दत्तास्ता प्रघानै सद्य । देश सुख तस्यौ । मधानैर्माणितम्, कथ न प्रतिगच्छसि १ । सिद्धेशेन माणितम्, मनिपुरूहता स्तं लीलानिर्धिं भवत्प्रभु दिदृक्षे । तेऽपि मदनवर्मणममणन् । अर्येन तोषित स ल्केशी राजा पर भणति, त राजेन्द्र द्रष्टुमीहे । ततो मदनेन भणितम्, एतु स । तत सैन्य तथास्थ मुक्त्वा मितसैन्यस्तत्रोद्याने आयात यन महाप्राका रस्थे सौधे मदनवर्माऽस्ति । प्राकाराद्वहिर्योधलक्षास्तिष्ठन्ति । प्रतोलीं यावदागत्य मध्येऽचीकथत् द्वा स्थै | आगम्यतां जनचतुष्टेकेन सद्देति राज्ञा ज्ञापितम् | आगतस्तया सिद्धराज यावत्पश्यति काञ्चनतोरणानि सप्त द्वाराणि । ददर्श रजतमद्दारजतमयीर्वापी , नानादेशभापावेपविचक्षणा निसीमसौभाग्यधारिणी स्त्रीश्च, पणववै णुवीणामृदङ्गादिकलासक्त समग्रपरिजनम् । शुश्राव गीतानि । नन्दनाधिकमुद्यान, इससारसादीन् खगान् हैमान्युपकरणानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागानङ्गरागान् , उत्तुङ्गपुष्पकरण्डाश्च, एव पुर पुर पश्यन् अमत साश्चादिव मदन मधुरे वयसि वर्तमानम्, अमितरत्नमुक्ताफलामरण, सर्वाङ्गलक्षणं, काश्चनप्रभं, मधुरस्वर, तामरसाक्षं, तुङ्गघोणम्, उपचितगान, मदनवर्माणमपश्यत् | मदनोऽप्यम्येत्याक्ष्लिष्य च हेमा सर्न दत्वा तमभाणीत् | सिद्धेन्द्र पुण्यमस्माकमद्य, येन त्वमतिथि सपन्न । सिद्धसृप प्राह हे राजन् । आव र्जनावचनमिदं मिथ्या यत्तु मन्निणामग्रे कवाडीत्युक्त' तत्सत्य । मदनो जहास । राजन् ! केन यिज्ञतमेतत् ? ! सिद्धेश प्राह, तव मन्त्रिभि | कोऽभिप्रायो मन्निन्दने | मदनोऽप्याह । देव कलिरय, स्वल्पमायु , मिता राज्य श्री तुच्छं बलम् | तत्रापि पुण्यै राज्य लम्यते । तदपि चेन्न भुयते, रुल्यते विदेशेपु, तत्कय न कर्घाटिव एयम् ? । सत्यमेतदित्याह सिद्धेश , धन्यस्त्वं यस्येत्थ शमाणि, त्वयि दृष्टे सपल जीवितमस्माकम्, चिरं राज्य भुक्ष्व इत्युक्त्वा तस्थौ । ततो मदनेनोत्थाय निजं देचतावसरकोशादि दर्शितम् । प्रेमाधिक्यमन्योन्यं जातम् । र्चिशस्यधिशत १२० पान्नाणि स्वाङ्गसेवकानि दत्तानि | तत सिद्धेशा पत्तनमलञ्चफार र्चिशत्यधिकं शात २० पानमप्यादर्द्ध मार्गे मृर्त मार्दवात्, शेपं पत्तने प्रापत् । अत प्रोक्त कविभि -

महोदकपुराधीशाञ्जिता मदनवर्मण ।
कोटी पण्णयतीहेँम्नां यस्तन्मानमियाददे ॥

xxxxxxx xxxxxxxxxxx
 

 1 अय परमर्दिनामा नृपो जगत्युदाइरणीभूत परमैश्वर्यमनुभवन् निद्रावसरयर्न रात्रिंदियं निजौजसा विच्छुरितं धुरिकाम्यासं विदघानोऽशनावसरे परिवेपणाकुल मतिदिनमेकैक सूपकारमकृप कृपाणिक्रया निप्नन् पटद्मधिकशतत्रयेण भत्तकाराणां वर्ये निपेव्यमाण कोपकालानल इति जिरुदं बमार ।

आकान ! प्रसर प्रसर्पत दिदास्त्य पृध्वि । पृथ्वीमव
  प्रत्यक्षीकृतमादिराजयशसां युप्माभिरुज्ञृग्मितम् ।
प्रेक्षुध्वं परमर्द्दिपार्थिवपोराशर्वैिकाशोदया-
  द्वीषोघ्छसविदीर्पदद्धिमद्वर्शा ग्नझाण्द्धमारोइति ॥

ix

He is well known as Patamàla to the readers of the Chanda Ràsà. ( Mahobà Samaya). The defeat of Pararmardideva at the hands ०f Prthrvfràja 'is confirmed by the short inscriptions recorded by the order of Pthviràja at Madanapttra in 1183 A. D. Later on he `was attacked and defeated by Kutb-ud-din Ibak in 1203 A. p- Shortly after this defeat he died a natural death. Kàlinjara seem1s to have been soon recovered by the Chandels as Trailokyavrarma is also called,' like his fathetr, Kàiinjaràdhipati (lord of Kàlinjara) . Paramardideva `was liberal. That he was a man of letters and a poet too is testified by his composition of a long Prasasti to Siva,* ‘which, however, seems to been composed by Vatsaràja, as it contains the verse (दास्येऽष्ई) found in the Karptàracharitra.

 The Manuscript material--The present edition of 'Vatsaràja’s dramas is based on two palm-leaf mss. of the works hitherto known. The first consisting of 183 leaves contains (1) Hàsyachudāmani 1-51, (2) Tript1radàha 52-103, (3) Kirātàrjuniya 104-130, and (4) Samudramathana 131-183, while the other contains Karptaracharitra 1-18 and Rukmintharana 1-39. Both cf these measure 14*x1*1/2 and contain 3 to 4 lines containing about 50 letters each and are written in the same hand. These mss. bear


 इत्यादिभि: स्नुतिभिः स्न्तूयमानश्चिरं राज्यसुखमनुबभूव । स च सपादलक्षक्षितिपतिना श्रीपृध्वीराजेन सह सञ्जातविग्रहः समराजिरमधिरूढः स्वसैन्ये पराजिते कान्दिशीकः कामपि दिशं गृहीत्वा पलायनपरः स्वराजघानीमाजगाम । अय तस्य पार्थिवस्यापमानितसर्वसेवको निर्विषयीकृतः पृथ्वीराजराजसभामुपेतः प्रणामान्ते किं दैवतं पूज्यते परमर्द्दिपुरे विशेपात्मुकृतिभिरिति स्वामिनादिष्टस्तत्कालोचितं काव्यमिदमपाठीत् |

मन्दश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृध्णार्चने
   स्तब्घः शम्मुनितम्विनीप्रष्पातिषु व्यग्रो विधातृग्रहः ।
नाथो न: परमर्घनेन वदनन्यस्तेन संरक्षितः
   पृथ्वीराञ्जनराधिपादिति तृष्यं तत्पत्तने पूज्यते ॥

 इति स्नुतिपरितोषितेनानुजग्राइ ।

       प्रबन्धचिन्तामणि pp. 229-300

1 अनारतादानपरम्पराभिर्निर्वेदमायाति कदाचिदुर्वी । बिमर्ति तत्पूर्वमिव प्रद्दर्प मुहूःप्रदानैः परमर्द्दिराजः ॥

Triptradiha I. 4.

 युष्माभिर्यौगपद्येन सर्वकामार्थसिद्धये | परमर्द्दिनरेन्द्रो वा समुद्रो घा निपेत्र्यताम् ॥

 कविवत्सराजविरधितस्मुद्रमयनसमवकाराभिनयेन नः परमर्द्दिदेव एव यूरिताशेषमनोरथः समुद्रो भवेिथ्यति |

       Samudramathana p. 150.

2 J. A. S. B. vol. XVII p. 313.

 cf. also एष श्रीपरमर्द्दिदेवनृपतिर्निःसीमविद्यानिधिर्नृनं वागधिदेवता भगवती पुम्भावमभ्यागता ॥

       Hàsyachudamani I. 4.

X

numerical figures on both the sides of the leaves and not letters on the right as in most of the palm-leaf mss. of Gujarat. They are not dated, but from the script, they appear to have been trānscribed about the end of the thirteenth century A. D. None of these contain the chhãyà of the Pràkrta passages occurring in the texts. The Deccan College paper ms. of Vatsaràja’s Hàsyachudàmani, appears to have been copied by at Jain Yati about 250 years ago, directly or indirectly from the present palm-leaf ms. Our thanks are due to Sheth Gabharuchand Vastachand keeper of the Bhandar of palmleaf nss. in the Khetarwasi's Pada , Pattan, Pattart for lending us these rare mass.

 Introduction
V - X
       
 Text
१ - १९२
    ……     
१ किरातार्जुनीयत्यायोगः
१ - २२
       
२ कर्पूरचरितभाणः
२३ - ३६
       
३ रूविमणी परिणय -- र्हहामृगः
३७ - ४१
 ……     
४ निपुरदहहिमः
४२ - ११७
       
५ हस्यचूडामणिप्रहसनम्
११७ - १४८
  ……     
६ समुद्रमथनसमचकारः
१४८ - १९२
       

अमात्यवत्सराजप्रणीटरूपकसङ्ग्रहे

किरातार्जुनीयव्यायोगः


सा पातु वस्त्र्यम्बकचुम्बितायाः
              कपोलपाली चिरमम्बिकायाः ।
             प्रगल्भरोमाञ्चभरेण यस्याः
              पुष्पायुधोऽभूत्क्षणमङ्करास्त्रः॥ १ ॥
( नान्द्यन्ते )

 सूत्रधारः-कः कोऽत्र भोः ? ।

(प्रविश्य )

 स्थापकः- भाव किमुच्यते ? । माहेश्वरोऽसि, तदपि माहेशान्येव नान्दीपदानि घोररसानुविद्धान्यपराणि पठतु भावः |

 सूत्र०-(विहस्य ) मार्ष ! किमेतत् ? ।

 स्थापक:- पठतु तावद्भाधः ।

सूत्र----येनोत्तम्भितद्रर्भदान्धतनुच्छत्रस्य दण्डायितं
  यत्प्राप्यायुधमङ्गनाऽपि दनुजध्वंसं चकाराऽम्बिका ।
यडृष्ट्वैव घिडौजसो लिखितवद्दम्भोलिरासीत्करं
  चन्द्रार्द्धभरणस्य तद्भगवतः शूलं शिवायास्तु वः ॥ २ ॥

 तदिदानीं कथय किमेतत् ? ।

 स्थापकः-भाव  ! वीरसैकवासनावासितोऽपं कालञ्जराधिपतिस्त्रैलोक्यवर्मदेवः कविवत्मसराजविरचितं किरातार्जुनीयं नाम व्यायोगमभिनेतुमादिशति । तेन मया वीररसात्मकान्यपराणि चत्वारि नान्दीपदानि पठितानि

 सूत्र०-(सदर्पम्) युज्यते ।

शयामा सदङ्गसुभगा करपङ्कजाग्रदुर्लालना विहरमाणमनोज्ञकाम्या ।
त्रैलोक्यवर्मनृपतेर्मनसि प्रमोदमाविष्करोति करवाललता, न कान्ता ॥३॥

( विचिन्त्य सोल्लासम् )

 कवेः कवित्वं पटुता नटानां भग्र्गार्जुनीयं चरितं पवित्रम् ।
 तदैहिकामुष्मिकसौख्यहेतुदैत्तो नियोगोऽद्य नरेश्वरेण ॥ ४ ॥

मार्प ! का पुनरभिनयवेला निस्रूपिताऽस्ति ? ।

स्थापकः-भाव l नन्वयमेव सूव॒भाव॒ाभिरामः शयामारम्भसमयः ।

अत्र हि-

चन्द्रोऽर्जुनः समधिकृत्य पुरन्दराशामासादयटुदयहेतुमसौ गिरीशम् |
उन्मुद्रयन्नचिरमेव जगत्प्रमोदमाविष्प्करिष्प्यति विपक्षतमःप्रणाशम् ॥ ५ ॥

(नेपर्यये )

साधु शैत्छ्ट्रपशिरोमणे ! साधु ॥ गृहीोतेयं सदुपश्रुतिभैवतु फलशालिनी ।

 सूत्र०-( समाकर्ण्य सहर्पय् ) मार्प! हिमवति तपस्यतोऽर्जुनस्य द्धैपायनोपनीतोऽयमनुचरःसिद्धादेशोव्याहरति॥तदेह्यावामनन्तरकरणीयं सम्पादयाव ॥

( इति निप्क्रान्तैौ )

प्रस्तचन्न ।


( ततः प्रविशत्यर्जुनः सिद्धादेशश्च )

 सिद्ध्द्रादेशः-आयुप्मन् ! किं पुनः समग्रसमीहितसिद्धिसामग्रीसम्भवेऽपि विमना इव विभाव्पसै ? ।

 अर्जुनः-( स॒कोधाहङ्कारम् ) क मे वैमनस्योपशान्तिः ! ।

अपार्थः पार्थोऽहं धनुरधिमुणं निर्मुणमिदं
  विसारा एतेऽपि प्रसरणपराः सम्प्रति शराः ।
न यावन्नो राजा समरभुवि कौरव्यबलव-
  त्कबन्धानां नृत्यैरनुभवति नेत्रोत्सवसुखम् ॥ ६ ॥

 सिद्धा -- आयुष्मन् । किमेवं खिधते भवान् ? । इन्द्रजालपुरुपा इव द्दश्यमाना अप्यविघमाना एव तव शत्रवः । इदानीमपि घर्मात्मज एव राजा । तथाहि ---

तद्वैरिणां यमसमागमहेतु राज्यं युष्माकमेव सुतरां प्रकटोपयोगम् ।
सत्क्षत्रियोचितदुरोदरसम्प्रदत्तं घर्मात्मजःकेिमु न पुप्यति तेन धमैम् ॥७॥

अपि च | विशदकोदण्डवेदविद्याविदग्धस्य वासुदेवद्वितीयात्मनो भवतः कटुतरतपःक्लेशसहनसाहसमपि नोचितं मन्ये ।

 अर्जुनः-सखे सिद्धादेश ! गुरु॒नि॒दे॒शुव॒शंव॒द्वेरे॒ऽहं तपसि प्रष्टृत्तः ॥ मां पुनन्स्घ एव मुनिजनसमाचारः समुत्कण्ठयति । आकर्णयतु भवान्-

क्रूरारातिकृतावधिव्यतिकरश्यामावकाशे गते
  दोर्दण्डोदयशैलशालिनि महाशौर्यार्यमप्रोद्गमे ।
क्रोघग्निं प्रतिबोध्य दुर्मदभटस्तोमाङ्गवल्लीसमि-
  द्धोमप्रेमपरायणो मुनिरहं भूयासमित्यर्थये ॥ ८ ॥

 अपि च -

चेतः पराक्रममपं पटिमाऽऽयुघेपु प्रौढौ भुजौ भुजभृतामयमेव पन्थाः ।
अस्त्रप्रयीगपरिकर्मणि मन्त्रयोगं व्रीडाकरं तमपि कार्मणमेव मन्ये ॥ ९ ॥

 सिद्धा०-~-( पुरोऽवलोक्य सहर्षम् ) महाभाग ! दिप्टया वर्द्धसे । फलितमेच तव तपः । पश्य पश्य--

भानोर्विभां रूक्षतमां मनोज्ञैः प्रत्यन्तरत्नैरवमानयन्ती ।
हिमाचलं काञ्चनशैलयन्तीो त्वां व्योमतोऽभ्येति विमानमाला ॥ १० ॥

 अर्जुनः-( सोपहासम् ) अ॒हो रभुसः प्रियवपस्यस्य। इत्थं किल समरमनोरथपूरणोन्मुखेपु प्रत्यर्थिरथेपु लोचनपथावतीर्णेपु परं परितुप्यते ।

 सिद्धा०-~-उपहसतु महाभागः । अहं पुनर्जाने दुश्चरतपश्चरणमेदुरितपुण्यराशीनेव घृताचीरम्भातिलोत्तमोर्वशीप्रमुखसुराङ्गनाविमानान्युपसर्पन्ति ।

 अर्जुनः--(सावज्ञं विहस्य ) किं मां लोभयति वयस्पः ? ।

मां वा रिपुं वा युधि दीर्घसुप्समेताः समेप्यन्ति यदा ग्रहीतुम् ।
विमानयानं सुरखन्दरीणां द्दष्ट्वा तदाऽहं भविता ह्टप्टः ॥ ११ ॥

( नेपय्ये )

लाअण्णलहरिपिहिदं अगें तणुअत्तणं वहन्तस्स ।
जमणियमदूमिदस्सवि पिच्छह चगत्तणं मुणिणो ॥ १२ ॥


१ लावष्यलहरीपिहित्तमङ्गे तनुत्वं चद्दतः ।
यमनियमदूतस्यापि पश्यत घङ्गत्वं मुनेः ॥ १२ ॥

 अर्जुनः ( आकर्ण्य ) कथं निकटावत्तरणानि व्योमतो विमानानि ! । ( सखेदम् ) अहो मे संसोढबाह्यरिपुपराभवस्प दुःसहशारीररिपोः कुसृमायुधस्य सर्वङ्कपो दुष्प्रतीकारः पराभवः समुपस्थितोऽयम् । एताह्यप्सरसः कुसुमायुधस्य महायुधम् ।

 ( सवितर्कम् )

पृपत्कव्यापारः प्रभवति पुरन्ध्रीपु कतमः
 प्रयुक्त्तः शापग्निः क्रशपति तपःकोशनिचयम् ।
तदेता: प्रत्यग्रस्मररसमहानाटकनटी-
 निंराकर्त्तु शक्त्तो भवति क उपायः सुरवधूः ॥ १२ ॥

 तदेवं तावत् । ( प्रकाशम् ) सखे सिद्धादेश ! शशाङ्कशेखरप्रसादफलतप:- परायणस्प न युज्यते सुरसुन्दरीदर्शनम् । तदिहोपरिप्टादिपुपटलमपं वितानं वितनोमि ( इति तथा करोति )

 सिद्धा०-(समन्तादवलोक्य साश्चर्यम् ) महाभाग सव्यसाचिन् ! बहुशोऽनुभूतानि मया धनदसदने महानिधानानि । अननुभूतमिदं ब॒टुनिघानुंं धूमुर्निधानं मया | नह्येकधनुपा द्विभुजेन परिमितशरेण धन्विना कर्मैतद्विघीयत ।

( नेपथ्ये )

किं पातालमगाद्विहङ्गमपतिस्तत्र्नासवित्रासिताः
 प्रोत्सर्पन्ति सरीसृपाः परिलसन्निश्वासशव्दोर्मयः ।
स्वैरी किन्नु दिवापि नृत्यति शिवस्तन्मौलिगङ्गाजल-
 व्याविद्धस्य ललाटनेत्रशिखिनो धूमैः किमुजृम्भितम् ॥ १३ ॥

( पुनर्नेपथ्ये )

 आः कोऽयं कुतर्कः ! । ननु व्यक्तमेव लोलन्ति नाराचमालाः, व्यावर्त्तन्त वि॒मानानि॒ । मा कदा॒चन मापामपमहासुरसन्निपातोऽपं भविष्पति । तदिदृदानीमपथ्यमेव मुनिजनोपसर्पणमप्सरसाम् । पुरन्दरानुसरणमेव शरणम् । स एवैतदद्भुतानुरूपं यत्किञ्चित्करिप्यते ।

 सिद्धा०-( विभाव्य ) पर्थ ! निवर्त्तितान्येव विमानानि पाकशासनसचियैः ।  अर्जुनः-( स्वगर्त सहर्पम्.) दिप्ट्या शराच्छाद॒नविभीपिकयोपशान्तः प्रत्यूहभूतोऽप्सरःसमागमः । तपःसाघनतपनविम्वदर्शनाय धृतं च छिद्रमेकम् ।

 सिद्धा - ( साक्ष्चर्यम् ) अहो तव हस्तलाघवम् ! । पश्य ! --

अविरलशरजालैश्छमन्यौन्यलग्नै-
 र्दिनपरिवृढविम्वव्यक्त्तये कृप्तरन्ध्रम् ।
उपरि चतुरचौरैर्दत्तसन्धिप्रकारं
 सदनमिव - विक्ष्वमेतद्विभाति ॥ १४ ॥

 अर्जुनः --- सखे सिद्धादेश । समदिश तौ निजकिरातौ यथेह न कक्ष्चिदविज्ञातः समापतति ।

 सिद्धा (नेपथ्यामिमुखमवलोवय ) सखे शार्दूल  ! सखे कण्ठीरव ! ।

 उभौ -- ( प्रविश्य ) आणवेदु महाभा[]ओ ।

 सिद्धा ----भद्रौ । तिष्ठतमवहितौ भवन्तौ परतः । मा कक्ष्चिदिहाविदितः समापततु ।

 किरातौ --- हंदो वि अ ससणेण समगमिस्सदि । (निष्त्रम्य पुनः प्रविश्य ) अज्व ! महामुणी कोवि मुणिजुअलजुत्तो समेदि[]

 अर्जुनः --- ( सादरम् ) समागच्छतु महर्ति: ।

 किरातौ जहा आणवेदि सा[]मी । (इति नित्त्र्कामतः )

(तत: प्रविशाति ययानिर्दिष्टो मुनिवेषो महेन्द्रः )

 महेन्द्रः - (xxxxx xxx xxx) xxxx xxxxxxx संदर्शनम् । ( सानुतापम् ) वञ्चितानि परं मया वेपान्तरतिरोहितानीतरविलोचनानि । ( सकरूणम् ) अथवा साधु संवृत्तम् ।

सूनोर्वत्र्कसरोजदर्शनसुधास्वादेन दरीकृतै-
 रप्यक्ष्णां निचयैर्ममाघ विजितं तैरेच गुप्तात्मभिः ।


यैरेयंयिघमस्य दासुणदशादत्तोग्रदु:खोद्गमं
 दृष्द्वा निःसरदुप्णवाप्पसलिलैर्लैभे न दाहोदयः ॥ १५ ॥

 अर्जुनः-( मुनिवेपं महेन्द्रमाटीक्य सहर्षम्) सखे सिद्धादेश ! अहो महानुवता महामुनेः ।

स्वीकरो॒ति करुणामयमृर्त्तिम॒मयं सपदि॒ यते॒ऽपि सुनीन्द्रः ।
अप्यहो परिच्पयक्रमघाप्ये स्निह्यतीह पितरीोव ममात्मा ॥ १६ ॥

 तदेष्यभ्युत्तिष्ठाव । ( इति ययावदृम्युत्थाय ) धैपाघ्रपद्यगोघ्रो मध्पमपाण्ष्टयोऽभियादयते भयन्तम् ।

 महेन्द्रः--अभिलपिन्तभाजनं भूपाः ।

 सिद्धा०-(आप्तनमुपनीप )अलङ्कियनामासनम् ।

( सर्वे ययोचितमुपपिशन्नि )

 महेन्द्रः-महाभाग ! त्यदेपदोलायितो न जाने कपाऽभ्युपपत्त्या भवन्तमुपचरमि । तधाहि----

अभ्यस्नाः श्रुतयो महास्सृतिपये क्षुपणं मदोपं मनो
 दृप्टास्तेऽपि महर्पप: परिच्निास्ते ते परिव्राजकाः ।
माप्यालोकि पुरन्दरस्य परिपन्नादर्शिी नाश्रायेि या
 फोदण्टेपुधियल्कलाक्षवलयालङ्कारमिर्त्य तपः ॥ १७ ॥
सदिदं य्व्पाहरामि-
यघेतां चतुरन्युराशिपरिखामुयी युमुक्षुर्भयां-
 स्तयापोऽयमुपास्यनां क्रशपमि प्राणं तपोभिर्मृपा ।
मुक्त्तौ मक्त्तिरथास्ति ते परिहर क्रृरामिमां प्रक्रिपां
 मर्पग्रैय यिनिद्रमौष्टदरम्र्मे मन्पेहि शुद्धं मनः ॥ १८ ॥

 अर्जुनः-( मगेई दर्पमुञ्णं ग नेिःधम्य ) अयिदिनपृत्तान्तस्नातो मामेर्य प्पाहरवि ।

भुफिर्भम्गप्रपाले गृनभपटशनैः मंष्टना यैरिपगैः
 राज्ञा पाशेन पटः कयमिप नृपनेः प्राप्नुयां मुक्त्तिमौम्यन् ।
तन्मे क्लैन्पै कपृशेर्देलपनि हदपं भुकिमुकयोः कथाऽपि
 प्रारम्भोश्पं गुरुणां पदहमिह तपासंपिघाने निपुक्त्त ॥ १९ ॥

 महेन्द्रः---(स्वगतं साशङ्कम्) कथं मां तातेति वत्सो व्याजहार । न खल्वनेन तपःसमुद्भूलातीन्द्रियज्ञानेनविदितोऽस्मि । भवत्वहमपि सन्दिग्घेनैव व्याहरामि (प्रकाशम्)वत्स ! किंमद्यापि ते मोहमलीम्सं मानसम् । मुञ्चमुञ्चदुरध्यवसायम् । पश्य पश्य न खलु त्वदनहतैर्वैरिभिर्न मर्तव्यम् । न च त्वया निहतवैरिणा न मर्त्तव्यम् । नहि कवलितमूयिकेण विडालेन न म्रियते । न च वञ्चितविडालकवलनापायैर्मूपकैर्न त्रियते ' तदेवं साधारणकृनान्तव्यापदामुपहसनीयोऽयं दुर्व्यापारः । तदत्रभवते महोदय एव स्वदताम् ।

 अर्जुनः-( सानुतापम्) तात ! अननुभूतपराभवाभिपङ्गोऽसि । किमुच्यते? । तदत्रभवन्तं विशपपामि । अनतिक्रमणीयवचनोऽसि । नैवं पुनः पुनर्व्याहर ।

उत्कृत्यूायस॒सूायकेन समरे दर्पोद्धतान्विद्विप-
 स्तद्रिम्वं दिवसेश्वरस्य सद्दस्सू भित्त्वात्मना पत्रिणा ।
मुक्त्तिर्या समवाप्यते भवतु नः सैव प्रमोदास्पदं
 कर्मज्ञानसमुञ्चयोपजनितां द्वरे नमस्यामि ताम् ॥ २० ॥

 महेन्द्रः-- (स्वगतं सहर्पम् ) अहो ! वीररसैकग्रहिलता वत्सस्य । अहो ! स्थिरवैरता । दिप्ठवा निप्पन्नमेव भुवो भारावतरणम् । तथाहि ---

मुरारिमारुतफीतो घनस्त्रयघनञ्जयः ।
गुरूनपि द्विपद्वंशानशेपानेप धक्ष्यति ॥ २१ ॥

 तदहमिदानीं प्रकटीभवामि समाश्वासनाय वत्सस्य ।

(इति तया करोति )

 अर्जुनः--(विलोक्य साश्वर्य सहूर्पम्) कथमयं सहस्त्रनपनो नयनोत्सवाय संवृत्तः । तदिदानीं सविशेपं प्रणमामि । (इत्युपमृत्य पदयोः पनति )

 महेन्द्रः-( उत्थाप्य शिरसि समाघ्राय) वत्स ।

अस्त्राक्षीच्चतुराननः स भगवान्पत्पूर्वमम्भः क्रमा -
 द्देवो दानवसृदनः प्रतिकलं यल्पालयाञ्चक्रिवान् ।
तद्विश्वं सहसैय तौ च दलयन्कल्पान्तकालोद्धत-
 व्यापारः परमेश्वरः प्रहरतु प्रस्यर्थिनस्ताघफान् ॥ २२ ॥

 अर्जुनः-( सप्रक्ष्रयम्) भगवन् ! गीर्वाणवर्गचक्रवर्त्तिनोऽत्रभयतो भगवति भर्गेऽपि निदेश एवायं न पुनराशोः ।

 महेन्द्रः-वत्स ! वत्स !। मैवम् ।

यत्प्राप्तुं तरलीभवत्पथ मनो व्यावर्तते व्रीडपा
 यस्योपायनिरूपणे नयविदां मन्दायते नैपुणम् ।
तेऽपि व्रह्जनार्दुनम्भ्रुतयो न्यञ्चन्ति यत्प्रार्थिता-
 स्तान्नेत्राञ्चललीलयैव घटयत्येकः परं शङ्करः ॥ २३ ॥

 सिष्द्रा०-भगवन् सहस्राक्ष ! भवनः साक्षात्कारेणैव पूर्णमनोरथः पार्थः संवृत्तः । तथाहि -----

कथमन्धवलात्तेषां पाण्डवानां भवेद्भयम् |
सहस्रनयनः पक्षे येपामुज्चागरः सदा ॥ २४ ॥

 महेन्द्रः-अयि द्युह्यकोत्तम ! मैवम् ।

ऐक्यं गतः क्ष्रीपुरुपोत्तमेन कृत्वान्धकोद्दामवलप्रणाशम् |
शिवप्रसादेन शिवानुभावःपृथासुतोऽयं भविता सुशक्त्तिः ॥ २५ ॥

तदापृच्छतु मां वत्सः ।

 अर्जुनः-( सकरुणप्रश्रयम्) तात पुरुहृत !

प्रेमार्द्रनेत्रोत्पलकाननाढयं त्वत्कयकासारमिमं विमोक्तुम् ।
दुर्वृत्तदायादनिदाघतप्तः समीहते भे न मनोमरालः ॥ २६ ॥

 महेन्द्रः-वत्स ! वत्स ! मा विपीद । प्रसादितचन्द्रशेखरं चन्द्रशेखरास्त्रनिरस्ताशेपकौरव्यं पुनस्त्वामहं द्रक्ष्यामि । ( इति तिरोघत्ते )

 अर्जुनः-सखे सिद्धादेश ! एहि भगवर्तीं भागीरथीमुपास्य भगवन्तं भर्गमुपास्महे ।

(नेपथ्ये )

 अत्याहितमत्याहितम् ।

कुर्वन्घर्घरमारपं पृथुरदो घोणां समुतफुल्लय-
 न्नङ्घासङ्घमिवोच्चकैस्ननुरुस्नोमं दधत्पीवरम् ।

गङ्गातीरतपस्विवैशासरसव्यासक्त्तचित्तो जवा-
 त्क्रोडोऽयं कलितः कुधा कलिरिव क्रूराशयो धावति ॥ २७ ॥
कुद्दालीयति सान्द्रकन्दपटले वाढं कुठारीयति
 स्कन्धाग्रेपु परश्वधीयति शिखाशाखासु सम्पातिनी ।
र्दप्ट्रेयं विकटा किटेः प्रतिपदं मार्गद्रुमद्रोणिपु
 कूरक्रूरपराक्रमप्रणयिनी किं किं न सम्पद्यते ॥ २८ ॥

 अर्जुनः-( सप्तम्भ्रर्म विवृत्यावलोक्य ) कथमयं कृतकर्णकापः कटुः कोलाहल एव क्ष्रूयते ? । न कोऽपि लोचनपथमवतरति ।

 सिद्धा०--क्क पुनस्तौ किरातौ ? । न खलु व्यापादितौ ।

( प्रविदय )

 किरतौ ----महाभाआ ! परित्ताअध परित्ताअध । एसो खु पअंडतुंडाभिहदविअलन्तविसालन्तजालनिवडन्तसवरवरसरीरविसमीकअमग्गो रुहिरोहपिंजरिददाढाजुओ दारन्तोव्व सअलभुअणाइं घोरघुरुक्कारेहिं भीसणो कोचि भूआररूओ अवमिच्चू पवि[]ट्टो ।

 अर्जुनः-( सावतं विहस्य ) भद्रौ ! न भेतव्यं न भेतव्यम् ।

 सिद्धा०-महाभाग गाण्डीवधन्वन् ! सुज्जीभव सज्जीभ्भच । अयमागत एव नेत्रपात्रतां पोत्री ।

 अर्जुनः-( धीरं विलोक्य साश्चर्ये सवितर्कम्)

विक्रान्तो वहिरम्भसस्तरलधीर्दप्ट्रामिपादव्जिनी-
 कन्दच्छेदसृखः किमेप सलिलस्तम्वेरमस्यार्भकः ।
संहारेऽपि निजप्रसक्त्तिपटुतां संदर्शयन्नुत्कटां
 साक्षादादिवराह एव किमयं प्रागुहृतक्ष्मातलः ॥ २९ ॥

(नेपथ्ये )

 कष्टं कष्टं शिावसेवैकनाने तपसि प्रवृत्तोऽपि कथमयं विकटकटुकोटि-


किंटिदंष्ट्राभिघातमापद्यते मुनीन्द्रः । आः शङ्कर ! परित्रायस्व परित्रायस्व । किमुदासीनोऽसि, किमिति स्वेनैव स्वनाम प्रोय्र्घ्ञ्छसि ? ।

 अर्जुनः-( श्रुत्वा सकरुणमाकाशे लक्ष्यं वद्धवा निःश्वस्य )

पार्थस्तपस्वितां लेभे दुर्दैव ! प्रीयतां भवान् ।
मुनयो हन्त शङ्कन्ते भूदाराद्दारुणं मयि ॥ ३० ॥

( पुनर्नेपथ्ये )

 अयि मुनीश्वर !

सेव्यः परं स भगवान्नवचन्द्रचूडस्तस्यापि'दैववशतः करुणानुरोघः ।
अस्मिन्वने मुनिजनव्यसनोपशान्त्यै कोदण्डपाणिरयमेव हरःकिरातः ॥ ३१॥

 तदयमेवाभ्यर्थ्य मुनेरस्य प्राणत्राणाय नियुज्यताम् ।

 अर्जुनः-( समाकर्ण्य ) अहह ! इदमन्यदतिदारुणतरमुपस्थितं यन्मां किरात: परित्रापते ।

 सिद्धा पार्थ ! त्वमेव प्रथमं सपत्राकुरु पोत्रिणम् ।

 अर्जुनः- ( गाण्डीवमुहिश्य सकरुणं सास्त्रम् )

यत्ताण्डवव्यतिकरेण रणे मुहर्त्तं ताद्दक्कवन्घशतताण्डवकेलिरासीत् ।
गाण्डीव! तस्य भवतः किटिपाटनार्थमारोपयन्नपि गुणं व्यपरोपयामि ॥ ३२ ॥

( इति सत्र्त्रं करोति । निपङ्गतो वाणाकर्पणमभिनयन् )

 कथं न निर्गच्छन्ति वाणाः ? । किममी चिरव्यासङ्गगाढलग्रा, उत लज्जन्ते ऽनुचितकर्मणि ? । ( कपंचिदाकृप्य निःश्वस्य ) अयि वाणाः ।

उपितुं साधु युप्माभिर्निपङ्गायामवाङ्भुखैः ।
इदानीं हन्त ! सन्धत्ते पार्थो वः पोत्रिपातने ॥ ३३ ॥

( इति सन्घत्ते )

 ( नेपथ्ये )  []महाभाआ ! इमाओ मा भाअह मा भाअह | एसो खु अम्ह सामी एक्कवाणेण चारेदि दुट्टभूआारं । उव्वरिदो महामुणी ।


 अर्जुनः-(श्रुत्वा ससम्भ्रमम्) कथमयं मत्तः किरातोऽग्रणीर्भविष्यति ? । ( इति कृतवेगो बाणमोक्षं नादयतेि )

 सिद्धा०-(विमान्य साश्चर्यम्)महाभाग ! पश्चाद्भूतस्ते बाणः । पश्य! पशय!

स्पृष्टः कस्यापि द्दप्टया नहि नहि विहरत्यन्तरे कुण्ठवेगो
 मर्मच्छेदप्रवृत्तैरनुमितपतनस्तारचीत्कारभारैः ।
कस्याप्याकस्मिकोऽयं लयसमयमहामारुतस्येव पूरो
 नाराचः**'द्रागतनुतनुकुटीं चण्डशक्त्तिर्भनक्त्ति ॥ ३४ ॥

 अर्जुनः-(सवैलक्ष्यम्)'कथं विजपिनोऽपि ममायमविजयेिवाणतां वाणः प्रपेदे यत्किरातशरेणापातिते पोत्रिणि पपात ? । भवतु न याचदितरः कोऽपि लक्षयति, तावदात्मवाण्गप्मानयामि । ( इत्युपमृत्य भूदारं विभाव्य साश्चर्यम् ) अहह ! न मयापि कदापि एवंविधविशालकायः कोलोऽवलोकिनस्तत्किमेप मायामयः कोऽपि कौरवानुग्रहग्रहिल, उताहो स्वैराहारविहारपुष्टो वराह एव । भवत्वाददामि तावन्निजवाणम् । ( इति तया करोति )

 सिध्दा०--( निरूप्य ) महाभाग ! घातरन्ध्रमेवास्पाङ्गे द्वितीयमवलोकपामि | तत्कारप्र्ण तत्प्रत्यभिज्ञाय गृहाणात्मघाणम् । कदाचित्प्रहारदाढर्वादुल्चणोभपपाश्वैकृतरन्धो भवद्वाण एव निर्गत्य घचिद्गतो भवेत् ।

 अर्जुनः-सिद्धादेश । अयमेव मे वाणो, न द्विकत्थनो मिथ्या व्याहरिप्यामि ।

 सिद्धा०-नैय तर्हि किरातमात्रं, महानयं कोऽपि ,यस्य पत्री पोत्री कुत्र गत इति न ज्ञायते ।

 अर्जुनः-'(सवितर्कम्) न खलु निजवाणं गृहीत्वा किरातो गतो भवेत् ।

 सिद्धा०-प्रतिपालय तर्हि मुहर्त्तम् । किमिह कोऽप्याघावतेि ।

 पुरुपः-(प्रविश्य पृरोऽवलोक्य)क[]घं एस सो मुणी !।(ससम्भ्रमुपसृत्य)अयि मुणिंद ! ण तुमं एदिणा दुट्टभ्नूआरेण किरादवाहिणीसवाणघाअवेञ्अणामोहकअर्झपेण कहिंपि पीड़िदो ।


( अर्जुनः सावज्ञं सस्मितमवलोकते )

 कण्ठीरवः- ( साक्षेपम्) रे रे गोमाउआ ! कोस अणुचिदं मन्तेसि | णं सुणिंदेणं येव सम्मुहमुपसप्पन्तो एस दुट्टकोलो वावादिदो । किण्ण पेक्खसि लोहिअलित्तं हत्थे स[]रं ।

 गोमायुकः- ( स्वगतम् ) अन्च्छरियं ! अच्छरियं ! । अउव्वो कोवि एस कोअंडमंडिदो मुणी । ( प्रकाशं सप्रत्यभिज्ञमिव ) अयि वीरमुणिंद ! सो अम्ह सामिणो स[]रो ।

 अर्जुनः-सखे सिद्धादेश ! कष्टं कप्टम् ।

पत्री मदीयो विधिवैपरीत्यात्क्रूरं कलङ्कद्धयमद्य लेभे ।
व्घापारितो पत्किटिकीटघाते भमेति घच्चाह हहा ! किरातः ॥ ३५ ॥

 गोमा०-मुपिावीर ! तणुलदाए तणुअत्तणामेत्तफलं तुअ तवं संयुक्तं, जं एवं अकअण्णुओसि,जं एवं परवत्थुलोहिओसि । एसो खु मग्गणो तुह परित्ताणपराअणेण अम्ह सामिणा इमम्मि दुव्विसहवराहम्मि मुक्को । संपइ तुमं अवमिच्चुमुहादो उव्वरिदो । फुल्लंतगल्लो जंपेसु जं पडिहाअदि । ण ल्लु अम्ह सामी तुमं णिअकित्तिक्खंभं भंजयिस्सदि[]

कण्ठीरवः-( साक्षेपम् ) रे रे सहूलअ । अम्हाणं एस कलंको जं अम्ह पुरदो गोमाउओ भअं वग्गदि[१०]

गोमा-( सावक्षहासम्) रे रे कंठीरव ! रे रे सद्दूलअ ! तुम्हाणं किं किं अगोअरो अम्ह वाहिणोसवाणाणं पसरो[११] । ( साकूतमिव ) अहह ण एस सूअरो


पसृ, सो य्येव पसृ जो एआरिसं घि किरादचक्कवट्टिं विसिहलीलातिसायिदमवलोकअन्तो ण अत्ताणं जाणेदि ।

 अर्जुनः ---- (सावज्ञम् )

मांसं मुहुर्वनमहीपु गवेपयन्ति
 तज्जीवनैकशरणाः शवराः किराताः ।
तेपां वराहमृगरोहिपखङ्गरङ्कु ----
 न्यङ्कुच्छिदासु कतमोऽयमहो प्रकर्पः ॥ ३६ ॥

 गोमा०--(सप्तम्भ्रमम् ) महाभाअ ! णिहुअं जपेसु । इहय्येव महावणतिरोहिदो मा सुणादु वाहिणीणाहो[१२]

 अर्जुनः-(साक्षेपम्) यदि श्रोप्यति तत्किम्? ।

 सिध्द्रा०-आगमिप्यति ।

 अर्जुनः-पद्यागमिप्यति तत्किम् ? ।

 सिद्धा०-पार्थ ! आगत्य त्वदीयशरशरव्पः परासृर्मा भूदिति गोमायुः स्वामिभक्त्तः शङ्कते ।

 गोमा०'-ण खु तुमं अहिदो मुणिंदस्स जं एअं मन्तेसि[१३]

( अर्जुनः उच्चैःकारं मांसं मुहुर्वनमहीप्वित्यादि पठतेि )

( नेपय्ये कलकलः )

 सिद्धा०--( आकण्र्य मयामिनयं कृत्वा ) । पार्थ ! त्वद्वचनश्रवणानुपदमेव प्रवृत्ता किरातानकिनीति जाने ॥ अहुहू!

ससंरम्भन्यासस्फुरदुरुरवैरंघ्रिपतनैः
 कठोरज्यावल्लीपन्यतरटङ्कारपटलैः ।
प्रसर्प्पहोर्दर्पप्रबलगलगर्जापरिकरैः
 किराताः साशङ्कं सुरसदनमप्याशु दधते ॥ ३७ ॥
 ( सातङ्कभिव ) तत्यकथमधुना भविप्यति ? ।


अहह नैप सूकरः पशुः, स एव पशुः य एतादृशमपि किरग्तचन्फवतिनं विशिखलीलातिशायितमवलोकयन् नात्मानं जानाति ।

 अर्जुनः-(सावज्ञं सोपहासम्) सखे सिद्धादेश !

भवज्झम्पाटोपैर्यदि शलभकोलाहलभर-
 स्ततः स्यात्का शङ्का हुतभुजि शिखाचक्रविपमे ।
क्षणादेवोदञ्चत्यथ पृयुलदुर्गन्धशवल-
 स्तदङ्गलोपोत्थश्चमिति निनदः किं न कलुपः ॥ ३८ ॥

 गोमायुः-( ससम्भ्रमम् ) मुर्णिद् वारिदो मए । किं करेमि । आगदो दार्णि साहसो सो किरा[१४]दो ।

( अर्जुनस्तदिदानीं पलाये इति विहस्याग्रतः पदानि ददाति )

 हरकिरातः-(प्रविश्य)गोमाउआ""""""सअव्मुदो जोओ । कर्हि सो मु[१५]णी?।

 गोमायुः-( सहासम् ) णाह ! एसो य्येव सो मुणीसरो[१६]

 हरकिरातः-( स्वगतं निरूप्य ) अहो माहात्म्यं क्षात्रस्य तेजसः ! ।

तथाहि-एकः करः कलयति स्फटिकाक्षमालां
 धोरं धनुस्तदितरक्ष्च विभत्ति हस्तः ।
धर्मः कठोरकलिकालकदर्थ्यमानः
 सत्क्षत्रियस्य शारणं किमिवानुयातः ॥ ३९ ॥

 अर्जुनः-( केिरातमालोक्य स्वगतं साश्चर्यम् ) अये नैप किरातमात्रं, देवतापरिगृहोतमिवैनमवलोकयामि | ( सवितर्कम् )

अयमिह मुनिसङ्गादद्रिक्षृङ्गे किरातः
 फचिदपि किमु चक्रे चाक्षुपों त्र्यक्षसेवाम् ।
उपचयपरतन्त्रा विक्रमोत्साहशक्त्ति-
 र्नहि नहि महिमानं चान्द्रचूडं विना स्यात् ॥ ४० ॥

 किरातः -- गोमाउआ ! एसो प्येव अम्हाणं विक्कमुक्करिसमसहन्तो आ[१७]सि ? ।

  गोमायुः--- अथ किम् ? ।


 हरकिरातः--{ ताक्षेपं पार्थमुद्दिश्य) रे रे उअसप्प उअसप्प ।

जं दुल्लहूं दुक्करदुक्करेहिं तवेहि वि॒त्थारृिदताणवेहिं ॥ .
मुणिद ! तत्ते कअकम्मणासं घाणेण ! णिव्वाणमहं दइस्सं ॥ ४१ ॥

 अर्जुनः-( सोपहास॒म्)

आ प्रत्यूपप्रदीपं विपिनविहरणैरामिपाहारकारः
 प्रालेयस्यन्दकल्र्प परिपिवसि मुहुनै[१८]र्झरं स्वच्छमम्भः ॥
धिक्त्वां धिक्त्वां किरात ! क्षिपसि किमु पदं वर्त्मनि क्षत्रियाणां
 प्राणाप्रेमानपेक्षो नहि नहि भवति त्वादृशामेप योग्यः ॥ ४२ ॥

 हरकिरातः-( रवगतं साशङ्कमू ) अये ! एकः पार्थः, प्रभृता किरातानीकिनी | तत्प्रकारान्तरेणास्य करोमि जीवरक्षाम् । ( प्रकाशम्) अयि मुणिवीर! ण् सुदाई मए तुह'भणिदाहं किराद्कलऊलेण । ता वारेमि दाव एदे । रे रे चपला किरादा ! एसो किं वीरधम्मो जं तुम्हे गणणावाहिरा, एसो अ एक्को मुणिवीरो । ता ओसक्कघ ओसक्कघ[१९]

 अर्जुनः-( सोल्लुण्ठम् ) अयि किरातवीर ! दत्तं तावत्त्वया वैरफलम् । यतः

तपःप्रसङ्गाद्भतसङ्गराणामुपोपितानां मम सायकानाम् ।
किरातरचैक्त्तै”****ग्रसुपस्थिता किं क्रियते सुतुच्छा ॥ ४३ ॥

 सिद्धा०-(सप्तम्भ्रमम् ) पार्थ ! पार्थ ! कर्थ वर्पन्त्येव त्वयि शरासारमवधीरितनिजाधीश्शासनाः किरताधमाः ।

( अर्जुनः बाणमोक्षं नाटयति )

 सिद्धा०-(सद्दर्षाश्चयैम्) अयि वीरशिरोमणे ! पश्प ! पश्य ! निजवाणवेगावैभवस्य फलम् ।

साटोर्प श्रवणान्त""""""""कृप्य मौर्वाँलतां
 ये मुत्ता रिपुभिः प्रदीपिलदिशः प्रारब्धघोरारवाः ।


कृतैरर्द्धपथे त्वया रयवशाद्यावृत्य सम्पातिभि---
 स्तैरेवार्धशरैः किरातपृतनावृन्देऽत्र वैरायितम् ॥ ४४ ॥

 हरकिरातः-( विवृत्यावलोक्य स्वगतम् ) कथमतिक्रान्तं किरातैः ! । पार्थेनैव कृता निजा रक्षा । (प्रकाशम् ) दिद्विआ खु मुंक्कं चावलं किरदेहिं । उवरदो कोलाहलो[२०]

 कण्ठीरवः-( सोपहासम्) उवरदं दाव किरादेर्हि येव । संपइ ताणं कलअलो कअन्तणअरे वट्टदि[२१]

( हरकिरातः ससम्भ्रममवलोकते )

 अर्जुनः (सोपहासम् )

  मा विभेतु महाभागो मया वाणपरम्परा इमा दूरीकृताः ।

 हरकिरातः मुणिवीर ! दिण्णा मए तुह पणतिक्खा । करेदु भवं सरभसं मइ णिअसराइं अक्खदाइं[२२]

 अर्जुनः-( साक्षेपं सगर्वम्) रे रे किरात !

शाकुन्तान्वयजा वयं नहि नहि व्यापारयामः शरा-
 न्सर्वत्रैव रणानभिज्ञमनसां वार्त्तैव का त्वादृशाम् ।
त्वामावर्त्तयतेऽथ किं मम धनुर्विद्यादिदृक्षारस-
 स्तत्पश्याद्रिशिलाविपाटनकलां मा यातु ते जीवितम् ॥ ४५ ॥
विदेशेपतश्च द्रावयति मां मुनिभावाद्विगुणाविर्भावः करुणारसः ।

 हरकिरातः-( सोपहामम् ) किं भण्णइ । दिट्टं येव तुअ कोअंडविज्चामाहप्पं, जेण तुमं णिायकज्ञ्चाइं साहिदुं अपहुप्पमाणो तवस्सीक[२३]ओ ।

 अर्जुनः-(सक्रोधम् ) सर्वतः कनिष्ट मिध्यपा॒ग॒रिष्ट !

त्यामेकवाणव्ययहेलयैव किरात ! कर्त्तास्मि कृतान्तवश्यम् ।
छूट्टदि स्थितस्याद्यधनुर्द्धरस्य पिनाकपाणेः परमस्नि लज्चा ॥ ४६ ॥


 हरकिरातः-(सोल्लसहासम् ) अहो मे कम्मलाहचं संवुत्तं, जं तुह हिअए वाणभिन्ने तुमं तुह गुरू अ यावादिदो भविस्सदि[२४] (इति बार्णे क्षिपति )।

 कण्ठीरवः-(अन्तरे भृत्वा बाणं पतन्तमादाय ।)रे रे ण अत्ताणं सुणेसि, णेर्यं मुर्णिदं मुणेसि[२५]

 हरकिरतः--( सक्रोधम् ) रे रे सहुलअ ! कर्घ तुर्म ण वारेसि र्कठोरअं? णादिवराहपरम्मुहो हं | तेण एअं वग्गोअदि, ता संपद्द तं पि करिस्सं[२६]

 शार्दूलकण्ठीरवौ--( साक्षेपम ) एहि एहि एर्वे """"" ।

 हरकिरातः--( स्वगतम् ) कथं सावज्ञः पार्थो न प्रकाशयति मयि पौरुपम् ! । नच्चाविज्ञातपौग्पनिकपाय देयमिदं महारत्रम् । तदहं दुर्योधनरूपमास्थाय परीक्षे पौरुपमस्य । ( इतेि दुर्योधनरूपं नाटयति )

 सिद्धा०--( वेिमाव्य साश्चर्यम् ) महाभाग पार्थ ! पश्य पश्य कोप्ययमन्य एव संवृत्तः ।

 अर्जुनः-( स्वगर्ते तक्रीधम् ) आः कधमपं दुरात्मा कुरूवंशर्पासनः ! । किं कुतोऽपि राक्षसादेः शिक्षितमायाक्रमःकिरातवेपच्छद्माना दुर्योधनो मां द्रष्टुमायातः? । तत्किमत्रोचितम् ! । अथवा तां महाराजकृतां मर्यादामप्यतिलङ्घयिप्ये, नत्वेनं वधप्रासमिदानीोमुपेक्षिप्ये ( प्रफार्शं सोपहासम्) रे रे कुरुकुलकलङ्क !

दुर्योधन! भवानेव.जानात्युचितमात्मनः ।
यत्पातकमयं रूपं कैरातमुररीकृतम् ॥ ४७॥

 हरदुर्योधनः--( साक्षेपम् ) रे मध्पमपाण्डव ! क्घ गतं तच गाण्डीबकोदण्डपाण्डिडत्यम्? । सम्प्रति तपस्वितया राज्यमभिलपसे ।

 अर्जुनः-( साक्षेपम्.)

रे रे दुर्मद कौरव !““क्षीण एकोऽस्म्यर्ह
 तास्ताः सत्वरमानय क्षितिभृतामक्षौहिणीर्दुःसहाः ।


भीष्मद्रोणकृपाङ्गराजशकुनिप्रायैः सहायैर्वृतः
 कृत्वा मत्क"""" विघेहि सुद्दढं , राज्यं विमार्गार्जितम् ॥ ४८ ॥

 अथवा । अहमिहैकस्त्वमिहैकः । गृहाण वाणासनम् ।

एको गुरुः कुरुकुले खुरली न भिन्ना भिन्नं कुलं न च जन्मभूमिः ।
अद्य प्रकाशय शरासनवाहुसारं साम्येऽपि वीर! भवतो विजयं ददामि ॥४९॥

 हरदुर्योधनः--( साक्षेपम् )

एता विसर्जय जटास्त्य'""""" """"
"""" क्षपत्रवलयं कुरु थीरमुद्राम् ।
दुर्योधनो नहि तपस्विकृते कदापि
सज्जं करिप्पति धनुर्जगदेकवीरः ॥ ५० ॥

 अर्जुनः--- ( सक्रोधम् ) आः किरात । कथमेवं मां विचिकित्ससि ? ।

संहुारकारो जगतां स एव व्रिशूलपाणिर्गिरिशस्तपस्वी ।
तद्रौद्रभावानुगृहीतवाहुर्दाहं करिप्याम्यह ॥ ५१ ॥

 हरदुर्योधनः---रे रे द्रौपदीदयित ! दृरीकुरु दुराशामिमां मयेि कापुरुप ! । तदानीं जनकार्जितं राज्यमपि न रक्षितवानसि । कथमिदानीं विकत्थनो नापत्रपसे ।

अयि हरिसुत ! धन्यास्तेऽपि तार्णाः पुमांस-
 स्तृणघटितपृथपत्केप्वासमुद्राभवन्तः ।
जनितपृथुभवानां क्षे """"""""" जा-
 मभिभवति कुरङ्गानङ्गरेग्वैव येपाम् ॥ ५२ ॥

 अर्जुनः --- (विहस्य सोल्लुण्ठम् ) अयि सुयोधन । लज्जावहैवास्माकं विकत्थनता त्वदग्रे ।

येन त्यया कृताद***** त्कारेण पशयताम् ।
अस्माकं राज्यमाच्छिद्य गृहोतम्

 हरदुर्योधनः--( सनोघम् ) आः फाल्गुन ! उपहससि माम् l तदानीं दुरोदरेणोपकृतम्, अधुना समरसंमर्द्देन कुरु सर्जीवं निर्जीँर्व गाण्डीवम् । ( इति चापमास्फालयति )

 अर्जुनः-अटुतमटुतम् ।

प्रसवसमय एव क्रोष्टुवत्क्रोशनस्त्वं न“""“हं व्यक्त्तिमेनामकार्पीः ।
कथमधिगतधाष्टर्घो भापसे युद्धहेतोरपरमिव विशङ्के त्वां न दुर्योघनोऽसि॥५३॥

 हरदुर्योधनः--( स्वगतम्) आः ! खलु ज्ञातोऽस्मि । भवत्वेचं तावत् । ( प्रकाशं सावन्तं विहस्य ) पार्थ ! पार्थ । तथ्यमेवैतत् ।

यौधिष्ठिरे यन्निजवस्तुकोशे दुर्योधनोऽन्यः विहिताऽधिकारः ।
प्रवासयन्पाण्डुसुतान्वनान्ते दुर्योधनोऽहं पुनरन्य एव ॥ ५४ ॥

तद्दर्शय शरासारशौण्डत्वम् ।

 अर्जुनः-( सावज्ञम्) अयि सुयोधन ! मसृणोऽमि धनुर्वेदविद्यायाम्, उडुरोऽसि गदाविद्यायाम् । तद्गृहाण गदावत्कृत्वा गदाभावे कोदण्डम् । अहमपि तथा त्तथा करिप्ये । एहि विमर्द्दक्ष ""“ ।

(उमौ तया कुरुतः )

 कण्ठीरवः-( सकौतुकम )स[२७]हूलअ ! पेच्छ पेच्छ घडिदा दुये वि महावीरा कोअंदंडसंगरम्मि ।

 शार्दूलः-( साट :चमत्कारम्) क[२८]ण्ठीरव ! पेच्छ पेच्छ दोन्ह वि हत्थलाघवं । अहो ! पाअलाहवं,जं कोअंडणिम्मिदपंजरव्भंतरट्टिदव्व दुवेवेि दीसन्ति ।

 सिद्धा ---- आः । पश्यत पश्यत ।

  कौरव्यं """"""""" धनुपा मौलौ मधोनः सुतः

( साक्ष्चवै ससम्भ्रमम् )

  सम्प्राप्तासरेऽत्र हन्त ! रुधिरे वालेन्दुरम्युघतः ।

( सहर्पभ् )

हेहो ! पश्यत पश्यतेशमुनयः साक्षाद्भयानीपति-
र्भासां पूरमनश्वरं परिकिरन्सानन्दमुज्जृम्भते ॥ ५५ ॥

 ( सर्वे सहर्पाश्चर्यमालोकन्ते, अर्जुनः शङ्करमालोक्य ससम्भ्रमं नमस्ते नमस्ते इति साष्टाङ्गमवनौ निपतति )


 शङ्कर:-( सहर्पोईलासम्) वत्स वत्स धनञ्जय ! उक्तिप्टोत्तिष्ट ।

 अर्जुनः-( सहसोत्थाय शिरसि चद्वाञ्जलिः ) भगवन् पीयूपमयूखशेखर ! नमस्ते नमस्ते ।

भघसि सुकृत्नपाकैः स्तेनकस्यापि साक्षा-
 न्नहि नहि तव रूपाणानीशोऽस्ति कश्चित् । '
किमिति निकृतिमेनां नाथ ! कृत्वा विचित्रां
 क्षणमनुचितकारः सेवको वञ्चितोऽहम् ॥ ५६ ॥

 शङ्करः-( सप्रमोदं विहस्य ) वत्स पार्थ ! नाघिज्ञातपौरुपनिकपाय महास्त्रमिदं प्रदेयमित्येप त्वद्विमःमपरीक्षोपायः कृतः | सम्प्रति गृहाणैनन्महास्त्रम् । ( इति महास्त्रं दत्त्वाऽर्जुनस्य मूर्ध्नि हस्तं ददाति )

 सिद्धा ----आक्ष्चर्यमाक्ष्चर्यम् ।

निर्गत्य नेत्रदुम्मिंत्रं ज्योतिः किमपि शङ्करात् ।
नीराजितककुप्चक्रमाक्रामत्यार्जुनं वपु: ॥ ५७ ॥

 अर्जुनः-( सहर्पम् ) देव देव त्रिजगद्गुरो ! किं ते गुरुदक्षिणां ददामि ? ।

त्वां विश्वत्रयसर्गपालनलयव्यापारलीलामय
 प्रीणीयां कतमेन भर्ग्ग ! विधिना”"" सितं कामदम् ।
किंतु क्रूररणप्रकर्पविदलत्सद्वीरमुण्डोत्कर-
 प्रालम्वप्रतिकर्मसम्भृतिमहं सम्पादघिप्ये मुहुः ॥ ५८ ॥

 शङ्करः-( सहर्षम् ) फलितमस्माकं महास्त्रप्रदानेन, यदेवं तावदाविर्भावसमनन्तरमेव वत्सः प्रकामुत्सहते ।

घन्यो धनंजय ! पिता तव देवराजो घमर्मोऽग्रजः प्रियस्सुहृत्पुम्रूपोत्तमस्य ।
एतां भुवं मम तनुं गुरुभारभुग्रां लध्वीोफरिप्यसि हतप्रवरप्रवीरः॥५९॥

 अर्जुनः-( सप्रश्रयं विद्दस्य ) मम तनुं लघ्वीकरिप्यसीत्यनुचितमपि मयि करुणारसवशंवदाः समादिशान्ति पादास्तदेतत्प्रमाणाम् ।

 शङ्करः-( सपरिवोपम् ) वत्स कपिध्वज ! कथय किं पुनस्तव प्रियमुपकरोमि ।  अर्जुनः-( सप्रश्रयं सपरितोषम् )`भगवन् जगन्नाथ ! किमतः प्ररं प्रार्थये भवन्तम् ।

अस्त्रज्योतिः""""""""" नाध! दत्तं त्वया भे
 यत्प्रद्योतैः कुरुकुलतमः स्रस्तमद्यैव मन्ये ।
सम्पूर्णश्रीर्निखिलभुवनं पूरयन्हर्पपुरै-
 रद्यैवासीत्प्रक"'”'सूनुर्दिनेशः ॥ ६० ॥

तथापीदमस्तु-----
पर्जन्यो वृष्टिमिष्टां वितरतु करुणावारिणा पूर्यमाणो
 न्यायोपायप्रवृत्ता अवनिमवनिपाः पालयन्तु प्रसक्त्ताः ।
मोहध्वान्तप्रणाशां मनसि च महतां शङ्कराद्वैतमास्तां
 वाकूपीयूपप्रपाभिस्त्रिभुवनमनिशं मोदयन्तां कवीन्द्राः ॥ ६१ ॥

इति श्रीकिरातार्जुनीयो नाम व्यायोगः

कविवत्सराजविरचितः समाप्तः ।


दास्येऽहं परिरम्भणानि कितव  ! घूते जितानि त्वया
 भिथ्यौत्सुक्यमिदं यतः शातमहोरात्रास्तदीयाऽवधिः ।
इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिद्वय-
 द्रागुन्मेपनिमेषकोटिघटनव्यग्रो हरः पातु यः ॥ १ ॥

अपि च --
स्मेराः काक्षशतैर्निवार्य निभृतं चातुर्यधुर्याः सखीः
 सारिं सारयतो मृपा गपगयतः स्थानान्यतिक्रामतः ।
कण्ठाक्ष्लेषपणे दुरोदरविधौ चन्द्रार्द्धचूडामणे-
 र्देवीं वञ्चयतो जयन्ति गहनच्छ्द्मक्रमाः केलयः॥ २ ॥

( नान्द्यन्ते )

 सूत्रधारः-(सहर्षम्) अये ! अद्य किल नीलकण्ठयात्रामहोत्सवसमागतैर्विदग्धसामाजिकैः कालञ्जरपतेर्महाराजश्रीपरमर्द्दिदेवस्यामात्येन कविना वत्सराजेन विरचितं कर्पूरच्चरिताभिधानं भाणमभिनेतुमादिष्टोऽस्मि । यस्यैकपात्रप्रयोज्यस्याभिनये सुशिक्षितो मे कनीयान् भ्राता | पूर्वरङ्गमङ्गलमात्र एव ममोपयोगः । ( दिशोऽवलोक्य सहर्पम्) अये !प्राप्त एवायमभिनयोचितः स्वभावसुभगो विभातसमयः । सम्प्रति हि -----

दम्पत्योः स्मरसङ्गरव्यतिकरे प्रारव्धसाहायक-
 क्रीडाजागरणोत्सवेन रजनिप्रत्यन्तमासेदुपः ।
सिञ्जानैर्नृपवेश्मनिर्गतचलद्वाराद्वाराङ्गनानृपुरैः
 प्रत्यूषेऽपि न दीयते रतिपतेर्निद्रावकाशो मनाक् ॥ ३ ॥

अपि च-
 आच्छिद्य सद्यः प्रतिनायकस्य
  चन्द्रस्य मन्दप्रतिभस्य लक्ष्मीम् ।

तां शम्भलीं रात्रिमपास्य दूरे
 धूर्तो रविघौ गणिकामुपैति ॥ ४ ॥

 ( आकाशे कर्णे दत्वा ) मार्प  ! किमात्थ ? । आः किमेदं अणुचिदं मन्तीअदि । कहिं सुरासुरमहणिप्यमाणपाअफंसो भअवं सृरो । कहिं माआवंचिदसअलभुअणो धुत्तज[२९]णो ।

 ( समयम्) अलमलमुच्चैःकारमालापेन। किं न श्रुतं त्वया----

दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च ॥
सञ्चरन्ति महाधूर्त्त वटे वररुचिर्यथा ॥ ५ ॥

 किमात्थ ?। किं मं भाएसि ! णत्थि मे धुत्तादो भ[३०]अं ।

( नेपथ्ये )

 आः क्षुद्र मिध्यागरिष्ट ! तिष्ठ तिष्ठ ।

उत्सङ्गे सिन्धुभर्तुर्वसति मधुरिपुर्गाढमाक्ष्लिप्य लक्ष्मी-
 मध्यास्ते वित्तनाथो निधिनियहमुपादाय कैलासशैलम् ।
शक्रः कल्पद्रुमादीन्कनकशिकहरिणोऽधीत्यकासु न्यधासी-
 भ्हृर्तेभ्यस्रासमित्थं दधति दिविपदो मानवाः के वराफाः ॥६ ॥

 सूत्र०-( स्तुत्वा ) अये ! कर्पूरको नाम धूर्तोऽयमितः फ्रुद्धोऽभ्युपैति । तन्नेह युज्यते स्थातुम् ।

( इनि नेिष्क्रान्तः )

प्रस्तावना


( तत प्रशिाति कर्पूरकः. )

 कर्पूरकः-(सक्रोधम्) अपि च । रे मार्य  ! भकललोककामदुघां मापायिद्यां दूष्यतः कथं न यिदीर्णं रसनया भवतः? पश्य रे पश्य !

फथमकृत रघूणांमग्रणीर्वालिभङ्गं
 कथमग्मदल्यामग्नितुल्यां बिडौजाः।
घलिदमनकार्षीगनपाणिः कथं या
 न भयति यदि माया निष्पिधानं पिधानम् ॥ ७॥


 अथवा । अलं मे खलालापसमाधाननिर्वन्धेन । तदहमिदानीमजितार्थतीर्थप्रतिपादनाय दुरोदरशालामेव व्रजामि ।

यतः-
 घूतक्रीडाविहीनस्य वेश्यासु विमुखस्य च ।
 विद्यमानमपि व्यक्त्तं धनं स्वप्नधनोपमम् ॥ ८ ॥

( आकाशे )

 वयस्य चन्दनक!तिष्ट तिष्ट । मामपि प्रतिपालय | क्रिमात्थ ? सत्तट्टवासराइं दुरोदरविरहिणो ण तुह मुहं पुलोईअदि[३१] । ( सस्मितम्) अलं मे वित्तशन्यस्य दोपोद्भावनेन । वित्तशाठ्यं हि क्रमातिक्रमे गर्हितम् । किं व्रवोपि ? । वि[३२]लासवदीदिन्नहिअअस्स ण र्किपि ते पडिहाअदि । (विहस्य ) विदितोऽस्मि वयस्येन । एवमेवैतत् ।

अहरहरभुता अप्यपूर्वापमाणा
 निरुपधिमधुरास्नाः सुभ्रुवः प्रेमलीलाः ।
कृननिविटसमाधिर्भावयन्नन्तरात्मा
 परिशिथिलितवृत्तिर्वर्त्ततेऽन्यक्रियासु ॥ ९ ॥

( इति स्थित एव पठति )

( आफाशे कर्णे दत्वा )

 एयं मे वयस्यो व्रवीति । सुट्टु खु मे कोऊहल्लताओप्पेम्मलीलाओ आअण्णिदुं, जाहिं सअलभुअणमोहप्णो तुमंपि मोहि[३३]दो । ( सत्रीडस्मितम् ) कथयामि यदि न सुभगम्मन्यं मन्यते वयस्यः । एकदा मयेि केलिकलहान्तरिते सुगुप्तं सौधपृप्ठाचलग्ने अरतिभरनिरस्तनिद्रया तया गाथा पठिता | सेयमुत्कीर्णेव मनसि वर्त्तते ।

[३४]ग्वइ ण तत्थ धुत्ते वावारो कोवि इअरदूईण ।
आणेसु सिविणए तं मा णिद्दे णिद्दया होहि ॥

( इयासीनस्तथा तथा अरतिं नाटयति )


(पुनराकाशे )

किं व्रवोपि ? । किमेतां वीणामुत्सङ्गे धारयसि ? । सततमियं तदङ्कदुर्लालिता सेयं मां प्रोणाति । एतया किल सा भगवतीं भवानीमुषवीणयति । विपक्षपुरतोऽपिच्छलेन मद्गोत्राङ्कं गेयमुपगायति ( इति वीणां दुर्शयति ) | किमात्थ ? । तं य्येव गेअं अत्तणो गाएसु[३५] । आकर्णपतु मे वयस्यः ।

रतिरमणप्रियसुहृदा शशाङ्कसुभगेन निर्वृतिकरेण ।
कर्पूरेण वियोगो भगवति रुद्राणि ! मा भवतु ॥ १० ॥

( इति वीणया बहुविधं गायति । ध्यानं नाटयित्वा सोरस्ताडं पार्णि विधूय )

 किमात्थ ? । किं उण तुमं मउलाअन्तणेत्तो हिअअं ताद्देसि, पार्णि धुणेसि । (सास्रं ) वयस्य !

सखीं कृत्वा युक्तया स्फुदमदनुकारप्रणयिनीं
 तया साद्ध[३६] घूतव्यतिकरमथारभ्य सुतनुः ।
मुहुजिंत्वा जित्वा द्दढतरसमालिङ्गनपणं
 प्रहृष्टा द्रष्टव्या पुनरपि मया गुप्तवपुपा ॥ ११ ॥

 शान्तम् । अथवा मरणामेव तदनुस्मरणम् । ( क्षणं विचिन्त्य ऊर्ध्वगवलोक्य बाप्पं मुञ्चतेि )

( आकाशे )

 क्रिमात्थ ?।किं उण तुमं सहसञ्चिअ बाहच्छोहपक्खराविलमुहो संवुत्तो[३७] ?।

 वयस्य । पशयामीव पुरतस्तमद्य सौधशिरवरं, यत्राहं प्रेमविग्रहानुतापपरवत्या चन्द्रातपोपढौकितया स्वयमेव तया प्रणयेन कृतार्थीकृतोऽस्मि । प्रथमं हि सा तत्र घनसारपरागपटलनिचुलितस्फटिकशिलाधिशायिनी सखीजनाभिमुख्येन मां श्रावयन्तीो चन्द्रं प्रतीत्थमुक्त्वती-----

इहास्ति नूनं तुहिनांशुविम्वे
 कलङ्कधूमानुमितो हुलाशः ।


आनय स्वप्ने तं मा निद्रे निर्द्दया भव ॥

अस्यांशुपूरः कथमन्यथाऽसौ
 ज्चालाचलीडम्वरमातनोति ॥ १२ ॥

 ततोऽहं तदन्तिक एवानाकर्णितकेन स्थितः स्वयमेव तया विलुसव्रीडमुत्थायावर्जितोऽस्मि।

अन्पोन्यं करताडनेन हसतु स्वच्छ्क़्न्दमालीजन-
 स्त्पक्त्ता मानकथा कृताऽञ्जलिरसावङ्गीकृतं लाघवम् ।
आगःशल्यपरम्परा: सुभग याक्ष्चित्ते मम त्वत्कृताः
 सर्वास्ताः शशिविम्वचुम्वकशिलालोकेन दूरीकृताः ॥ १३ ॥

(नेपथ्यामिमुखमवलोक्य साशङ्कमाकाशे)

 किं पुनर्विहसितमुखः प्रियवयस्यः ? । न खलु मामुपहसति भवान् । किमात्य ? । जइ एरिसो कअत्थीकअकुसुमशरो परोप्परमणुराअवन्धो, ता कीस तुम तिस्सा दूदीभविअ गहिदपाहुडो पडिभुअंगं मंजीरअमणुसंधिदुं गदोसि त्ति हासेण फुटिदोम्हि[३८] । वयस्य एवं मा हास्यो वैदेशिकः । कार्याचार्यकथासु किन्न श्रुतं त्वया----

गर्वोर्मिभिरहार्याणां कार्यकौशलशालिनाम् ।
न्यक्कारोऽपि शुभोदर्क्कः स्पृहणीयः क्कचिद्भवेत् ॥ १४ ॥

 तत्त्वां फलसम्पत्तिरेवाराधयिष्यति । ( आकाशे कर्णे दत्वा ) किमात्य ? । सुद्दु खु मे कोऊहल्लं, ता कघेसु मे वित्थरेण णिअदुअत्तणं[३९] ।आकर्णयतु मे वयस्यः। गतोऽहं मनोद्याने पानगोष्टीगतस्य मञ्जीरकस्य पार्क्ष्वम् । ( इति हास नाटयित्वा) एवमाह भवान् । किं उण आरंभ एव हासेण चिलठदि भवं[४०]

 वयस्य ! तदेपचेष्टानुस्मरणेन हासपर्याकुलोऽस्मि । किमात्य ? । ता मह पुरदो तं प्येव पअडे[४१]सु।

 किंन कथयामि वयस्याय ? ।

वक्रो जूट: खल इव सदा कर्णदेशावलग्नः
 क्षीणः कूर्चो भट इव मुहुर्लब्धलोहमसङ्गः।


हस्ते शास्त्री भ्रमिशतकरी लासिकेव प्रगल्भा
 वाक्रसंरोधी गद् इव मुखे किञ्च ताम्बूलगोलः ॥ १५ ॥

अपि च-----
 उच्र्चैर्गाथापठनमशुभं श्रोत्रयोरात्मगीतं
  हस्ताघातैरुरसि तरलैर्मौरजी वाद्यविद्या ।
 भूयो भूयः कररुहपदोत्सङ्गिते दृष्टिरङ्गे
   ( इति तथा तथाऽभिनयं दर्शयित्वा )
  कर्तुं शक्त्तः क इव यदि वा तस्य दुश्चेष्टितानि ॥ १६ ॥

 विज्ञप्सश्चासौ मया कतिचित्पाश्वैस्थलटकसहचरक्ष्लाघाभिरुत्यफन्धरः ।

 ( सप्रश्रयम्) आउत्त मंजीरअ ! पेसिदम्हि तुह सआसं अत्ताए कलावदोए भणिदं च तीए ।

 पुत्र मञ्जीरक । तावकीयं विलासवती, काहमस्याः कृपायाम् ॥ किं नु त्वद्वियोगदहनेन विपन्नायामस्यां त्वमेको मे तनयः कलङ्ककलुपो भविप्यसीति वेपते मे हृदयम् | सम्प्रति हि-----

हरहिमकरलेखादुर्वला देहबल्ली
 क्ष्वसिलपयनयात्रामात्र एवोद्यमोऽपि ।
तव सुभग ! वियोगे विक्लवामित्थमेता-
 मपि विरहविरोघी शोचते पञ्चवाणः ॥ १७ ॥

 ततस्तेनोक्त्तम् | अस्त्येवमम्वाया हृदयं, विलासवत्यास्तु कर्पूरकासक्त्तचेतसः के वपम् । ततो मयाऽभिहितम् । णत्थि एर्व णत्थि ।

ततः स मामभ्यधात् । भद्र । नवागमनत्वादनभिज्ञो भवान् ।
अघाम्या कलहायिता सह मया कार्यं[४२] मपाघ व्रतं
  वाधन्तेऽद्य ममाङ्गकानि नृपतेर्नाटवे नियोगोऽद्य मे ।
 इत्थं मत्प्रतिपेघवद्धमनसस्तस्याः प्रभूतारुचेः
  स्फूर्त्तिः कापि विजृम्भते नवनवव्याजोक्तियुक्तिक्रमे ॥ १८ ॥

 अपि च----

मय्यारव्धकथे सखीजनमभिप्रस्तौति वाक्तन्तरं
 साकृनं फुरुते मुहुर्मम समस्याऽन्यस्य गर्हाग्रहम् ।


मद्विज्ञानकलासु कृणितमुखी मौनं समालम्वते
 निद्रां नाटयते करोति च पुनर्व्यक्त्तिं पुराणागसाम् ॥ १९ ॥

 किमाख्यातैः ? । व्यत्तमेव किं नादर्शि त्वया विलासवत्याःकेलिगृहे कर्पूरकालेख्यं यत्रायमालिखितः क्ष्लोकोऽस्ति--

वाचालत्वं पदालग्नो मञ्जीरः कुरुनां चिरात् ।
क्रप्रैर एय सर्वाङ्गसङ्गसौभाग्पभाजनम् ॥ २० ॥

 तन्नामसाम्यप्रीत्या च शिशिरेऽपि कर्पूरेणा सर्वाङ्गानि च्छुरयति । (कर्णे दत्वा ) किमात्थ ? ।

 अहो दे धन्नन्तणं जं पडिवक्खम्रुहादो णिाअसोहग्गं णिसुणिदं । (व्रीदृामभिनीय ) प्रियवयस्य ! समग्रं तावदाकर्णय । ततस्तद्धचनमाकर्ण्य कर्णौ पिधायाभ्यधायि मया ।

 कलहाइदो आउत्तो एवं जपेदि । शिविणएवि ण एदं संभावीअदि!संपदं खु,

सा राअभरिअहिअआ असरिसख्अस्स सअलुसुअणम्मि ।
तुह विग्गहस्स विरर्दि अहिलसइ अणण्णवाचारा ॥

[४३]  किमात्थ ? । किं तेण विन्नादं विवरीदत्थं तुह एदं चअणं[४४] ? । ( विहत्य ) कुदो विन्नादं ? । अनेनैव वचनोपन्यासेन परितुष्टेन गृहीतं ताम्बूलचन्दननवीनांशुकादिप्राभृतकम् । उक्त्तोस्मि च सपरितोपम् । भद्र निपुणाक ! गच्छ गच्छ तेनास्मदङ्गुलीयकाभिज्ञानेन ग्रहीप्यसि पारितोपिकमत्मद्गृहे दीनारसहस्त्रम् । वयमप्यागतप्राया एव । (नेपथ्यभिमुखमाकर्णनाभिनयं कृत्वा सपरैितोपमाकाशे )

 चयस्य चन्दनक ! आकर्णय आकर्णय एवमिहोघुज्यते । एवंविधद्धेरेवंविघमेव फलं युज्यते । यद्यनेन दग्धमञ्जीरकेण गणिकायाश्चन्द्रसेनायाः परिमुपितं वस्तु तत्किमेप त्वदीयचीनांशुकक्षृङ्गारितः सुव्यक्त्तं पर्यटति चत्यरेपु । तदिदानीमस्य राजकारागारकीलितस्य कः प्रतीकारः? । अर्थसञ्चयोऽप्यप्य केनोपि छलकलिताङ्गुलीयकाभिमानेन सर्व[४५] एवापहृतः । किमात्थ ? । किं तए गणिआए चंदसेणाए परिमुसिऊण तं तए चीणंसुअं कुवडपाहुडे मंजीरअस्स दिण्णं ? ।


 ( सहर्षम् ) वयस्य ! अथ किम् ? । ( पुनराकाशे ) एवमाह भवान् ।

 साहु वअस्सु साहु! पाचिदं मए तुह मित्तीए अद्धं[४६] फलूं जं तए चंद॒सेणाए परिमुसिदं सत्र्वस्सं । अहं खु तीए हआसाए हारदत्तदिन्नहिअआए णिाद्धणीकदोम्हि 'तइआ उण समग्गं फलं भणिदव्वं जइआ हारदत्तो तए कर्हिपि संकडे पाडिदव्वो ।

 चयस्य ! प्रतिपालय कियन्तमपि कालम् । तदपि फलितप्रायम् । (पुनराकाशे) एवमाह भवान् ।

 परमं खु एदं पहरिसट्ठाणं ता वित्थरेण णिवेदेहि । जहा तए चंदसेणा परिमुसिद[४७]त्ति ।

 आकर्णयतु मे वयस्यः । उपढौकितो मया हारदत्तहारस्तस्यै । उक्त्तं च । सामिणि दिट्टिआ वड्ढसि । जिदं जूअम्मि सामिणा हारदत्तेण हारद्त्तेण सअलजूदअरसव्वस्सं । अहं खु तुग्रं वद्धाविदुं पेसिदोम्हि[४८] । ततश्च सा--

किमयममृतवाप्यां रनानकेलिप्रसङ्गो
 घटयति किमु वृर्ष्टि माकरन्दीं वसन्तः ।
किमु समुपगताऽहं वैधवीं राजधानी-
 मिति हृदि हरिणाक्षी हारमामुच्य मेने ॥ २१ ॥

 प्रवृत्तश्च तढ्रहे हारदत्तागमन इव हारमाघ्रागमनेऽपि महोत्सवः । उत्तश्चास्मि तदम्वया मायावत्या ॥ वत्स ! वत्स ! अम्हाणं खु अज्ज मइरापराहीणो परिअणो । एदं अम्ह सच्वस्सं तुह य्येव । तो अप्पमत्तेण भोद[४९]व्वं ।

 ततो मयाऽभ्यधापि ।

 णात्थि एत्थ संदेहो । अप्पमत्तोय्येव चिट्ठ्मि[५०]


 अथाहं तद्गहे मत्तसुसपरिजने अस्वामिक इव प्रकामं सर्वस्वमादायापक्रान्तोऽस्मि । ( पुनराकाशे )

 वयस्य चन्दनक ! किमेवं कुप्यसि ? ।

 कीस तण्ए मह पडिवक्खस्स हारदत्तस्स पेसणं कदं[५१]

 प्रसीद् प्रसीद । नहि नहि मया तत्प्रेप्येणैतदध्यवसितम् । आकर्णय आकर्णय ( सोपहासम् ) जानात्येव तदा भवान् ।

ग्रन्थिच्छ्टाविकटजीर्णपटैकवित्तः
 स्कन्धर्पितव्दिगुणवाहुयुगोत्तरीयः ।
क्रोधोपभुक्त्तकठिनीधवलाधरक्ष्री-
 र्घूतप्रभोरहमभूवमतिप्रसादी ॥ २२ ॥

 ताद्दग्विघचेष्टितक्ष्चाहं गतो माणिभद्रस्यायतनम् । एवमात्थ ? । किं तुह जूदअरस्स माणिभद्देण[५२] ? ।

वयस्य मैवम् ।
  रूपान्तरं पुरारातेः प्रत्यर्थिदलनोद्धुर ।
 विनिद्रयति भद्राणि माणिभद्रः सदैव नः ॥ २३ ॥

 उपालव्धक्ष्च मया दौर्गत्योपतसेन भगवान्माणिभद्रः ।

पूजोपहारविनियोगपरम्पराभि-
 रायासयन्ति च धनानि च संहरन्ति ।
अश्शाम्प्रयं दृढभपि द्रढयन्ति पाशं
 विश्चप्रलम्भनपरा हि सदैव देवाः ॥ २४ ॥

 तन्ममार्पय प्रागर्पितपूजोपहारान् । माणिाभद्र' ! दृष्टा त्वया मदीया भक्तिः । अभक्त्तिरपीदानीं दृश्यताम् । इति परुपाक्षरमुदीर्य विश्रान्ते च मपि ( इत्यर्द्धोक्त्तौ दीर्घमुप्णं च नि श्वस्य वैक्लव्यं नाटयनि )

( पनराकाशे )

 वयस्य चन्दनक ! किमात्थ ? । किं उणं तुमं य्येव एवं विहलोसि[५३]


 वयस्य स॒मरण॒मपि सुदारुण॑ तादृग्द॒शायाः । तथाहूिं----

निदानं रागाणामजनि रजनीपूर्वसमयो
 जजृम्भे सा हृद्या मधुरमदिरागन्धलहरिः ।
उदीर्णा सा यूनां सहजसुभगा गीतसरणि-
 र्ममासीदासन्नं यमनगरदौवारिकवचः ॥ २५ ॥

 अथ पुरुपः सहर्पं कश्चिदभ्येत्य भगवन्तं माणिभद्रमभ्यधृात् भअवं माणिभद्द ! णमो दे । सअलोवि एस तुह पहावो जं मे सामी हारंदत्तो जूअम्मि जअलच्छीवल्लहो ता गेन्ह एदं पूओपहारं । अविअ । जइ मे कणिट्ठभादुओ णिउणओ देशान्तरपवासिदो आगमिस्सदि, ता एसो अहं चदुरओ सव्वस्सेण वि तुमं परितोसइस्सं[५४]

 इत्याकर्ण्य च मया भवितव्यमस्मादस्माकं कियताप्याधिसमाधानेनेति कृतनिश्चयेन स चतुरको निर्गच्छन्नुपयातः ।

 अथ स चतुरकः परिभलाहूतरोलम्बचक्रवालककृनीलतिरस्करणीविभ्रमं विवेश शौण्डिकागारम् । अथ तदङ्गणाददूरतः स्थितेन प्रारेभे मया करुणस्वरं कपटशोकाभिनयः । यथा किल साहु भणिदं खु केण वि सुभादुअरसप्ण्णुएणा एदं [५५]

देशे देशे कलत्राणि देशे देशे च वान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ २६ ॥

 हद्धी हद्धी । अहो मे दुट्टजीोविदस्स सुदिढत्तणं, ज तारिसस्स सुभादुअस्स चदुरअस्स वि विरहेण ण णीहरदि[५६]

 अध तेन मदालापसमुद्दीपितसमधिककरुणार्द्रहृदयेन ससम्भ्रममभ्येत्याभिहितोऽस्मि ।

 भद्द ण तुमं मह कणिट्टभादुओ णिाञ्उणओ[५७]


 अथ मया सक्ष्रेण तूप्णीमेव् स चरण्पोर्गृहीतः । ततोऽहं तेन भ्रातृविपोगदुःग्वभरविजृम्भमाणताराक्रन्दितेन कण्ठे गृहीतोऽस्मि ।

 अथ मयाऽभ्यधायि ।

 मुंचदु मुंचदु मं अज्जो । अलिअभादुओ रवु अहं । सइय्येव अज्जस्स दुक्खमुप्पादेमि ।

( पुनराकाशे )

 एवं[५८] विहसति भवान् ।

 अहो दे अलिअपिाउणअस्स वि वंकवअणम्मि सच्चं णिउणत्तणं[५९] । वयस्य चन्दनक ! किं वचनेन ? । पश्य मे कार्य एव नैपुणम्।क्षृणु तावदग्रतः । अथ स चतुरकेण समधिकारमहोत्सवेन शौण्डिकोऽभ्यधायि ।

 तुमं खु मे धम्मपिदा । देहि मे अवरं मइरं । माणइस्सं महूसवं । मिलिदो मे चिरपवासिदो कणिट्टभादुओ णिउणओ । एदं खु हारदत्तपेसिदं हारं समप्पिअं जं चंदसेणाए सआसादो पाविस्सं तत्ते समप्पिस्सं[६०]

 अथ मया जरदम्बरग्रन्थितः समुन्मोच्य समुपनीतं तस्य हिरण्यशकलम् । उक्त्तं च मया----

 अय्य चदुरअ ! गेन्ह एदं । मए खु तुह पहावेणं य्येव वहुदरं अज्जिदं । किं उप्ग चौरावहारादो एदं य्येव उच्चरिदं । अथ तेनोक्त्तम् । वत्स ! अणुचिदं खु एदं, कणिट्ठो तुमं । ततो मयाऽभ्यधायि । अय्य ! किं एदं वत्युदं । मए उण अज्ञस्स पसाएण वहुदरं अज्जिदव्वं ! अथ स तद्भ्टृहीत्वा जग्राह भूपसीं मदिराम् । किमात्थ ? । किं उण तए अट्ठाणे दविणओ चकदो[६१] । चयस्य मा भैपीः-

व्यभिचरति न दाहच्छेदकापक्रियाभि-
 र्जगदुपकृतिपात्रं जातरूपं तदन्यत् ।


 कनकभिनीद्दग्विक्ष्वविक्ष्वासघात-
  प्रणयिगहनमायाजालजातात्मलाभम् ॥ [६२]२७ ॥

अथ स चतुरकः
 निस्थामकरणग्रामः प्रकामं सीधुसेवया ।
 निद्रया सान्द्रया ग्रस्तः सन्निपातादिवापतत् ॥ २८ ॥

 अहं च चपकचुम्बनमात्रपरो मदिरयाऽनभिभूतस्तदुत्सङ्गतो,हारमादाय निप्क्रान्तोऽस्मि | ( नेपथ्याभिमुखं कलकलाकर्णनाभिनयं कृत्वा पुरोऽवलोक्य ससम्)

( आक्रोशे )

विरोधक । किमुद्धान्तो धावासेि? ।
आपृत्प्रशान्तिपु परा तव वुद्धिसिद्धि-
 र्न त्रासलेशमपि तत्त्ययेि सम्प्रतीमः ।
कापि प्रमादपरवानसि चेत्तदेप
 तघ्रास्ति मे रिपुकुलान्तकरः कृपाणः ॥ २९ ॥

 ( आकर्णनाभिनयं कृत्वा ) किमात्थ ? ।

 णत्थि मे किम्पि भअं णत्थि । अहं खु चंदणअं वद्धाविदुं पहाविदोम्हि । एसो खु एदस्स पटिघक्खो हारदत्तो रा अपुरिसेर्हि णिागिहीदो णिव्वासीअदि । एअस्स किल भिच्चेण चदुरएण अलिअभकणअदाणेण सोडिओ वंचिदो । अमवरेण अ णिउणाएण हाराहिण्णाणदाणवंचिदाए चदसेयााए सव्वस्सं परिमुसिअं । तुज्झवि सा पडिवक्ग्वभूदा कुट्टणो कलावदी दुहिदाए विलासवदीए गणिआगणस्स पुरदो कअसवृहणिव्वन्धं आजम्मं परिचत्ता ।

 ( सहर्पम् ) वयस्य विरोधक ! दीर्घ जीव दीर्घं जीव ।

पीयूपसिन्धुरजनिप्ट विनष्टनक्रः
 प्रोच्छिन्नदुर्जनकथाऽजनि काव्यगोष्ठी ।
जाताद्य चन्दनलता भुजगीवियुक्ता
 यत्कुद्दनीविरहिता गणिका वभूव ॥ ३० ॥


 तत्कथय कथमिदं संवृत्तम् । (आकर्णनाभिनयं कृत्वा) एवमात्थ? । म[६३]ए खु पढमं भणिदा सृणिहुदं सा कलावदो ! एसा खु तुह दुहिदा जूदअरकप्पूरम्मि विलग्गहिअआ तुह सव्वस्सं उक्खणिअ तस्स समप्पिस्सदि । तो तए अप्पमत्ताए भोदव्वं । पुणो अ मए विलासवदीो एवं गहिदत्था कया । जहा केिर एसा तुह अन्तिआ कप्पूरअपक्खवादकारणेण विरत्ता तुह सव्वस्सं उक्खणिअ कहिंपि गमिस्सदि । ता अज्ज रअणीए णिकिखदव्वा तए एसा । तदो जामिणीए पढमजामम्मि कलावदी दविणट्टाणमुक्खणन्ती विलासवदीए सकेसग्गहं कलहाविदा णिव्वासिदा अ ।

( सहर्पमाकाशे )

 वपस्य चन्दनक ! पश्य पश्य `भगवतो माणिभद्रस्य प्रसादमहिमानम् । द्वित्रैरेव दिनैः कृतकृत्याः स्मः ।

( पृनराकाशे आकर्णनामिनयं कृत्वा साश्चर्यम्)

 एवमाकाशवाणी क्ष्रूयते । वत्स कर्पूरक ! न तथा त्वद्भक्त्या परितुष्टोऽस्मि यंथा तद्दिने रोपगर्भैरुपालम्भैः । तर्तिक ते भूयः प्रियमुपकरोमि । (साश्चर्यहर्पमाकाशे प्रणम्य ) भगवन्प्रसीद प्रसीद क्षमस्व दुर्विनयम् । एप पुनः पुनः प्रणतोऽस्मि ।

विपत्पयोघौ निहिता विपक्षाः पूर्णाः प्रकामं कनकैर्निकायाः ।
शान्तोऽन्तरायः प्रमदासुखनामभ्यर्थये तत्किमर्ह कृनार्थः ॥ ३१ ॥

तथापीदमस्तु ----
लोकः सदा नन्दतु पूर्णकामश्चन्द्रार्द्धचूडे निविडामुरागः ।
वर्पन्तु कामं सलिलं पयोदाः कृपार्द्रचित्ताः कनकं नरेन्द्राः ॥ ३२ ॥

सपाप्तोऽयं कर्पूरचरिताभिधानो भाणः ।

कृतिरियं महाकवेर्वत्सराजस्य ।



दरमुकुलितनेत्रा स्मेरघफ्राम्युजक्ष्री-
 रुपगिरिपतिपुत्रि प्राप्तसान्द्रप्रमोदा ।
मनमिजमयभावैर्भावितध्यानमुद्रा
 वितरतु रुचिनं वः शााम्भवी दम्भभङ्गिः ॥ १ ॥

अपि च-----

 उपलशकलकल्पः कौस्तुभो यामिफो मे
  ट्टदि तय रमणीनां वार्यते केन यात्रा ।
 त्वमसि कुवलयाभस्तत्कटाक्षोपमर्द्दै-
  र्भणितिभिरिति लक्ष्म्याः पातु मूको मुरारिः ॥ २ ॥

( नान्द्यन्ते )

 सूत्रधारः-( सहर्पम्) दिष्टया मनोरथ इव द्रागुपगतः परितोपयति मामभिनयसमयः । अहं हि कालश्ञ्जरे चक्रस्वामियात्रासमागतविदग्धसामाजिकैरादिष्टोऽस्मि । यदद्य चन्द्रोदये देवस्य चक्रस्वामिनः पुरतो रुकिमणीहरणाद्वयः . कविवत्सराजविरचित ईहामृगोऽभिनेयः । ( सौत्सुक्यम्) किं पुनर्विश्रव्धायते मम परिजनः ? ।

 स्थापका-- (प्रविश्य ) भाव ! त्वर्यतां त्वर्यतां समतिक्रामत्यभिनयवेला । पश्येतु भावः ।

उदयगिरिकुरङ्गीरागपाशेन कृप्टः
 परिपततु कुरङ्गो मा ममायं विमूढः ।
दृति ट्टदि कृनशङ्गो नृनमेणाङ्क एप
 त्वरितपदमुपैति व्योमरङ्गस्य मध्यम् ॥ ३ ॥

 सूत्र०-( विहम्य ) अहो मे परिजनस्य निजदोपारोपणे परमूर्द्धनि नैपुणम् । भवन्त एव विश्रव्धा, भवन्त एव मां त्यरयन्ति ।

 स्थापकः-( विहम्य ) क्षाम्यतु क्षाम्यतु भावः । स तव प्रसादभृमिर्दुः

शीलो नाम शैलूपः कामपि कन्यां दुर्लभामन्पकामां समीहमानः सम्बोध्य सम्वोध्य निपिध्यमानो विलम्वमियन्तं कारितवान् ।

( नेपय्ये )

अपि यूथनाथ ! करिणीं कामपि रमणीं कुरुप्व रमणीयाम् ।
अभ्रमुसमागमाशाभ्रान्तिरियं दारुग्ण् भवनः ॥ ४॥

( आकाशे )

अपि भद्र । गत्वा श्रावयैतां गाथां तं दुःशीलं शैलूपं, तं च शिशुपालम् ।

(नेपय्ये )

श्रावय शैछ्ट्रपं, मा शिशुपालम् ।
भवत्वेपोऽविमृश्यकारी विपदामास्पदम् ।

 सूत्र०-मार्प!अक्रूरोऽयं रुक्मिणीशिशुपालपरिणयासूत्रणाश्रवणाज्झगिति प्रगल्भमाणरोपाङ्कुरो व्याहरति । तदेह्यावामनन्तरकरणीयं सम्पादयावः !।

( इति निष्क्रान्तौ )

प्रस्नावना


( ततः प्रविशत्यकृरः )

 अकूरः-( सरोपाश्चर्यम् ) अहो ! वालिशत्वं शिशुपालस्य । पद्पं मधुकैटभारिप्रेमसरसीराजहंसीं रुक्मिर्णीं निजमनोमरुमण्डले वलेन वासयितुमभिलपति । कधितं हि मे सुवुद्धया परिव्राजिकया रुक्मिणीवृत्तान्तम् ।

पुलकोद्गमपीनाङ्गी कृप्णविवाहं निशम्य सा भवति ।
मनुते विवाहमन्यं स्वप्नविवाहं कुरङ्गाक्षी ॥ ५ ॥

 रुकिमणीधाम्रेयिकया सुयत्सलयापीत्थं निवेदितम् । ते हि रुविमणीप्रहिते द्वेऽपि कृप्णं निरूपयितुं सुगुतमागते ॥ सा च सुचुद्धिपरिव्राजिका रुक्मिण्या गौरीोमन्त्रोपदेशगुरुरनुलङ्घयनिदेशा । रुक्मिणीकृष्णघिवाहाय च द्धेऽपि ते कृनप्रतिज्ञेते गते | दैवमग्रतः प्रमाणम् । अथवा वरयतु वरयतु शिशुपालो रुक्मिणीम् । अलं मे हर्पावसरे वैमनस्येन ।

सोऽयं महानभ्युदयो यदूनां यदित्थमागांसि करोति चैद्यः ।
तद्रत्त्क॒वर्पैकस॒मो मुरारेः क्रोघाग्निरु॒क्तिष्टति नान्यथास्य ॥ ६ ॥ .

 न चाद्यापि कपति कर्णो कृप्णस्य रुक्मिणीवरान्तरपरिग्रहवार्त्तादुर्वाता

 वर्त्तः । अहो ! महद्वैमनस्यमायातं जनार्द्दनस्य । कथितं हि मे तदासन्नपरिजनेन ----

किं कथ्यते श्रवण्गमात्रपरिग्रहेऽपि
 दत्तोत्सवा दनुजवैरिणि रुकिमणी सा ।
आलोकितेव निकटाग्निकटीकृतेव
 सोत्प्रासचाटुवचनैरनुमोदितेव ॥ ७ ॥

 तदहं तमेव देवमुपसर्पामि सन्धुक्षयामि रोपानलमस्य चेदीन्द्रदारुणदुर्णयोदन्तदारुणा । ( परिक्रम्य पुरोऽवलोक्य ) अये ! प्रास एवाहं सभासीधम् । (निरूप्य सहर्पम् ) कथं द्वावपीह रामकृप्णौ । अहो ! जगद्विख्याता वन्धुप्रीतिरनयोः | तथाहि-

एके रामं मरकतमया विभ्रते विम्विताङ्गं
 कृष्णं चैके स्फटिकघटिता व्यक्त्तमेवोद्वहन्ति ।
तत्सौभ्रात्रं सहजसुभगं संविदानैर्मनोज्ञैः
 सौधस्तम्भैरपि किमनयोः कल्पितः संविभागः ॥ ८ ॥

 कथं प्रतीहारमान्नपरिजनावेतौ ! । किमेतत् ! । ( कतिचित्पदानि दत्वा )

 किं पुनरिमौ क्रोधाविप्टाविव दृश्येते । तथाहि--

कपोलौ स्वेदाम्भःकणकवचितो दृष्टिरम्णा
 वपुस्ताम्रच्छायाच्छुरितमघरौ वेपथुमयौ ।
प्रलम्वघ्नस्येत्थं भवति मदयोगेऽपि रचना
 विना क्रोधोत्सेधं न पुनरमरारातिजपिनः ॥ ९ ॥

 तदुपसर्पामि । ( इत्युपसर्पति )

 प्रती०-( सप्रश्रयम्) अयेि देवौ रामकृप्णौ ! प्रणमति युवामक्रूरः ।

( अक्रूर प्रणमति )

 कृष्णः--( सालरयमिव ) आसनम् ।

( प्रतीहारः आसनमुपनयतेि )

 अक्रूरः--(सप्रश्रयं ससम्भ्रमम्) किं पुनरत्र भवतोर्वैमनस्पमिव पश्यामि ? ।

 कृष्णः--( सावज्ञम् ) न किञ्चित् ।

 रामः-(सरोपविशम् ) अपि अक्रूर ! घीरकृप्ण एव कृप्णः । आकर्णयतु भवान् ।

गोवर्द्धनमचलेन्द्रं तृणलयववुद्धचैव यः किलातुलपत् ।
वीरस्तृणाय कृप्णं तमेव वन मन्यते रुक्मो ॥ १० ॥

 अक्रूरः-( साश्चर्पम् ) म्क्मी शार्ङ्गपाणौ गर्वायन इति न प्रत्येनि हृदयम् ।

 कृष्णः--(सावलेपस्मितम् ) प्रतीहार ! निवेदय यथावृत्तम् ।

 प्रती०-इह मया कृप्णदेवे समागच्ध्छति विजूयतां देव इत्युदीरितम् । ततः कश्चिदिह वहिःस्थितो वन्दी ससंरम्भं वभापे ।

आच्छाघ देवभणिर्ति भुवि भव्यभोगान्
 रे भूभुमुजो भजत मुक्तमुधाभिमानाः ।
सरंव्धरुकिमशरगोचततां गतानां
 युष्माकमस्तु सुरसद्मनि देवशब्दः ॥ ११ ॥

अपि च-
 दावाग्निमालिङ्गति कः प्रमत्तः ।
  कृप्णाहिना क्रोडन्नि हेलया कः ।
 प्राणाः प्रियाः कस्य न जीवलोके
  को रुकिमणं रोपयने रणाय ॥ १२ ॥

 अक्रूरः--( ससंरम्भम्) ततः किमुक्त्तं रामेण ? ।

 प्रती०----- पक्ष्चादिहायातं प्रलम्बारिणा कृप्णवीरेण किमनुक्त्तमासीत् ।

 अक्रूरः--( सौत्सुक्यम् ) किमुक्तम् ? ।

 प्रती०--एवमुक्तं समानय तं वीरं समराङ्गयम् ।

परमानन्दकृद्दानं युगपत्तव रुक्मिणः ।
द्रविणेन कृपाणेन करिप्ये समराङ्गणे ॥ १3 ॥

 अक्रूरः:---साधूक्त्तं कृप्णदेवेन । अहं पुनर्न प्रत्येमि मुरारौ रुक्रमी वैरायते ।

छागो मुहुवैल्गति गाढगर्वक्ष्छ्गन साद्ध प्रसरत्प्रमोदः ।
कण्ठीरवं वीक्ष्य सशव्दकुण्ठं को वेत्ति वैक्लब्पमुपैति कीदृक् ॥ १४ ॥

 वन्दिनस्तु वन्द्या एव । किन्नैते घदन्ति । अयि वीर शिरोमणे कृष्णदेव ।

त्वर्दूीयमन्दकान्दोलमासूंते॒नापेि सद्रुमः ।
 वैकुण्ठः कम्यतेऽत्यर्थे रुक्मियाः परमो गुरुः ॥ १५ ॥

 आकर्णितो मया अविनयः शिशुपालस्य । न च विज्ञपयितुं युज्यते तत्र प्रहितमििर्यवदस्यानागमने ।

( नेपय्ये )

 कः कोऽत्र भोः | निवेदयत कौपिडनपुरादागतं प्रिर्यवदम् ।

( प्रतीहारः सहसोपसृत्य प्रियंवदेन सह प्रविशति )

 प्रियंवदः-( सहसोपसृत्य ) एप प्रियंघदः प्रणमति ।

 अकृरः-( उपविश्य ) निवेदयतु भवान् ।

( प्रियंवदः उपविश्य तिष्टति )

 अकृरः-( स्यगतम्) मुखविकार एव व्याकरोति प्रयोजनासिद्धिम् । तदपि पुनः पृच्छामि | ( प्रकाशम् ) प्नियंवद ! विज्ञपय ।

( प्रियंवदः तथैव तूम्र्णीमास्ते )

 अकृरः--प्रियंवद ! किं न विज्ञपयसि ? ।

 प्रियं०--जइ विण्णविदुं उचिदं भोदि ता किन्न विन्नवेमि । को मह तहा विण्पाविदे दुदीअं जीहं दइस्स[६४]दि ।

 रामः-( ससंरम्भम्) किन्न विज्ञपपसि यथावृत्तम् ? ! किमिह तवैघ क्रिमप्यागः ? ।

 प्रियं०--( सभयम् ) तदवि अहं न विण्णविस्सं । लेहोय्येय एसो विण्ण[६५]वेदु । ( इति लेग्त्रमर्पयति )

 अकृरः-( वाचयति )

पशोदापाः स्तन्यैस्तव तन॒रयासीदुपचयं
 वनान्तेपु भ्रान्तस्त्वमसि सह तैस्तर्णकशनैः ।


यदि त्वादृक्कश्चिद्वत नृपतिपुत्रीं वरपते
 तदानीं कः क्रोघः किमु न शशिानं घाञ्छति शिशुः ॥ १६ ॥

 प्रियं०-ए[६६]स उण लेहो सिसुवालेण रुप्पिणीकए पेसिदो । रुप्पिणावि एदं केसवस्स दंसयिस्ससित्ति भणिअ मह हत्थे समप्पिदो ।

(इति द्वितीयं लेखमर्पयतेि )

 अकूरः -- ( वाचयति)

 गतः पुप्टिं वाल्यात्प्रभृति चिरमाभीरभवने
  ततः स्यामिद्रोहव्यतिकरसरूमहिमा ।
 सवैकुण्ठः सूरो यदि हृदि विल॒ग्नोऽस्ति सुतरा-
  मकुण्ठोऽस्मत्खङ्गस्तदयमपि गण्योऽस्तु भवताम् ॥ १७ ॥

 शिशुपालस्य प्रकृतिदुःशीलस्य नेदमद्भुतम् । रुक्मिणः पुनः प्रकृतिवैपरीत्यमिदम् । ( साश्चर्यम् ) प्रियंवद !

 श्रुतो भूतावेशः किमु न भवता तस्य विपमः

 प्रियं०-(विद्दस्य ) ला[६७] कधं इअरकज्जे कुसलो ? ।

 अक्रूरः-प्रदत्तोऽयं लेखः किमु न मदिरापानसमये ।

 प्रेियं०--ण[६८] हु ण हु ।

 अकूरः-न कृप्णस्तेनान्यो मनसि कलितो भ्रान्तिवशतः ।

 प्रियं०-( सॊपहाप्तम् ) अवरोवि किं कन्हो बलभद्दभादुओ वसुदेवसुओ देयईनंदणो[६९] ? ।

 अक्रूरः--धुवं क्रद्धः कालो विघटयति सदुद्धिमचिरात् ॥ १८ ॥

 राम्ः-( ससंरम्भम् )


नहि वहति नरेन्द्रे क्कापि सद्वीरमुद्रा-
 रभसरसदरिद्रे जाङ्गले लाङ्गलं मे ।
उपचितसुखराशिं चैद्यदेहं खनन्तो
 फलतु कृपिरिदानीं साधु सङ्कर्पणस्य ॥ १९ ॥

 कृष्णः-( स्वगतं सहर्पम्)

चित्त प्रसीद् समुपैति मनोरथस्त्वां
 सा वल्लभाऽद्य सुलभाऽजनि दुर्लभापि ।
त्यता गृहस्थपरिपाटिकदर्थना सा
 जातोऽधुना सपदि नन्दक एव दूतः ॥ २० ॥

 रामः-( खङ्गमास्फालयन् सहर्षे ससंरम्भम् )

स्वच्छन्दं मधुपानकेलिपु मया स्वात्मा सुखं स्थापितः
 प्रीतस्तत्र कृतो निजः परिजनस्त्वं वञ्चितः केवलम् ।
इंहो खङ्ग । पित्र प्रकाममधुना सम्यन्घिनो रुक्मिणाः
 स्वादुस्फारमहास्रपूरमदिरां लुम्पामि दोपं निजम् ॥ २१ ॥

 अक्रूरः-( सहासं सरोपम्) अयि वीरशिरोमणे राम ! शिशुपालम्क्मिणीपरिणयेऽपि भवतां रुक्मी सम्वन्धी ।

 रामः-( सरोयं ससंरम्भम्) अयि अक्रूर ! यादृगक्रूरो न भापते तादृगुक्त्तम् ।

कंसारिः परिणेप्पते परमपं तां रुविमणीं कन्यकां
 चेदीन्द्रो विहरिष्प्यते सुरवधूयर्गेणा सार्द्धं चिरात् ।
यघेतत्समराङ्गणे सफलयाम्युन्मुद्रदोर्विक्रमो
 नामोद्दामगुणै भविप्यति परं तत्कामपालेति मे ॥ २२ ॥

 अपि प्रतीहार । दीयतां समरविजयप्रयाणदुन्दुभिः ।

 प्रती०--यथादिशति स्वामी ।

 कृष्णः-( सप्रश्रयम्) अयि रौहिणेय ! कल्पान्तक्रुद्धरूद्रापवादः कोऽयमकाण्डे दारुणः संरम्भः । महदिदमनुचितुमू ।

क्षतसमदगजानां कुम्भमुक्त्ताफलौवै-
 र्वितरति वनदेशे केसरी यश्चतुप्कम् ।


चपलचटकडिम्भे दातुमिच्छोक्ष्चपेटं
 कथमिव वत लज्जा तस्य नैयोज्जिहीते ॥ २३ ॥

 रामः--कृप्ण ! कृप्ण ! तिष्ठ नैप विलम्बावसरः ।

क्षुद्रक्षन्नियकीटकैरविदितक्षात्रव्रतैः कल्पितं
 वाक्पारुष्पमपावनं कलयतोर्मत्कर्णयोर्दारुणम् ।
प्रापक्ष्चित्तविधिर्भविष्यति दलत्तत्कीकसोल्लासिता
 तेपां कण्डननिःस्वनेन मुशलैर्युद्धणोदूखले ॥ २४ ॥

 कृष्णः-( ससंरम्भम्) आः ! किमकृष्णा पृथिची यदित्थमुत्ताम्यसि ।

मत्कारणेन गुरुणा मम दुर्मदारि -
 फ्रूराक्षरक्ष्रवणदुःखमसह्यतेदम् ।
कृष्णोऽस्मि चेदहह ! तत्परितोपयिप्ये
 कर्णौ तवोत्कटतदीयवधूविलासैः ॥ २५ ॥

 रामः-( सवात्सल्यम् ) कृप्ण ! कृप्णा ! मैवम् ।

शास्त्रास्त्रविघासु न वालिशोऽसि
 तथापि मे केशव ! वालिशोऽसि |
त्यां रुकिमणीपणिनिपीडनाय
 वरं न योद्धारमहं करिष्ये ॥ २६ ॥

 अक्रूरः-( सहर्पम्) नन्दन्तु यादवाः, यदि द्धेपिनिप्पेपाय रामकृष्प्णावित्थं कृतप्रतिज्ञौ ।

 रामः-( सावेगम् ) अक्रूर ! समाकर्णय वैरिवधविलम्वासहं मम दुष्प्करं नियम्म् ।

द्दसारातिक्षतजमदिरासत्रदातुः शिवाभ्यो
 यावन्नास्प प्रणमति पदौ केशवो रुक्मणी च ।
प्राणेभ्योऽपि प्रिपतरगुणां सम्मदाद्वैतकत्री
 हालां हालाहलमिघ हली मन्यतां तावदेपः ॥ २७ ॥

 अकूरः-अहह ! दुष्करः कृतो रामेण नियमः ।

 कृष्णः-आः! कष्टं कष्टम् ॥ किमकाण्डे नः कष्टमङ्गीकृतमार्येण । अत्र्कूर ! तदिदानां प्रातरेयास्तु प्रयाणोत्सवः ।  अक्रूरः-एवमेवास्तु । सम्पति हि प्रतीचीप्रयाणोत्सुको वर्त्तते गभस्तिमाली।

(नेपश्ये)

यामानिमान्कतिपयानपराम्बुराशि-
 सौधस्थितो गमय मीलितरशिमनेत्रः।
सृर्य ! प्रसीद् पुनरभ्युद्याधिरूढः
 प्रहादयिष्यसि जगन्नवकान्तिकान्तः ॥ २८ ॥

 रामः-( श्रुत्वा सहर्पम् ) अहो ! सदुपश्रुतिः ।

 कृष्णः--उपश्रुत्या प्रबोधितोऽस्मि । तदेहि भवने यामिनीमेतां समर र्गलामतिवाहयावः

( इति निष्क्रान्ताः सर्वे)

प्रथमोऽङ्कः


 प्रियंवदः-( पुरोऽवलोक्य ) कधं एसो देवोए रेधदीए सोविदल्लो अधयदीवओ इदोमुहं परिक्कमदि। ता जाणेमि इमादो रेघदीरमणबुत्तन्तं । (उपसृत्य) अय्य दीवअ ! एसो पियंवदो पणमदि[७०]

 दी॒पकः-दैत्या॒रिप्रसादभाजनं भूयाः ।

 प्रियं०-अय्यदीवअ । पडिवुद्धो बलदेवो[७१] ? ।

 दी॒पकःकदा प्रसुप्तो वलदेवः ? ।

 प्रियं०-( ससम्भ्रम साश्चर्यैम्) अहो ! कोयसमावेसो महावीरस्स । ता किं समग्गं घ्येव जामिणिं जागरिदो[७२]

 दीपकः-

भत्तान्सल्ल्य कुञ्जरान्हरिवरान्पर्याणयोज्जागरा-
 न्शौर्यस्यावहसरोऽद्य तिष्टत भटाः कष्टं क्क नष्टा द्विपः ।
उत्स्वप्नायितभङ्गिभिर्मुखरितः क्रूराभिराभिर्मुहुः
 क्रोधोत्सेधमहन्तरयविरलां निद्रां सिपेवे वलः ॥ १ ॥

 प्रियं०-कहिं पुण अप्यो पत्थि[७३]दो ? ।

 दी॒पकःप्रेवितोस्मि प्रयाणारम्भाय बलदेवेन देवकीनन्दनसकाशम्।

 प्रियं०--अहं उण कामवालं आणेढुं कण्हेण पेसिदोम्हि !चिट्टदि कन्हो उद्धवअक्कूरसञ्चइसहिदो सहार्मडवम्मि । ता एदु अय्यो । सहिदय्येव वलभद्दवणं गच्छम्ह[७४]


 दीपकः-क्रोघनः प्रलम्वारिस्तदहं यथादिष्टं सम्पादयामि । त्वमपि निजनियोर्ग सम्पादय ।

( इति निष्क्रान्तौ )

विप्र॒कम्भकः


( ततः प्रविशति सभामण्डपे यथानिर्दिष्टः कृण्णः )

 कृष्णः-( स्वग्तं सोत्कप्ठं सरोपम्) अहहद् !

तरलयतः स्मररोपौ दुर्मदरिपुमदनकेलिरमणीयौ ।
मां पाणिपोडनविधौ रुकिमण्या असिलतायाश्च ॥ २ ॥

 अपि च----

अहो ! मदनप्रभावयैभवम् ।

श्रुतिपरिचयमात्राच्चारुनेत्रा प्रिया सा
 हदमपि गृहीत्वा किम्करं मां करोति ।
यदयमदययुद्दोन्मर्दलीलारसोऽपि
 स्फुरति तदनुरोधादेव विद्वेपिपेपी ॥ ३ ॥

 तदेयं तायत् । (प्रकाशं सक्रोघम्) अयि सुमन्त्रिणः! किमुच्यते युष्मासु ।

दम्भोलिरुत्पलपलाशमृदुस्तदग्रे
 यैरक्रिपन्त परमाणुचयैभैवन्तः ।
तैर्द्दसवैरिपरुपाक्षरतीक्ष्णटङ्कै-
 र्येपामफारि गृट्दयेपु न कोऽप्युपाधिः ॥ ४ ॥

 सात्यकिः-( ग्तावज्ञम् ) अयेि जनार्दन ! विज्ञपयामि ।

ये केचिन्मदयेगलुप्समनयो ये यातघातृलिता
 ये गर्वग्रहलङ्घित्ता विकृतिकृत्ट्टद्वः स येभ्यो यमः ।
तेपां की पुम्पाक्षरेपु गणना हामः परं युज्यते
 दुर्वृत्तोचितदण्टपातनविघौ कस्तेपु दोलायते ॥ ५ ॥

 कृष्णः-( सहर्पम् ) तदिदार्नीं किं विलम्वेन ? ।

 उद्धवः-( समिनम् ) कृप्णा ! किमीत्सुक्येन ? ।

दर्पोत्फटाः प्रतिभटारून्वयि सम्युग्वीने,
 यास्यन्ति क्रिन्नु परिहत्य रणोत्सवं ते ।

किं तेपु ते नयनगोचरतां गतेपु
 वन्ध्यो भविष्यति शरासन एप शार्ङ्गः ॥ ६ ॥

 अत्र्कूरः-- ( सप्रश्रयम् ) अपि देवकीनन्दन ! किं चेदिराजनगराय किमुत कौण्डिनपुराय दीयतां प्रयाणमिति संशथान्धकारे भवतु देवस्य म्होत्साहविशेपः ।

( दीपकः प्रविश्य )

 दीपकः-( सप्रगाभं सप्रश्रयम् ) देव ! प्रेपितोऽस्मि रामेण कौण्डिनपुराय प्रयाणकं कारयितुम् ।

( कृष्प्णः सस्मितमक्रूरमुखमीक्षते )

 अत्र्कूरः-भद्र दीपक । विज्ञपय गत्वा वलदेचमिहागमनाय । सिद्धमेवैतत् ।

 कृष्णः-प्रेपित एव मया तत्र मेिर्पवदः ।

 प्रियं०--( प्रविश्य ) देव ! आगदो एस समररणरणञ्अजागरेण कहृकहवि गमिदजामिणीसमओो रामवीरो[७५]

( तत:प्रविशति रामः )

 कृष्णः--( ससग्भ्रमम्) आसनमासनमत्रभवते ।

( प्रियंवद् आप्तनमुपनयति । रामः सर्वान्यपेचितं सम्भाव्योपविशति )

 कृष्णः----( रामं विभाव्य स्वगतं सहर्पर् )

विघ्वस्तरित्रपुरीपुरीपरिवृढः प्राप्तैव सा रुकिमणी
 रुकमी सोपि निराकृनाहवभरः क्लैव्यैकपात्रं कृनः ।
इत्थंसिद्धमिवावगत्य रुचितं बाढं मनः प्रीयते
 द्दष्ट्वोंत्साहचिभूषणं वपुरिदं त्फारं प्रलम्वद्रुहः ॥ ७ ॥

 उद्धवः ---( सहर्पाक्ष्चर्ये स्वगतम् ) अहो । सर्वातिशायिता वीराणाम् ।


 तथाहि -

 दृष्टे वले वलीयसि सङ्कम॒ति शौर्येमस्मदाघेऽपि ।
 गलहस्नित इव सहसा निष्क्रामत्युपशमो हृदयात् ॥ ७ ॥



 राम्ः-(सरोपोपहाप्तम्) अयि मन्त्रिणः!। किमद्यापि मन्त्रयन्ते भवन्त? ।

 अधवा --

 वेगादुच्चाटयन्ती सुचिरमुपचितं क्षात्रधर्मप्ररोहं
  किं स्तुत्यो मन्त्रशक्तिः स्फुरति निरुपमा कापि सन्मन्त्रिणां वः ।
 क्रोधाग्निस्तम्भिका या दनुजदमयितुर्मानसं मोहयन्ती
  दृप्तक्ष्मानाथनारीनयनयुगजलस्नम्भमाविप्करोति ॥ ९ ॥

 उद्धवः-( सावक्षहासम् ) अयि राम ! वैरिवर्ग एव विजृम्भतां भवतः प्रकोपः । इह सम्प्रधारितमेव प्रयाणम् । प्रियंवद ! आहुयन्तां मौहर्त्तिकाः ।

 रामः-( सोपहासम् ) किमनेन मुधा विस्तरेण ।

सर्वे ग्रहाः प्रसन्ना नन्दकमुष्टिग्रहानुकूल्येन ।
आयासो गणकानां मिथ्या ग्रहगणितविस्नारैः ॥ १० ॥

 अपि च'---

 व्योन्नि प्रहित्य मुशलं ग्रहमण्डलीं ता--
  मावर्त्य साधु घटयामि तथा यथाऽऽत्थ ।
 उञ्चावचस्थितिविपर्ययतोऽनुकृला
  सम्पादयिप्यति समीहितसिद्धिमेव ॥ ११ ॥

 उद्धवः- ( सप्रश्रयम् ) अयि प्रलम्वारे ! घर्मोद्धाराय कृनावतारा भघन्तस्तन्मैवम्।

सिद्धयन्ति कामा वलिनां वलेन
 लोकस्थितिः किन्तु न लङ्घनीया ।
दृष्टयैव संहर्त्तुमलं गिरीशः
 शन्नुच्छिदे स्न्नयति त्रिशूलम् ॥ १२ ॥

 रामः-(सोत्साहम् ) अयि आङ्गिरसशिाप्य सर्वज्ञशिरोमणे ! अहमेव तव मन्त्रगर्ति सफलीफरोमि । आनय मौहर्त्तिकान्, परिनिष्टीयतां विवाहलग्रम् ।

आमुक्त्तकङ्कणभुजो मधुकैटभारि-
 रत्रैव तिष्ठतु विवाहदिनप्रतीक्षः ।
वीरेण तेन सहसा सह रुकिमणैव
 तां रुकिमणीमहमिहैव समानयामि ॥ १३ ॥

 उद्धवः-अपि राम ! मैवं मैवम् ।

वातान्दोलचलाचलघ्वजपटक्ष्रेणीमिलन्मण्डपे
 सिञ्जनोत्कददुन्दुभिध्वनिमये सङ्गामलीलाङ्गणे ।
उद्वाहं विजयश्रियः क्षितिभुजामग्रे गुरूणां हरिः
 कृत्वा भीष्मकपुत्रिकापरिणयं पश्चात्करिष्दयत्यसौ ॥ १४ ॥

 कृष्णः-(सप्संरम्भं सोपहाप्तम्) युज्यन एव ज्येष्ठस्य वलदेवस्य। तथाहि---

अरिप्टस्य ध्वंसः कपटहयकेशिप्रमथनं
 स चाणूरच्छेदस्नदपि मथुरानाथदलनम् ।
इति स्वल्पोघोगे निकपितभुजं दारुणनरे
 दयालुस्तालाङ्क कथमिव रणे योजयति माम् ॥ १५ ॥

 रामः-( सहर्षहाप्तम् ) अयि मन्त्रिणः !

मनःकुटीरे मधुकैटभारेरभ्युद्यतः क्रोघहुताशनोऽयम् ।
इहैव दुर्वुद्धिसमिद्भिरास्तां प्रयाणमाङ्गल्यविघानहोमः ॥ १६ ॥

 अपि मधुकैटभारे!तदुत्तिष्ठाभिवाद्य पिनरौ विजयप्रयाणाय सज्ञीभवावः।

( ततः प्रविशति वसुदेवो देवकी प्रतिहारी च )

 प्रती०-इदो इदो एदु देवो, इदो इदो एदु देवी[७६]

 रामः--( विलोक्य सहर्पम् ) अयि कृप्ण ! कृष्ण ! पश्य पश्य स्मरणमात्रादेवोपस्थितौ पितरौ । तदनेन सुनिमित्तेन मनोरथसिद्धिमपि तव द्रागभिमुखीं विभावयामि । तदुभ्युत्तिष्ठावहे तावत्पितरौ । ( इ॒युत्याय नाटयेन प्रणमतः )

 वसुदेवः-( उभौ शिरस्याघ्राय ) अयि रामकृप्णौ ! न जाने किमाशासे भवतोः | भूयास्तां समस्तमनोरथपात्रं भवन्नौ ।

 देवकी-अजरा अजेआ अहो नु मह पुत्तआ[७७]

 ( उद्धवाद्याः तपम्भ्रममुत्थाय प्रणमन्ति । प्रर्तीहारीं प्रियंवदा चासनान्युपनयतः । सर्वे यथोचितमुपविशन्ति )

 कृप्णः--( स्वगतं सहर्पोकिण्ठम् )


एतां विलोक्य जननीं सहजोज्जिहान-
 वात्सल्यमुद्धटयते कमपि प्रमोदम् ।
जन्मान्तरैरुपचितामिव तां यशोदा-
 स्नेहस्थिर्ति ननु तदप्यवजेतुमीष्टे ॥ १७ ॥

 रामः-( सप्रश्रयम् ) किमादिशन्ति गुरवः ? ।

( वसुदेवो देवकी मुखमीक्षते )

 देवकी-अयि राम! कन्हविवाहत्थं गमिस्मध कोण्डिनपुरम् । भोदु मह ननंदाए नंदणो विसमसराहिट्टाणं रत्तंबरमंडिदो परमसुहभाअ[७८]णं ।

 रामः--( साकूतस्मितम् ) अयि कृप्पा ! प्रनीच्छ पित्रोरादेशम् ।

 कृप्णः-शिरसि वद्धाञ्जलिं सिद्धमिममादेशां मन्यन्तां पादाः ।

 उध्द्रवः--( अपवार्य ) अयि सात्यके ! अपि अक्रूर ! ग्रन्थौ वध्नन्तु भचन्तो देव्या देवक्या निदेश्ठाम् । अयि राम ! कृप्णविवाहाय कौपिडनपुरं गच्छत । भवतु मम तत्र ननान्द्टनन्दनः-(इत्यद्धोक्त्तौ स्मितं नाटयति )

 अक्रूरसात्यकी-तिष्टतु तिष्टतु । अलं व्याख्यया ।

 देवकी-( सहर्पम् ) अयि विजये ! गच्छ समाणेसु शिशुपालदूअं[७९]

 प्रती०-जं देवी आणवेदि[८०] । (इति निप्क्रम्य तेन सह प्रविशति)

 देवकी-( सहर्षम् ) अपि संधाणअ ! उञ्असप्प कन्हं सरामं[८१]

 सन्धानकः-जयदु जयदु रामेणा समं कण्हो[८२]

सुहलक्खणसंपुण्णं अणुरत्तं रअणसालिअं एदं।
अइदुल्लहमवरेर्हि रोन्ह तुमं कण्ह ! नरवडणो[८३] ॥ १८ ॥

( इति माणिक्यमालामुपनयति । कृप्णो नाटयेन गृण्हाति )


 देवकी-विजये आसणं संधाणञ्अस्स[८४]

 सात्यकिः'--( अपवार्य ) मन्त्रिशिरोमणे उद्धव ! अक्रूर ! जीने अनेन वचनोपन्पासेन रत्नमालासमानयनेन च हस्तगता हरेः संवृत्ता रुक्मिणी ।

 उद्धवाक्रूरौ--( सहर्पोल्लासम् ) साधु साधु ! एवमेवैतत् ।

(नेपय्ये )

आसूत्रितामहह ! कृप्णकृते किमेतां
 त्वं मालतीं स्पृशसि पाणितलेन मोहात् ।
धिग्घिकप्रमाद्यसि मुधैव विपत्प्रवेदा-
 द्वारं जना अनुचिताचरणं वदन्ति ॥ १९ ॥

 उद्धवः-( सहर्पम्) अये ! बोधयति सदुपश्रुतिरियं शिशुपालदूतं, यदि परं जानीते ।

 रामः-( सरोपमिव ) प्रियंवद ! ज्ञायतां कोऽयं कस्य मा जिहीर्पति ।

 प्रियंवदः-( निष्क्रम्य पुनः प्रविश्य मालतीमालां कृष्णायोपढौकयन्) कन्हएव ! गेन्ह गेन्ह । एसा खु मालईमाला तुह कए मालाआरेण उअणिय्यमाणा केणवि गहिदुमीहिता । पुणो सो मालाञ्आरचंडवआणाहिक्खिविदो पलाइ[८५]दो ।

( रामः साकूतं विहस्य उद्धवादीनालोकत्ते )

 कृष्णः-( स्वगतं सहर्षम् )

सर्वस्वं कुसुमेपोः कामप्यानन्दसम्पदं दधती ।
सा रुकिमणीयमागान्मम करकमलं न मालतीमाला ॥ २० ॥

 उद्धवः-( सहर्पम् ) अयि कृप्णदेव ! विवाहयात्रारम्भसमयसमाग- तेयै मालतोमाला सुनिमित्तस्सृचिका । परिधीयतां द्रागियमव्यया ।

( कृष्णः सहर्प तया करोति )

 वसुदेवः-अयि सन्घानक ! कदा पुनर्विवाहोत्सयः ? ।


 सन्धानकः---- इहय्येवे माहवे विवाहो भविस्सदित्ति भणमि[८६]

 उद्धवः-( साकूतम् ) सत्यमाख्याति सन्धानकः ।

 रामः-(साकूतस्मितम् ) अयि कृप्ण ! किमद्यापि घिलम्वते । वैशाख एव रुकिमणीविवाहः ।

 कृष्णः-अपि सन्धानक ! निवेदय चेदीश्वराय । आगता एव वयं विवाहप्रत्यासत्तौ कौण्डिनपुरम् ।

 अक्रूरः-कोशाध्यक्षान्समादिश्य दत्तपारितोपिकं प्रेपय सन्धानकम् ।

 सन्धानकः-अयि देच कन्ह ! कह णु देविं देवई परिच्चइअ गदो तत्थ उच्चरामि[८७] ? ।

 देवकी-संधाणअ ! रामकन्हा वरपत्तिआ आअण्णिअ पिउच्छाए भविस्सदि परिओसो । किं मए[८८]

 सन्धा०--ता इहय्येव वहू तुह पाअवंदणन्थं आगमिस्सदि[८९]

 सात्यकी--कोऽत्र विप्रतिपद्यते । एतदेव वधूगृहम् ।

 वयदेवः-वयमेव सन्धानकं दत्तपारितोपिकं विसर्जयामः । भवन्तः सज्जीभवन्तु प्रातःप्रयाणाय । विजये ! आदिश पन्थानम् ।

 प्रती०--इदो इदो देवो, इदो इदो देवी [९०]

( इति निष्कामतः )

( नेपटये )

उदपति मदलक्ष्मीर्दन्तिनोऽसुप्य सधः
 समिति पिशुनयन्ती वैरिवर्गस्य भङ्गम् ।
मधुरिपुवरयात्रासत्वरः सीरपाणिः
 कथमिव फलमस्याः प्राप्स्यति व्यग्रचेताः ॥ २१ ॥


 रामः-( समाकण्र्य सहर्षमुचैः') अयि'हस्तिपक ! साधु साधु दिष्टया वृत्ता मम दन्तिनो मदक्ष्रीः । मा विपीद । भविप्यति फलमस्याः ।

नहि नहि वरयात्रा केवलं कोमलेयं
 रणभुवि भवित्नारोऽमुत्र रोमाञ्चकाराः ।
समदरिपुनरेन्द्रस्थूलवक्षःस्थलास्थि-
 क्रथनकटुरवास्ते दन्तिदन्तप्रहाराः ॥ २२ ॥

 अथि कृप्ण ! तद्रयं सर्वेऽपि निजनिजभवनं गत्वा प्रयाणाय सज्जीभवाम: ।

( इति निप्क्रान्ताः सर्वे )

द्वितीयोऽङ्कः


( ततः प्रविशति सुबुद्धिः )

 सुबुद्धिः--(दीर्घमुष्णं च निःश्वस्य) अहह ! सुकष्टः कन्यकाभावः। तथाहि--

हृदयं मदनायत्तं वपुरायत्तं च गुरुजनस्यैव ।
मरंणं दैवा॒यत्तं कथं न सीदन्लु कुलकन्याः ॥ १ ॥

 अहो ! मे सुवुद्धेर्द्वर्युन्द्वित्वं, यदहं स्वात्मारामस्वैरविहारहरिणी कशमलमनुप्यप्रेमाङ्कुरलालसा स्वयमेव मोहपाशे आत्मानं पातितवती । तदिदानीं रुविमणीप्राणात्यये सकलङ्कं मे जीवितम् । सकलङ्का भवानीमन्त्रोपदेशशक्तिः । इपमेव चार्गला रुक्मिणीप्राणानां यदत्र वरयात्राव्यपदेशेनापि कृप्णागमनम् ।

शारद इवैप दिचसः सुखयति शोपपति रुक्मिणीमनिशम् ।
कृप्णघनागमशिशिरः शिशुपालखरातपः क्रूरः ॥ २ ॥

 ( द्विशो विमाव्य । स्यित्वा चमत्कृत्य)आः ! क्क नु प्रस्थिन्नास्मि ।( सवैलक्ष्यम्) कथं रुक्मिणीमन्दिराय प्रस्थिनाया मम पदान्यन्यतः प्रवृत्तानि ! । ( निरूप्य ) भवत्वनेनैव पथा व्रजामि । अयमेव हि धात्रेयिकायाः सुवत्सलाया रुक्मिणीभवनगमनाय पन्थास्तदिह मा कदाचिहुःखसंविभागाय सापि मे मिलति ।

(ततः प्रविशति सुवत्सला )

 सुवत्सला-भअवदि सुवुद्धिए ! कर्हि उण तुरिदपदं परिक्कमसि । पडिवालेसु म[९१]

 सुबुद्धिः-(परिवृत्यावलोक्य ) कथं पृष्टतः समेति सुवत्सला ! ( त्थित्वा ) एहि वत्से ! एहि[९२]

 सुव०-मिलिदम्हि । चलदु चलदु इदाणिं भअवदी । कहिं उण गम्मइ ? ।

 सुचुद्धिः--( दीर्वे निं,श्वस्य ) कुत्र्यान्यत्र ? ।

 सुव०--रुप्पिणीए भवणं पत्थिदा भअवदी ? । (सास्रम्) भअवदि ! तुह सुयुद्धित्तणं मह सुवच्छलत्तणं पि विसंवदितं । “"" रुप्पिणीए दोलाधिरूद्वब्व दोलह जीविदासा [९३]


 सुचुद्धिः-अनुमरणेऽपि विसंवदितं मम सुवुद्धित्वं, न तु तव सुयत्सलात्वम् ।

 सुव°'--भअवदि! जं तुह वियुद्धिविहओ मन्तसत्तीवि विसंवदइ तं रुप्पिणीए[९४] दुद्दैवं अवरज्झदि । कन्हो उण रुप्पिणिं परिहविस्सदित्ति ण मह हिअअं पत्तिआअदि । भअवदीए वि तत्थ कन्हपरिअणादो एदं विदिदं येव-----

जावच्चिअ हरिहिअए रुप्पिणिणामंति अकखरो मन्तो ।
संचरिओ तावच्चिअ उव्वसिअं इअरदइआहि ॥ ३ ॥

 ता नंदञ्असहाअत्तणेणवि सहला भविस्सदि भअवदोए मन्तसत्ती[९५]

 सुचुद्धिः-सुवत्सले ! एहि तावदाश्वासयामो वत्साम् ।

 सुवत्सला-भअवदि ! तीए आसासणत्थं पेसिदं मह मअरंदिआहत्थे कन्हस्स आलेक्खं । ता एदु भअवदी । कन्हसिविरं गदुअ अलक्खिदा सव्वं जाणिअं तुरिदमुघसप्पम्ह रुप्पिणि[९६]

 सुघुद्धिः-सुवत्सले ! अद्यापि पदि त्वमित्थं सोत्साहासि, तट्टहाण लक्मिणीसनाथमालेख्यं । येन कृप्णो विलोभ्यते ।

 सुवत्सला-ता इमिणा मग्गेण सुरेहं चित्तअरं आलेक्खसणाहं नन्हिअ गमिस्सा[९७]मो ।

( इति निश्य्क्रान्ते )

विप्कम्भकः



( तत प्रशिति कृप्णलेस्त्यव्यग्रहस्ता रुक्मिणी मकरन्दिका च )

 रुक्मिणी-( सानुतापं नि श्वस्य) णृणं मए जम्मन्तरे चंदसेहरस्स पडिघिवं येव आराहिदं, जं एअस्स सुहअस्स आलेक्खमेत्तेणं येव मं हअविही विप्पआरेदि । सहि मअरंदिए! चुक्का भअवदी सुवुद्धी सुवच्छला अ, जं तार्हि ण कावि तत्थ सोलहसहस्समज्झे गोवी ताइं अव्भत्थिदा जेहिं कन्हस्स पिअत्तणं पावीअदि । ( नि श्वम्य ) अहवा दैवहदाए मह दीणात्तणमिणं । णहु भग्गाइं दिण्णाइं होन्ति । ता एदं येव अभालेक्खं अविअन्हं विहावेमि [९८] ( इति तथा करोति )

 मकरन्दिका-( स्वगतं साशङ्कम्) सुट्ठु उत्तम्मदि भट्टिदारिआ । ता कहिं विलंविदा सा णिाक्करुणा भअवदो सुचुद्धिआ सुवच्छला अ[९९]

(तत. प्रविशति सुबुद्धिः सुवत्सला च )

 सुवुद्धिः-( रुक्मिणीं विभाव्य अपवार्य ) अपि सुचत्सले ! कृप्णालेख्पलीनमानसा रुन्क्मिणी न पश्यत्यावाम् । तदेहि मकरन्दिकां सन्ञ्ज्ञया निवार्य निभृतमस्याः पृष्टे भवावः | ( इति तया तिष्ठत )

 ( विभाय साश्चर्यम्) अहो ! अभिनिवेशनिविडता रुक्मिण्याः। तथाहि--

मुहुर्निःश्वासानां परिमलतरङ्गेपु तरलं
 मुहुर्लीलाम्भोजे श्रवपाकमले चार्पितपदम् ।
न लोलाक्षी वेत्ति भ्रमरमविरामध्वनिभरं
 मुरारेरालेख्ये लयमयमना निर्भरमियम् ॥ ४ ॥

 रुक्मिणी--( आलेख्यमवलोफयन्ती सोत्क्ण्ठम्) ध[१००]ण्णाओ ताओ गोवीओ जाओ मअणुम्हाकरम्विदाओ एअस्स सुहअस्स इमस्सिं लाअण्णदीहिआअम्मि विहरन्ति । ( निरूप्य दीर्घमुष्प्ण च नि श्वम्य ) कुदो एस एआरिसो अम्हा रिसिर्हि--( इत्यर्धोक्त्तौ प्तास्रं सगद्गदम् )


अह हिअअ ! पसिअ विरमसु दुल्लहपेम्मेण किं नु विनडेसि ।
चणहरिणीए हसिज्जइ मअंकहरिणम्मि अणुरा[१०१]ओ ॥ ५ ॥

 सुचुद्धिः-(ससम्भ्रममुत्थाय रुक्मिण्याश्चिबुकमुन्नमय्य ) वत्से रुक्मिणि ! किमपयसस्ते गुरुजनो यदित्थमुत्ताम्यसि ।

 रुक्मिणी-(स्वगतं सवैलक्ष्यम्)कथमिहैवासीद्भगवती!। ( प्रकाशम्)भअवदि ! तुमं वन्चिअ गुरुअणो य्येव मे दुज्वणो[१०२]

 सुबुद्धिः-( सोत्साहम्) भवतु यः कोपि यथा तथा । गृहीतैघ च तेन शार्ङ्गपाणिना पाणिना । वत्से सुवत्सले ! किन्न निवेदयसि वत्सायाः ।

 सुवत्सला-(पुरतो भूत्वा) वच्छे रुप्पिणि ! किं कआवि भअवदी अलिआलाविणी । माणिदं सुमुहुत्तं । गहिदासि आलेक्खगदा हरिणा पाणिना । संपइ णिअपाणिगहिदोचिदं हरी णिव्वाहइस्सदि[१०३]

 रुक्मिणी-(स्वगतं सहर्पम्) हिअअ ! समस्सस समस्सस । संमुहं व तुह दीसद्वि द्विट्टवं[१०४]

'सुबुद्धिः-( सोहासम् ) किं न प्रत्येति वत्सा, तदनेनैवालेख्यगतेन गृहीतासि पाणिना शौरिणा । ( इति कृष्णचित्रपटकेन यार्णि ग्राहयति )

(नेपथेये दुन्दुभिरुदञ्चति )

 सुवत्सलामकरन्दिके-(सद्दर्पे) अहो ! सुणिमित्तं सुणिमित्तम्[१०५]

 सुबुद्धिः-न खलुसुनिमित्तमात्रम्। इदानीं स एवानेन सौधतलवर्त्मना पुरप्रवेश्शं गोविन्दः करिप्यति । तेऽपि शिशुपालादयः । दृष्टोऽस्माभिरभ्युत्थानायोपसर्पन्महाराजो भीष्मको महाकुमाररुविक्मप्रमुखान्वितः।



(नेपय्ये )

 अयि पौराः ! 'पौरकन्यकाः ! समादिशति वो महाराजः मज्जीभघत मङ्गलकौतुकेपु । प्रविशन्ति नगरं गरीयांसो राजानः ।

 मकरन्दिका-(सौत्सुक्यम् ) `भअवदि सुवुद्धि ! इह तए इमिणा कन्हस्स आलेक्खेण पाणिग्गहणं कारिदं । तत्थ उण भट्टिदारिआए आलेक्खेण दुवेवि एदे एक्कठाणगदे पेकिखदुं मे कोऊहल्लं । ता एत्थ चित्तवडे कन्हसमीवम्मि भट्टिदारिअं आलिहिस[१०६]सं ।

 सुवुद्धिः-(विहस्य) कस्तव कुतृहलिनस्तरलत्वं वारयति । मनोरथो ऽयंपुनः साक्षात्कारेणापि प्रत्यासन्न एव ।

(मकरन्दिका नाटयेनालिख्य चित्रपट करे करोति)

( नेपथ्ये कलकल )

 सुव०-'भअवदि ! पञ्चासन्ना पुरप्पवेससम्मुहा महीणाहा, जं एस निअडदो दुंदुभिझुणी सुणोअदि[१०७]

 मकर०--( सौत्सुक्यम् ) भट्टिदारिए ! ता एध उअरितलं सौहसिहरं आरुहिअ गवक्खन्तरे पेच्छामो [१०८] । )

 रुक्मिणी--( स्वगतं सहर्पम्) साहु मअरंदिए ! साहु । ( प्रकाशं सावहित्यम ) यहा भअवदी भणदि[१०९]

 सुबुद्धिः-क्रियतामिदम् । (इत्युत्थाय सर्वास्तथा कुर्वन्ति )

 मकर०--(गवाक्षजालान्तरेण विलोक्य)पेच्छध पेच्छध पविसन्ति णरवइणो[११०]

( सर्वा विलोकयन्ति )

 मकर०-( विलोक्य सहर्षाश्चर्यम्)



पिअसहि ! कस्स सरीरं रेहइ घोलन्तचामरं एअं ।
कंद्दोदृकाणणं पिव मरालमालाहिं संवलिञ्अं[१११] ॥ ६ ॥

 सुव०-( निरूप्य ) पेच्छघ पेच्छघ । एसो सो गोवीसहस्समणमोहणो महुमहणो रहारूढो समेदि[११२]

 रुक्मिणी-(सौत्मुक्यमालोक्य ) अयि लोअणा!जस्स सुहुगस्स गुण॒गणामअं घोट्टन्तेसु संवणेसु ईसालुआणम्ब तुम्हाणं दंसणतन्हा पवट्टिदा तं अविअन्हं इदणिं यहिच्छं पेच्छह । मुहुत्तमेत्तम्मि गेन्हद दाव जम्मफलं । को जाणदि कीस फरिस्सदि अग्गदो भयवं पआवई[११३]

( ततः प्रविशति सौधतले रथारूदः कृष्णः प्रियंवदक्ष्च )

 मकर० ---- ( सौत्सुक्यम् ) दिट्टिआ गवक्खंतरपलम्बिदवल्लुअपुव्वफाआ पेच्छामि । ( सप्रत्यभिज्ञम् ) एसो सो पिअंवदो जो तइआ इत्थ आगदुआकअकज्जो गदो[११४]

 सुव०-(रुविमर्णी विभान्य स्वगतम्)ण हु ण हु पहुष्पइ इघ संकंदृम्मि गववम्यन्तरे कन्हालोअणतन्हा । ता एयं दाव । ( प्रकाशम् ) अइ मअरंदिए ! इअरगवक्ग्वन्तरे पेच्छ तुमं । पेच्छदु इध वच्छा जहिच्र्छ रुप्पिणी[११५]

 मकर०-एवं भोदु[११६] । (मकरन्दिफाया गपाक्षादपक्रामन्दयाः करतलाञ्चित्रपटः पतति ।

 प्रिय०-कन्हएव!गेन्ह एदं तुह फरकमले कमलसणाहेकिंपि णियडिदं[११७]


 कृष्णः-( गृहीत्वा विमाव्य) कथं रुक्मिणीरूपकसनाथं मदीयरूपकालेख्यमिदम् । प्रियंवद । पश्ट्रय पश्य ।

 प्रियं०--( चित्रपटं नैिरूप्य ) देव! तुह आलेक्खसमीवे रुप्पिणी एसा आलिहिदा ।

किं विहरसि हरिहत्थे मह करकमलस्स अवसरो एत्थ ।
इअ तुअ पार्णि पत्ता एसा कनलं वधाडेह[११८] ॥ ७ ॥

 (सौधमालोक्य प्रयाभिज्ञाय सहर्पेल्लसम् ) कन्हएव ! रुप्पिणीए एदं सोहं । णूणमिणं रुप्पिर्णोहत्थादो पव्भट्ठं ।

 कृष्णः-( सोत्कष्ठमूब्बै सौधाग्रप्रहितर्लोचनो रुक्मिणीं गवाक्षलम्विनमुखी विलोक्य प्रत्यभिज्ञाय सहर्पोत्कष्टम्) नूनं स्केिमणीयं, संवदत्यालेख्यम् | ( निर्दर्ण्य )

उपरचितकलङ्कं कुन्तलैर्लम्वमानैः
 कनकरुचिकपोलं कौङ्कुमीभिः प्रभाभिः ।
उदयगिरिदरीनः प्रोल्लसद्विम्वमिन्दो--
 रनुहरति सुदत्याः पीनलावण्यमास्यम् ॥ ८ ॥

(रुक्मिणी सनीडमास्यमाकुञ्चयति )

 कृष्णः---- ( प्तानुतापं दीर्वमुष्णं च निःक्ष्वस्य )

उपोपितः शारदचन्द्रघिम्बे
 चक्षुक्ष्चकोरः प्रजिघाय तूर्णम् ।
कप्टं विधिर्निष्करुणास्वभावः
 पिधानमुत्पाटयते घनेन ॥ ९ ॥

 रुक्मिणी-{ स्वगतं सानुतापम् ) हअलज्जे अम्ह गुरुअणादो अहिअं तुमं णिक्करुणा, जं तए दंसणमेत्तम्मि पिञ्अस्स सुहअस्स विग्घि[११९]दं ।

 सुबुद्धिः-वत्से स्क्मिणि ! किं पुनरपसृतासि ।


  रुक्मिणी-( सन्रीइस्मिमतम् ) मअरंदिआहत्थादो चित्तवडं णिवडिदं गहिऊण ( सगद्गदम्) केणवि उद्धमुर्ह पुलोइदं[१२०]

 सुबुद्धिः-( सस्मितं गवाक्षे विक्ष्य अपसृत्य साशङ्कम्) सम्ग्रति सर्वासामनवसरः संवृत्तः । आयातो महाराजभीप्मकः कृप्पगपुरतः ।

( तत प्रविशति रथारूढो भीप्मकः )

 भीष्मकः-( कृप्णं निरूप्य स्वगतं सानुतापम्)

इदं रूपमिदं शौर्यमिदं शीलमिदं वयः ।
रुक्मीो कृप्णमनुक्रामत्रुक्मिणीं हतवान्हठात् ॥ १० ॥

(नेपथ्ये सोपद्दासम्)

वालः कुमारोऽपमहो मरालीं पारावतायार्पयति प्रसह्य ।
एपा पुनर्मन्मथमन्थराङ्गी मरालमेवाक्ष्रयते जवेन ॥ ११ ॥

 भीष्मकः-( स्वगतम् ) अये ! केनापि कुमारक्रोडामुपहसता सदुपश्रुतिरियं व्याहृता सम्वोधयति माम् । क पुनरेतदथैस्य सम्भवः । अथवा दुर्विज्ञेया दैवगतिः ।

(नेपय्ये )

 अयि वन्दिनः ! पठत पठत राज्ञां कृते मङ्गलाशिपः ।

 वन्दी-( सगर्वहर्षम् )

विभ्रद्दोस्तम्भदैध्र्य द्वियदवनिभुजां खर्वयन्गर्वमुद्रां
 हस्तन्यस्तोग्रशाङ्गैश्चरणकमलयोः क्षिप्तदृप्तप्रवोरः ।
उन्मीलच्चकधारः सनतविघटितामर्त्यकान्ताश्चधारो
 राजा वां पातु युष्प्मान्दलदलितमहादैत्यघृन्दो मुकुन्दः ॥ १२ ॥

 अपि च-

जयति घटितस्तैर्द्दम्भोलेर्हरिः परमाणुभि-
 र्विनयविमुखक्षोणीनाथप्रमाथविधित्सया ।
निविडनिधिडं लाघण्यौधैर्भृतो विधिनाऽथवा
 सजलजलदश्यामः श्यामामनोहरणाक्षमः ॥ १३ ॥

 सुबुद्धिः-(श्रुरवास्वगतम्)अलं मनःशब्देन । श्यामाहरणक्षम एव भवतु ।


 भीष्मकः-( स्वगतं तिाशङ्कम्) अये !किमपि साभिप्राय इव वन्दी पठति । किंचिदडुरितक्रोधा राजानः । तद्ग्रग्रत एव नीत्वा कृप्णमावासयामि तावत् । ( प्रकाशम् ) अयि कृप्णदेव ! इमां रथ्यां कृनार्थयता भवता समलङ्कियतां शिविरसन्निवेशः । अयि सारथे ! प्रवर्त्तय रथम् । अहमनुचरो भवामि ।

 कृष्णः-( सप्रश्रयम्) यथा रोचतेऽत्रभवते ! दारुक ! प्रवर्त्तय रथम् ।

( इति निष्क्रामति )

 भीष्मकः-( स्थित्वा ) कथं सुमन्थरः शिशुपालरथः। कथमयमायात्येव शिशुपालाग्रतो रुक्मी । तदहं कृष्णमेवानुयामि । ( इति निष्क्रान्तः )

( ततः प्रविशति शिशुपालो रुक्मी च )

 रुक्मी-(सहपोट्ठाप्तं पार्श्वमवछेक्य ) अयि वन्दिन् ! किं न पठसि महीमहेन्द्रं चेदीन्द्रम् ।

 वन्दी-( सगर्वमुच्चैःकारम्)

विचित्रामुत्पन्नां विकृतिमिव तां जन्मसमये
 विहायास्ते यद्यप्यपरनरतुल्योऽयमधुना ।
विरूपाक्षो युद्धे तदपि वहुवाहुः स्मरहरो
 नरेन्द्रैराराध्यो जयति दमघोपस्य तनयः ॥ १४॥

 सुचुद्धिः-( श्रुत्वा सौत्सुक्यम्) सर्वाःसमेता दृश्यतां गवाक्षेण शिशुपालः ।

( इति तया कुर्वन्ति )

 सुवत्सला-भञ्अवदि ! का उण एदस्स जम्मसमञ्अम्मि विइदो आसि[१२१]

 सुबुद्धिः-एयमनुश्रूयते । चतुर्वाहुस्त्रिनेत्रोऽयमुत्पन्नः । कृष्णस्यास्य क्रोडे प्रवेिष्टो द्विवाहुर्द्धिनेत्रो वभूव । कृप्णः किलास्यान्तकरो भविप्यतीति तदा दैवविद्भिरादिष्टम् ।

 रुक्मिणी--( सभयम्) भअयदि ! किं एस रक्खसो कोवि[१२२] ? ।

 सुबुद्धिः-एवमेव ।


 रुक्मिणी-भअवदि !वेवदि मह हिअअं, ता ण इध चिट्ठिस्सं[१२३]। (इति वेपूमाना अपसरतेि )

 सुबुद्धिः-( सवात्सल्यम्) वत्से रुक्मिणी! किमेवमुद्विग्रावेपसे ?। कुतो भयं मधुकैटभारिवल्लभायाः ? ।

 रुक्मिणी-( सास्रम् ) अपि भउनवदि ! सुट्टु भोदम्मि । ण जाणे किं किं इध भविस्सदि । कह मह हआसाए णिव्वहणं भविस्सदि[१२४] !

 सुबुद्धिः-( रुक्मिण्याश्चिबुकमुन्नमय्य ) वत्से ! समाश्वसिहि समाश्वसिहि । निर्वहणोन्मुखस्तव मनोरथः । किमहं दाम्भिका, किमस्सत्या ? । शीघ्रा मन्त्रसिद्धिः । किं त्वयि मन्दानुरागो मुकुन्दो मन्दशत्तिर्वा ? । एतावत्यपि कष्टसङ्कटे दुर्विनोतेन भ्रात्रा रुक्मिणा पातितासि ।

 शिशुपालः-( स्वगत सोत्कण्ठ सानुतापं समन्ततोऽवलोक्य ) अहह वृथाघ वभूयास्माकं नगरविहारकुतूहलेन । तथाहि-

इह नगरमृगाक्ष्यो वीक्षिता एव वह्नयः
 क्कचिदपि न स दृप्टो रुक्मिणोवक्रचन्द्रः ।
धवलभवनमालामिन्दुशून्यामिव द्यां
 परिहरति चकोरस्येव चक्षुर्ममार्त्तम् ॥ १५ ॥

 अहह ! समरोपमर्दमर्दितानेकरिपुप्रवीरं मामपि किङ्करीकरोति कुसुमा युधः । अथवा-

सौन्दर्यसरैव न रुक्मिणी सा
 शौर्येऽपि तस्याः परमः प्रकर्पः ।
वलेन यस्याः कुसुमायुधो मां
 चेदीन्द्रमुन्मथ्य वशीकरोति ॥ १६ ॥

(नेपथ्ये )

 भवति सुयुद्धिके ! आदिष्टोऽस्मि देव्या यथा किल भवता भगवतीं सुबुर्द्धि विज्ञप्प वेिवाहपूर्वकालाचारप्राप्तेन्द्राणीपूजार्थं वत्सा रुक्मिणी त्वरितं देवायतनं प्रापयितव्या । तदत्रभगवती रुक्मिणीमादाय समेतु ।


 सुबुद्धिः-( श्रुत्वा ) वत्से रुक्मिणि ! एह्येहि साघयामः ।

 रुक्मिणी'--( सास्रम् ) भअवदि ! अणुमण्णसु मम मरणहूसंवं तुह पहावेणा लन्द्धसग्गगई तर्हि य्येवं ईदाणिं अञ्चइस्सं[१२५]

 सुबुद्धिः--इन्द्रावरजजाया युक्तमेव । यातरमिन्द्राणीमिह स्थिता नित्यमर्चयिप्यति ।

 रुक्मी-( स्वगतम् ) कथमम्वायाः कञ्चुकी रुक्मिणीमिन्द्राणीपृजार्थभाहृयते । तदर्ह शिशुपालं त्वरितपदमेव शिविरं प्रापयामि | (प्रकाशम्) चेदीन्द्र ! त्यर्यतां त्वर्यतां पुनर्विवाहवेला समासन्ना भविप्यति ।

 शिशुपालः- ( सहपैत्मुक्यम् ) सारथे ! त्वरय त्यरय रथम् ।

( सारयि, तथा करोति )

 शिशुपालः-( वामाक्षिस्पन्दनं सूचयित्वा स्वगतं सविपादम्) आः ! किमेतत् ! ( आकाशे लक्ष्यं यद्र्वा )

प्राप्से प्रस्दादसमये स मतोऽघ कामो
 वामं हहा ! स्फुरति किन्नु विलोचनं मे ।
जातोऽस्मि वा निविडनल्लयवासितोऽहं
 सा रुक्मिणी भवतुःतत्सुनिमित्तमेनत् ॥ १७ ॥

 रुक्मी ---- सारधे ! त्वर्यतां त्वर्यताम् ।

( इति निष्कान्तः )

 रुक्मिणी--- (निःक्ष्वस्य ) वारेदु मुहुत्तमेत्तं भअवदी वच्छलदा मह जीवं णीहरंतं[१२६]

 सुबुद्धिः--- वत्से कृष्णवल्लभे निवारितासि कृप्णाज्ञया मा पुनरमङ्गलं व्याहर । पूर्णमनोरथा एहि तावत्

( इति निधान्ताः सर्वे )

तृर्तीयोऽङ्कः ।



( ततः प्रविशति रथारूढ. सात्यकि' सारथिश्च )

 सात्यकिः ( सहर्पाक्ष्चर्यम् ) अहह ! रुकिमन्यास्तदानीमवस्धासङ्करः तथाहि सा -

सरभसनमनाः कृष्णं लब्ध्वा चिरादभिकाङ्क्षितं
 प्रसभहरणव्यापारेण प्रसृत्वरसाध्वसा ।
ककुभि ककुभि भ्राम्यन्नेत्रा सुवुद्धिसुवत्सला ---
 व्यतिकरनिरातङ्का भूयः सुरवं रथमभ्यगात् ॥ १ ॥

 मयाऽपि साधु कृतं, यत्कृप्णदेवः समरसंमर्दवद्धग्रहः सप्रणाममभ्यर्थ्य पुरतः प्रस्थापितः । कुसुमसुकुमारमना हि रुक्मिणी वन्धुवर्गकदनकष्टसाक्षिणी न जाने कथं भवेत् । अत्र च-

कन्यान्तःपुरचारिणो नृपजनास्ते खर्वकुव्जादयो
 विप्रास्ते च पुलोमजार्चनविधौ सोल्लासमभ्यागताः ।
मिथ्यासृन्त्रितविक्रमाः परिहताः स्मेरेण दूरं मया
 स्तोकस्तोकभटप्रमाथविधिना तृप्तः कृपाणो न मे ॥ २॥

 तदहमिदानीं रुक्मिशिशुपालप्रमुम्वसरोपधाविताऽरिवर्गविनिवारणव्यग्रात्वलदेवादीनुपसर्पामि । सारथे ! त्वरय त्वरय रधम् ।

 सारथिः-( तथा कुर्वन्पुरोऽवलोक्य ) आयुप्मन् युयुधान ! कथमयं यलदेवः सवलो व्यावृत्त इतोऽभिमुख एव दृश्यते ।

 सात्यकिः-(विभाव्य साशङ्कम् ) आः ! किमेतत् । किमयं रुक्मिशिशुपालादोन्व्यापाद्य पुरोन्माथाय धावितस्तदुपसृत्य निवारयामि ।

(तत. प्रविशति बलदेव )

 सात्यकिः-(सप्रणामम् ) अयि वीराधिराज राम ! किमेतदारभ्यते ? । व्यापादितेपु शिशुपालादिपु अलमिदानीमनपराधिनो भीप्मकस्य पुरप्रमाथेन ।

 वलभद्रः-सात्यके ! केन ते व्यापादिताः कस्य लोचनगोचरतां गनाः? ।

 सात्यकिः-( प्तवितर्कम्) वलदेव! न ते वीराभिमानिनः पलायन्ते । नूनं

द्धक्रोधाः कृष्ण्गमनुधाविताः । तदलं विलम्वेन । एहीमां कृष्णामुगतामाशामुपसर्पामः । ( इति तथा कुर्वन्ति )

 वलदेवः-(पुरोवश्रृंग्य सहर्पम् ) सात्यके ! फलितस्तव तर्कः । दृष्टास्ते दुष्टाः ।

 सात्यकिः-(ससंरम्मम्) ये बलदेवेन दृष्टाः कालेन ते दृष्टाः ।

 वलदेवः-(सानुताग्म् ) अहह! प्रत्यासन्ना एव किन्तु पराङ्भुग्वाः । कथभिमान्स्सपत्राकरोमि !

 सात्यकिः-तिष्ठ ! तिष्ट ! अहमिमान्संमुखीकरोमि । ( साक्षपमुच्चै)

रे रे रुम्क्मित्रथमयपदैर्लङ्घयते किं कृतान्तः
 केनाख्यातं तव रणपरित्यागतो दीर्धमायुः ।
तं सद्वीरं स्मरस्सि न यदि क्लीववंशं स्वकीयं
 क्षघ्राराध्यं करतलगतं वीक्षसे किं न खङ्गम् ॥ ३ ॥

 वलभद्रः-(सरोपाक्षेपम्) रे रे शिशुपाल वालिश ?! पलायनपरः किमिति भयव्याकुलो विमलक्षत्रकुलाचारमतिक्रामसि ? । पश्य रे पश्य----

शौर्पे द्दढपदस्तिष्ठ धिक्कातरत्वं
 जित्वा शत्रून्भज भवसुखं भिन्धि वा भानुविम्वम् ।
तिष्ठन्नग्रे प्रणमितशिराः पापच्वापस्त्वदीयः
 पाणिं रुन्धन्भुवमिति महावंशजो याचति त्वाम् ॥ ४ ॥

 अपि च--

रे रुक्मियान्धवनृपाः परम: क्रमो वः
 सम्यन्धिनो वपममी भवतोऽभ्युपेताः ।
अस्माभिरैक्यमधिगम्य रणोत्सवेऽस्मि-
 न्नासृत्र्यतां विशादबाहुमदोपयोगः ॥ ५ ॥

 सात्यकिः-(पुरोऽवलोक्य सहर्पोल्लाप्तसम् ) घलदेव ! दिष्टया वर्धसे । त्वद्धचनपाशाकृप्टौ व्यावृत्तौ रुक्मिशिशुपालौ ।

( तत' प्रविशतो रुक्मिशिशुपालौ) )

 शिशुपालः-(सगर्दोपहासम्) अयि यलदेय ! किसुच्यते भवतः सौभ्रात्रं, यत्कृप्णाय घावितमपमृत्युमाहूयात्मनि पातपसि ।  रुक्मीः-(सगर्वम् ) अयि चेदीन्द्र ! मैवम् । अस्माकमेव वलमरणमनुकृष्णमरणमित्ययं क्रममृत्युलक्षणः सौराज्यधर्मो पालयितव्य एव ।

 बलभद्रः-(सक्रोधम् ) अयि शिशुपाल ! क्फ मे सौम्रात्रम् ? ।

प्रतापप्रावन्द्योदयिनि रणदुर्भिक्षसमये
 भवान्भक्ष्यः प्राप्तो मधुमधनखङ्गस्य परमः।
स्ववाणानांभोक्तुं तमपि वितराम्याशु यदहं
 फलं वन्धुप्रीतेस्तदुचितमहो किन्नु विदितम् ॥ ६॥

 रुक्मी-(बलमदं विभाव्य स्वगतम्) अये हलमस्य महायुधम् । तदेवं तावत् । (प्रकाश सावज्ञहासम् ) अयि बलभद्र ! वालिशोऽसि । किमस्मिन्दासञ्चरे सहीरयर्मनि प्रवर्त्तसे।

नदीं मृद्वीं क्रष्टुं प्रभवसि परं सूर्यतनयां
 प्रलम्वं विच्छेत्तुं त्वमसि तृणमुच्छृङ्खलवलः ।
समिद्भूमिः सेयं विपमविपमा लोहकठिना
 कृतेऽप्यत्रायासे हलधरहलं निष्फलमिदम् ॥७॥

 अपिच-

वलभद्र ! बलीवर्द्दो लाङ्गलं चालयन्भवान् ।
यशः कतममस्माभिर्लभ्यते तदिपाटनात् ॥८॥

 शिशुपाल:-रुक्मिन् ! भद्रं भद्रमायातमस्मासु।आकर्णय दुन्दुभिम् । अस्मदीयसमरदुन्दुभिश्रवणानन्तरमेव व्यावृत्तः कृष्णः ।

 स्वमी-(कृष्णदुन्दुभिव्वनं प्रत्यभिज्ञाय सहर्षम् ) प्रियं प्रियं नः। पूर्यतां पूर्यतामिदानीं कियत्यपि सङ्गरप्रत्याशास्माकम् ।

 वलभद्रः-सात्यके ! किं कृतमिदं कृष्णेन ।

 सात्यकिः-समरदुन्दुभिमाकर्ण्य कथन्नु तिष्ठेत्कृष्णः ? । नहि नहि केसरी कुञ्जरारावमाकर्ण्य विलम्बते ।

(ततः प्रविशति कृष्णो रमिणी सुबुद्धिः मुवत्सला च)

 कृष्णः-(साक्षेपम् ) अयि दारुक ! अतिकातरोऽसि मिथ्याहितोऽसि यत्तव कृपणपाणितोऽपि निष्ठुरमुष्टिग्रहौ रथाश्वरश्मिपु पाणेः।

साङ्कर्पर्ण मा ग्लपयस्व गात्रं
 विपक्षवाणैौस्त्वरयास्मदश्वान् ।
कृष्णस्य सांसिद्धिककृष्णकान्ते-
 र्मा दुर्यशःकाप्ण्यैमुदेतु घृण्यम् ॥ ९ ॥

 दारुकः-(सभयं सप्रश्रयम्) एप मुञ्चामि रथरश्मीनं ' पश्पतु देवः साम्प्रतम्----

अभयेति समरभूमिः प्रत्यासत्तिं श्क्षणेन देवस्य ।
सम्मुखमुपसर्पन्त्या वद्धस्पर्द्धेव जयलक्ष्म्याः ॥ १० ॥

 रुक्मिणीः-( सविषादमपवार्य ) भअवदि ! दिट्टा मए अणुग्गहसिद्धीए तुह मंतसत्तो | ता संपइ विग्रहसिद्धीए दंसेसु ' उचिदं खु मह बंधुवग्गावसाणकारणेण मरणेण णिग्गाहणं[१२७]


 सुवृद्धिः-वत्से रुक्मिणि ! समाश्वसिहि समाश्वसिहि ' न मे अत्र कापि मन्त्रशक्तिः ।

तवैव रूपसौभाग्यसम्पदेपा विजृम्भते ।
मा विपीदानया भावि सर्वं निर्वहणं शुभम् ॥ ११ ॥

 दारुकः-देव ! प्राप्तो रथस्तव प्रत्यर्रथान्थिन् । स॒ज्जय शर्ङ्गम् !

 कृष्णः-( सारहूं गृह्णन् रुक्मिणीमवलोक्य ) प्रिये ! किमाकुलासि ? । भविप्पसि वन्धुमतीो कल्याणपरम्परापात्रम्पुं एप शमयाम्यनिप्टम् ।

(रुक्मणी समाक्ष्वस्य सव्रीडमधोमुखी तिष्ठति )

 कृष्णः-(परोऽवलोक्म) कथमयं शिशुपालो बलदेवस्यन्दनमनुधावति? । (साक्षेपम्) आः तिघ्ठ तिष्ठ ।

मा मूढ ! झम्पां कुरु घाडवाग्नौ
 चेदीन्द्र ! मा रोपय रौहिणेयम् ।
अस्मिन्मनागप्यधिरूढरोपे
 कालस्य पुर्यां परमस्ति वासः ॥ १२ ॥


 शिशुपालः-( रथं परावर्त्त्य सक्रोधम् ) रे रे कृप्ण ! परतः परतो भव । न भवानस्मद्विधसदीरोद्योगयोग्यः । तथाहि--

इन्द्राणीचरणार्चनापरिकरव्यापारितां कन्यकां
 विश्वासोपगतं हरे ! यदहरस्त्वं जुन्प॒यात्रागतः ।
धर्मः किं चरितस्तदेप भवता क्षत्रव्रतं किंनु वा
 किं वा वन्धुजनोचिता व्पयहृतिर्लोकस्थितिः कापि वा ॥ १३ ॥

 कृष्णः-( सवाज्ञ विहस्य ) युज्यते युज्यते ।

चैतन्पात्प्रभृति प्रवृत्तपरमप्रेमोदयां सुन्दरीं ।
 संधां देहविसर्जने कृतवर्तीं मद्धिप्रयो॒गे दृढाम् ।
कन्यां स्वङ्गवलोदयेन कलयन्नर्हामि गर्हामहं
 क्ष्लाघ्यस्त्वं शिशुपाल! निस्त्रपमुपालम्भानिमान्व्याहरन् ॥ १४ ॥

 शिशुपालः-( सावज्पज्ञोपहासम्) कृप्णवीर ! एवमेवैतत् । उपालभ्भदानमात्रोद्योगा वयमपर्याप्ताः । त्वमेकः शौर्यशालिपु धुर्यः । तथाहि----

व्यालं निर्जितवान्खरं दलितवनुक्षाणमाजघ्निवा-
 नश्वं खण्डितवानिति व्यवसितिक्ष्रेण्यैव धन्यो भवान् ।
एतद्विक्रमयुग्मतद्भुमतमं कः स्तोतुमीशोऽस्ति ते
 यत्कंसः तो यदपि च व्यापादिता पूतना ॥ १५ ॥

 सात्यकिः-कृप्ण ! कृप्ण ! व्याहरतु व्याहरतु चेदीन्द्रः । सोढव्यमस्यागःशतम् ।

 शिशुपालः-( सक्रोधम्) ऊरेरे ! आगःशतावघेरक्षितोऽहम् ॥ पश्यत पश्यत ।

आगाःशत्तं किमिव तद्विदधेऽद्य घोर-
मागःसहस्रशतजित्वरमेकमागः ।
यत्कृप्णमन्यवनिताकपटापहार-
वीरं विपाटय वितरामि रणे शिवाभ्यः ॥ १६ ॥

 वलभद्रः-(सक्रोधम् ) अयि शिशुपाल ! सङ्गरकर्मकुणे पश्यदन्धदुरक्षरोदाहरणचतुरं मुखमेव तवावयवेपु प्रगल्भम् ।

यद्वाहुद्वितयं तदाविकलितं चक्षुर्यदस्तं गतं
 तेपामस्ति न दुर्यशःपरिचयः स्तोकोऽपि पुण्यात्मनाम् ।
दोपौ ते दमघोपपांसनमहादोपाविमौ साम्प्रतं
 नेन्नद्वन्द्वमिदं च सङ्गरजयाह्लादो न यैर्लभ्यते ॥ १७ ॥

 तद्लं निमृन्त्रितूायातनिरपराधिनरेद्रवृन्दू॒कद्नक्रौयैवाहुल्येन आगच्छतं युवां शिशुपालरुक्मिणौ समरोपमईक्षमां मेदिनीम् ।

 रुक्मी ---- (अपवार्य ) अयि चेदीन्द्र ! प्रकटसमरकेलिदुःशिक्षितावेतौ वलदेवगोविन्दौ । तदेवं तावत् । ( कर्णे एवभेव प्रकाशं सक्रोधम्) आः ! किमेकेन रामेण । आगच्छतं रामकृष्णौ । यावआवां समरभूमिम् । ( इति तथा कुरुतः )

( नेपथ्ये )

आक्ष्चर्यत्यहह ! काचिदकर्तृकैव
 नाराचवृष्टिरियम्म्बरतः पतन्ती ।
तारुण्य एव तरणेरयमप्युदञ्चन्
 कार्त्तान्तकासरगलच्छविरन्धकारः ॥ १८ ॥

( पुनर्नेपथ्ये )

पश्यत स्यन्दनौ शून्यौ तौ गतौ मुखरौ क्कचित् ।
अधिकं युध्यते चित्रं सैन्यमेतदनायकम् ॥ १९ ॥

 कृष्णः-( श्रुत्वा स्वगतम् ) नृनमम्घरगतौ रुक्मिशिशुपालौ मायायुद्धवैदग्ध्यं दारुणं विस्तारयतस्तदहं पन्नगाशनस्यन्दनमारूढो वियतस्तौ पातयामि । ( प्रकाशम्) भगवति सुघुद्धे ! भद्रे सुवत्सले ! लालनीया तावद्भवतीभ्यां रुक्मिणी यावदहमिममनर्थं निवारयामि ।

( रुक्मिणी सन्वीडं सविपादमधोमुखी तेिष्टाते )

 सुबुद्धिसुवत्सले-~-विजयतां वीरः ।

(कृष्णेो ध्यानं नाटयति)

 अक्रूरः-( ऊर्ध्यमवलोक्य साश्चर्यम् )

किं शातकुम्भगिरिरेप गृहीतपक्षः
 किं पावकः प्रसरदुग्रशिखाजटालः ।
देवः स एव किमयं महसामधीशः
 संहर्त्तुमेति तिमिराण्यतिमेदुराणि ॥ २० ॥


 वलभद्रः-( ससम्भ्रमम्) नृनमयं दुर्वृत्तविद्विपां प्रपञ्चस्तदेनमन्तरिक्ष एव निकृन्तामि निशितेपुणा । ( इति चापमारोपयति )

 कृष्णः-(.सHम्धप्रम्) आर्यबलदेव !तिष्ठ तिष्ठ तिष्टतार्क्ष्योऽयं मयाऽनुस्मृतः समायाति । एनमारुह्य व्योमचरौ निगृह्वामि परिपन्थिनौ ।

( ततः प्रविशति तार्क्ष्य: )

 तार्क्ष्य:-( सप्रगामम्) अनुग्रह्णातु मामादेशदानेन देवकीनन्दनः ।

पक्षानिलैः प्रसभमम्युनिधीन्धुनोमि
 त्वं चेदधोभुवनजिप्णुतयोत्सुकोऽसि ।
उत्कण्ठितोऽसि यदि तेपु तदानयामि
 तानिन्दुशेखरविरिञ्चिपुरन्दरादीन् ॥ २१ ॥

 कृप्णः-( सहर्पे सस्मितम्) एहि तावत्त्वया **न तावम्बरसमराङ्गणचारिणौ मायामहारथौ विचिनोमि तौ प्रत्यर्थिनौ ।

 तार्क्ष्यः--ंकुरु यथाकामम् । ( इति कृप्णं ष्टष्वमारोप्य गगनारोहणं नाटयति ) (सर्वेप्ताश्चर्यमालोकयन्ते )

 अक्रूरः-अहह ! पश्यत पश्यत ।

एप प्रतीच्छन्निशितेयुधाराः
 स्घर्णातपत्रीयति पक्षिराजः ।
अस्योपरिष्टात्स्फुरदिन्द्रनील-
 कुम्भायतेऽसौ मधुकैटभारिः ॥ २२ ॥

 वलभद्रः--( विलोक्य सप्तम्भ्रमम् ) आः ! किं पुनरारूढविप्णुर्विष्णुरथोऽयं द्रागायतरति । किं दुष्प्रवेशमम्वरं शरासरैः? । ( साट्टहासं विहस्य ) किमलसं मुशलं यलदेवस्य गगनाग्रारोहणे? (इति मुशलमास्फालयति )

 सात्यकिः--व्रलदेच ! आकर्णय आकर्णय तावत् । किमपि श्रूयत एव ।

( सर्वे आकर्णनाभिनयं नाटयन्ति )

( नेपथ्ये )

मा मुश्च मा पीडय गाढभङ्गया
 त्वं तार्क्ष्य ! दाक्ष्पात्सुतवद्गृहीत्या ।

अभङ्गमेवाङ्गमिमौ वहुन्तौ
 स्ववर्गवीरेषु समर्प्य गच्छ ॥ २३ ॥

 वलभद्रः-कथं मुक्त्तौ दुर्वृत्तौ मुरारिणा ? ।

 अक्रूरः-राम ! समरविजपादेप समधिको विजयः ।

 सात्यकिः-आकर्णयत पुनः किमपि श्रूपते।

(संर्वे आर्क्णनाभिनय कुर्वन्ति )

( नेपथ्ये )

रुफम्पसौ रुक्मिणीभ्राता चेदीन्द्र त्वं च मामकः ।
अपि दुर्णयदुःशीलौ लालनीयौ युवां मम ॥ २४ ॥

 सुबुद्धिः ---( श्रुस्वा सहर्पम् ) वत्से रुक्मिणि ! द्विगुणमिदानीं दिप्टवा वद्धेसे, यत्त्चया ह्यदयदयितो दैत्यारिरासादितः । यच करुणारसपूराप्लावनिर्वाणरोपानलेन न तेन ल्वद्वाता दग्धः ।

( रुक्मिणी सहर्पमात्ते )

 बलभद्रः-( पुरोऽपलोक्य सहर्षम् ) कथमयं वैरिविसर्जनाय वैनतेयं समादिश्य पदातिरेव दामोदरोऽभ्युपैति ! ।

प्रमुदितसुरघृन्दोन्मुक्तमन्दारमाला-
 मिलितमधुपबन्दिक्ष्रेणिभिः स्तूयमानः ।
अघिगतजयलक्ष्मीरप्रवृत्तोऽरिनाशे
 जयति जयति शौरिः शैर्यक्रुण्यसूर्त्तिः ॥ २५ ॥

( तत प्रविशति यथानिर्द्दिष्टो वासुदेव )

 वासुदेवः-( साफूतस्मितम् ) आर्यराम ! असह्यसमरोपमर्द्दौ तौ वीरौ सन्धाय मया प्रहितौ ।

 वलभद्रः-- ( साकृतं वेिहस्य ) एवमेय वलीयसा सह युज्यते । तदिदानीं निर्व्यूढानि समीहितानि । समारोहतु भवान्द्वारकोपगमनाप स्यन्दनम् ।

(कृष्ण उपसृत्य रयावरोहण नाटयति)

 दारुकः-- (सप्रणामम्) विजयतां विजपतां देवः ।

 सुबुद्धिः---- अयि कृष्णवीर ! न तावदाशीभिः पयप्यते पायत्त्वया निव्र्यूढम्। तत्त्वयि प्रणाम एवु श्रेयान् ।

 कृष्णः--( सप्रश्रयम्) भगवति ! त्वदनुग्रहोऽर्य विजृम्भते ।  सुवत्सला-जअदु जअदु देवो[१२८]

( रुक्मिणीविनम्रमुखी तिष्ठति )

 कृष्णः--(प्तोत्कष्ठं प्तानुतापम् )

आयुप्यमिन्दुमुखि ! वैरिनरेश्वराणा-
 मद्यापि किं वहसि भामिनि ! वैमनस्यम् ।
यत्कातरेण तरलाक्षि ! मया प्रियोऽपि
 मुच्तः प्रिये समरकेलिरसोपभोगः ॥ २६ ॥

( रुक्मिणी सहर्योत्कण्ठं सव्रीडमधोमुखी तिष्ठति )

 सुबुद्धि: ( प्ताक्ष्चर्यम् ) कृष्णदेव । पश्य पश्य ---

मिहिरमहसां न क्रूराणामियं रमणीयता
 नहि नहि तडित्पूरोऽपीद्दग्भवेत्क्षणभङ्गुरः ।
अति मृ"""""""""""""""""""कथमीदृशा
 नभसि निकटे ज्योतिः किंचिद्विचित्रमुदोयते ॥ २७ ॥

कृप्णः-(विलोक्यसाश्चर्ये सवेितर्कम्)कोऽपि किमयं माया """"""""""""" भते |

( नेपथ्ये )

 यत्से सुचुद्धे ! शीघ्राऽद्दम् । शीघ्रं सफलीकृता मया तव शिष्याया निजाराधना । त्वं च कृप्ण ! मत्प्रियस्य नीलकण्ठस्य""""""""""""""""""""""""मिव परमं प्रेमपात्रम् । तत्किं तव मयोपकर्त्तव्यम् ?। ब्रूहि । तथापि किं ते भूयः प्रीयतरमस्तु। ( सर्वे सहर्षाश्चर्ये प्रणमन्ति )

 कृष्णः-

देव्या एव प्रसादोऽयं साध्यः सुकृतकोटिभिः
सिद्धेन तेन किं साध्यं ततोऽप्यधिकमस्ति मे ॥ २८ ॥

तथापीदमस्तु-वर्पन्तु वारि रुचि (ताभ्यधिकं पयोदाः )
 वर्पन्तु सूक्त्तममृताभ्यधिकं कवीन्द्राः ।
वर्पन्तु हव्यभुजि साधु हवींपि विप्रा
 वर्पन्तु चार्थिपु धनान्यमितानि भूपाः ॥ २९ ॥

इति श्रीरुक्मिणीोहरणे चूतुर्योऽङ्कः ।

इति महाकविश्रीवत्सराजविरचित इंद्दामृगः समाप्तः ॥



परिकरितमिन्दुमौलेर्जयति शिरः स्वर्गवाहिनीसलिलैः ।
यस्मिन्नुप्तं सद्यः कुसुमं कल्पंर्दुमीभचति ॥ १ ॥
पिङ्गैः कुवैन्कुजमयमिव व्योम तुङ्गैः स्फुलिङ्गै-
 र्विभ्रध्हूमान्सुरपतिभियोङ्डीयमानानिवाद्रीन् ।
मन्दाकिन्याः क्कथनमुखरं नर्त्तयन्वारिपूरं
 वाणस्याग्निः स जपति पुरलोपकारः पुरारेः ॥ २ ॥
धूमैर्ध्यामलयन्मुखानि नयनान्याप्लावयन्नश्रुभिः
 सन्तापार्तिपराभर्व पृथुशिखाचक्रेण विस्तारयन् ।
हर्पोत्कर्पसमागमेऽपि दिविपद्वर्गस्प शोकोचित-
 व्यापारस्त्रिपुरं दहन्विजयते भर्मस्य बाणानलः ॥ ३ ॥

( नान्द्यन्ते )

 सूत्र०-( समन्तादवलोक्य)[१२९]

 पारिपार्श्वकः----"""""""""""""द्यते भवान ।

 सूत्र०-मार्प ! किं मामुपहससि । स एव देवोऽत्रापराध्यति।तथाहि-----

अनारता दानपरम्पराभि-
 र्निवेदमायाति कदाचिदुर्वी ।
विभर्ति तत्पूर्चमिव प्रहर्पं
 मुहुःप्रदानैः परमर्द्दिराजः ॥ ४ ॥

 पारि०-लभतां लभताम् । नाहमोष्टर्याकालुष्यपात्रम् । किन्तु वैभवोच्चितं यन्न दानमारभते भघांस्तदहमुपतप्पे । तथाहि----

पुष्टापि रक्षितापि प्रपत्नतो दानविरहिता लक्ष्मीः ।
गौरिय वन्ध्या भूता भवति परं कष्टदा गृहिणः ॥ ५ ॥

 सूत्र०-( तगर्वम् ) मार्प ! प्रतीक्षस्व सृर्पचन्द्रोपरागादिपर्व । भूर्ख ! पश्यसि मे महादानानि ।


 पारि० ----- भाव ! को विलम्वः शंसत्युपरागाणां त्रिपुरवलगर्विते दैत्यतथाहि ----

दैत्यास्तै कैटभीयाः क्रथनमभिलपन्त्यब्धिमध्येऽपि गौरे --
 र्वारंवारं हिनस्ति घुमणिशशघुरौ वाहुहीनः स राहुः ।
रुग्णे गीर्वाणवर्गे त्रिपुरपरिभवैः सोऽपि पातालसूला-
 ज्जाने कैरप्यहोभिर्वलिरिह वलवानेष्यति ध्वस्तवन्धः ॥ ६ ॥

( नेपय्ये सोपहासम् )

 युज्यते युज्यते तवैतत् । चारणा हि दुरुदाहरणदोहदैर्विरोघविपवर्ल्ली वर्द्धयन्तो दुर्वलान्वालिष्टैर्घातयन्ति ।

 पारि०---( प्तभयम् ) भाव ! कोऽयमकारणं कुप्पति ? ।

 सूत्र०--(स्वरप्रत्यभिज्ञाममिनयन् ) एप विरञ्चिनन्दनो महामुनिर्नारदः ।

 पारि०--( प्तोपहाप्तम्) अहो ! मुनेरुपशमशीलता ।

 सूत्र०--(विहत्य) स्वभाव एवायमस्य । किन्न जानाति भवान् ? । तधाहि-

न वीणा प्रीणाति श्रुतिपुटसुखग्रामघटना  स्वराभोगः साम्नामपि च न तथा पुष्यति सुस्वम् । मिथःक्रूरक्रोघग्रधितपरुपालापवहलः  कलिः प्रहृरदाय प्रभवति यथा नारदमुनेः ॥ ७ ॥

 तदुयं कलद्दावलोकनकुतृहली स्वयं च क्रोघनो दूरत एव नमस्यः ॥ एह्यावां निजनियोगमनन्तरकरणीयं सम्पादयावः ।

(इति निष्कान्तौ )

प्रस्तावना


(ततः प्रविशति नारदः )

 नारदः--(समंरम्मं समन्तादवलोक्य ) कथं न कोऽप्यत्र ? । अहो धाष्टर्यं मिथ्योक्त्तिवाचाटस्य नटस्प ! । तथाहि-

त्रिशूललीलायितमन्घकारे--
 ध्ययत्सु चक्रान्क्रमणं मुरारेः ।

भयज्वराटोपपचेलिमेपु
 दैत्येषु शौर्यस्य लवः कदासीत् ॥ ८ ॥

 अथवा नटोयं किमुपालभ्यते, यो राहुमपि वीरगणनायां गणपति ।

(नेपथ्ये )

 आ ! ब्राह्मणोऽसि । किं करोमि । निरड्कुशरसनो व्याहर पथा यथा रोचते ।

कनकशिखरिदुर्गं वज्रयाणिर्न मुञ्च-
 त्युदधिसलिसलिलदुर्गैर्जीवितो दानवारिः ।
स च पितृवनदुर्गं चन्द्रचूडोऽधिशेते
 सुभटभणितिशोभां युज्यते निर्जराणाम् ॥ ९ ॥

 नारदः--( स्वरानुप्तारेण ऊर्ध्वमवलोक्य स्वगतम् ) कथमयं राहुर्व्यहरति ? । भवतु । कोऽयं वराकः ।

( ततः प्रवेिशति व्योमयानेन राहुः । राहु' कनकशिखरीत्यादि पटति )

 नारदः--(प्तोपद्दाप्तम्) अयि राहुवीर ! उपहसनीयैव सुभटभणितिर्देवानाम् । तथाहि--

जम्भस्तम्भितविक्रमः सुरपतिर्मन्दोऽहदृनो रविः
 सोऽऽप्यास्ते गजकूत्तिगुसजघनो॒,देवस्त्रिशूलायुधः ।
कृष्णः सोऽपि कदर्थितो मधुमुरप्रायैर्मुहुर्दानवैः
 शौर्याशौर्यपरिस्थितिं सहृदयो जानाति राहुर्भवान् ॥ १० ॥

( राहु. साशङ्कमिव मूर्द्धकम्भेन वारयति )

 नारदः-( सहासम्) अयि र्सैहिकेय ! हस्तसंज्ञया वारय ।

 सहुः ( xxxxxx )

विहस्तितां नारद ! भामकीयां
 गतत्रपः कुिं हुससि प्रहृप्टः ।
करान्खरांशोर्हसितुं सहस्त्रं
 न तेऽस्ति वक्त्रं मदुपद्रुतस्य ॥ ११ ॥

 तदाकर्णय मे हितैपिणो वाणीम् ।

मन्दं नारद ! जल्प मुञ्चसि न किं विप्रोचितं चापलं
 मिथ्याहङ्कृतिजल्पितैस्तव हहा ! कुप्यन्तु मा दानवाः ।

देवेष्वस्तमुपागतेपु सहसा तत्क्रोघलीलायितै-
 रेपाऽन्योन्यविरोधिनी क्क नु मुने ! विघा प्रयोज्या त्वया ॥१२॥

 नारदः-( सहासम् ) सैहिकेय ! अहमप्यत एव न देवानाऽऽकोप्य दानवान्निर्मूलमुन्मूलयामि । तथाहि ---

निर्मृलमुन्मृलितदानवेपु
 देवेयु निर्वैरसुखप्रियेपु ।
सङ्गामसँमर्द्दभरावलोक-
 कुतूहलं स्यात्क नु नारदस्य ॥ १३ ॥

 राहुः-( सोपहाप्तम्) अहो ! महाहवकृतूहलित्वं महामुनेः ! तदहं प्रतिग्रहान्तरनिरीहस्य पूरयामि भवतः समरावलोकनसमोहाम् ।

वराको राकायां मम कवलतामेत्यऽशरण-
 स्तथा दर्शेप्यर्काश्रयमुपगतः शीतकिरणः ।
तदघैव क्रूरप्रसृमरकरं केवलममुं
 करिप्यामि ग्रासं दिनपरिघृढं पशयतु भवान् ॥ १४ ॥

( इति सक्रोध निष्क्रान्तः )

 नारदः-( साश्चर्यम्) अहो चण्डिमा दानयखण्डस्य । तदहं भगवतीं भागीरथीमुपास्य खपडपरशुमुपवीणयितुमनुसरामि । तमेव देवं दानवेभ्यः क्रोधयिप्यामि । ( नमोऽवलोक्य ) सुरसमूहोऽपीदानीं शिवं सेवमानो भविप्यति ।

( इति निष्क्रान्तः )

विष्कम्भकः


(ततः प्रविशति सुरप्तमूहोपास्यमानो॒ महेशः)

 महेशः-(स्वगतं साशङ्कम्) आः किं पुनचिंध्वंसितानिच पश्याम्यमृतान्धसः ? । भवतु पृच्छामि । ( प्रकाशम् ) अयि सुरगुरो । किमेतत् ? ।

शाक्रं चक्षुःसहस्त्रं परिवहति हिमक्लीवराजीवमुद्रां
 पाशः प्राचेतसोऽपं पिशुनयति सुखध्वंसमालस्यवश्पः।
सुप्तोत्साहो हुताशः कलयति सुमनःकालिमानं द्वितीयं
 क्रूरां कष्टस्य काप्ठां स्फुटमभिदधति व्याकुला लोकपालाः ॥ १५ ॥

 वृहस्पतिः ----- (सोल्लुण्ठम् ) किं पुनर्भगवान्सर्वज्ञो नारदवदस्मान्कन्दलाय मुखरीकर्त्तुमिच्छति ? । स्वयमेव वेत्तु देवः ।  नारदः-

नेत्रे मीलय चन्द्रसूर्यमयनस्वर्भानुरायात्ययं
 प्रच्छन्नं क्रिपतां गजाजिनमिदं वैरस्य संस्तारकम् ।
शूलं निक्षिप दूरतः क्कचिदिदं युद्धापराधात्मकम्
 शम्भो ! तापस एव जीवतु भवान् घोरा रणे दानवाः ॥१६ ॥

 महेशः-( सोधम् )

समिति परिच्चितोऽहं सर्वदा सर्वदैत्यैः
 कथय कथप कोऽयं नारद् ! द्राङ्भुमूर्पुः ।
विरचयतु विशङ्कं नाकलोकं पिनाकः
 प्रलयजलदनादस्पर्द्धिमौर्वीरवर्द्धिः ॥ १७ ॥

 इन्द्रः---( स्वगतं सहर्पम्)

 दिष्टया रौद्ररसवासितमानसो हरः संवृत्तः । साधु नारद ! साधु ।यन पारदोसि विपत्पारावारस्य ।

 नारदः-( पार्श्वमवलोक्य ) अयि कुण्ठकुलिक्ष सहस्राक्ष ! किन्न विज्ञपयति भवान्? ।

 इन्द्रः-( सखेदं नि श्वत्य ) अयि महामुने ! केिमहमुपहसनीयो विज्ञपयामि ? । तथाहि---

काठिन्यं कुलिशादपेत्य हृदये सत्रासमावासितं
 सघो पन्न विदीर्यते विधुरितं दुर्दैत्यदर्पोदयैः ।
एकोप्यस्ति न मे विलोचनलवश्चक्षुःसहस्रं तनौ
 नूनं चित्रभिदं हृतं मम यशो यत्पश्यतः शत्रुभिः ॥ १८ ॥

 महेशः-( प्तोत्साहम् ) अपि जम्भशासन ! किमेवमुत्ताम्यसि ? । कियन्मात्राणि तव दम्भोलिदावानलस्य दानवकुलतृणानि ? ।

 इन्द्रः--( प्तप्रश्रयम्)

किं गर्वगर्भभणितिव्यसनेन शस्तो
 दम्भोलिरेप न तु देव । तव प्रभायः ।
औदात्यसुस्थमनसि त्वयि दानवानां
 दोर्दण्डखण्डनविधौ कतमोऽस्ति 'शौण्डः ॥ १९ ॥

 महेशः-(सखेदम् ) अहहं पुरुहूत ! किमिदं व्याहृतम् ! । स्वमेऽपि दिविपत्कार्येपु न स्यादुदासोन ईशानः ।

शूलं शिरःशूलकरं न कस्य
 विपाककृत्कस्य न वा पिनाकम् ।
ममेन्द्रसन्देशंवदस्य
 कं वा न कुर्यात्परशुः परासुम् ॥ २० ॥

 यमः-( ससरम्भम्) आः ! किं मृतममरैर्येद्दैत्यसमरसम्मर्द्दकेलिर्भगवन्तमुग्रं व्यग्रीकरिप्यति ? । अयि देवदेव ! त्वद्वरप्रदानवलमाशङ्कमानास्तत्र वयं क्लीवा: संवृत्ताः स्मः । तदिदानीम्----

भोदन्तां करपङ्कजेपु गिरिश ! स्वस्थानि शस्त्राणि ते
 सङ्गामश्रमकातरो नहि नहि प्रेष्योऽस्ति ते कश्चन ।
स्वैरं मे समराङ्गणे विहरतां दण्डोऽयमत्युत्कट-
 स्रुट्यत्कीकसवावदूकदनुजप्रत्यङ्गभङ्गोद्यमैः ॥ २१ ॥

 हुताशः-(सक्रोधमाकाशे लक्ष्यं बभुदा )

अयि ज्वालाः सर्वाः प्रलयसमयाटोपविष्पमाः
 प्रगल्भध्वं यूर्य मयि झगिति सङ्गामरसिके ।
मया प्रुष्टे तस्मिन्प्रथममसुरानीकविपिने
 सुराणामन्येपां `भवतु कुपितं भस्मनि हुतम् ॥ २२ ॥

 नारदः-(सहर्पे विहस्य ) अयि घायो ! पश्य पश्य निजमित्रस्य शौर्योत्साहम् ।

 वायुः-सखे नारद !

तिर्मूलमुन्मूलयिताहमेव
 प्रभञ्जनः प्रागसुरदुमौघान् ।
दहत्यथैतान्मृतमारकार-
 स्तनूनपात्तापयनां रविवी ॥ २३ ॥

 नारदः-( सहर्षम् ) दिष्टया वर्द्धतां वर्द्धतां धमैः । एवमुद्धतक्त्तोघेपु देवेपु दानवानामम्भसि मग्रानामपि क्क जीवितम् ।

 वरुणः ----- ( समवै प्तप्रक्ष्रयम् )  कण्ठन्यकठोरपाशविवशान्देवद्रुहो दुर्द्दमान् ( आत्मानं निर्दिश्य )

 नेष्यत्येप निरङ्कुशो जलपतिः पातालमूलं वलात् ।
तद्वैलक्ष्यजुपो विना रणरसं भग्नप्रतिज्ञाः सुरा
 न क्रुध्यन्ति यथा तथा कुरु मुने ! त्वामित्थमभ्यर्थये ॥ २४ ॥

 नारदः-सखे कुवेर ! धनदोऽसि, तदिदानीं निधनदो भव विद्विपाम् ।

 कुवेरः-सखे नारद !

मद्दोःस्तम्भविजृम्भितैस्त्रिनयनप्रेमानुरोधेन वा
 सार्द्धं नैव मया मिलन्ति समरश्रद्धालवो दानवाः ।
तन्मे भूरिदिनानि सङ्गरमहादुथ्तिक्षदूनात्मनः
 सम्प्रत्येप रणोत्सवः प्रभविना हर्याय शम्भोः पुरः ॥ २५ ॥

 नारदः-( प्तहर्पम् ) अहह ! दिष्टया कृतकृत्योऽस्मि संवृत्तस्तदिदानीं नेत्तरस्य कस्याप्यपेक्षा ।

 नैर्त्क्ष्त्रयः--( सक्रोधं स्वगतम् ) कथं सामान्यगणनयापि न मां गणयत्ययं बटुः तदेवं तावत्-( प्रकाशम् )

देवद्रोहिविपाटनव्यतिकरे चीरोऽहमेकः परं
 तादृडने त्वदनादरेण गरिमा किं नारद ! क्षीयते ।
आस्ते कौतुकमात्रमेव कलहक्रोडासु ते चापलं
 भीरुः शर इति स्थिर्ति कथमहोजानाति विप्रो भवान्म् ॥ २६ ॥

 नारदः-( स्वगतं तहर्यम् ) दिष्टवा असावप्पस्मत्पक्ष एव तावत्संवृत्तः । क्त्रुध्यतु क्रुध्यतु । सुतरां प्रियं प्रियं मे । (प्रकाशं सप्रश्रयम् )

धुरीणो वीराणां रजनिचर ! कोऽन्योऽस्ति भवतः
 प्रधानं शस्त्राणां तव परमसिः क्रोडति करं ।
त्वमभ्यर्थ्यो पोद्धुं किमिव दिविपत्कार्यपरया-
 न्विधिः केनादिष्टो घटयति मुहुर्विप्टपमिदम् ॥ २७ ॥

 नन्दी-(सस्पृहम्) अपि सुराचार्प ! सुष्टु मामेवंविधदानवविशेपशुश्रूपा मुरवरीकरोति । तथाहि

अस्तोदपत्पितिरियं किमु लङ्घनीया
 केनापि किन्नु पुरुषप्रवरः स एकः ।
यत्कातरा बहुतराः सहसा समेत्य
 तद्धैशसव्यतिकरं मुहुरारभन्ते ॥ २८ ॥

 तत्कथय कोऽयं वीरशिरोमणिः ? ।

 वृहस्पतिः--अयि शिलाद्सृनो ! कथितः किमेप विज्ञेयः अन्तरिक्षचरग्त्रिपुराभिधानो धूमकेतुरिय त्रैलोक्यस्य ? ।

दुष्प्रेक्षाः प्रसरत्प्रभूतहुतभुग्ज्वालौघनीराजित-
 व्पोमानो मुखरस्फुलिङ्गपटलप्रच्छादिताशामुखाः !
गङ्गाम्भःकवचे शिाघस्य शिरसि प्रेङ्खन्ति तन्मार्गणा-
 स्थाङ्कारान्न पुनः श्ट्रणोति दिविपहुर्दैवतस्तत्कृतान् ॥ २९ ॥

 न चायमन्तरिक्षचरोऽन्तरिक्षमेव क्षिणोति | क्षितिरपि सुतरामनेनैवोत्ताप्यते । सोऽपि रसातलनायको भुजङ्गराजो भग्न एवानेन ।

( ततः प्रविशति पृथिवी )

 पृथिवी-( प्तोद्वेगमाकाशे लक्ष्यं बध्वा ) भअवं कमलुन्भव ! किं तुमं उआलभेमि ? अहो दे दुव्विलसिदं !

साधारणा अट्ट कुलाअला णं
 ते दिग्गआ सो अ भुअंगराओ ।
मं धारिऊणं इअ वित्थरेण
 भजेसि किं दारुणदणवेर्हि ॥ ३० ॥

 ता ण तुमं उवसप्पिस्सं । तं य्पेव चंदसेहरं सरणं गमिस्सं, जी तुमं पि णिन्मेदि । (परिक्रामन्ती स्खछनमभिनीय सवैङ्क्ष्यम्) अहह ! सुट्ठु अवलम्हि संजादा । ता को मह आलंवणं । दूरे सो भुअंगरा[१३०]ओ ।


( प्रविश्य पुरुपवेपः शेपः )

 शेपः-भगवति भूतधात्रि ! मामयलम्बस्व ।

 पृथ्वी-(विलोक्य ) कघं णापराओ संपत्तो ! । अइ णाअराअ ! लज्वामि वज्जमइआ इधवि तुमं अयलंर्यती ! किं विसुमरिदं मे दुव्यिसहदाणवसरासारघुम्मर्नित मं उव्वहन्तस्स तुह दुव्वहदुप्फडणिम्मोअपट्टं फणाचक्कं[१३१]

 शेपः--भगवति । `भाग्यवानस्मि यदेवं सर्याधारभूता घरादेवो सम्भावयति । तदवलम्वस्व । निकट एवायं भगवान्भवानीपतिः पुरन्दरप्रमुग्वदिविपत्परिपदुपास्यमान आस्ते । तदेझुपसर्पावः ।

(उमायुपप्तर्पतः )

 पृथ्वी-भअवं भग्ग सअललोअसग्गसंहारपरित्ताणकारण ! णमो दे एणामो दे[१३२]

 शेपः--(सप्रश्रयम्) अष्टननुसंविभागाभ्युपगतनिखिलभुवनकार्यवृपध्वज ! नमस्ते नमस्ते ! ।

 महेशः--( सप्तम्भ्रमम् ) आः किमेतत् ! ।

वाप्पाकुलास्या विकलं चलन्ती
 विशालनिःक्ष्वासविलोलवेणिः ।
उपस्थिता मूर्त्तिमती त्वमाधि-
 रस्मन्मनो मेदिनि ! सादयन्ली ॥ ३१ ॥

 तत्कथय किमेतत् ? । भगवति महि ! सकललोकमहनीये महदेतदत्याहितम् ।

कादम्विमी काचिदपूर्वरूपा
 त्वमुएवरे ! भूरिरसोपगृढा ।
उर्ध्वस्थलोकानपि हव्यकव्य-
 प्रवर्पणैः प्रोपायसे तलस्था ॥ ३२ ॥

 पृथ्वी-( सप्रश्रयम् ) भगवन् ! केयमात्मविकत्थनता । ननु त्वन्मूर्तिरहभमस्मि ।


 महेशः-(शेपमालोक्य )

चलाचलधरोत्कृत्तफणाव्रणगणातुरः ।
अदशन्नपि नागेन्द्र ! त्वं नो दशासि मानसम् ॥ ३३ ॥

 शेपः--( सप्तंरम्भम् ) अपि देवदेव ! त्वदादेशवशंवदोऽस्मि न पुनरहमपर्याप्तः ।

सहस्त्रेणात्पानां प्रसरदुरुनिःक्ष्वासमस्ता
 पृथुज्चालाजालं किमु वियति ययीमि न विपम् !
पदीपप्लोपेन त्रिपुरदनुजोन्मुलनविधौ
 न मन्घ्रस्तन्त्रो वा प्रभवति समाधानकरणे ॥ ३४॥

 नारदः-( सहर्पाश्चर्यन्.) साधु साधु न खलु क्ष्माभारोद्धहने एय समरभारोटहनेऽपि धुरीण एच भुजद्गराजः । ( शिशिरबाधामभिनीय ) आः ! किं पुनरेचंविधदुःखोप्मसंबाधेऽपि शिाशिरवैधुर्यमुज्जृम्भते । ( पुरोऽवलोक्य ) कधमग्रं पर्वनराजः प्राप्तः! । ( सद्दर्पम् ) एह्येहि शैलराज ! हरश्वशुर ! शिशिरय त्रिपुरपरिभवोत्तप्तं सुरसमूहम् ।

( प्रविश्य )

 हिमवान्-( सपञ्चात्तापं हम्तं विधुन्वन्) अयि मुनीन्द्र !

अहह! किमिह कुर्मो नायकस्पामराणां
 कुलिशादलितपक्षाः पट्गचो यत्कृताः स्मः ।
अप्तमचयभराढयाः स्वैरमुक्षीयमानाः
 किमु न दनुजसार्थं खेचरं चूर्णयामः ॥ ३५ ॥

 तदिदानीं स्थाघरोऽपि फामस्प्पो यिम्च्पाक्षापेक्षां पूरयिष्ये ।

 नारदः-( सप्रश्रयम् ) अयि दुर्लक्ष्य त्र्यक्ष !क इदाणीं प्रतीध्यते । त्रिपुरोपभदे देययाने मृपीनन्द्रमसी परमिह नागतौ ।

 नन्दी-( दिशोऽझेक्य प्तमम्धमम् ) आः ! किमेतत् ।

रात्रिर्गनैव विहरन्ति न घरिवाहा-
 स्न्नारुण्य एव तरणिः परिपगाममेति ।
आ ! कोऽपमद्भुनमयः समयस्तनोनि
 दिफ्चक्त्तममिलतिमिरश्परोहम् ॥ ३६ ॥

 ( मर्पे मश्मग्भारमाटोग्न्तेन्ते )

(नेपध्ये )

दैत्यान्तकारिचक्त्तपराक्त्तभस्य
 यो हीनतां पिशुनयत्यविनष्टमौलिः |
सोत्कर्परोपभरभीषणनिःपिधान-
 र्दष्ट्रः स एप विनिहन्ति विधुन्तुदोऽर्कमू ॥ ३७ ॥

 तत्परित्रायतां यः कश्चिदिह शरतरः सुरोऽस्ति ।

 महेशः-(ससंरम्भम्) नन्दिन्नुपनय मे चापम् द्रागस्तु निःशोकःसृर्यलोकः ।

 नन्दी-आः!कोऽयमसद्रहो विगतविग्रहं निगृहीतं राहुग्रहं ग्रहीतुम् । त्रिपुरदाह एवारभ्यताम् , येनोपरुडदेवयानपितृयानेन घर्मपथनिर्मूलमुन्मूल्यते ।

(नेपथ्ये )

 ( सक्रोधम् ) आः ! क एप धर्ममुन्मूलयति ? ।

धर्मः सदैच यलवान्विजयैकहेतुः
 धर्मोभिरक्षति परं स्मरणमयत्नात् ।
ते जम्भकैटभ्मगाजन्धकनारकाघा
 धर्मद्रुहः कथय केऽभ्युदयं प्रपेदुः ॥ ३८ ॥

 नारदः-( सहर्षम् ) कथमागत एव मम ज्येष्ठो भ्राता व्रह्मनन्दनो धमैः ! ।

 धर्मः-( प्रविश्य )भगावन्नशेप जगदाधार ! एप त्वां धर्मः प्रणमति ।

 महेशः-अयि धर्म ! किमेवमुच्पते ? । अस्माकमपि वृपभरूपधारस्स्वमाधारः । इहोपसीदतु भवान् ।

 धर्मः-महेशा ! त्रिपुरोपरुद्धे जगति इहैव मे स्थानम् ( इत्युपविशति )

 नारदः--( सहसोपसृत्य सप्रश्रयम् ) भगवन् धर्म ! एप त्वां कनिष्टो नारदोऽभिवादयते । ( इति प्रणमति )

 धर्मः-( सहर्पम् ) वत्स कलिप्रिय ।

सुधान्धसां पक्षपरिग्रहेण
 विनिग्रहेणोन्मददानवानाम् ।
निप्पादयेिप्यामि कलिं कठोरं
 त्वत्प्रीतये चात्मचिवृद्धये च ॥ ३९ ॥

 नारदः-( सहर्पम् ) भगवनम् ! त्वयि सपक्षे देवानां भविष्यति भगवान्नारायणः सेनानीरतः को विजयसंशयः ।

यतो घर्मस्ततः कृप्णो यतः कृष्णस्ततोः जयः ।

 कार्त्तिकेयः-( प्तक्रोधं त्वगतम् ) कथं मां सेनान्यं निरस्य नारायणः सुराणां सेनानीर्भविष्यति ? । ( प्रकाशं ससंरम्भम् ) अयि नारद !

हित्वा पौरुपवासनां न महिलाभावं गमिष्याम्यहं
 पाञ्चोत्सारितगौरबो नहि मुने ! हुस्वो भविप्पामि वा ।
कृर्मक्रोडझपादिरूपविगतिर्नैवानुभाव्यां मया
 सेनानोः पुरुपोत्तमो दिविपदां योग्यो न मादृग्जनः ॥ ४० ॥

 नारदः-( सहर्पम् ) दिष्टया वर्द्धते दिविपद्रर्गः । यदयं संरब्धः शम्भुनन्दनः । ( प्तहसोपमृत्य कार्त्तिकेयं शिरस्याघ्राय )

अबालविक्रमो वालः शूलिनो मोदतामयम् ।
अस्य प्रसादतो देवा निर्जरा यान्तु वृद्धताम् ॥ ४१ ॥

 महेशः-अयि कार्त्तिकेय ! किमनभिज्ञः प्रलपसि ?॥मद्धन्धुर्मधुकैटभारिः पितृव्यस्ते भवति ।

कार्त्तिकेयः-( सप्रश्रयम्) यदि पितृव्यस्तर्त्कि मयि स्धिते पिता पितृव्यः पितामहो वा रणायासमनुभविप्यति ? ।

 महेशः-( सस्मितम् ) अयि नारद् ! गच्छ । समानय पितामहकृष्णौ । मा कदाचन तद्वरप्रदानगर्वितास्त्रिपुरासुरा `भविप्यन्ति । तत्तदनुमतेनैव तान्निर्दहामि ।

 नारदः-पधाऽऽदिशति देवः । ( इति निष्क्रामति )

 महेशः--अयेि महैन्द्रादयो देवाः ! सर्वे सज्जीभवत नेिजनिजदिङ्वुखेषु । एप निप्पन्न एव त्रिपुरदाहः । रक्षणीयः परमिह मायाप्रपञ्चो दुर्लक्षो दानवानाम् ।

 इन्द्राद्याः-( सप्रश्रयं सहर्पम् ) यथाऽऽञ्ज्ञापयति देवः ।

( इति सर्वे निष्कान्ताः )

प्रथमोऽङ्क:


( ततः प्रविशत्यल्लीकः )

 अलीकः-( पुरोऽवलोक्य ) कघं एसो मह पिअवअस्सो विवरीदो गाच्छदि ! । अच्छरिअं अच्छरिअं जइ एसो अन्धो ता कधं तुरिदपदं परिक्कामदि । जदि ण अन्धो ता कघं ण मं पेक्स्वदि । भोदु सद्दायेमि । अयि विवरीद विवरीद ! कर्हि पत्थिदोसि[१३३] ? ।

 विपरीतः----( सहसाऽवलोक्य प्तहर्पम् ) पिअवअस्स अलिअ ! दिट्टिआ तए वाहरिदोम्हि । अण्णहा तुमं अपेच्छिअ गदो तुमं अन्नेसअन्तो खिज्जन्तोम्हि [१३४]

 अलीकः-किं उण तुमं मं ण पेक्खसि[१३५] ? ।

 विप०--वअस्स ! गरुअरज्जकल्लभारुव्वहणवावडहिअएण ण मए तुमं पेयिग्वदोसि[१३६]

 अलीकः ---- ( प्ताशङ्कम् ) वअस्स ! केरिसं रज्जकज्जं[१३७] ? ।

 विप० --- तिउरणाहपरिभूदेहिं दैवेहिं मिलिअ मंतिऊण हरिविरिचिपासं पेसिदो नारदोत्ति चरेहिं दाणवणाहस्स यिन्नत्तं[१३८]

 अलिकः ----- ( प्तावज्ञम् )

 दिग्गअदूसणत्थं ससाआणं एस भेलओ, जं तिउरणाहणिम्महणत्थं अमराणं मेलओ[१३९]


 विप०-( सक्रेोधम्) अयि अलिअ ! शैशचादो पहुदि राअउलपवट्टिदो

खु तुमं णअसूअणिउणो कहं एवं मन्तेसि । णं परमाणुमेत्ते वि वैरिए अप्पमत्तेण भोदव्वं[१४०]

 अलीकः-ता कधेसु किं संदिटं तिउरणाहेण[१४१]

( विपरीतः कर्णे एवमेव )

 अलीकः-( सहर्येम्) साधु साधु सृमंतिदं एर्द[१४२]

 विप०-( सगर्वम्) वअस्स ! एदस्सि कम्मे तए मए वि भणिदव्वं विपरीदो असुराणं विजओ, अलिआं देचाणं खओो । ता गच्छ तुमं विप्पयारसु विरिचं । नारओ विन्हुसआसे चिट्टदि । अहंपि हरं विप्परिआरिअ पुरंदरपहुदिदेवे विप्पञ्आरेमि[१४३] ( इति निष्का न्तौ )

( विष्कम्भकः )

( ततः प्रविशति नारायणो नारदश्च )

 नारायणः-( साशङ्कम्) किं पुनरद्य नारदः शारदाम्बुद इव नीरसो विच्छायकायः स्थितः ? इयमपि वीणा स्कन्धावलम्विनो भारायते ।

 नारदः-( सखेदं नि.श्वस्य ) अपि वैकुण्ठ !

करुणरुदितनादव्यक्तिमासृत्रयन्ती
 प्रकटमभिदृधाना मूर्च्छनां निर्ज्जराणाम् ।
तनुरिपमसुरारे ! वादिता॒ दुःखवीणा
 नहि मम सुखयेत्त्वां तेन मूकः स्थितोऽस्मि ॥ १ ॥

 नारायणः--~-(सप्तम्भ्रमम्) अत्याहितमत्याहितम्! । अयि नारद ! सकलभुवनवृत्तान्तविशारदोऽसि ॥तदावेदय कस्यायं सुचिरमस्ताय क्षणिकोऽभ्युदयः।


 नारदः--अहो ! शुभदशा दानघानां यद्विश्वव्यापिना त्वया तदर्थमन्यः पर्यनुयुज्यते । तदहं किं न विज्ञपयामि? ।

भुवनत्रपमिदमखिलं त्रिपुरप्रभुपरिभवानलज्वलितमू ।
क्षणमपि न समं लभते त्रिभुवनभर्तुः युरो भवतः ॥ २ ॥

 अपिच-----

आकाशः नावकाशः क्षणमपि भवति स्वर्वधूनां विहर्त्तुं
 योगे वा संयुगे वा विघटिततनवो नार्कसम्पर्कभाजः ।
संरुद्धे देवयाने प्रसरदुरुमदत्रैपुरानीकचक्रै-
 रप्यग्निष्टोमपाजी प्रभवति न पुरीं पौरुहूतीमुपैतुम् ॥ ३ ॥

 नारायणः-अयि नारद ! भवानप्येवमाह | किन्न पश्यति भवान् उग्रतपोभिरुग्रमाराध्य दानवा उग्रा भवन्ति । किमहं परवान् करवै ? ।

गदा सदा दानवदारयित्री
 सौदर्शर्न दर्शनमेव घोरम् ।
न मन्दशक्त्तिर्मम नन्दकोऽयं
 निदेशमेवैशमहं समीहे ॥ ४ ॥

 नारदः-( सोपहासम् ) अहो ! प्रभावोऽसुरसृकृतानां, यैः सर्वज्ञा अप्यज्ञताः । प्रापिताः । शम्भुरेवं जानीते, जनार्दनदत्तवरारित्रपुरासुराः । न च भवान् हरवराशङ्की प्रतिकूलेष्वपि तेषु प्रातिकूल्यमवलम्वते । एवमाह मां भगवान्भर्गः । द्वितीयः किल ममात्मा मुरारिरर्द्धाङ्गन्हरस्तत्त्कदाचित्तद्दत्तवरमसुरं प्रहरते ’मह्यं स कुप्येत्, तत्त्वं गत्वा निरूपय ? !

 नारायणः-( प्तप्रश्रयम् ) अपि नारद !

देहार्द्धसम्बन्घवरप्रदानैः
 स्वयं स मां लालयतु प्रसन्नः ।
सङ्ग्रामसेवावसरेषु शम्भो-
 र्मदग्रतः स्यादधिको न नन्दी ॥ ५ ॥

( ततः प्रविशति नन्दीं )

 नन्दी-अहो !देवानामभाग्यसम्पत् , यद्देवानामियमितरेतरकलहवल्ली पल्लविता । (समन्तादवलोक्य) कधं प्राप्त एवास्मि विष्णुलोकम् ! । तदिह क नारायणः ? । (पुरोऽवलोक्य ) कथमयं नारायणोनारदेन सह विश्रव्धंमन्त्रयमाणोऽस्ति ।


( साश्चर्यम् ) आः । किमेतदयं हि रुदितोच्छूननयनः कैटभारिपरिभवं भवाग्रतोऽभिघाय सोद्धेगमपक्रान्तः । तत्कथमंत्रा '''''''''' ऽवलोकयते ? । अथवा दुरधिगमगतिर्नारदस्य। भवतूपसर्पमि । (उपसृत्य ) अयि पुरुपोत्तम । तथा महेशमुपहस्य किमेवं स्थीयते ? । अपि च----

त्यपार्चितो यो नयनाम्चुजेन
 चकार यः सर्वजगत्प्रभुं त्वाम् ।
गौरीव येनार्द्धतनौ घृतस्त्वं
 स्थाणुः स शौरे ! हसनीय एव ॥ ६ ॥

 नारदः---( सक्रोघम् ) आः मृपावादिन् ! किमेवमतिनिन्दितमकस्माव्घाहरसि ? ।

 नन्दी---(सक्रोधम्) अयि नारद ! सत्यं कलहप्रियोऽसि । किन्त्वेवं हरिहरयोः कलहकारिणा न त्वया भवितव्यम्। भवनैवेतिभवोऽभिहितः । कैटभारिः किल मां साधिक्षेपमित्थमाह । ’किमहं स्थाणोस्तस्य निदेशकारः । स्वैरमहं दानवानुन्नमयामि नमयामि वा ? ।

 नारदः-(साश्चर्ये प्तप्तम्भ्रमम्)आः! कदाहं व्यावृत्य जगदीशसकाशं गतः?।

 नारायणः-( ध्यानं नाटयित्वा प्तस्मितम् ) अयि शिलादस्सृनो ! अयिनारद! आस्तामास्तां वाक्कलहः । केनापि मायाविना दानवेन नारदरूपचतुरेण नूने हरो विप्रलब्धः । तदचिरेण भगवन्तं चन्द्रचूडं सम्भावयतु नन्दी, यावन्न किमप्यत्याहितमापतति । अहमपि भगवन्तं विरिञ्चिमादायागतोऽस्मि ।

 नन्दी-( सनीडम्) यथाऽऽदिशति हृपीकेशः । ( इति निष्कान्तः )

 नारा०--गच्छ नारद ! समानय भगवन्तं कमलासनम् ।

( ततः प्रविशाति कपटनारदेनानुगम्यमानो विरिञ्चिः )

 विरिञ्चिः-(सक्रोधम्) तात नारद ! स त्वं मम पुत्रो नारद् एव न भवसि यदेवंविधं परिभवं चक्रिणः सोढवानसि ? ।

 कपटनारदः-( स्वगतं साशङ्कम्) किं सुणिदोम्हि ? । आदु कृविदो एस एवं वाहरदि । तह वि एयं दाव[१४४] । (प्रकाशम् ) अपि तात! भगवति भर्गे गोविन्दे च त्वयोवाहं विनयेन वर्त्ते ।


 विरिञ्चिः--साधु साधु । (सर्वतो विभाव्य ) अपे ! समागत एवास्मि विप्णुलोकम् । तत्कथं करोमि!( स्वगतम् ) युंद्धदुर्भदो मुरारिर्वरं शापोदकेनैव तं शमयामि । ( प्रकाशम् ) अयि नारद ! न सहे समरविस्तरेण कालक्षेपं, तदहं शापेमैव केशवं शवीकरोमि ।

 कपटनारदः-(तूप्णीं तिष्ठन्स्वगतं सहर्षम्) दिट्टिआ कअकय्यो भविस्सं[१४५]

 विरिञ्चिः-( सनोघमुच्चै. )

सोऽन्यः सिन्धुपतिर्युगान्तविलसद्धेलासमुल्लङ्घने
 यस्मिन्कृष्ण ! भवान्वटदुमशिखाशास्वाश्रयेणोद्धृतः ।
शापाम्भीजलधिः प्रकोपवडवावैश्वानरोत्सङ्गितो
 व्राह्मः कोऽप्ययमद्रुतोऽभ्युदयते यस्ते निवापाञ्जलिः ॥ ७ ॥

 कृष्णः-( श्रुत्वा सभयम्) आः ! किमेतत् किमेतत् । (इत्युत्तिष्ठति )

 नारदः---( सप्तम्भ्रमं वेगादुपेत्य ) तात ! धिक्त्वां धिक्त्वाम् । किमनुचिते प्रवर्त्तसे ? । एप त्वां हरिरभ्युद्गच्छति ।

( कपटनारदस्तिरोधत्ते )

 विरिञ्चि-(नारदं दृष्ट्वा) कथमयं नारदः ? । (पार्श्वमवलोक्य कपटनारदुमदृष्ट्वा साश्चर्यभधोमुखस्तिष्ठति ) ।

 नारायणः-( सस्मितं सप्रश्रयम्) आर्यपितामह ! मुञ्च मुञ्च वैलक्ष्यम् । ठयक्षोऽपि देवस्त्वमिव केनापि दानवेन नारदरूपधारिणा हरिस्त्वामुपहसतीति साटोपकोपः कृतो मदधिक्षेपाय प्रजिघायात्र शिलादसूनुम् ।

( ततः प्रविशाति नन्दिनानुगन्यमानेो महेश. )

 महेशः ---- ( प्तानुतापम् )

अविमृश्पकारितेयं क्रूरा कालोरगी हहा । कापि
यद्दष्टमनिशमन्तः सशल्यभिव तप्यते ह्टदयम् ॥ ८ ॥

 अयि नन्दिन् । कथय कथय त्वदुदीरितदुरुदाहरणकन्दलितकोपः कथं वभूव, किमाह कृष्णः ।

 नन्दी ---- ( प्तप्रक्ष्रयम् ) अयि चतुर्दशजगन्नायक । किमेवम्नुलप्यते सर्व-


ज्ञः । कृष्णो निश्चित्दुर्दैत्यदुर्विलसितो देवदेवसम्बोधनाय प्रागेय मां कृनस्मितः प्रजिघाय ।

 महेशः-( सौत्सुक्यम्) अयि नन्दिन् ! कदा मे कृप्णमेघसंदर्शनेन मनोमयूरः परिमुक्त्तपरितापो भविष्यति ।

 नन्दी-( सस्मितम् ) विमना देवो न जानोते । ननु वयमागता एव विष्णुलोकम् । किन्न पश्पति देवः पुरतोऽभ्युत्थितौ विरिञ्चिनारायणौ सनारदौ ? ।

 महेशः-( सहर्प सोत्कष्ठमुपस्यृत्य सपरिहासम्) कृप्ण ! कृप्ण ! आवयोः समरद्रष्टा स्रष्टाप्ययमुपेत एव । तदेहि युध्यते ( इति समालिङ्गति )

 कृष्णः-( सप्रश्रयम्) अयि देवदेव । किन्नु प्रश्रयेण मम भक्तिमन्तरयसि । ( इति ग्रणमति )

 महेशः-भगवन्पितामह ! एप त्वां महेशोऽभिवादयते ।

( पितामहः सलज्जं तूष्यणीमास्त्ते )

 नारदः-अलङ्कियन्तामासनानीमानि भवद्भिः ।

 महेशः-उपविशतु पुरो भगवान् विरिञ्चिः ।

 विरिञ्चिः--(सनि:श्वाप्तं सप्रश्रयम्) अयि देवदेव ! दानवाधमविप्रलव्घो नाहमेर्वविघमादरमर्हामि ।

 महेशः-अयि पितामह! समान एचायमावयोरपकर्पस्तदुपविश्यताम् ।

( सर्वे यथायथमुपविशन्ति )

 महेशः-( सस्मितम् ) अयि पितामह ! कथं पुनर्भवान्दानवाघमेन विप्रलव्ध:।

 विरिञ्चिः-( सवैलक्ष्यम् ) अपि जगन्नाथ ! किं कथयामि । केनापिबाप्पाम्बुपूरकारिणा नारदरूपधारिणा सान्क्रन्दमुक्त्तोऽस्मि अधिक्षिप्तोऽस्मि कैशावेनहं त्वत्पितुर्चरदानेन दृप्सास्त्रिपुरासुराः परिभवन्ति भुवनत्रयम् । तत्तेनैव सह तानुन्मूलयामि । ततोऽहं क्रुद्धो विष्णुलोकं समागतवान । (निःश्वस्य ) किमप्पनुचितमारव्धवान् । रक्षितोऽस्मि सर्वज्ञेन क्षमिणां वरेण दामोदरेण ।  महेशः--( सस्मितम् ) अहमप्यपरनारदेन गत्वा योधितोऽस्मि ’किन्तेन मे स्वाणुनेति त्वां हरिरुपहसति’ । ततोऽहं केशवान्तिकमागतेनः:नन्दिना गत्या सम्वोधितऽस्मि । शामितक्रोधोऽत्र समायातोऽस्मि ।

 कृष्णः-(सपरिहासम्) अहो ! कलिप्रियस्य कलहावलोकनकारणेन कायव्यूहकारिता ।

 नारदः-( सक्रोधमिव आकाशे लक्ष्यं वद्ध्व ) साधु दानवाः ! साधु ! पुनः पुनर्विडम्घयत तातं कमलासनम् | दास्यति चरान्युप्मभ्यम् ।

 विरिश्चिः-अयि नारद ! किमविज्ञाय कुप्यसि ? ।

तपः सप्तेवन्ते दुरघिगकामार्यमसुरा
 स्नतः प्रोतात्मानो ददति च वरं युक्तममराः ।
त्रिलोकीसंहारप्रणिहितधियः पापनिधयो
 न वध्यन्ते दैत्या गदितुमिति कस्यास्नि रसना ॥ ९ ॥

 सोपधिश्च वरो मक्तस्तैर्गृहीतो यथा किल त्रयोऽपि, वयमेकशरविद्धा एच यध्याः ।

 नारदः-अत एव ते योजनशतान्तरेण सश्चरन्ते । तदित्थमवध्या एव ते संवृत्ताः । क्कैवंविधं घनुः, क्कैवंविघः शरः, कैवंविघो घन्वी, येनैकशरेण त्रयोऽपि विध्यन्ते ।

 कृष्णः-( सक्रोधम् ) अपि नारद ! मैवम्---

स कोदण्डश्चण्डः कठिनकठिनः किन्न भविता
 पृपत्कः सायामः किमु न भविता योजनशतम् ।
अविज्ञेयो घन्वी किमु न भविना कोऽपि विपमो
 विघौ क्रुद्धे मृत्युः किमु न निकटः सोऽपि भविता ॥ १० ॥

 नारदः-( सहर्षम् ) अपि कृप्ण ! त्ययि क्रुद्धो कुद्धो विधिः, क्रुद्धः परमेक्ष्वरः ।

 नन्दी-( सहर्पे प्तार्श्वर्यमूर्वपवछेोफयन्) अहो ! कृप्णवचनमनुवर्तन्ते दुष्टदानवविनाशपिशुनानि दुर्निमित्तानि । पश्यत पश्यत

पुच्छेऽग्ने च विशालभीमशिरसः सायामकायक्रमाः
 पौरस्फोटितभाण्डनादजनितद्वैगुण्यशब्दोर्मयः ।
बद्धोत्कालपृथुस्फुलिङ्गपटलैराग्नेयदिग्विभ्रम
 विभ्राणाः सकलासु दिक्षु निपतन्त्युल्काः पुरे खेचरे ॥ ११ ॥

 नारदः- तदनुसारेणोर्द्धमवलोक्य सहर्षम् ) सत्यं सत्यम् ।

व्योन्नि प्रकटयन्त्येता उल्काः दीप्ताशिखाः पुरीम् ।
दीपिका इव कालस्य दुष्टदैत्यान्विचिन्वतः ॥ १२॥

( नेपथ्ये)

 अयि चंचला दाणवा ! चिट्ठध चिट्ठध । को एस तुम्हाणं अलिओप्पाभअसंखोहो । णूणं एदाओ पलाअन्तस्स पावअस्स करालाओ जालाओ णिवडिदाओ। मए खु णारअवेसेण महेसं वंचिअवंचिदा महेन्दपमुहा लोअवाला।परिदेविदं खु ताणं पुरदो मए । 'हा ताद कमलासण! हा महेस ! हा केशव! कह तुम्हेहिं तिउरासुरणिव्वासिदेहिं पाआलमूले वसिदव्वं । तुम्हेवि महेन्दपमुहा सव्वे सुरा तहिं गच्छध गच्छध कुणह परोप्परमुहावलोएण तहिं कालक्खेवं । तदो महेंदपमुहेहिं अमरहिं अविआरिअ झत्ति य वक्कंतं । ला सहं झत्ति संभावेदु देओ सुज्जताओ अ जहिच्छं सुरिंदरापहाणि[१४६]

(पुनर्नेपथ्ये)

 साधु विपरीत साधु । शिरोमणिस्त्वमसिमद्भ्टत्यानाम् । सफलीकृतं भवता विपरीतेति नाम, यदसुराः स्वर्गसदः कृताः, पातालमूलं प्रापिता अमराः ।

 नारदः-(सावेगं सभयं च ) अपि श्रुतं भवद्भिः ।

 नन्दी-किं श्रोतव्यम् ? ।


 नारदः पश्यत पश्यत । विपरीतवचनसमाकर्णनानन्तरमेव

हर्पोत्कर्षविशृङ्खलासुरचमूसान्द्रध्वजश्रेणिभिः
 कुर्वन्नम्बरडम्वरं हयमहाहेपोर्मिवाचालितम् ।
तन्वन्दिग्वलयं नवाम्बुदमयं दानान्यदन्ताक्लै-
 रेप प्रस्थित एव दानवपतिः पौरन्दरं पत्तनम् ॥ १३ ॥

(सखेदं निश्वस्य)

कोदण्डेऽजगवे कदा गुणलता टङ्कारमापत्स्यते ?
 मोच्या हन्त कदा गदाऽध भविता बाह्यं तदरत्रं कदा ? ।
याता एव यतस्ततो दिविपदस्ते ते महेन्द्रादयो
 घिग्धिग्वश्विरजीवितं यदसुरैः स्वर्गो हहा ! गृह्यते ॥ १४ ॥

 कृष्णः-(प्तोत्साहम्) अपि नारद! किमेवमाफुलोऽसि?। स्वर्गनामसमाकर्णनेपि बघिरा एव दानवाः । (इति चिन्तां नास्यति )

 नन्दी-(उर्ध्वमवलोकयन् साश्चर्ये स्वगतम् ) आः! कोऽयमाकस्मिको महान्घकारः सहसा विजृम्भते । नूनमियं कृष्णप्रयुक्तेन्द्रजालर्माया भविष्यति, यद्दैत्यवरुथिनीमेवोपसर्पति । (प्रकाशम् ) आश्चर्यमाश्चर्यम् ।

अन्योन्यं घटनादुपात्तकलहाः क्षुभ्यन्त्यहो कुम्भिनो
 जायन्ते स्वयमेव दन्तिदशनाघातस्य लक्ष्य हयाः ।
दूरे शक्रपुरी निजालयपरावर्त्तोऽप्यभूहुर्लभः
 सद्यः पश्यत पश्यतासुरवले ध्वान्तैः कृतान्तायितम् ॥ १५ ॥

 नारदः-(सहर्पम् ) अयि दानवारे । नमस्ते नमस्ते । नामापि न भविप्यति त्वयि कुद्धे दानवानाम् ।

नैतस्य द्विरदा भदाकुलकदा नोदग्रवेगा हया
 योदारो न निशातशस्त्रनिधयो नोग्रममाया रथाः ।
नायं वल्गति नईति प्रहरति प्रस्फोटयत्युत्कटी
 मोहेनैव निहन्ति दानवकुलं वीरोऽन्धकारोद्रुतः ॥१६॥

(नेपथ्ये)

 अयि दानववीराः! किमेवमाकुलीभवन्ति भवन्तः । नूनमयं पाता


लोपगतैरमरैरिह प्रहितोऽन्धकारस्तत्केऽपि दैत्यभुटाः पातालमुपेत्य दे॒वानुन्मूलयन्तु रुन्धन्तु चान्घकारम् । अपं चान्घकारः कौमुदीमायया मया निग्रम्यते ।

 नारदः-( प्तोवेगम् ) अयि तात ! अपि देवदेघ ! अपि कृप्ण ! भवन्तस्तावदन्दिवमानयामि ।

 ब्रह्माद्याः-साधु साधु ।

( इति निष्कान्ताः सर्वे )

द्वितीयोऽङ्कः


( ततः प्रविशति विशदाशयः )

 विशदाशयः--(पुरोऽवलोक्य) कथमयं स्फुटाक्षर इवावलोक्यते ?। ( निपुणं निरूप्य ) मयाप्युदासीन एपः । किं पुनरसौ ससंरम्भ इव द्रुतपदैर्विभाव्यते ।

( ततः प्रविशति यथानिर्द्दिष्टः स्फुटाक्षरः )

 स्फुटाक्षरः-कधं अप्यो विसदासओ!।ता पणमामि ण ।(सप्रश्रयमुपसृत्य) अय्य विसदासय ! सव्यसंदेहविसोवसमकारणे वत्मणोत्ति तुमं पणामामि एा उणा रायसविवत्तणाणुरोहेण[१४७]

( इति प्रणमति )

 विशदा०-( सस्मितम् ) स्फुटाक्षर ! आयुष्मान्भव । किं पुनर्भवान्संरब्ध इव विभाव्यते ? ।

 स्फुटा०-अय्य विसदासय ! को संरंभो[१४८] ? ।

धुत्तेर्हि मोहिदाणं अग्धन्ति ण सञ्चवघणरयणाओ ।
अणाहिन्नाण पहूणं अलियालावेसु रत्ताण ॥ १ ॥

 अहं खु दाणवनाहेण सव्वतावणेण पाआलमूलमुवगदाणं देवाणं वुत्तन्तं णिरूविदुं पेसिदोम्हि । तदो मए आगदुअ विण्णत्तं जहा किर नारयमहेसिणा विवरीददाणवविरइदमायापवंचंणिवेदिअ पिगवट्टिदा सव्वेवि देवा कअन्तभावमुवगदव्च कुद्धा तुम्हाणं पुराइं अहिद्दवन्ति । ता किज्ञ्नदु पडिविहाणं । तदो पहुदोम्हि । ता उव्विग्गो जामि णिाअभवणं । अय्यं पि अज्ज उव्विग्गं पिव पेक्खामि । ता किं नेदं ? ।


 विश°-( सप्तेदं निःश्वस्य ) अपि स्फुटाक्षर ! परवानस्मि गुरोर्भगवतो भूगुगन्दनस्य । किं करोमि ? । नाहमन्यथैवंविधं कुलविरुद्धं विद्याविरुद्धं नामविरुद्धं च मायामयं पुण्यमपुपयं कर्म कुर्याम् ।

 स्फुटा०-( सप्तम्भ्रमम्.) किं उण एञ्चहिदं अययेणा ववसिदं येण एवं अणुतप्पदि अय्यो[१४९]

 विश०-अयि स्फुटाक्षर ! एवमन्यथार्थितोऽस्मि सर्वतापनेन । पथा किल भगवन्यिशादाशय ! दुराधयों मद्धग्यणां भर्गगोविन्दविरिश्चिसमधिष्टिता पौरन्दरी पुरी । तत्तत्र भवता पत्किमपि मापेन्द्रजालमासूत्र्यतां येन ते त्रिदशानां समूलनाशमाशङ्कय निराश्यः स्वयमेव तां परिहरन्ति ।

 स्फुटा०-:तदा किं कअं अय्येणं[१५०] ? ।

 विश०-कृतमपि विपरीतफलनेव तेपु तादृशेपु मायेन्द्रजालादिकम्

 स्फुटा०-(समयम्) भअवंत । ताणं कए किंपि कीरदु अवरं सन्तिकम्मादिअं[१५१]

 विश०-(सोद्वेगम्) अपि स्फुटाक्षर ! किमलीककर्मल्केशेन ।

उपद्रवाः क्षुद्रस्सुरासुराणां
 शक्यन्त एव प्रतिकर्त्तुमन्ये ।
कुद्धेऽन्धकध्वंसिनि शूलपाणौ
 कः प्रक्रमः शान्तिकपौष्टिकानाम् ॥ २ ॥

 जानामि चैकं शान्तिकम् ।

व्यसनज्वलनेऽमुष्मिन्नविनयपवनप्रसारणोत्फुल्ले ।
 हरच्यरणयुगलसेवा सुरसिन्धुः सापरं शरणम् ॥ ३ ॥


नियेय निवर्तिता सर्वेऽपि देवाः कृतान्तभावमुपगताः कुद्धा युष्माकं पुराण्यभिद्रवन्ति । तत्कियतां प्रतिविधानम् ! ततः प्रभुणा सर्वतापनेन गर्णोष्मविलीनहिताहितज्ञानेन साधिक्षेपमवइस्तितोऽस्मि । तदुद्विग्नो यामि निजमवनम् । आर्यमपि उद्विममिव प्रेक्षे । तत्किंकंन्विदम् ? ।



 स्फुट०-णउणएदंअणुसरिस्सदि अलियगव्युत्तसिदो सव्वताओ[१५२]

 विश०-अयि स्फुटाक्षर ! दानवगुरुणाहमस्य साचिव्ये पौरोहित्ये च नियुक्कोऽस्मि तन्नेह मे समुचितमौदास्यम् । त्यमप्यस्य क्रमायातो हितः । तदास्तामपमानल्केशः । एहि यथा सम्भवमस्य हितमारभ्यते ।

(इत्युमौ परिक्रामतः)

 स्फुटा०--(शरोऽवलोक्य ) परवसोम्द्दि अय्यस्स।विहावेदु अय्यो एसदाणवणाहो गोञ्उरपरिसरे हत्यिपीदृ समास्ल्ढो चिट्ठदि । एसावि दाणयवीरवाहिणी सुग्गहणा सव्यपाआरपरिसरे समन्तदो समन्तदो विहावीअदि [१५३]

 विश०-~-(पुरोऽवलोक्य सावज्ञ्ं विंहत्य ) अपि स्फुटाक्षर ।

स्फुरदुरुघनुर्वल्लिश्यामं कठोरशरोत्करं
 वियमसमरफीडासिंहीविजृम्भितभीषणम् ।
दितिसुलभुजारण्यं तावच्चकास्तु निरत्ययं
 हरहुतमुजाक्रोधज्वाला न घावदिहापतेत् ॥ ४ ॥

 स्फुटा०-अय्य विसदासय!पञ्चासन्नो दाणवणाहो|उअसप्पीअटु प्तदाव[१५४]

( ततः प्रविशति यथा निर्द्दिष्टः सर्वतापः )

 सर्वतापः-कथमायात एव विशदाशयः ? । आर्य ! अभिवादयेऽऽव्रभवन्तम् ।

 विश०-विरतविग्रहः परमानन्दभाजनं भूयाद्दानवेश्चरः ।

 सर्व०-आसनमलङ्करोतु भवान् ।

 विश०---( परिरनीपनीतप्राप्तनमुदिश्य स्वगतं प्तानुतापम् ) आः ! केयं मदीयमुरवमुखराहुरुदाहृतिः कालोरगी विनिर्मता । भवत्यविदितैय यातु कुतोऽपीप म् । ( प्रकाशम्) अवि दानवेश ! स्फुटाक्षरोऽयं स्फुटाक्षरः । परमहितो दानवेशस्प प्रसादमेवार्हति ।


 सर्वतापः'-( सहर्पे विहस्य ) क्रोधनः स्फुटाक्षरः । किं क्रियते ?'

( स्फुटाक्षरः प्रणम्योपविशति )

 सर्वतापः-(सोत्कण्ठम्)आर्य विशदाशय ! अप्यनुष्ठितं तदार्येण ।

विश०--माहेन्द्री त्वगनेकलोचनपदैः कीर्णा पताका कृता
 पाशेनाम्बुपतेर्द्दढं निगडिता कार्तान्तदण्डाग्रतः ।
कौमारस्य शिग्वण्डिनः कृतरुचिर्यर्हेण गुप्तात्मना
 न्यस्ता कल्पमहीरहे तव यशास्तोत्रं मया कुर्वता ॥५॥

 प्रस्तावितश्च तत इतो दृश्यविपुलबलजलधिकोलाहलो मायामयः। ततस्तैस्तत्रस्थितैर्देवौपरीतनिर्मितमायावृत्तान्तप्रसृतितः सुज्ञैर्महानुपहासः कृतः । शम्भुना च कृतसंरम्भेण त्वदीयनगरोद्योगाय नियुक्तः क्रौञ्चदारणः ।

 सर्व०--(सक्रोधम् ) अयि विशदाशय ! कुलाचार इति कारितेयं मया माया साक्षादेव पितामहादीनाम् ।

उत्कृत्य तानुन्मदलोकपाला-
 स्तस्कृत्तिभिः केतनवैजयन्तीः ।
निर्माय भूयो वलसंयुतोऽहं
 यास्यामि वज्रायुधराजधानीम् ॥ ६॥

 विश०-(स्वगतं सविपादम्) अहो ! दुर्पान्घता दानवाघपमस्य निगृढवैशसं च । अत एव नैनं भृगुनन्दनोऽपि प्रत्यवेक्षते ।

( नेपथ्ये सगर्वमुञ्चैःकारम्)

ज्वालामालाभिरग्रेर्लयसमयमरुत्प्रेरणोल्लासिताभि-
 र्भानोस्तैर्भानुसाथैः क्कथितमरुणितं पत्तनं लौहमेनत् ।
रे रे !गीर्वाणवीरा इपुघिशरशिरोबाणटङ्कैरयत्ना-
 त्सघो वन्धूकपुप्पावचयरचनया स्वण्डशः पाटयध्वम् ॥ ७ ॥

 सर्व०-( श्रुत्वा सत्र्कोधम्) आः कथमपं वराकः सूर्यः सूर्यतापपुरं पावकसहापः प्लोपति । तिष्ठ रे तिष्ठ ।

अन्यः स सूर्य ! समरः क्षणमात्रमेव
 यस्मिन्चिपह्य विपदं घुनरभ्युदेषि ।
ध्वान्तापनोदमधिकृत्य निजप्रभाभि-
 रद्यैव लोकमपसृर्यमद्दं करिप्ये ॥ ८ ॥

( इत्युत्थातुमीहते )

 विश०--अयि दैत्यराज महावीर ! तिष्ठ तिष्ट । पावकसहायस्य लब्घावकाशस्य म्सूर्यस्य मिथ्यागर्वोक्तिरियम् । कोऽयमेतावानिह संरम्भः !

( सर्वतापः तथैव तिष्टति )

 विश०-( स्तगतं साशङ्कम्) ताप्यत एय तावत्स्सृर्यतापः । चन्द्रतापः कथंमास्त इति न ज्ञायते !।(प्रकाशम्)अयि स्फुटाक्षर! गन्च्छ क्रियतामप्रमत्तश्चन्द्रतापः ।

 स्फुटा०-(सप्रश्रयम्) यथाऽऽज्ञापयत्यार्यः ।

( इति निष्क्रान्तः )

(पुनर्नैपथ्ये सकरुणम् )

व्रघ्ने वह्लौ विकिरति स्पा रशिममालाः शिखालीः
 लौहेऽमुप्ठिमन्नसुरनगरे'भ्राष्ट्रवद्दह्यमाने ।
लावा दावानल इव हहा निर्गमोद्वद्धझम्पा
 भूयो भूयः स्फुरदरतयो दैत्यवीराः पतन्ति ॥ ९ ॥

 सर्व०-(प्तक्रोधं सप्तंरम्भम्) आ ! कथं दह्यत एव मे भ्रातुः सृर्पतापस्य तादृशं दुर्मदं दैत्यवलम्त। तदलमनेन सृपा भुजभारधारणायासेन । (इति संरम्भेनाटयति)

 विश०-अयि दैत्यराज ! न युज्यते निकटतो भवितुम् । दूरस्थानां भवतां दूरतो मृत्युः ।

 ( सर्वतापनः तथैव तिष्ठति )

 विश०-( प्तील्लप्तम्) अयि दैत्यनाथ ! पश्य पश्य प्लोपप्रकारसमासादितसिन्दूरपूराडम्वरं त्वद्धूतुरिदं लौहं पुरं वियदङ्गणमनुधावति ।

 सर्व०-(विमान्य प्तोल्लाप्तम्)

सूपस्पदं किमु जिघृक्षुरर्य दिघक्षुः
 किं चा पराणिा मुघनान्युपरिस्थितानि ।

आकाशकोटिभघिरोहति दैत्यनाथः
 पाथोधिमुत्थित इवौर्वशिखी विशोप्य ॥ १० ॥

( पुनर्नेपध्ये )

क्रोधाध्मातदिनाधिनाथकिरणैः स्फारीकृताभिर्वला-
 देतल्लोहपुरं तथा हुतभुजो ज्वलभिरुत्ताप्यते ।
पौराणां ज्वलतां पथा चटूचटाकोहलोन्मिश्रितो
 दुर्गन्धोऽयमुदञ्चति क्ष्रुतिपथघ्राणेन्द्रियद्रोहकृत् ॥ ११ ॥

 सर्व ( क्ष्रुत्वा प्तत्र्कोधम् ) अये । लब्धाबकाशाः खेचरा इमे प्रगल्भन्ते । ( प्तावज्ञं विहस्य ) अयि मूखीः । क एप विपादावसरे प्रहर्पः ।


तपनदहनदाहैः रवादिराङ्गाररूपं
 पुरमिदमभवघन्मृत्युशङ्काविमुक्त्तम् ।
इदमभिमतमासीघुद्धखेदं विनैव
 ज्वलयतु तदिदानीं स्पर्शमात्रेण शत्रून् ॥ १२ ॥

 विश०-(सहर्पम्) अयि दानवनाथ ! दिष्टया वर्द्धसे । विभावय तावदूर्ध्वम् ।

दधत्कृप्णां छायां स्खवलदरुणकान्तिव्यतिकरं
 स्फुरद्भिक्ष्छाङ्कारैर्मुग्वरितककुप्चक्रमुरुभिः ।
लसद्धूमस्तोमैर्जनितयमुनासङ्गसुभगै -
 र्वियद्रङ्गापूरे पुरमिदमहो ! मज्वतितराम् ॥ १३ ॥

 तदस्य प्रशान्त एव दाहुपरिभव : । दीर्यायुपोऽमी दानवाः संवृत्ताः ।

 सर्व० (सहर्पम्) अहो ! भ्रातुः सूर्यतापस्य शौर्ये यदिमां दाहविपदं घिपह्य मन्दाकिनीजलावगाहेन लोहमयं नगरमनपायतां नीतम् । तदिदानीं चन्द्रतापायशङ्का परं मां वाधते ।

( नेपय्ये )

यस्मिन्नासीत्प्रकम्पः कुसुमशरकृतो यत्र मुग्धाङ्गनाना-
 मङ्गे संकोचभङ्गिः सुरतपरिकरे यत्र सीत्कारशञ्दः ।
तौपारं वर्षमुग्रं किरति हिमकरे शैलराजे च रोपा-
 त्तस्मिस्तास्ताः सचेष्टाः कथमहह! पुरे चान्द्रतापेऽप्यमवन् ॥१४॥


 सर्व०--( श्रुत्वा सक्रोधम्)अयि पापाः!किमेवं भवद्भिरुदूघुप्यते । तथाहि----

सोऽयं पतङ्गाद्दहनस्य भङ्गो
 दावानलादेप समुद्रशोपः ।
गरुत्मतो राजिलतः क्षयोऽयं
 यच्चन्द्रतः सीदति चन्द्रतापः ॥ १५ ॥

( पुनर्नेठये सगर्वम्)

निवसति वडवाग्निर्यत्र सायामधामा
 विहरति च महोप्मा यत्र हालाहलीयः ।
मयि शशिनि सरोषे मद्रुरोस्तस्य वार्द्धेः
 कुरु शारणगतस्त्वं चन्द्रतापात्मरक्षाम् ॥ १६ ॥

 सर्व०-विशदाशय ! मम ज्ञातेर्विधुन्तुदस्य भक्ष्योऽयं, तदेनं भक्षयतो मम न दोपोऽस्ति । फवलयाम्येनम् ।

 विश०--( सप्रश्रयम्) अयि दानवेश ! भवानेनं कवलयतु । भवन्निदेशेन राहुरेव वा बाढमपुनर्भवाय कवलयतु । किंतु चन्द्रतापसमीपं प्रहितः प्रतीक्ष्यतां स्फुटाक्षरः ।

( ततः प्रविशति स्फुटाक्षरः )

 स्फुटा०-(सखेदम् ) अहह ! विहिविवरीददाए वैभवंपि विघरीदफलं भोदि । तंप्येव चंदतावनअरस्स रुप्यमयं पाआरं रुप्पमआइं सोहाइं एदत्सि तुसारअरसमरम्मि अइतुसारदाए अणत्थहलं संवुत्तं [१५५]

 सर्व०--(स्फुटाक्षरं दृष्ट्वा सप्तम्भ्रमम्) अयि दौवारिकाः ! प्रेतः कोऽप्ययं मामभ्युपैति ।

 स्फुटा०--(प्तावेगम्) अपि णाह ! णहु णहु अहं पेदो भूओ वेआलो वा । अहं फुडक्सरो देवस्स चरो चंदताववुत्तन्तं णिरूविदं गुदोम्हि । तं उण मह अवत्थाए य्पेव विन्नत्तं """"""""" ए सिसिरेण समरो दिट्टो । ण कआचि मए एआरिसो तुसारसंभवो अणुभूदो । ता किंपि परित्ताणं करेदु दाणवणाहो ।[१५६]


 सर्व०-(सकोधम्) एप निर्द्दहामि हिमदीधितिं हिमाचलं च । (इति संरम्र्भ

नाटयति )

 विश०-(सप्रश्रयम् ) अपि दानवेश्वर ! कृतं कृतं संरम्भेण ।

क्षयी हिमांशुर्हिमपर्वतोऽपि
 विविष्टपाधोश्वरलूनपक्षः ।
युद्धाय सन्नह्यसि यत्तयोस्त्वं
 मन्दाक्षभारः कथमेप सल्यः ? ॥ १७ ॥

 सर्व०-तदिहस्थ एव दहनास्त्रं प्रयुञ्जे । ( इति तया करोति )

( नेपथ्ये )

प्रशमितहिमखेदं पावकास्त्रेण येन
 क्षणमिव पुरमासोत्सुस्थितं चान्द्रतापम् ।
अहह ! निविडदादृद्भद्रावितद्धारसीधं
 प्रबलरजतपङ्गैस्तद्दहत्याशु दैत्यान् ॥ १८ ॥

 सर्व०---( क्ष्रुत्वा सक्रोधम् ) उपसंहराम्येप आग्नेयास्त्रम्। (इति तया करोति)

 विश०-अहह ! सुमहानयं सङ्कटः । आग्नेयास्त्रप्रयोगे वियोगेन शिशिाराभिभवः । आग्रेनेयास्त्रं च राजतं विलालयति । तद्गच्छ स्फुटाक्षर ! ब्रूहि चन्द्रतापं राजतपुरमनर्थनिमित्तं परिहृत्य बहिः स्थीयतां वहिर्युध्यताम् ।

 स्फुटा०-यदाऽऽदिशति आर्यः । (इति निष्क्रमति )

 विश०--(वामाक्षिस्पन्दनं सूचयित्वा) अहह ! किमेतदाचष्टे स्पन्दमानं मे वामं वलिोचनम्म । अस्तु सर्वाभ्युद्यभाजनं सर्वतापः । अस्तु चाप्रतिहततेजा दैत्यगुरुः ।

( नेपय्ये )

तावद्वस्त्रिपुरासुराः ! प्रसूमरं त्रैलोक्यजिद्वैभवं
 स्यूतः पङ्कजसम्भवेन निविडस्तावद्वरः कङ्कटः।
तत्कन्दर्पमहेन्धनं त्रिभुवनप्लोपप्रगल्भं क्षये
 यावन्नोद्धटते मनागपि रुपा त्र्यक्षस्य भालेक्षणम् ॥ १९ ॥

 विश०-( नमोऽवलोक्य सप्तम्भ्रमम् ) कथमारो कुमारो नन्दिसनाथविपुलपरीवारः समापतति ! । तथाहि--

तडिद्धद्भिर्मेधैरिव चिलमत्तालरसनै-
 र्चिशालैर्वेतालैर्वियति पृथुकोलाहलमयः ।
मुदा केकाशब्दैर्गुरुसुभटनादेऽप्यपिहितै-
 र्मयूरः कौभारो मुखरघति दिक्चक्रमनिशम् ॥ २० ॥

 अयि दानवेश! एप कुमारस्त्वां सङ्ग्रमयितुमभ्युपैति । गृहाण कार्मुकम् ।

(ततः प्रविशति यया निर्द्दिष्टः कुमार )

 सर्व०-(सावज्ञम् ) आः ! यालको विशाखः सर्वतापं योधयिष्यति ? (आकाशे लक्ष्य बद्ध्वा)

धन्यो धन्या पिनाकः कुटुपटुगतयो हेतयः शुलमुख्या-
 श्वण्डास्ते पाहुदण्डाः प्रवणशिखिशिखाभीपणं भालचक्षुः ।
वालं दुलीलनीयं किमिति पशुपते ! प्राहिणोः सङ्गरार्थं

(सोपहासम् )

 वीराणां युद्धकेलिब्यतिकरमरणे कः क्रमोऽतिक्रमो वा ॥ २१ ॥

 कुमार:-(सोपहासम् ) अये तातेन सार्द्ध युद्धश्रद्धालुर्दानवाधमः । अपि वीर!

किं त्वां भस्मीकरोमि स्मरमिव सहसा किं नु ते बाहुदण्ड-
 स्तम्भं जम्भस्य शत्रोरिव युधि विवधे श्वेडयत्किं गिलामि ।
छन्नाभं शक्तिदण्डग्रथितमथ करोम्यन्धकस्येव तेऽङ्गं
 कीहक्ते तात ! युद्धं सुखयति दनुजश्रेष्ठ ! ताद्दग्विदद्ध्याम् ॥ २२॥

 सर्व-अयि कुमार ! वालकोऽसि । त्वामनुकम्पे। यदि सत्यं सङ्गरे निष्कम्पोऽसि तदाविष्कुरु कार्मुककर्मठत्वम् ।

त्वां न क्षिणोमि शिखिवाहनमन्दशक्ति
 युद्धाम्बुधौ सुगहने नहि तारकोऽहम् ।
तस्मिस्तदा शरवणे जननिस्तवासी-
 दस्मिन्युधः शरवणे मरणं भजस्व ॥ २३ ॥

 कुमार:- -(ससम्भ्रमम्)

शक्तिर्गतैव तव दानव ! शक्तियोगः
 शक्त्या भविष्यति मया हृदि मुक्तया ते।

त्वद्विग्रहग्रहिलता न भविप्यतीयं
 बाणैर्ममाशु भवितासि परासुरेव ॥ २४ ॥

(इति बाणवर्पे नाटयति )

 सर्व०-(प्तावज्ञं विहस्य) अयि विशाख!सुखयति मां कुतूहलिनं तव यालस्य धाष्टर्यं, तन्नाहं त्वयि धनुः सज्जं करिप्ये । खेलतु भवान्यथाकामं मम सैन्ये ।

 नन्दी-( अपवार्य ) कुमार ! विरिञ्चिवरदानेन केवला अमरा एव त्रिपुरासुरास्तदलमनेन सार्द्ध मुधा युद्धायासेन । बलमेवास्य विदलय वाणवर्पैः ।

( कुमारः तथा करोति )

 नन्दी-( सहर्पे सोल्लासम्) विजयतां कुमारः । इतस्त्वया वाणगणैर्वेतालैक्ष्च विदलिता एव दानवाः ।

 कुमारः-अपि शिलादसूनो ! कथं य एव दुानवा निहतास्त एव प्रतिजीविता उदायुघाः समायान्ति ? । तत्किमेतत् ? ।

 विश०-ंरे रे दैत्यवीराः ! समरोपरतान्वीरानमृतकुण्डे मज्जयत यया प्रत्युज्जीविताः समधिकयलं युध्यन्ते ।

(नेपथ्ये)

 क्रियत एवैतत् । किन्न पशयत्यमात्यस्तथैव वलमक्षयम् ।

 कुमारः---( सोल्लाप्तम्) अयि सर्वताप !

सततममृतकुण्डं यर्द्धतां वर्द्धतां ते
 समरनिहतवीरा येन जीवन्ति भूयः ।
विरतमरणशङ्कैस्त्वद्भटैर्युध्यमानै -
 र्भवति मम यतोऽयं युद्धकामः कृतार्थः ॥ २५ ॥

 नन्दी- ( अपवार्य ) अयि कुमार! आग्रेनेयबाणलृनैः स्वर्णप्राकारखण्डैः पूरयामृतकुण्डम् । नान्यथा क्षीयन्ते दानवाक्षोहिण्यः ।

 ( कुमारः तथा करंति )

(नेपथ्ये )

स्वर्णप्राकाररखण्डैः शिस्त्रिविशिरवशिखाखण्ङयमानैः सुतसैः

पूर्ण पीयूपकुण्डं छमिति मुखरितैः पीतपीयूपपूरैः ।


(नेपथ्ये )

कष्टं कष्टं विनष्टैः कयमिव समरे दानवैजींवितव्यं
तत्पूर्वोऽयं प्रविष्टः प्रसभमपचयः सर्वतापस्य सैन्ये ॥ २६ ॥

 विश०--( समर्थम् ) अयि कातराः! केयमाकुलता ! । नन्दति भृगुनन्दने क दानवानामपचयः ? । अपि दानवेश सर्यताप ! चिन्तय भार्गवं भगवन्तम् | अहमपि चिन्तयामि । ( उमौ चिन्तां नाटयतः)

(ततः प्रविशति भार्गवः )

 भार्गवः-(सगर्वम् )

अशोष्योऽद्दमपेयोऽहमहार्योऽहमनक्ष्चरः ।
मायामृते च दैत्यानां मृत्योरभिभवः कुतः ॥ २७ ॥

 तां प्रतिजीविता दानवाः क्षपयन्तु देववाहिनीं, रक्षणीयः परमयं मम भ्राता कुमारः । अहं हि भगवता भर्गेण पुत्रः परिकल्पितोऽस्मि ।

 नन्दी--(सखेदुम्) अये भार्गवः सम्प्राप्सः । अनेन हि देवदेवादेव भृतसंजीवनी विघा समासादिता । तदिदानीमायासैकफलो दनुजैः सह समरसंमद्दैः । न च मे महेशनिदेशमन्तरेण युज्यते समरादपावर्तयितुं कुमारः ।

(ततः प्रविशति नारदः )

 नारदः--(सहर्यम्) अहो जगत्प्रभोः शम्भोर्मयि परिहासो, यदहमयि कलिप्रिय ! यारय कुमारसर्वतापयोः समरसम्मर्द्दमिति विहस्य प्रेपितोऽस्मि । ममापि न तादृगिदानां कलहावलोकनकुतूहलित्वम् । यदहं लोहपुरसमरसम्मर्दसंदर्शनेनार्द्धतृप्तो राजतपुरकदनावलोकनेन सुतरां सृतृसः संवृत्तः । अहह ! किमुच्यते लोहपुरप्लोषणेन । पवनपावकयोः शौर्य हिमांशोर्हिमवतक्ष्च नीहारभारेण राजतपुरपूरणम् । उभयत्रापि निर्गत्यरासुरसार्थवन्घने पाशपाणेर्लघुहस्तता । तावतामपि जीविनापहरणे किं चर्णयामि समरसामर्थ्यम् । तदिदाण्नीं त्वरितमपवर्तयामि समरत्तः कार्त्तिकेयम् । ( पुरोऽवलोक्य सहर्याश्चर्यम्) कथमयं कार्त्तिकेयो विथ्णुपदमभिवर्पति शरासारम् । अहह--

नायं मुखेनैव पितुर्महेशा-
 त्परान्क्रमेणाप्यधिकः पडास्यः !
यः पृज्यते विस्मृतशम्भुशौर्यै-
 र्मन्दारदामप्रकरेण सिद्धैः ॥ २८ ॥

 (तदुपसृत्य वारयामि । उपप्तृत्य) अयि कुमार ! अयि शिलादसूनो ! स॒मादिशति वो भगवान्भर्गः । अयं हि भार्गयो मया पुत्रत्वेन सम्भावितस्तत्किमेतत्परिगृहीतं सर्वनापं दानवमभितापयन्मां ज्हेपयसि ।

 नन्दी-( स्वगतम्) अस्मदभिमनमेवोपक्रान्तमेतेन ) ( प्रकाशम्) यथाऽऽदिशति देचदेवः । ( कार्त्तिकेयं प्रति ) आयुप्मन्ननुल्लङ्वयः पितृनिदेशस्तदास्तां तावघृद्धम् ।

 कुमारः-( स्वगतं सखेद्दम्) अहो मे मन्दभाग्यता, यदेतस्य चिरादासादितस्याहवमहोत्सवस्य प्रत्यूहः समापतितः । ( प्रफाशम्) ( निश्वम्य ) यथाऽऽदिशन्ति तातपादाः । ( इति सपरिवारा निप्क्रमन्ति )

 शुक्रः--( सहर्पे स्वगतम् ) अहो ! दानवेषु क्रुद्धस्यापि भगवतो वृषभध्वजस्य मयि नवं नवं सन्मानम् ( प्रकाशम् ) अयेि दानवेश ! सर्वताप ! अपि वत्स विशदाशय ! इत आगम्यतां सम्भावयामः समरपीडितानस्रुरान् ।

( इति निष्क्रान्ताः संर्वे )

तृतीयोऽङ्कः


(नेपथ्ये)

प्रस्मरमयूरविशिखः सृर्यः संहरति चैरितिमिरौघम् ।
नहि यस्य स्थरयद्धर्या दृरमदृरं किमप्यस्ति ॥ १ ॥

 विश०-(श्रुत्वा प्रतिबुध्य ) कथमायातं प्रभातम् । आः ! केनेंमां प्रातरेव दुरूपश्रुतिं श्रावितोऽस्मि । अथवा स्तवमुखः कोपि दे""""""""""""""""""""""""""" तत् । तदहं गत्वा गुरोर्मगवतो भार्गवस्य पादारविन्दवन्दनां विदधे । (परिक्रम्य पुरोऽवलोक्य ) अयमस्ति भगवान्भार्गवः """"""""रेनमन्तरपद्रव्यदुराभाकरम्वितं स्फटिकमिव कश्मलमवलोकयामि (सहसोपसृत्य ) भगवन्मार्गव! एप त्वां""""""" ऽभिवादयते ।

 शुक्रः--सौम्य ! चिराय जीव ।

 विश'----(प्तप्रश्रयम् ) किं पुनरघ भगवन्तमन्याशमिव विभावयामि ।

 शुक्रः'--(सखेदम् ) अयि विशदाशय ! दुःस्वप्नदर्शनोपनीतवैमनस्येन मलिनीकृतोऽस्मि । तदहमिदानी किमपि शान्तिकमनुष्ठातुं यतिष्ये ।

(नेपथ्ये)

अस्मत्पुण्यप्रकर्षेण पांडशाप्येकनां गताः ।
अधुना सद्य एवामी ब्रयो यास्यन्ति पञ्चताम् ॥२॥

 विश-( आकर्ण्य) केयमाकाशसरस्वत्या प्रहेलिकेचोदाह्टता।

 शुक्रः-- क्षणमिव ध्यानं नाटयित्वा ) वत्स विशदाशय ! नेयमाकाशसरस्वती ब्याहरति । चित्रशिग्वण्डिनोऽमी त्रिपुरासुरोत्तापितास्तद्विनाशायोल्महन्ते । विवेचितं मया महेशममुग्या दिगिशा हरिविरिञ्चिक्रौञ्चारिनगेन्द्रनागेन्द्रचन्द्रसूर्यधर्माः पोडशापि त्रिपुरासुरवधाय बद्धकक्षाः संवृत्ता ऐक्यं गनाः ।

 विश०--(सखेदम्) अहह ! अत्याहितमत्याहितम् ।

 शुक्रः--वत्स विशदाशय ! अकथनं दुःस्वप्नानां श्रेयस्लदिदानी मुनिवचनेन मुम्बरीकृतोऽस्मि । आकर्णयतु भवान् ।

सर्वामान्यङ्गधारः शिरसि विनिहतोत्तालबन्धूकमाल-
 स्तिष्ठन्नुष्ट्रे वसानो वसनमनुकृतप्लक्षवालप्रवालम् ।
विभ्रद्वैवाहिकश्रीपरिकरमखिलं मङ्गलोत्तालतूर्ये
 दृष्टो गच्छन्नवाचीं रजनिपरिणतौ सर्वतापो मयाघ ॥ ३ ॥

 तद्यायदहं शान्तिकं वैरिवञ्चनाप्रकारं च (कर्णे एवमेव) समाप्यागच्छामि तावदिह भवताऽवहितेन स्थातव्यम् । उत्साहभङ्गशङ्कया सर्वतापस्याप्पनिवेद्य यास्यामि । नचैते दूरस्थाः कालस्य गोचराः । अतो न त्वया भेतन्यम् ।

 विश०-(सखेदं निःश्वस्य)

चरन्तु दूरतः स्वैरं मृत्योरेते न दूरतः ।
येपु पातकपक्केपु सरोपो वृपभध्वजः ॥ ४॥

 शुक्रः अपि मा विपीद।

यद्यद्भवति विधेयं यदा यदा लद्विधेहि सदुद्ध्या ।
भगवानचिन्त्यचरितो वत्प्त ! विवेयो विधिः कस्य ॥५॥

 भगवन्तमपि वरदातारं धातारं नारदेनोद्दीघमानक्रोवानलं पश्यामि ध्यानमयेन नयनेन । तद्गच्छावहितो भव । अहमपि समीहितं साधयामि ।

(इति निष्क्रान्तौ)

विष्कम्भकः


(ततः प्रविशति विरिञ्चिरिदश्च)

 विरिञ्चिः-(सनिर्वेदम् ) वत्स नारद! किं मां कदर्थयसि ? ।

मद्वाणीसारणी या स्फुरदमृतवरा दैत्यवृक्षानपुष्णात्
 सद्यः सैवोग्रदायानललहरिरिव ज्वालयेत्तान्कथं नु ।
ऐम्नूर्एं यस्य लोकत्रितयकरुणया विद्वमत्र्याद्वताज्ञं
 देवो रौद्रः स रौद्रैर्दलयतु दनुजान्निग्रहैः कालपकान ॥ ६ ॥

 नारदः–तात ! अलं कम्पेन । माननीयत्य तव शासनस्यैप प्रभावः, यदनी त्रिपुरासुरकीटका इयतीं कोटिमारुढास्तधं दुर्विवेपं भगवान्भर्ग एवाङ्गीकुरुते । तदलमिदानीमलीकपरामर्शमन्थरतया । पश्यन्तु तातपादाः ।

देवस्य प्रमथाधिपस्य रथिनः पृथ्वी रथः स्यात्परं
 तात ! त्वामपहाय तत्र कतमः सारथ्यकर्मक्षमः ।

कोदण्डो गिरिराज एव भुजगप्रप्ठस्तदीयो गुणः '
स्यादौचित्यवती त्रिविक्रमतनोस्तस्यैव तद्वाराणता ॥ ७॥

(नेपथ्ये )

 भ्रातर्नारद ! त्चरय त्वरय तातपादान् । आरूढ एवाऽयं भगवान्घन्विधुर्यो धूर्जटिः पृथ्वीरथम् ।

 नारदः-( सहर्पौत्सुक्यम्) अयि तात ! ज्येष्ठस्तवसुतो घर्मोऽयं व्याहरति । पश्य-

देवेनान्घकसूदनेन रथिना सोत्साहमध्पासितः
 प्राप्तोऽयं पृथिवीरथोऽद्भुततमः प्तप्तनिलाश्वैश्चलन् ।
चक्रीभूतसुधाकरार्ककिरणस्तोमेन विस्तारिणा
 स्वर्गङ्गासरसीरुहेपु युगपन्निद्राप्रयोधौ दधन् ॥ ८ ॥

 एते च महेन्द्रप्रभृतयोऽदितिजा अनुधावन्ति ।

 ब्रह्मा-( विलोक्य सौत्सुक्यम् ) तात नारद ! एह्येहि । ( उमावुपमृत्य रथाघिरोहर्ण नाटयतः)

 ब्रह्मा-( महेशमालोक्य सप्रश्रयम् ) आयुष्मान्-(इत्यर्धोतौ सत्रीडस्यितम्) भगवन्भर्ग ! एप त्वां तव सारधिः प्रणमति ।

 महेशः---( सूत इत्यर्धोक्तौ सलञ्ज्āम्) शान्तं पापम् । प्रपामामि पितामहम् । कुरु सारथ्यम् ।

( ब्रझा नाटधेन सारथ्यमध्यास्ते )

 नारदः-( सप्तम्भ्रमम्)

धनुधैनुर्द्धरं लक्ष्यं यो मुत्तोऽपि न मुञ्चति ।
सोऽयं निवीणकृद्वाणस्तात ! विप्णुः प्रणाम्यताम् ॥ ९ ॥

 व्रह्मा--( प्तप्तम्भ्रमं प्रणम्य ) वत्स नारद !

अनेनाविद्धमेवास्ति विप्णुवाणेन विष्टपम् ।
अस्येच्छया सपक्षस्य जीवत्ति म्रियतेऽथवा ॥ १० ॥

 वासुदेवः-(प्तप्तम्ध्रमम्) अभिवादयतेऽघ्र भगचन्तमाचार्यम् ! ( प्तर्वे यपोचितमुपविशान्ति )  महेशः(पुरोऽवलोक्य साश्चर्यम् ) आः पश्यत पश्यत ।

सौवर्णं पुरमभ्युपैति निकटं यस्योत्कटैरंशुभिः
 संवीतं वियदङ्गणं तुलयति स्यर्णाचलोपत्यकाः ।

 विष्णुः-(साक्ष्चर्यम्)

गङ्गाडम्बरकारि कान्तिपटलं तत्पृष्टतो राजतं

 ब्रह्मा--(साक्ष्चर्यम्)

प्रत्यग्राम्बुदवृन्दविभ्रमकरं लौहं तदीयान्तिके ॥ ११॥

 महेशः-अहो दानवानां शौर्यमदमोहितानां बुद्धिविपर्ययो यदमी स्वयमेवैकशरशरव्यतां प्रतिपद्यन्ते ।

 विष्णुः-( सवितर्कम्) कथं नु ते शुक्रसचिवा एवं विमुह्यन्ति । नृनमन्यैव सा क्कचिदस्ति सत्या पुरत्रयी । इयं पुनरन्यैव ।

( ततः प्रविशति सौवर्णेन पुरेण विहरन्सपरिवार प्तर्वतापः )

 सर्वतापः--{प्तगर्वरोपम्) आर्य विशदाशय ! पश्य पश्य देवानां दुविनयं यदियमस्मत्प्रतियोगिनी अपरा पुरत्रयी निर्मिता । गच्छ रे स्फुटाक्षर । गच्छ । आनय सूर्यतापचन्द्रतापौ सपुरौ । दुह्यतामियं देवनिर्मिता॒ पुरञ्नयी ।

 स्फुटा०-(पुरोऽवलोक्य)कधं आगद्य्येवसुज्जतावचंदतावा । पेक्खदु देयो[१५७]

 सर्व०--( दृप्टा सहर्णम् ) साधु साधु एताभ्यामपि दृष्टैव मायामयी त्रिपुरी ।

 विश०-(साकृतं विहस्य) दैत्यनाथ ! किमाकुलोसि? । निवर्तय पुरत्रयम् ।

 सर्व०-( सक्रोधम् ) अहो भवतः साचिव्यम् । द्वितीया पुरत्रयी योद्धुमभ्येति । त्वं च विहससि ।

( विशदाशयः सौत्सुक्यमुत्थाय कर्णे एवमेवेति)

 सर्व०-(सक्रोधम्) आः ! किमनेन मृपा कर्णजापेन । को विम्चसिति भवतां देवतानुगतमुनिकुलोत्पन्नानां द्विजन्मनाम् । यघेवं किमिति मामसम्भाष्यैव शुक्रो गतः । एवंकृते किमस्मान्सृपकृतं, प्रत्युतापकृतमेव । तथाहि-----

पुरत्रयं दाहयिता शिवेन
 निर्माय मायामयि चेत्स शुक्रः ।


कृतो हरेण त्रिपुरस्य दाह-
 स्तदेप रूडः परमोऽपवादः ॥ १२ ॥

 तदायै ! यथेच्छं गम्यतां तावत् । पदस्मासु भावि तद्भविष्यति ।

 विश० --- (प्तरीषं स्वगतम् ) नूनं प्रत्यामन्नमशुभमस्य ।विपर्यस्ता वुद्धिस्तदेवमेवास्तु । (प्रकाशम् ) एप यामि गुरोः सकाशम् । ( इति निष्वामति )

 महेशः-(प्तत्यपुरत्रयीमालोक्य साश्चर्यम्) फलितं त्रिविक्रमवितर्केण । आगता पुरत्रयीयमपरा ।

 ब्रह्मा-का पुनरनयोः सत्या का मायामयीति न ज्ञायते ।

 नारदः-( सौत्सुक्यम् ) किमनेन परामर्शप्रसारेणा ! वाणगोचरतां गता इयमपि वध्यताम् ।

 कृष्णः--( सपरिहासम्) रोचते कलिप्रियाय । किन्तु क्षणं प्रतीक्ष्यनाम् ।

 सर्व०-- ( सगर्वरोपम्) अपि सूर्यताप ! अपि चन्द्रताप ! त्वर्यतां त्वर्पतां हन्यतां हन्यतामियं देवनिर्मिता पुरत्रयी । (इनेि वाणवर्मे नाटयन्ति )

 महेशः--(साश्चर्यमालोक्य ) अहह ! दृश्यतां दृश्यताम् । (सवितर्कम्)

अयमरजनिजन्मा किन्नु कोऽप्यन्धकारः
 किमपमनलवाह्यः कोऽपि धूम्यावितानः ।
अपमशुभसमुत्थः शालभः किं समूहः
 किमपमसुरसैन्यान्निर्गतो बाणपूरः ॥ १३ ॥

 कृप्णः--( प्ताश्चर्यम ) कथमपगतैव प्रथमोद्गता पुरत्रयी । अहो महीयानयं मोहो यदियं दैत्यपक्षपातिनी द्धितीया त्रिपुरी । तत्किमिति सर्वतापादिभिर्द्राविता । नूनमेपा सृगुप्तं शुक्रनिर्मिता भविष्यत्यनभिज्ञैरेभिज्ञैरेभिर्द्दप्तैरुद्यते । भवत्वभिमतमेव नः ।

 सर्व०--( विभाव्य सगर्वम् ) कथमपसृतैव देवसृष्टा कपटत्रिपुरी । (सक्रोधमाकाशे लक्ष्यं बध्वा )

रे रे ! सुराः समरकर्मणि निर्विकारे
 ल्कीवाः किमित्यहह ! कैतवमारभध्वम् ।
किन्ते वयं दितिसुनाः कपटप्रधानै-
 स्तैस्तैर्भवद्विलसितैः प्रलयं पयुर्ये ॥ १४ ॥

 नारदः-(प्तौत्सुक्यम्)किमिदानीं प्रतीक्ष्पते । प्रत्यासन्ना एव हन्यन्ताममी ।

 महेशः-अयि नारद ! कोऽयमवसरः पराक्रमस्य ।

स्वेनैवेपुपथे भवन्ति यदमो दर्पज्यरोन्मोहिताः
 पार्णि कस्य धनुर्ग्रहीप्यति हहा ! हन्तुं तदेतानपि ।
तुच्छे कर्मणि भूरिडम्बरघरं धिग्धन्घिनं धिग्धनु-
 र्धिग्वाणं धिगमुं रणव्यतिकरं धिकसारथिं धिग्रथम् ॥ १५ ॥

 कृष्णः--( सोत्प्राप्तम्) अपि कलिमिय ! साधूक्त्तं परमेश्वरेण | प्रतीक्षतां, भवन्तु तायदर्मो भूयोऽपि तथैव दुर्द्धर्षाः । दुराघर्पे हि विद्विपि विक्रमः प्रकर्पमभ्युपपद्यते ।

 स्फुटा०--( सप्रश्रयम्) नाह सव्वताव! णिद्दलिदो दाव एस वैरीणा वंचणापवंचो । ता संपइ तहतहच्चेअ णिअट्टाणेसु संचरन्तु सुज्जतावचंदातवो । ण एआरिसी णीदी भोदि, जं एक्कठाणे चिट्टोअदि [१५८]

 सर्व०-(सोत्प्राप्तम् ) स्फुटाक्षर ! क्रोधनोऽसि । कस्ते वचनमुल्लङ्घपितुं पर्याप्तः ? । कारय यथोचितम् ।

 स्फुटा०-जं आणवेदि सामी-(इति निप्फम्य तथा तथा कारयति )

 कृष्णः- ( प्तप्तम्भ्रममवलोक्य ) अयि महेशा ! दृश्यतां दृश्यताम् । इदानीममी सुष्टु समधिकान्तराले संवृत्ता न जाने धातगोचरे भविष्यन्ति न वेति ।

 महेशः-( सहर्पोल्लप्तं सहसोत्थाय ) हता एवामो । क इदानीं सन्देहः । वाहयतु भगवान्विरिञ्चिर्वेगेन रथम्

( विरिञ्चिस्तथा करोति )

 नारदः--(व्याकुछताभभिनयन्सप्तम्भ्रमम् ) आः ! कथमात्मानमपि नानेन रथशरयेण जानामि | क्क मे दर्शनश्रवणशक्त्ती । अपि परमेशा ! तदहं कुतूहलायलोकननरलमुनिमण्डलमध्ये कैलासारूढो द्रक्ष्पामि । (इत्यन्तरिक्षगत्या तथा करोति )

 नारदः---(पुरोऽवलोक्य साश्चर्यम् )

वाणो हरिर्विजयतेऽन्धकसृदनस्य
 वाग्गोचरा भवति यस्य न वेगलक्ष्मीः ।


लक्ष्यं किमप्यभवदन्यदिवाभिगम्यं
 मार्गायितं पुनरमुष्य पुरत्रयेण ॥ १६ ॥

 आर्य धर्म ! पश्य पश्य । कृतार्यय चक्षुषी । युगपदेव ज्वलतीयं पुरत्रयी शङ्करशरानलेन ।

 धर्म:--(सपरितोषमालोक्य) साधु साधु ।

प्राग्यागविघ्नप्रथितोरुवैर-
 स्त्रेतानलोऽयं कलितावकाशः ।
बलेन शम्भोस्त्रितयं पुराणां
 ज्वालाकरालः कवलीकरोति ॥ १७ ॥

(नेपथ्ये)

अस्पृश्यस्पर्शकारः प्रसभमपनयन्वर्णभेदव्यवस्थां
 लोकं निःसीमशोकं रुदितमयदृशं कल्पयन्कान्दिशीकम् ।
कुर्वन्सन्मार्गरोधं शिशुयुवतिगुरुध्वंसकर्मण्यशङ्कः
 कुस्वामीवैष वह्निः प्रलयमुपनपत्याशु हा ! धिक्पुराणि ॥ १८ ॥

 अपि च-

शय्यां श्रान्त इवाभ्युपैति नृपवद्भद्रासनं सेवते
 गर्भागारमुपैति कामुक इच द्रोहीव रुन्धे दिशः ।
स्वैरं वीर इयाश्वहस्तिनिवहान्मय्नाति वह्नयात्मकः
 कोऽयं कोऽयमहो पुरत्रयकृते धिग्देव ! सृष्टस्त्वया ॥ १९ ॥

 मुनयः-(श्रुत्वा सहर्पम् ) दिष्ट्या श्रुतं तावदघ श्रोतव्यम् ।

 नारदः-(नमोऽवलोक्य सगतम् ) आर्याः व्याकुलोऽस्मि । न पश्यामि देवान् ।

 मुनयः--(साशङ्कम् ) तात नारद ! निरूपय निरूपय ।

 नारदः--(हाबाधामभिनयन्) आर्याः! किं निरूपयामि ।

कवचितककुमोऽमी इमामला धूमकृटा:
 कनकशिखरिशृङ्गप्रांशुरर्चिःप्रपञ्चः ।
तरुणतरुणागुखापुखपिङ्गा स्फुलिङ्गाः
 किमपि नभसि नान्यत्तुर्यमालोकयामि ॥ २० ॥

 मुनयः-(पुरोऽवलोम्य सहर्पम्) अहह! हर्थव्याकुलोऽसि । किन्न पश्यसि

निस्विलसृरपरिवारं रथारूढमायान्तं त्रिपुरान्तकम् ? ।

( ततः प्रविश ते यथानेिर्दिष्टो मद्देशः)

 महेशः-भगवन्सुरज्येष्ठ ! स्थापय रथम् । स्थीयतामिहैव क्कपि मुनिनारदसनाथे कैलासैकदेशे ।

(ब्रद्मा तथा करोतेि । नारदाद्याः सप्रश्रयमुपसृत्य प्रणमन्ति )

 महेशः-अयि देवाः ! सर्वे रधाद्वतीर्य यथापथमुपविशत । उपविशन्तु चात्रभवन्तो मुनयः ।

( सर्वे तया कुर्वन्ति क्ष्त्रययः । प्तहर्पे महेशः प्तत्रीडमास्त्ते)

 नारदः--( सद्दर्पम्) अयि जगन्नाथ ! किं ते देवा उचितं पारितोधिकमिहाद्भुते कर्मणि कुर्वन्तु ?

उत्कृत्य मौलिकमलैर्नवचन्द्रचूड !
 त्वं पूज्यसे यदि किमप्युचित्तं तथा स्यात् ।
तुभ्यं तदप्यहह ! न स्वदते शिवाय
 त्रैलोक्यरक्षणापराय किमत्र कुर्मः ॥ २१ ॥

 महेशः--( सब्रीडस्मितम् ) अयि नारद !

वैकुण्ठः पद्मजन्मा त्रिदशपरिवृदः पायकः प्रेतनाथो
 रक्षो वारामधीशः पवनधनपतीो सूर्यचन्द्रौ कुमारः ।
धर्मः शेपाद्रिराजायहमपि तरलः पोडशः कौतुकार्थी
 मामेवैकं किमित्थं त्रिपुरवघविधौ क्ष्लाघसे नारद ! त्वम् ॥२२॥

 इन्द्रः-( सप्रश्रयम्)

व्याप्रियन्ते त्वया स्वैरं निजा अवयवाः सुराः ।
त्वमेकः पूरुपः स्तुत्यः पृथग्गणनयात्र किम् ॥ २३ ॥

 महेशः--( स्वगतम् ) अये सङ्कोचयति मामियं व्रीडा । तद्विसर्जयामि निर्जरान् । ( प्रकाशम् ) अयि भगवन्तो गीर्वाणाः ! स्थीयतां यथायथं यथासुस्वं, समादिशात च किमिदानीं करोमि ।

 इन्द्रः-( सप्रक्ष्रयम )

म्रयोऽप्येते त्वया दैत्या दोपा इव निराकृताः ।
अक्षयाणि जगन्त्पासन्प्रार्थ्यते किमिवाधुना ॥ २४ ॥

 तथापीदमस्तु--

चूडाचन्द्रावदातेन स्फुरद्भालाक्षिरोचिपा ।
निरस्तमोहतिमिरं त्वयाऽस्तु हृदयं सताम् ॥ २५ ॥

( इति निष्कान्ता सर्वे )

चतुर्थोऽङ्कः

इति महाकव्रिवत्सराजविरचितस्त्रिपुरदाहाभिधानी

हिमः समाप्तः ।


हास्यचूडामणिः प्रहसनम्


कल्याणं वितरन्तु वः पृथुजटाजूटाग्रविस्तारिण-
 स्ते चूडाशशिनः शिरःसुरधुनीघारानुकाराः कराः ।
यानुत्प्रेक्ष्य मदोप्मभारविधुरे शुण्डारदण्डं मृपा
 हेरम्वे घटयत्यनारतमभूदुल्लासिहासो हरः ॥ १ ॥

 अपि च--

भूयिष्ठाः परिरम्भकेलिपु भुजाः सोत्कण्ठमालोकने
 नेत्राणि प्रचुराणि चुम्बनविधौ भूयांसि घक्त्राणि ते ।
इत्थं भूनूरिवधूविलासघटनासज्चस्य काऽहं तव
 प्रोक्त्तं मकोघविरुद्धयेति शिवया स्मेरो हरः पातु वः ॥ २ ॥

(नान्द्यन्ते )

 सूत्रधारः-( नभोऽवलोक्य ) अये विभातैव शर्वरी । (प्रतीचीमवलोक्य ) अहह । समय एव सर्व[१५९] शोभते | तथाहि--

नवविचकिलमालामांसलैर्यैस्तदानीं
 मदनमयमशेपं विश्वमेतव्द्यघापि ।
चरमशिखरिशीर्ये सन्निविष्टास्त् एते
 दधति पलितभर्ङ्गि भानवः क्ष्वेतभानोः ॥ ३ ॥

 अये !तन्ममापि जरापराधोनस्य हास्यकर एवायं नाट्याभियोगः ।

( प्रविश्य )

 पारिपार्श्वकः-भाव ! हासोय्येव अज्च रमणिज्जो जं एस नीलकंठजत्तामहूसवसमागादेर्हि विअड्रसामाजिएहिं परिअरिदो राआ परमङ्डिएवो अच्तणो अमच्चेण कविणा वच्छराएण विरइदं हासचूडामर्णिा णाम पहसणं अहिणेदुमादिसदि भवंतं ।


 सूत्र०--( सद्दर्यम्) आः! सन्यगनुगृहीतोऽस्मि । अयमेव देवो रूपकनिरूपणानैपुणैकपात्रम् । ( साश्चर्यमाधूय शिरः )

गेहेपु प्रसभं सदैव विदुपां सापत्न्यवैरग्रहा-
 द्दासीकर्तुमनारतं वितरणक्रीडाभिरब्घेः सुताम् ।
एप क्ष्रीपरमर्द्दिदेवन्नृपतिर्निस्सीमविद्यानिधि-
 र्नूनं वागधिदेवता भगवती पुम्भावमृभ्यागता ॥४ ॥

 मार्प ! तद्गच्छ सज्जीक्रियन्तां कुशीलवाः ॥ पूर्णोः सम्प्रति मे मनोरथाः । यतः-----

परिपदियमुदारज्ञानसौजन्यघन्या
 रसपरचशवाणीचत्सलो वत्सराजः ।
अयमपि नटचर्गो नाट्यमुद्रापटिप्ठः
 फलति सुकृतराशिः प्राक्त्तनः कोऽप्ययं मे ॥ ५ ॥

( नेपथ्ये गीयते )

पत्तुं णिअसंपर्त्ति परिमुसिअं विसमतिमिरचोरेण ।
एप्ता अंवरलच्छी भअवन्तं सूरमणुसरदि[१६०] ॥ ६ ॥

 सूत्र०-( श्चुत्वा सहर्षम्) मार्प ! सन्चा एव कुशीलवाः, यदियं कपटकेलिकुट्टन्याः प्रावेशिको घ्रुवा गीयते । तदेह्यावामनन्तरकरणीोयं सम्पादयावः । ( इति निप्कान्तौ )

( प्रस्तावना )

( तनः प्रविशति सुप्तोस्यिता कपटकेलि )

 कपटकेलिः--( विभाव्य ) अहो पच्चूहो संवुत्तो । संचरिदा दाव गावक्खजालन्तरं पुरापगसीधुघारासोअरा सृरस्स बालकरा । कघै मह मइरापाणभरालसाए एक्कणिद्दापय्येव रअणो वोलीणा । ( स्मृतिमभिनीय सहर्पोत्कण्ठम्) अए पओससमअमइराए महुरत्तणं । ता संपइज्जेव तं आणइस्सं । ण हु अमिहीदमुव्वरदि रमणीयं वत्यु[१६१]


भुअंगे अणुरज्लदि । एदाए चोरिआए एसम्हृघरे कलहो विपत्थाविदो । ( प्रकाशम् ) कुसृमिए ! ता कस्स वि नाणिणो मुहेण एदं पयासइस्सं । अत्थि इत्थ जिण्णुज्जाणमढम्मि केवलीनाणनिउणो नाणरासी नाम भअवो । ता पुच्छिटुं गमिस्सं । जग्गयेसु मुग्गरअं जहा एसोवि अणुअरो भोदि ।

 कुसु०-मुग्गरअ ! मुग्गरअ ! जग्गेसु जग्गेसु । ( चेटस्तथैप शेते ) वाढं खु दट्टो एस णिद्दोरईए । नीलकंठो जइ इमं जग्गावेदि[१६२]

 कपट०-अहं जाणेमि एदस्स कए कण्णजावं । मोग्गरअ ! मोग्गरअ ! जग्गेसु जग्गेसृ | आणेसृ तं सुचकिखदं कडुय मइरं[१६३] !

 चेटः-कृसृमिए ! गेन्ह गेन्ह भाअणाई [१६४]

 कपट०--वच्छ मुग्गरअ ! अहं तुमं पि दाव गच्छम्ह याव कुसृमिआ भाअणाइं पक्खालिअ आणेदि[१६५] । ( इति परिकातः )

 चेटः--अत्ता किं उण अण्णदो कुदोवि चलिदासि[१६६]

 कपट०--( सविपादम्) मुग्गरअ ! ण सुदं तए अज्च अत्तणो घरघुत्तन्तं । तं खु चिरआलसंचिदसत्र्वस्सं अज्ज चोरेहिं मुसिदं । ता उज्जाणमढवासिणं केवलीनाणणिाउणं भअवन्तं नाणरासिं पुच्छिदुं गमिस्सं[१६७]

 चेटः-( स्वगतं सद्दर्पम्) [१६८]जीवध रे चोरआ ! जीवघ ! । सुहपरिणामो भोदु तुम्हाणं एस वावारो । ण हु एसा हआसा मुट्टत्तमेत्तंपि उचरमदि अम्हारिस-


भुजङ्गे अनुरज्यूते ! एतया चैरिकया एपोऽस्मद्र्टद्दे कलहो विप्रस॒तावितः । कुसुमिके ! तत्क॒स्यापि ज्ञानिनो मुखैनैतत् प्रकाशयिष्ये ! अस्ति अत्र `जीर्णोद्यानमठे केवलीज्ञाननिपुणो ज्ञानराशिर्नाम भगवान् । तत्प्रष्टुं गमिष्ट्यामि । जागरय मुद्ररकं यथा सोऽपि अनुचरो भवति । स्स घरअणस्स अणत्थपरंपराओ पत्थावअन्ती ।( प्रकाशं सखेदमिव ) हद्धो हद्धी अत्ता किं एदं संवुत्तं । ण तहा मं बाधेदि अत्थणासो जहा अज्जुआ वि मुसिदत्ति पराहवो । पा हु अग्गी केणवि दद्धो सुणीअदि । अहचा दिव्वाहीणा घणहाणी । णत्थि पराहचो । तहा अ-----

जाणंताण समक्खं णाअरलोआण मुसइ सव्वस्सं ।
हेलाए अम्ह अत्ता कह चोरो अत्तिआसरिसो ॥ ८ ॥

 कपट०-मोग्गरअ ! सव्वस्स पणासे को एस वक्कक्खरकालो पदिआरो दाच कीरदु[१६९]

 मुद्गरकः--पदिआरं करेमि । ( आकाशे लक्ष्यं यद्धा ) हंहोः लोअवाला ण भविस्सध ण भविस्सध जं अत्ताए धम्मपराए परिमुसिदं चत्यु उपेक्खघ [१७०]? ।

 कपट०-चेडा चेडा ! किं असंयद्धं मन्तेसि[१७१] ? ।

 चेटः-संवद्धं मन्तेमि । दिट्टिआ एसा माआवंचिदसअलभुअणा अत्ता चोरेहिं परिमुसिदा[१७२]

 कपट०-( सक्रोधम् ) मोग्गरअ ! ण संवरसि अत्तणो मिञ्चुदुआरं मुह[१७३]

( इति चपेटेन ताडयति )

 चेटः-( सवैलक्ष्यमपसृत्य ) अत्ता संबद्धे असंवद्धे वि कुप्पसि । ण तए सह गमिस्सं[१७४]


हताशा मुहूर्तमात्रमपि उपरमति अस्मादृशः गृहननरय अनर्थपरम्पराः, प्रस्तावयन्ती । हा धिकू हा घिक् अम्ब ! किमेतत् सृं त्तम् । न तथा मां याधते अर्थनाशो यया आर्याऽपि मुपिता इति पराभवः । न खलु अग्निः फेनापि दुग्धः श्रूयते । अयवा दैवाधीना धनहानिः । नास्ति पराभव । तथा च-

ऽताततां ममक्षं नारारलोकानां मुप्णाति सर्वस्वम् ।
हेलया अस्माकमम्वा कथय चौरः अम्बासदृशः ॥

 कपठ०--{ सानुकम्पमिव ) मोग्ग्गरअ ! मोग्गरअ ! एहि एहि दाव पाविदे सत्र्वस्से मृयिट्वं मइरामहसवो माणइदच्वो[१७५] । ( इति हस्ते ग्रहीत्वा परिक्रामति )

 चेटः-'( समन्तादवलोक्य ) अहो वसन्तावआरमंडिदस्स ससिरीअत्तणं उज्जाणस्स अत्ता थेच्छघ पेच्छध[१७६]

मत्तो भुअंगोव्व समकस्वमेसो जं छप्पओ चुवइ एक्क्रमेङ्कं ।
तेणव्व ए॒दाओ हसन्ति वल्लीविलासिणीओ कुसुमुक्कहिं ॥ ९ ॥

 अवि अ ------

मत्ताओ रोलंवृविलासिणीओ गेअं मअरद्धअस्स ।
तं चैअ चित्ताणिलचालिदाओ णच्चन्ति वल्लीओ लअल्कमेण ।

[१७७]

 कपट०-( निश्चस्य ) मुग्गरअ ! ण मे दुक्खत्तहिअआए पडिहाद्द वसन्तो[१७८]

 चेटः-पा केवलं तुज्झ , (अङ्गुल्या निर्दिशन् ) एदाए वि[१७९] ॥ तहा अ--

एसा रोलंवसुण्णदाए तुन्हिका कुसुमभूसणुम्मुक्का ।
लविखज्वइ कुंदलाआ मुसिञ्अव्व वसन्तचोरेण ॥ १० ॥

 कपट०-मुग्गरअ ! गच्छ दाव णिारूवेहि इमम्मि मढम्मि किं कुणन्तो सो भअओ चिट्टदि । अहं उण इहय्येव चिट्टिस्सं[१८०]


( चेटस्तथा कृत्वोपगम्य)

 चेटः-अत्ता दुवे केवि इघ मुंडिदमुंडा वाआकलइं कुणन्ति । ज एक्को भणदि तं अवरोवि तस्स कए पडिभणादि ।[१८१]

 कपट०--मुग्गरअ ! सो भयवो सिस्स अज्झावअन्तो चिट्ठदि । ता इहययेव चिट्ठम्ह याव से अज्झअणं समप्पदि[१८२] । ( इति तया कुरुतः )

( ततः प्रविशति शिष्यमध्यापयन्भगवान्कौण्डिन्यः )

 ज्ञानराशिः-अयि ! कंठगतौ क्ष्लोकौ तवेमौ सवृत्तौ ? ।

 शिष्यः-नाणरासे ! उअरगदाविमे संवुत्तां [१८३]

 ज्ञानराशिः-( सक्रोधम्.) मूर्ख ! नामग्रहणेन मां व्याहरसि ।

 शिष्यः-किं तुह नामग्गहणेण पावं भोदि [१८४]? ।

 ज्ञान०-धिङ्भूर्ख ! न गृह्यते गुरूणां नाम ।

 शिष्यः--ता कधं सेलाणं णाम गेन्हइ[१८५]

 ज्ञान० --- विघादानादिना गुरवो नतु प्रथीयास: । उपाघ्यायपादा इत्येचाहं त्वया व्याहार्यः ।

 शिष्यः-उअञ्झाअ ! उअरगदाविमे संवुत्ता ते दुवेवि सिलोआ ।

 सुष्णादु भवं[१८६]

आलोक्य सर्वगात्राणि विचार्य च पुनः पुनः ।
इदमेकं तु निप्पन्नं ध्येयो नारीजनः सदा ॥ ११ ॥

 ज्ञान०-( सक्रोधम् ) धिङ्यूरर्व ! वणविपययेण विप्लावितवानसि ।


 शिप्यः-उअञ्झाअ ! कोस कुप्पसि । जारिसो तए पंडुरयण्णो सिलोओ लिहिदो तारिसो मए पदिदो[१८७] । ( वृपीतलं दर्शयति )

 ज्ञान०-( विहस्य ) मूर्ख ! अक्षरान्पथात्वं कृनं तत्तायद्वितीयं पठ ।

शिष्यः- नमस्ते पाण्डुरैकाक्ष ! बेमस्ते विश्वतापन ! ।
नमस्तेऽस्तु मृपाकोश महापुरुयकृञ्चैक ! ॥ १२ ॥

 ज्ञान०-(सकोबम्) आः क्षुद्र ! पुप्पपाण्डुराक्षं मामुपहससि ! । ( इति हन्तुमुपन्मते )

 शिष्यः--( ससम्भ्रममपसृत्य ) कीस मं ताडेसि ? । एदे रखु हआसा उअज्झाआ ण सहन्ति अत्तणो समहिअमेहाविसेसं सीसं । ता गमिस्सं दाव[१८८] !

 ज्ञान०-( स्वगतम् ) मर्मज्ञोऽयम् । सङ्गह एवास्य श्रेयान् । ( प्रकाशम् ) बत्स् कौण्डिन्य ! एह्येहि ।

 शिप्यः--( सोद्वेगम् } पा आगनिस्सं । चंडसीलो खु तुमं [१८९]

 ज्ञान०-कतैण्डिन्य ! अलमुद्धेगेनास्म्च्चण्डशीलतायाः । पश्प---

नृपतिरखिललोकान्पालयत्यात्तदण्डः
 सुखयति जगदर्कः स्वीकृतोष्णास्वरूपः ।
गुरुरपि कटुचेप्टः शास्नि शास्त्राणि शिप्यं
 परिणतिहित्तभाजां भङ्गिरेवंविधैव ॥ १३ ॥

 तदेहि पुनस्त्वां शुद्धमध्यापयामि । (इति समाश्वास्य पाठयति )

आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं तु निप्पन्नं ध्येयो मारायणः सदा ॥ १४ ॥
नमस्ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन ! ।
नमस्तेऽस्तु हृपोकेश ! महापुरुयपूर्वज ! ॥ १५ ॥

( शिष्यग्तथैव पठसि )

 ज्ञान०---( सक्रोधम् ) मूर्ख ! एवं पठ ।


 शिष्यः-(पुनशुद्धं पठति सनिर्वेद्म्) उअज्झाअ ! सुट्ठु' कटुअक्खरं तुह एदं अभ॒ज्झाणं । ण अ एदिणा किंपि पाचीअदि । ता मं केवलीविज्जं अज्झार्वेसृ; जहा मे जणस्स घणाइं साहीणाइं होन्र्ति[१९०]

 ज्ञान०-(सजुगुष्सम्) मूर्ख ! धिक् त्वां धिक् त्वाम् । भोगाकाङ्क्षया वाध्यसे । अहो मोहः !

भृगः पाशान्प्रायः परिहरति यत्नेन मृगायोः
 प्रमादाव्घानद्धो भवति सहसा शोकविकलः ।
अपे सुग्घो लोकः प्रकृतिविपमान्हन्त विपया-
 न्स्वयं कण्ठे पाशान्घटयतितरां हृप्यतितराम् ॥ १६ ॥

 शिप्यः-अलहन्तो एवं मन्तेसि । ण अ तुमं जाणासि केवलीोविज्जां[१९१]

 ज्ञान०-सूख ! अहमेव केवलीं जाने किन्तु न शुभावहेत्यवधीरिता ।

 तथाहि ---

दिव्ये शुद्धिकृता व्यलोफकथनाच्चौरेण तातो हतो
 भ्राता मे विननाट्र् कालफणिना दष्ठौ निघानं खनन ।
युद्धज्ञानविपर्ययान्नृपतिना हन्तुं समाकाङ्क्षितो
 जातोऽहं भगवानियं कुलरिपुर्विघा हि नः केचली ॥ १७ ॥

 शेष्यः--( विहस्य ) जाणिदं दाव तिपौरुसं तुम्हाणं नाणमाहप्पं । ता जाणायेसु मं तं अत्तणो संवलभूदं रहस्सं[१९२]

 ज्ञान०-( सस्मितम्) मूर्ख । मुखरोऽसि । नार्हसि केवलीशिप्यत्वम् ।

 शिष्यः-(साकूतं विहस्य ) उअज्झाअ ! किं किं मुहरत्तणेण मए तुह पओासि[१९३]दं ।

 ज्ञान०-कौण्डिन्य ! त्यमस्माकमात्मैवासि । तदाकर्णय केवलीविदां प्रथमाचारम् ।


किं घाग्भिर्निकपो हि नः फलमिति स्याद्गूढगर्वग्रहः
 प्रश्नेष्यूविलड्छुक्तृरं विरचयेन्न व्याहरेन्निर्णय॒मूर् ।
सिद्धं कार्यमवेक्ष्य निश्चितमिदं पूर्वं मयासीदिति॒
 स्फारं स्फारमुदीरयेदुपचरेत्कञ्चिन्सृपा साक्षिणम् ॥ १८ ॥

 अपि च-

चिन्ताञ्चुम्यितचेतसा न रचितः प्रश्नः प्रशस्तस्त्यपा
 नृनं सम्यगुपक्ष्रुतिर्न भवता ज्ञाता ग्रहोनुं तदा ।
त्वद्दीपेण फले भ्रमोऽयमभवद्विद्या हि नः केवली
 कल्पान्तेऽपि न कम्पते जनमिति प्रत्याययेद्धञ्चितम् ॥ १९ ॥

 शिष्यः-उअज्झाअ ! फुडं किंपि भोदि[१९४]

 ज्ञान०-(नेपथ्याभिमुस्समक्लोक्य साशङ्कम् ) मूर्ख ! तिष्ठ तिष्ठ एकपुरुपानुचरा महिला काचिदितोऽभिवर्त्तते ।

( ततः प्रविशति कपटकेलिर्मुद्ररकश्च )

 मुद्गरकः-अत्ता ! सृट्ठु खु पाणगोट्ठीजोग्गं ठोणं[१९५]

 कपट०--( सक्रोधम्) एहि दाव तुन्हि[१९६]क्को।

 भवतु प्रगल्भामहे तायत् । ( प्रक्राशम्) कौण्डिन्य !

व्रह्मेवाहं मरणमथवा जीवितं वेद्मि जन्तोः
 स्यामीवाहं परह्टतघनं क्ष्मातलादुद्धरामि ।
लोकस्याहं सकलचरितान्घन्तरात्मेव जाने
 चौरैर्लुप्तं स्ययमिव घृतं वस्त्चहं प्रापयामि ॥ २० ॥

 कपट०--(थुत्वा सहर्पेम्) मुग्गरअ ! आअण्णअ आअण्णअ भअवदो वअणामयं । एहि तुरिदम्[१९७] । ( इत्युपसर्पतः )

 कपट०--भअवं ! पणमामि [१९८]


 मुद्गरकः-अहंपि पणमामि[१९९]

 ज्ञान०-उभयोर्भद्रमस्तु । आस्यताम् ।

( उभाचुपविशतः )

 कपट०-( सप्रश्रयम्) भअवं ! अज्ज मे रअणीए मुसिदं सव्वस्सं अप्पावेदु भवं[२००]

 शिप्यः-( ससम्भ्रमम्) आः! किं मन्तीअदि । अज्ज रयणीप मदं मोत्तूण ण कर्हिपि गदो उअज्झाओ[२०१]

 कपट०-( कर्णौ पिधाय ससम्भ्रमम्) सन्तं पावं । णाणसत्तीए चोरं मुणिऊण अप्पावेदुत्ति मए मंतिदं[२०२]

 ज्ञान०-( सस्मितम् ) कौण्डिन्य ! तिष्ठ तिष्ठ । ( कपटकेलिं प्रति ) भद्रे ! अनुचितेयमस्माकमेचंविघा विद्या ।

 कपट०-( सप्रश्रयम्.) `भअवं करुणारससाअरे तुम्हे मोत्तूण को अन्नो अम्हारिसस्स अत्थीअणस्स सरणं । पत्तो अ सो अत्थसंचओ तुम्हाणं ययेव साहीणो भविस्सदि[२०३]

 ज्ञानगाशिः-( स्वग॒तं॒ सद्दयैम् ) स्वीकृतस्तावदस्माकमनया मनोरथः । तथापि निरीहतामेवाभिनयामि

न जानामि न गृह्णामि मम किं चिन्तयाऽनया ।
अनङ्गीकार एवाऽयं दाभ्भिकानां महाफलः ॥ २१ ॥

 ( प्रकाशम्) कल्याणि ! त्वदभीष्टनैव कृनकृत्या वपम् । कौणिडन्य । अर्पय केवलीपुस्तकं, करोमि लाभालाभविनिश्चयम् ।

 शिष्यः-( पुस्तकमुपनीय ) कीरदु दाव केवलीपुत्थअपूआ । [२०४]


 मुटूरकः-( सहसोत्थाय ) आणेमि कुसुमाइं[२०५]

 शिष्यः-भद्द ! सुवण्णेहिं रञ्अणेहिं वा केवलीपुत्थअपूआ भोदि[२०६]

( कपटकेलि: ज्ञानराशेर्मुखमीक्षते )

 ज्ञान०--( स्वगतं सपरितोपम्) अर्हति केवलीरहस्यशिष्यत्यं कौण्डिन्यः । ( प्रकाशम् ) भद्रे ! एवमेवैतत् ।

क्ष्रद्धालुरात्मनः कुर्याल्लाभाल्लाभाल्लाभनिरुपणम् ।
अभ्यर्च्य स्वर्णरत्नाभां केवलीं मनुरव्रवीत् ॥ २२ ॥

 अभावे कुसुमानि भवन्तु ।

 कपट०--अय्य! मुक्ख्रपक्खो य्येव कीरदु[२०७] । (इत्यङ्गुलीयकेन पुस्तकं पूज्ञयति)

 ज्ञानः-कौण्डिन्य ! गृहाण। दास्यसि विभज्य भिक्षुभ्यः ।

 शिष्यः-(स्वगतम्) हआस ! जाणेमितुमं । अहरेहिं भणसि, ण हिअएण [२०८] । (प्रफाशम् ) जं उअज्झाओ आणवेदि । ( इत्यङ्गुलीयकं गृह्वाति )

 ज्ञान०-(पुस्तकमुद्धाट्य)अये!ग्रहकुण्डलींतावदालिखामि । ( लिखनाभिनयं कृत्वा )

यदि पश्यति रविसृनुर्विशस्थानस्थितं व्यतीपातम् ।
यदि राहुः शकटभेदी स भवति केतुश्च मेपस्थः ॥ २३ ॥

रविरङ्गारकलग्ने भवति यदा पापक्ष्यमाणश्च ।
अर्थशरीराभावं प्रश्ने ब्रूयात्तदा नियतम् ॥ २४ ॥

 न चायमिह योगः । तदस्ति तावल्लाभो नष्टस्य वस्तुमः ।

 कपट०-( सहर्पम् ) अय्यस्स पसाएण[२०९]

 शिष्यः-( सचमत्कारम् ) अहो । उअज्झाअंस्स विज्ज्ञामाहप्पं । सअलाओ वि सालिहोत्तगाहाओ कैठे किदाओ[२१०]


 ज्ञान०-कौण्डिन्य ! इतश्चेतो गत्वा त्वमुपश्श्रुतिमानय ।

 शिष्यः-( निष्कम्य पुनः प्रविश्य ) खअं जाहि रे चेडा खयं जाहि[२११]

 मुहूरकः-( ससंरम्भमुत्थाय ) आ: ! कीस रे खमणआ ! मं अक्कोससि? । चिट्ट चिट्ट तुहय्येव मुंडेण केवलीपुत्थअपूअं करेमि[२१२]

 शिष्यः-( सभयम्) अव्वह्मण्र्ण अव्वह्मण्र्ण । उवस्स्उदी खु मप एसा आणीदा । ण हु ण हु तुमं अक्कोसेमि[२१३]

 कपट०--मुग्गरञ्आ ! ण संवरसि अत्तणो मिच्डदुआरं मुहं[२१४]

 ज्ञान०-सौम्य ! तिष्ठ तिष्ठ नापमाक्रोशः । उपश्ठुतिरियम् । तत्त्वमेवेदानीमुपश्श्रुर्ति गृहीत्वा समागच्छ ।

 मुद्गरकः-वंचेसि रे वंचेसिं[२१५]

 ज्ञान०-(साशङ्कमिव ) आः किं प्रलपसि ? ।

 मुद्ररकः-अय्य ! एथं मए आअण्णिदं[२१६]

 ज्ञान०-( लिस्वनाभिनयं कृत्वा ) कौण्डिन्य ! यकवर्गीयोऽयंxघकारः ।

 शिष्यः-अहं उण सवग्गीयं जाणेमि[२१७]

 ज्ञान० --- तदस्य कति मात्राः ? ।

 शिष्यः --- पञ्च ।

 ज्ञान० --- अनुखारस्य कति भवन्तु ।

 शिष्य० --- जेत्तीओ लिहिदुं पारेसि[२१८]


 ज्ञान०-त्रयोदश तावत् । अथ त्रयोदशभिः पञ्चभिश्च द्वार्विशतिः ।

 शिष्यः--णहि णहि र्विसदी भोदि[२१९]

 कृपट०---णं अट्टारह् होन्ति । विहावेदु अय्यो[२२०]

 ज्ञानः-( स्वगतं विमाव्य ) अये गणितदुर्विदग्घेयं, तद्यथा तथा तावत्समापयुामि । ( प्रकाशम्) भद्रे ! अन्य एवापमस्मदीयो गणनासम्प्रदायः,तदावेदय तावद्गृहजननामानि ।

(मुद्गरकः कपटकेलिमदनसुन्दरीमुद्भरकक्रेोकिछपrरावत्कुसुमिका इत्यादि नामानि लेपयति )

 ज्ञान०- ( लिखित्वा स्वगतम्) कपटकेलिः सुष्टु चौर्येण शङ्कनीयेति प्रथममेयरेदाहृता । तदेनामेव्र क्रथयमि । ( गणिताभिनयं कृत्वा प्रक्राशम् ) कपटकेलिस्तावत्कृतच्चौर्या प्रतिभासते ।

 मुद्गरकः-( उवैविंहस्य सहर्पम्) साहु अय्येण जाणिदं । सइं य्येव एसां मुसदि अम्ह घरं[२२१]

( कपटकेलिः सस्मितं काक्षेण वारयति )

 ज्ञान०--( विभाव्य स्वगतं सवैछक्ष्यम्) अनेनान्योन्यहासानुभावेन इयमेव कपटकेलिरिति निक्ष्चीयते । तन्न भद्रमापतितम् । (विमृश्व रमृतिमभिनीय ) एप्तस्याः किल सुता गणिका मदनसृन्दरी कलाकरण्डकैकाग्रहृदया । ताविमौ तद्भ्टत्यौ चौर्यघूतकारिणौ कोकिलपारापतौ । तदेवं तावत् । ( प्रकाशं कपटकेलिपाहूयापवार्ग ) भद्रे ! निश्चितश्चौरस्त्वन्नामघेयं च संवरणार्थमुदाहृतम् । प्रयातु भवनं भवतो । सुनिभृतमेव याचनीयौ कोकिलपारावतौ ।

 कपट०-( प्रकाशं सद्दर्पम् ) अणुमण्णदु मं अय्यो[२२२]

 ज्ञान०-भद्रे ! साधयतु भवती । यतश्च वस्तु लव्धव्यं, न तस्मै रोपायितव्यं ।

( कपटकेलिर्मुद्ररकेण सह निप्क्रान्ता )

 शिष्यः-(अङ्गुलीयकमुपनीय ) अलंकरेदु अज्लो एदिणा अत्ताणयं[२२३]


 ज्ञान०-(सोद्वेगमिव ) कौण्डिन्य ! कस्नवायं मोहः | पश्यं रे पश्य----

जरासृत्युव्याधिव्यसनघटनैकाग्रहृदयो
 विपर्यासं यस्याः प्रगुणयति कालः प्रतिकलम् ।
तनौ तस्यामस्यामलमलमलङ्कारघटनं
 ज्घलद्धह्वौ गेहे रचयति चतुप्कानि कनमः ॥ २५॥

 शिप्यः-( विहस्य ) उअज्झाअ ! तुहय्येव अहं सिस्सो । किं मं पच्चाएसि | गेन्ह दाव [२२४]

( ज्ञराशिरङ्गुलीयकं परिदधाति )

 शिष्यः-( साकूतं विहस्य अञ्जलिं वंद्वीं ) भअवं अगुलीय ! णमो दे । यिरो होहि इहय्येव उअज्झाअहत्थम्मि[२२५]

 ज्ञानः-( सत्र्कोधमिव ) आः पाप ! असत्प्रलापवाचाल ! विस्मृतान्येव मे व्यसनानि ( स्मृतिमभिनीय सचमत्कारम्) कौणिडन्य ! स्मारितोऽस्मि त्वद्धच्यनेन कलाकरण्डकघूतकारप्रार्थनाम् । सहि घूते विध्वस्तसर्वस्वो मदीयमन्त्रप्रभावाद्विजपमाकाङ्कति ।अस्ति तस्यास्मासु यहुट्टधा प्रत्ययः । तदेहि मन्त्रजपयोग्यं विजनं प्रदेशमाश्रयावः । दुर्वारगणिकाद्विप्रच्यारमिदमुद्यानम् ।

 शिप्यः-ता इदो इदो एदु उअज्झाओ[२२६]

( इति निष्पान्तौ )

प्रधमोऽङ्कः

( ततः प्रविशति मन्त्रजपपरायणो ज्ञनराशिः शिप्यश्च )

 शिप्यः-उअज्झाअ ! वहुलो तप्ट् कदो मंनजाओ । जाणे जिदंप्येव कलाफरंडअभंजूदअरेण ण ष्टु दे विलंविदपहाओ मन्तो । ता एहि उज्झाणं घ्येव गच्छम्ह । डज्झन्ति मे मज्झन्हचडण द्देण चडसुतेएण अंगाइं[२२७]

 ज्ञान०- ( जपं विहाय ) एयमेवैतत् ।


मैहिरोऽयं महःपूरः क्रूरः खलु इवोत्कटः ।
प्रतिकर्त्तुं परं शक्यः सुस्निग्धैः शास्त्रिसज्ज्ञनैः ॥ १ ॥

 तदेहि गच्छावः । ( इति निष्क्रामतः ) ;

 शिष्यः--एदं उज्जणं । पविसदु भवं[२२८] । ( प्रवेन्नं नाटयत्ः )

 शिष्यः-( कतिचित्पदानि दत्वाऽप्रप्तोऽवलोक्य ) उञ्अज्झाअ ! पेच्छ पेच्छ । इध माधवोमंडवे अव्भुदा कावि इत्थिआ उअज्झाञ्उव्व झाणपराअणा चिट्टदि । अवरावि एदाए पासम्मि देवञ्आपूअत्थं चन्दणकुसुमाइं उव्वहन्ती चिट्टदि[२२९]

 ज्ञान०-कौण्डिन्य! तदिहैव रक्त्तशोकनले उपविशावः । किं माधवीमण्डपेन । ( इत्युपविशत

 शिष्यः--( विभाव्य स्वगतं साश्चर्योपहासम्)अहो ! उअज्झाओ अहो! उअज्झाओ । सुट्टु खु एसा इहट्टिदेण पुलोईअदि [२३०] )

( ततः प्रवेिशाति यथानिर्द्दिष्टr मद्नसुन्दरी चेटी च )

 ज्ञान०-( विलोक्य स्वगतम् ) अहो ! रूपसम्पदस्याः । तथाहि-

लावण्यवीचयैस्तरलायताक्षी
 प्रक्षाल्य निष्ठुरविवेकदुरक्षराणि ।
कन्दर्पदैवतमियं सहसोपदेश-
 माविष्करोति हृदि संयमिनो मभापि ॥ २ ॥

 चेटी--भट्टिणि ! ए[२३१] दं खु तुह अंगपसंगमलहन्तं पिव पच्चाअइ सिप्पिआसमप्पिदं हरिअंदणं । एसा उण चिरसमागअचि तए असंभाविज्जमाणा उआलंभदिव्व तुमं । परिमलमिलन्तरोलंवणिउरुंवमुहलिदा णोमालिआ । एदं


पि करकमलकलिदं यअणपरिउंवणाविलं व णीसहं पिव किलम्मदि तंवोलं । ता को एस पसंतावआरपहरिसावसरम्मि दे हिअअक्खेओ ।

 मदनसुन्दरी-(अनाकर्णितफैन दीर्घमुष्णं च निःश्वस्य संस्कृवमाश्रित्य)

भुञ्जनाः सहकारकोरकविपं प्राणन्ति पुष्पन्धयाः
 कण्ठः कोकिलयोपितां नभकुहशब्दाग्निना दह्यते।
श्रीखण्डानिलकालकूटपवनैर्मूर्च्छन्ति नैता लता
 धिडभृत्योरसमर्थतां स्मरशरैर्विद्धापि जीवाम्यहम् ॥ ३ ॥

 ज्ञान-कौण्डिन्य! किमस्माकमिह निस्सद्गानाम् ? । तदेहि गच्छावः ।

 कौण्डिन्यः--उअज्झाअ ! चिट्ट चिट्ठ । तुह दुरज्झअणदूमिदा सीअलाअन्ति कण्णा एदाणं महुरालावेहि[२३२]

 ज्ञान०-(स्वगतम् ) ममापि । (प्रकाशम् ) कौण्डिन्य ! चित्रकरवेश्यालापलालसो यध्ययनादुद्विजसे ।

(चेटी मट्टिनीत्यादि पुनः पठति । मदनसुन्दरी तथैव चिन्तां नाटयति)

 चेटी-(हस्ते गृहीत्वा ) भट्टिणि मअणसुंदरि! किं उण तुमं अमंगलं वाहरसि ण पडिच्छसि णेवच्छलच्छिं ? । किं एआरिसय्येव कलाकरंअं पेच्छिहिसि[२३३]

 मदन०-(चमत्कृत्य सहर्षम् ) सहि ! कहिं सो जूदअरो[२३४]

 चेटी-भट्टिणि ! सो खु णिज्जिदसमलजूदअरविणो मयणुज्जाणे तए सह पाणगोट्ठीमहूसवं माणइस्सदि । सोवि तए पेसिदो आदरणकरंडओ वारिसोप्येव अत्ताए कबडकेलीए पासं पेसिदोत्ति मह मअणुजाणवालेण साहिदं [२३५]


ता नवमलिका । एतदपि करकमलकलितं वदनपरिचुम्मनाविलमिव मिःसहमिव क्ठाम्यति ताम्बूलम्। तत्क एर वसन्तावतारप्रहर्यावसरे ते हृदयक्षोमः ?  मदन०-(सोत्कण्ठमुत्थाय ) पिअसहि ! एहि एहि आलिंगसु मं[२३६] । ( इति चेटी समालिङ्गति)

 शिष्यः-उमज्झाअ! डज्झड एस अन्हाणं तओ। पेच्छ पेच्छ एदाए धण्णत्तणं जा मअणसुंदरीए समालिंगिज्जदि[२३७]

 ज्ञान०-(स्वगतं सोत्कण्ठम् ) सम्यगाह कौण्डिन्यः। (प्रकाशं सक्रोधमिव) रेरे किं प्रलपसि । आः पाप! शापोदकेन निर्वापयामि त्वद्दुर्विनयपावकम् । (इति कमण्डलूदकमादातुमिच्छति)

 शिष्यः----किं अआरणं कमंडलुजलं पवाहेसि। किलम्मिहसि मज्झण्हतण्हाए । जाणेमि तुह पहावं[२३८]

 ज्ञान-मूर्ख ! कपटकेलिघनप्रल्यावृत्तिं वुद्धापि न प्रत्येपि।

 शिष्यः-कवडकेलीए चोरिदत्ति तए पढमंय्येव पच्चाइदोम्हि [२३९]

 मदन०-(सौत्सुम्यम् ) ता एहि तहिं य्येव गटुअ पडिवालेम्ह जूदअरं[२४०]

(इत्युत्याय चेटीं हस्ते गृहीत्वा परिक्रामति)

 शिष्यः--मुंच दाववाआकलहं । पेच्छ पेच्छ गच्छदि एसा [२४१]

 ज्ञान--(विलोक्य स्वगतं सोत्कण्ठं सानुतापम् ) कथमपक्रामत्येव!।

उन्मुच्य दूरमपयाति यथा यधेयं
 छायेव मन्मथतरोस्तरलापताक्षी।
अङ्गानि मे प्रसभमेप तथा तथैव
 क्रोडीफरोत्यहह ! दुर्विपहः प्रतापः ॥ ४ ॥



 शिष्यः--उअज्झाअ ! तुमं व दुव्विसहतिव्वतेऒ दिणणाहो ! ता एहि एदं य्येव माहवीमुंडवं पविसम्ह । इहुय्येव झाणघारणादिअं भूविस्सदि[२४२]

 ज्ञान०-( स्वगतं सहर्षोत्कण्ठम् ) चिरं जीवतु मे वत्सः । कौण्डिन्येन हृद्गतमभिहितम् । ( प्रकाशम् ) यथा रोचते वत्साय | ( उभौ प्रवेशं नाटयतः) ।

 (स्यगतं सोत्फण्ठं विभाव्य ) अये इयं सा वेदिका मदनसुन्दरीपरिरम्भसम्भाविता । तदेतामधिशये तावत् । ( इति विग्रामं नाटयति )

 शिष्यः-इह जहिच्छं कुणदु उअज्झाओो झाणधारणादिअं[२४३]

 ज्ञान०-( सान्तस्तापः स्वगतम् ) कुतोमिमैतदिदानीम् । तथाहि----

समेघन्ते क्ष्वासाः क्क नु पवनसंरोधनविघे-
 र्वचस्तन्नामैव स्पृशति सततं क्कस्ति स जपः ।
तया ग्रस्तं चित्तं क्कचिदपि ययौ कैटभरिपु-
 र्ददौ दीक्षामन्यां मम कुसुमचापोऽद्य भगवान् ॥ ५ ॥

 प्रगल्भते च ममायं सर्वाङ्गीणः सन्तापस्तदेमामेव शीतलां वेदिकां विलुण्ठनैः सम्भावयामि ( इति तया करोति )

 शिष्यः-( ससम्भ्रममिव ) किं उण उअज्झाओ एवं पलोट्टदि[२४४]

 ज्ञान०-( ससंवरणम् ) वत्स ! कौण्डिन्य ! वाधन्ते ममाङ्गानि घोरेण ज्वरेण ।

 शिष्यः-( स्पर्शमभिनीय ) अहो दे दारुणो जरो । णं जाणसिय्येव जरविआरणमन्तं । ता कीस किलिम्मसि[२४५] ?

 ज्ञान०-( स्वगतं विमृश्य ) अये मदनसुन्दरीविरहज्वरातुरस्य तद्वशीकरणमन्त्रप्रयोग एव मे शरणम् । मुखरशिप्यराक्षसाघ्रातस्य क्क मे दूत्यअदेरभ्युपायस्तदेवं तावत् । ( प्रकाशम् ) वत्स कौण्डिन्य ! । सम्प॒गनुस्मारितोऽस्मि । तदानप लिखनोपकरणानि, पथा ज्यरजित्वरं मन्त्रवीजं विरचयामि ।


 शिष्यः-( निप्कम्य पुनः प्रविश्य ) एदाडं उवअरणाइं । आलिहदु उअज्झाओ[२४६]

 ज्ञान्०-(भूर्जत्वचमादाय वशीकरणुमन्त्रमालिख्य सु॑वृत्य) चत्स कौण्डिन्य ! चन्दनपङ्कगोलेन वीजवत्कृत्वैनमानय यथा परिधाय विज्वरो भवामि ।

 शिष्यः-( लिखिततमादाय परिक्रम्य ) अये पेच्छामि दाव किं 'इध आलिहिदत्ति । (उन्मोन्य,वाचयित्वा सस्मितम् ) अये मन्ताणन्तरं मदनसुंदरी मे वशीभवत्विति लिहिदं । ता ण इदं सहिस्सं । अहंपि माणसुंदरीसमागमासाए जीविदं धारेमि। ता एवं दाव । ( उन्मृन्य कपटकेलिर्मे वशीभवत्विति समालिख्य तथैव संवृत्य चन्दनपङ्केन वीजवत्कृत्वा पुनः प्रविश्य ) घारेदु एदं उअज्झाओ[२४७]

(ज्ञानराशि वीजमादाय नाटयेन परिदधाति )

 शिष्यः-( सहर्पाक्ष्चर्यमित्र ) कधं मुहुत्तमेत्तेय्येव जरविमुको व्य उअज्झाओ लक्खीअदि[२४८]

 ज्ञान०-( स्वगतम् ) बहुधानुभूतसद्यस्कफलोऽयं मन्त्रः ॥ प्रत्यासन्नश्चायं विपविपमशीलः शिप्यः । तदेर्व तावत् । ( प्रकाशम् ) चत्स कौण्डिन्य ! कृतो मन्त्रप्रयोगः ( तदिदानीं ज्वरविजयिनीं भगयतोऽभ्यर्चनां चिकीपमि । तदानीोयन्तां विविधवर्णसौरभ्ययैभवानि कुसुमानि

 शिष्यः-ञ्ज्तं उअज्झाओो आणवेदि । ( इति निष्क्म्य स्वगतम् ) जाणिदो प्र्येच मये उअज्झाओो ता किं मे कुसुमेर्हि ( एदं य्येव चलदलतरुसिहरं आरुहिअ णिारूपमि सव्वं ।[२४९] ( इति तथा करोति )

 ज्ञान०-(पुरोऽवलोक्य सहपैम् ) अहह ! फलितं मन्त्रप्रभायेन यदियं गृहोतकुसुमताम्बूलादिप्राभृतका कपटकेलिर्मदनसुन्दरीदूत्येऽत्र समागच्छति ।


(ततः प्रविशति यथानिर्दिष्टा कपटकेलिः । कपटकेलि: ज्ञानराशेरग्रतः प्रामृतकमुपनीय साफूतं विहस्य सत्रीडमुपविशति)

 ज्ञान-(सगर्वहर्पम् ) अयि भद्रे! अधिगतं तद्रस्तु ? ।

 कपट०-(सोत्कण्ठम् ) सुहअ ! तं लद्ध गदं चत्यु । हिअअं उण मह तए हरिदं ता तुमं य्येव मह सरणं[२५०]

 ज्ञान०-(स्वगतम्) आः किमेतत् ! । किमियं मदिरारसोन्निद्रितस्मरविकारातिशया ?। तत्किमत्रोत्तरं भवति? अभिमतेन तावद्रिनियोजयामि । (प्रकाशम् ) भद्रे ! अपि कल्याणिनी तव सुता मदनसुन्दरी ।

 कपट०-(सेर्प्यम् ) ण हु ण हु सुदा मे, वहिणिआ खु सा। अहं उण तुम्हारिसविलासिजणपसाएण सुहिदा पिहुलत्तणं पत्ता कणिट्ठा वि अण्णारिसी मुणिज्जामि[२५१]

 ज्ञान-(स्वगतं सोपहासम् ) अहो ! धाष्टर्यं वृद्धायाः । अथवा युज्यत एवैतत्

वातोत्फुल्लनया नयन्ति समतां निम्नौ कपोलौ मुहु-
 स्तुङ्गत्वाभिनयं वहन्ति कुचयोर्वक्षःस्थलोल्लासनैः ।
पुत्रीभ्योऽपि कनिष्ठतां प्रकटयन्त्याच्छाद्य केशान् सितां-
 स्तारुण्याभिनयग्रहः परिणतौ कोप्येप दुर्योंपिताम् ॥ ६ ॥

 कपट०-(सोत्कण्ठम् ) सुहअ ! मुश्चसु कसाअंव्ररं । अलंकरेमि हरिअंदणेण अङ्गाइं।[२५२]

 ज्ञान--(स्वगतम् ) अहो ! विकारातिशयो वृद्धायाः । अथवा---

 सोत्कण्ठं सेवितोऽत्यर्थ तारुण्यसमये पुरा ।
 जहाति जरतीः कामो न दाक्षिण्यवशादिव ॥७॥

(प्रकाशम् ) विरम विरम।

 विविधरसविलासोल्लासिनिःसीमपङ्कः-
  प्रचयनियतपातं दूरतस्तं नमामि ।


अहमिह सुखमम्ब ! त्यक्त्तविभ्रंशशङ्कः
 पथि नियभपराणां नीरसे सञ्चरामि ॥ ८ ॥

 कपट०-( सोपहासय् ) सुहअ ! णाअरोसि जाणसि परिहसिदुं, जं मं अम्वेत्ति वाहरसि । ण उण जाणसि भाअवदाणं रहस्सं । ण सुदो तए स स्सिलोओ

भगवान् कुरुते नित्यं यः कन्दर्पनिपेवणम् ।
सुतरां प्रीयते तस्य कन्दर्पजनको हरिः ॥ ९ ॥

 ण उण अहं जापो केत्तीआओ भाअवदाणं विसीओ णिअसुरअसत्थरोसीसअम्मि मये दिण्णाओ[२५३]

 ज्ञान०-( सक्रोधम् ) आः पापे ! पतिप्यसि भागवतदर्शनदूपणपङ्केन ।

 कपट०--( विहस्य ) सुहअ ! ण णिवडिस्सं । एसो मे आलम्यणमत्थि तुह दंडो।[२५४] ( इति दण्डं स्पृशति )

 ज्ञान०-आःपातकिनि । मा स्ष्टश मा स्पृश । ल्वयि यमदण्डोऽयं दण्डः।

( इति दुण्डमाच्छिद्य हन्तुमुपक्रमते )

 कपट०-( सत्वरमपसृत्य ) रेरे पणट्ठभअव ! ण मे एत्थ कोकिलपारावदा तेण मं अणाहं च ताडेसि [२५५]

( तत. प्रविशतः संरव्धौ कोकिलपारायतौ )

 पारवतः-कोकिलाआ ! कर्हिपि इध उज्जाणे सो णट्टभअवओ पुलोईअदि, जो अम्ह चोरिआकलहमुप्पादेदि[२५६]

 ज्ञान०-(पुरोऽवलोक्य सभयम्) अम्व ! त्वमेवात्र शरणं मे ।

 कपट०--( सक्रोधम् ) अज्जवि मं अंवित्ति वाहरसि[२५७]  ? ।


 ज्ञान०-( सप्रश्रयम् ) सुन्दरि ! करिष्यसि मे प्राणरक्षां, त्वदायत्तोऽहम् ।

 कपट०-ता समाहिदंभेण चिट्टदु भअवं[२५८]

( ज्ञानराशिः तथा क रोति )

 कोकिलः-(पुरो निरूप्य सद्दर्पम्)पारावञ्जा!पेच्छ पेच्छ एसो सो भवओ पासट्टिदाए अत्ताए उआसिज्जमाणो चिट्टदि । ता एहि उअसप्पम्ह[२५९]

 उभौ-( उपसृत्य ससंरम्भमुञ्चैःकारम् ) अत्ते ! किं इध तुमं[२६०] ? ।

 कपट०--( सनिमृतस्वरं हस्तसंज्ञया वारयन्ती ) कोकिलआ ! णिहुअं चिट्ठघ । मा भोदु समाहिभंगो भअवदो [२६१]

 कोकिलः-अत्ते ! एसो खु मे तिव्वमहरावेअविहलोव्व पडिहाअदि जं णिमीलिअच्छो घुम्मदि । (पारावतं काक्षेणे वीक्ष्य ) तुमं वा कघं मन्नेसि[२६२]

 पारावतः-कोकिलआ ! एवं ण्णेदं । ता एहि एसो दीहिआजलम्मि मज्जीअदि[२६३] ( इति तथोपक्रमेते )

 कपट०-( ससम्भ्रमम् ) आः किं एदं ! चिट्ठघ चिट्ठध रे चिट्ठघ । मा जलणाम्मि झपध[२६४]

 कोकिलः-अत्ते ! जह एसो जलणो ता किन्न एदं णिञ्चं चिअ उच्छंगअन्ती डज्झसि तुमं[२६५] । ( इति प्रस्रभं धारयतः) ।

( ज्ञानराशिः सहुङ्कारं शिरो वलयति )

 पारावतः-कोंकिलआ ! पिच्छिलवालो ण एस घरिढुं पारीअदि[२६६]


 कोकेिलः-पारावआ ! तुमं हत्थेसु अहं पाएसु घारेमि[२६७] । (इति तपा कुरुतः )

 पारावतः-(वाहुतो वीजं छित्वा इस्ते गृद्दन्नङ्गलीयकं प्रत्यभिज्ञाय ) कोकिलआ । पच्चभिजाणेसु अंगुलीअअं एदं अत्ताए मअणसत्यसिविखणाए एअस्स विइण्णं[२६८]

 कोकिलः--( सोपहासम् ) साहु अत्ते ! साहु । सव्वस्सं एअस्स समप्पेदि चोरिआकलंकं उण अम्ह मत्ये अरोवेदि[२६९] । (उभौ चालयतः)

 ज्ञान०-(साक्रन्दम्) कौण्डिन्य ! कौण्डिन्य ! क्कासि ? क्कासि ? । एप त्वामपहाय वैष्णवं लोकमभिपद्ये ।

 कोकिलः-पाआलमूलत्ति भण[२७०]

 पारावतः--कोकिलआ! एसो भावओ एदस्सिं य्येव पयासन्ने विन्छुदैवदे चलदलतरुम्मि अवलंवीअदि । अणुभवदु मुहुत्तं खेअरसिद्धि[२७१]

( कोकिल; ऊर्प्वे शाखामवलोकते )

 कौण्डिन्यः--( स्वगतं सभयम् ) एसो सो पलिज्वमाणो डरन्तो अवरंपि पञ्चालेदि ! ता एवं दाव ( प्रकाशम्) जीोवध जीवध । घारेध धारेध एदं र्देभतापसं याच अहं अघदरामि । पसो खु मे सालुज्लणे कुसृमाइं णिच्चंचिअ गेन्हइ । अहं इहट्टिदो णिास्ल्वेमिणा उण पेक्खामि[२७२] (इत्यवतरणं नाटथित्वा इन्तुमुपक्रमते )

 ज्ञान०-अहो गुरौ भत्तपतिशयः । भव्रतु । जीयतु तावद्धराकः ।


(कपटकेलिः विहस्य ज्ञानराशेमुर्रवमीक्षते )

 पारावतः-अरेरे तुमं उज्झाणवालो ? ।

 कौण्डिन्यः-अघ इं' ? ।

 कोकिलः-पारावआ ! जं अत्ता णिहुअंहसिऊणभअयदो मुहं पेक्स्वदि, तां एसोय्येव सो एदस्स दुदीओ कोंडिण्णो । (इति सहसोपसृत्य तमपि धारयति )

 पारावतः-एसो वि एदस्स भअवओ । इघ ता समअं चिअ दोन्हवि भोदु सिद्धी ।

( इति योगपट्टाभ्यां द्वयोरपि कण्ठो संदानयत्तः )

 कौण्डिन्यः-( साकन्दं दीर्घे निःश्वर्स्य) णिअणिअट्टाणेसृ चिट्टन्तु णिहाणाइं । किलिम्मदु दालिद्ददूमिओ लोओ । उचरमदि नाणारासी ।

 कोकिलः-( सस्पृदम्) रेरे जाणादि तुह उचरमदि णिहाणाइं ? ।

 कौण्डिन्यः-को न एत्थ एदिणा कअत्धीकदो ? ।

 कोकिलः-( सद्दसौपमृत्य ) भअवं नाणरासे ! अनुगेन्हसु अम्हे ।

 ज्ञान०-( स्वगतम् ) साघु कौण्डिन्य ! साधु ! तदेवं तावत् । (प्रकाशम्) वत्स ! आर्त्तोऽयं प्रलपति क्रियनामस्मासु समीहितम् ।

( कोकिलपारावतौ योगपट्टौ विहाय पदयोः प्रणिपत्य )

 उभौ-पसीद्दु पसीददु अय्यो । फरेसृ अम्द्दे अदलिद्दे ।

 ज्ञान०-वत्सौ ! क्षान्तं मया । क्षमाघना हि मादृशाः । परोपकार ए-


यास्माकं परमकारुणिकानां परमो घर्मः । अवश्यमनुग्रहीतव्यौ वत्सी । तदुतिष्टताम् !

 उभौ- ( उत्याय )जीवदु जीवदु अज्जो[२७३]

 ज्ञान०-(सगर्वम्)

मद्क्षूभङ्गिसमादिष्टा कुम्भदासीच भूरियम् ।
निघानकृम्भसम्भारं गेहे कस्य न दौकयेत् ॥ १० ॥

 कौण्डिन्य ।'समानय लाङ्गलीरसम् ।

 कौण्डिन्यः-किं तेण[२७४]? !

 ज्ञान०-किं न श्रुतं त्वया ?--

रसेन लाङ्गलीोयेन समन्त्रेणाञ्जितेक्षणः ।
निघनं वा निधानं या धीरः समधिगच्छति ॥ ११ ॥

 कोकिलः-भअवं ! णिहाणदो किं णिहणं गरुअं[२७५] ? ।

 ज्ञान०-मात्राहीनमपि सर्वदुःखप्रशमनं निघानान्निधर्न श्रेयः ।

 कोकिलः-ता अम्हाणं तंय्येव भोदु[२७६]

 ज्ञान०-अध किं ? । त्वरय कौण्डिन्य ! त्वरय ।

 कौण्डिन्यः--ज्ञंआणवेदि भवं । (इति निप्कम्य पुनः प्रविश्य ) एदं तं गेन्द्ददु उअज्झाओ [२७७]

 ज्ञान०- ( आदाय ) कस्पाक्ष्णोः प्रथमं दीपतामञ्जनम् ? ।

 कोक्लिः-मह दाव[२७८]

 पारावतः-( उपसृत्य ) मह दाव[२७९]


 कपट०-भअवं ! एसोवि तए अणुअंपणिज्जो इत्थोअणो[२८०]

 ज्ञान०आः ! किंमौत्सुक्येन ? । सर्वेपामेवासन्नं निधनम् ।

 पारा०-तत्कोकिलस्य तावत्कुरु |

 ज्ञान०-( तथा कृत्वा ) वत्स ! एतस्मिन्वृक्षमृले दृशां निघेहि ।

( कोकिलः तथा करोति )

 पारा०--कोकिलआ! पेच्छसि किंपि[२८१] ? ।

 कोकिलः-ण किम्पि [२८२]

 ज्ञान---( अपवार्य ) वत्स पारावत ! सत्येयं जनोक्त्तिः "अर्थातुराणां न सुह्टन्न वन्धुः " यदयं पश्यन्नायि न कथयति । सर्वत्र पदे पदे निघानानीति किमुन्मत्तजल्पितम् ? । तत्तवान्यदेव दर्शयामि ।

( इति पारावताक्षिणी तथा फरोति )

 कपट०-भअवं ! ममावि[२८३] । ( इतानराशिस्तया फरोनि )

 कोकिलः-( अपपार्य ) पारावआ ! पेच्छसि फिम्पि[२८४]? ।

 पारा०-ण किम्पि[२८५]

 कोकिलः-अत्ते ! तुमं पेच्छसि किंपि[२८६]

 कपट०-णहि णहि पुष्ट्टन्ति णपरि लोअणा[२८७]

 कोकिलः-( अपवार्य )पारावआ ! अत्ता ण पेच्छदि । तुमं ण पेच्छसि। अहं ण पेच्छामि । ता किं एत्थफाअव्वं । ( अपदायै मन्घयित्या ) ता एयं दाय ( प्रकाशं ) ।


उअज्झाअ ! थोअं खु अंजणं । ता अवरंण रसेणा तुमं मह कणिट्टो उण पारावअस्स अंजदु लोअणे जहा समअंचिअ णिहाणे पेच्छम्ह[२८८]

 ( उभौ तथा कुरुः। कौकिलपारावतौ गाढं निपीडयोभयोरप्यक्षिणी निज्ञाक्षिभ्यां सान्द्रं विमर्द्दयतः )

 ज्ञानराशिकौण्डिन्यौ-(पीडामभिनीय) कृप्ण कृप्ण !स्फुटतो विलोचने ।

 कोकिलपारावतौ-हआसा ! गेन्हध गेन्हघ णिहणं[२८९]

 ज्ञान०-आः कौण्डिन्य! उपविपंकिमप्येतदानीतं त्वया !। अन्य एव स नेत्राञ्जनः ।

 कौण्डिन्यः-उअज्झाअ ! किं मं मारेदुमिच्छसि । एर्व य्येव फुट्टलोअणो मुदोहं[२९०]

 पारा०--( पीडातिशयमभिनीय ) हर्द्धी हद्धी अट्टाणे मुदोम्हि[२९१]

 कोकिलः-पारावआ ! किं सोएसि ! तहा अ[२९२]----

अपीअपुध्वं किमु किंपि मज्तं
 विट्टालिदा किं महिला ण कावि ।
जूअणे सुण्णो दिअहो गदो किं
 को अम्ह सोआवसरो जअम्मि ॥ १२ ॥

 ज्ञान०- ( स्रगतं सोपदासम्) सत्यमेनत् ।

  कृनकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ।

 ( प्रकाशम् ) वत्सौ कोकिलपारायतौ ! अस्ति क्कापीोह प्रत्यासन्नो जलाशपः । नयनप्रक्षालनमात्रेणेव प्रशाम्यत्येपोऽपमृत्युः ।


 कोकिलः-अत्थि[२९३] एत्थ पच्चासन्नं मअणुज्जाणं, जर्हि सामी कलाकरंडओ पाणगोट्ठीविलासं करेदि ।

 पारा०-ता कघं मग्गं पुलोअम्ह।[२९४]

 कोकिलः--एघ दाव रिंगन्ता वि गच्छम्र्ह[२९५]

( सर्वे शनैः परिक्रामन्ति । कौण्डिन्यः कोकिलोपरि पतनं नाटयति )

 कोकिलः--(सक्रोध्रं चरणेन प्रेर्य ) हआस! किं इघ णिहाणं ? कोइलो खु अहं । ता परदो गाच्छ[२९६]

 कपट०--( पतनं नाटयन्ती ) वच्छ कोकिलआ !अवलंवसु अवलंबसु मं[२९७]

 कोकिलः--अत्ते ! णिवडिदय्येव चिट्ट । को तुमं उद्धरिदुं पारेदि । ह्त्थिपटुणं तुह संवुत्तं ।[२९८]

( कपटकेलिः कथभ्विदुत्याय पुनः पुनः पतनं नाटयति )

 पारा०-( सोपद्दासम्) पावेदु दाव अज्जआ पए पए णिहाणाइं[२९९]

 कोकिलः-( पीडातिशयं नाटयन् ) हद्धी हद्धी एसो णयरि अणुसओ जं ण पाविदो मरणसमअम्मि पाअफंसो पहुणो कलाकरंटअस्स[३००]

 कपट०--(मानन्दं सोरस्तादृमाक्राशे लक्ष्यं यदवा ) पुत्ति मअणसुंदरि!कार्हिसि कहिंसि?। देहि मे पडिवाणं l एसाखु अणाहा अद्दट्टतुहमुहअंदा वियन्वामि[३०१]

( ततः प्रविशति सपरिवारा सम्भ्रान्ता मद्दनमुन्दरी कलाकरण्डकद्रा )


 मदनसुन्दरी-अत्ते! किं नेदं[३०२] ? ।

( कपटफैलिः कण्ठं गृहीत्वा रोदिति )

 कलाकरण्डकः-(विलोक्य ससम्भ्रममुपसृत्य) भगवन् ज्ञानराशे ! किमेतत् ? ।

 ज्ञान०-( स्वरेण ज्ञात्वा ) वत्स कलाकरण्डक ! दुदैवेहतोऽहं, किं कथयामि।

 कोकिलपारावतौ- (सक्रोघम् ) णाह कलाकरंखअ ! । एदं माआवंचिदसअलभुअणं संभावेसु णट्ठ[३०३]

 कलाकरण्डकः ( सकोघम्) आः पापौ ! अलमलं चापलेन । ( ज्ञानराशिं प्रति ) भगवन् ! कथय किमेतत् । सज्जोऽयं त्वत्प्रेष्यो जनः ।

 ज्ञान०-वत्स । तावदम्भः समानीय प्रक्षाल्यन्तां सर्वेपामक्षीणि ।

 कलाकरण्डकः---कुसुमिके ! मुद्गरक ! ननु प्रत्यासन्नैव दीर्घिका, तदानीयतां पानीयम् ।

 उभौ-जं सामी समादिसदि।(इति निप्कम्य पुनः प्रविश्य ) उवणीदंजलं [३०४]

 कलाकरण्डकः--प्रक्षाल्यन्तां सर्वेपामक्षीणि । ( इति तथा कुरुतः )

 ज्ञान०-(मुखं ग्रक्षाल्य उन्मील्य चक्षुपी ) वत्स कलाकरण्डक ! दिष्ट्या दृष्टोऽसि दिष्टया प्रशान्तमापदा ।

 कपट०--( सहर्पम्) दिट्टिआ दिट्टो मए तुह मुहससी । ( इति मदनमुन्दरीं चुम्पति ) ।

 कोकिलपारावतौ-(कलांकरण्डकं पदुयोर्गृहीत्वा ) दिष्ट्या जीवतोनौ[३०५] नातिथिर्जातोऽसि ।

 कलाकरण्डकः-वत्सौ ! प्रणम्यतां तावदयं जगद्गुरुर्भगवान् ।


( उभा तथा कुरुत. )

 ज्ञान०-सह कलाकरण्डकेन प्रमोदन्तां प्रमोदन्तां भवन्तः सर्वेऽपि । वत्स कलाकरण्डक ! न कश्चिदिहापराध्यति | अनयोर्निधानदर्शनोत्सुकयोरर्थे यन्नयनाञ्जनं समानीतं तद्धमेणान्यदेव तीव्रं किमपि संवृत्तम् ।

 कलकरण्डकः-( सप्रश्रयम् ) किमुच्यते ? । न ग्वलु प्रमादतोऽपि पंरिभवन्ति विपदो जगद्गुरुम् ।

 ज्ञान०-वत्स कलाकरण्डक । अपि निर्जिता धूतक्फाराः। पूर्णास्ते मनोरधा: ।

 कलाकरण्डकः-- ( सहर्पे सप्रश्रयम् ) भगवन्! किमुच्यते ? । नास्त्यसाध्यं किमपि मे भुवने भवदनुकम्पासनाथस्य ।

 मुद्ररकः-( सद्दर्पौत्मुक्यम्) णाह कलाकरण्टअ ! एसा ,दे अत्ता एस दे गुरु एस दे परिअणो जं णिरावदों जाओ त्ता एध महसवं माणेम्ह[३०६]

 ज्ञान०-वत्स ! कलाफरण्टक ! ब्रूहि किं ते भूयः प्रियमुपकरोमि? ।

 कलाकरण्डकः-( सद्दपै सप्रश्रयम् )

 अजय्यास्ते घूते सफलकिनवाः किन्न विजिताः
  प्रिया प्राणप्रापा किमु न घटिता चन्द्रयदना ।
 विपव्दाद्धैः पारं किमु मम न यातः परिजनः
  कृतार्धं कृत्वा मां किमसि भगयन् ! दित्सुरपरम् ॥ १३ ॥

तथापीदमस्तु-
 अवनिमवनिपालाः पालयन्तु प्रफामं
  विदधतु शुभवृष्टिं दत्तमोदाः पयोदाः ।
 भवतु भवतु लोफः शोफयैदेशिफात्मा
  रजनिरमणलेग्वाशेग्वरयानघन्यः ॥ १४ ॥

कृनिरिपं महाराजक्ष्रीपरर्म्हिदेवस्यामात्यम्य महाकवेः क्ष्रीवम्मराजस्य । हास्यचृद्धामणिनमकं प्रहमनं समाप्तम् ।



गङ्गघरो रुचिरशीतकराभिरामो
 भालाक्षिवहिनिभसम्भृतवडवाग्निः ।
विभ्रद्विपं सुविपमं गुणरत्नरम्यो
 भर्गः समुद्र इव वर्द्धयतु श्रियं वः ॥ १ ॥

 अपि च ।

 ताः पान्तु वः शिखरदन्तुरमन्दराद्रि-
  व्यालोडन्व्यतिकराद्वमयोऽम्वुराशेः ।
 यद्वेगविल्कवनया गलितापवादं
  श्रीर्निर्तरं मधुरिपोः परिरम्भमाप ॥ २ ॥

( नान्द्यन्ते सूत्रघारः )

 सूत्रधारः-( प्राचीमवलोक्य सद्दर्पम्) अये प्रागल्भ्यमाससाद्प्रत्यूपसमयः ।

 तथाहि----

 अभ्युत्थिता परिलसत्कमलाकराब्धे-
  र्लक्ष्मीः सहस्त्रकरमण्डलमभ्युपैति ।
 तन्मध्यवर्त्तिनुरवैरिमुखारविन्द -
  सन्दर्शनोत्सवसमुत्सुकतां गतेव ॥ ३ ॥

 ब्राह्म एव मुहत्तै चाहं विवुद्धः । न च मया किञ्चिदात्महितं विचिन्तितम् । क्ष्रूयते हि स्मार्त्तेभ्यो "ब्राहो मुहर्त्ते उत्थाय चिन्तयेदात्मनो हितम् " इति । तदिदानीमपि चिन्तयामि । ( नेपध्यामिमुरप्रमवलोक्य ) क इहास्मदीयः ? ।

( प्रविश्य )

 स्थापकः-( सप्रश्रयम्) अहमस्मि । समादिशतु मां भावः ।

 सूत्र०-(सहपम् ) दिष्ट्या सम्प्राप्तोऽसि । त्वमेव नः परमो हितस्तद्विमृश्यतां, द्वादशापि भ्रानरः कथमिव ययं युगपत्कृनकृत्या भवामः ।

 स्थापकः--( सहर्ष शिरोऽवधूय ) अहो भावस्य सौभ्रात्रम् । दुप्प्रापक्ष्चैप मनोरथो भाघस्य भाग्यसम्पदैव समासाद्यते । आदित्या अपि द्वाद्शा पर्या

ग्रत एव द्वादुशमृासेपु परमैश्वर्यभाजनं भवन्ति । तद्विसृश्ट्य विज्ञपयामि ( क्षणं विचिन्त्य सहर्षम् )

युप्माभिर्यौग॒पद्येन सर्वकामार्धसिद्धये ।
परमर्द्दिनरेन्द्रो या समुद्रो वा निपेव्यताम् ॥ ४ ॥

 सूत्र°--(सहर्पम् ) साधु दृष्टं साधु स्मारितम् । कविवत्सराजविरचितसमुद्रमथनसमवकाराभिनयेन नः परमर्द्दिदेव एव पूरिताशेपमनोरथः समुद्रो भविप्यति ।

( नेपथ्ये )

 एवन्नेदं । समुद्दादो घ्येय सव्वे मणोरहा णिव्वहन्ति[३०७]

 सूत्र०-( स्वरप्रत्यभिज्ञानमभिनीय ) अये ! पद्मकोऽयं देव्याः समुद्रदुहितुर्विश्रम्भभृमिर्व्याहरति । तदेहाद्यावामनन्तरकरणीयं सम्पादयावः ( इति निष्कान्तौ)

( प्रस्तावना )

(ततः प्रविशति पद्मफः )

 पझकः-एवं नेदं । स[३०८] मुद्दादोय्येय सव्वे मणोरहा णिव्वहन्ति | कथिदं खु भे गंगादेथीए जहा किर सञ्वे सुरा असुरा अ विथिहलाहसमूसुआ महुमहपमहणाहवम्भेहिं सह मंतिऊण मंदरमंधाणेण जलहिमहणफाणिच्छआ संयुक्ता । ता तत्थ फलिस्सदि लच्छीए महुमहम्मि पेम्मफप्पलआ गए वि विन्टुपदीए दंसिदा विन्हुणो आलिहिअ लच्छी । सुट्ठु उघांठिदो चैउंठो । ता महणाणत्थेवि अत्थि एसो अत्थो जं लच्छीए फलिस्सदि मणोरहो । एसा खु भअवदी गंगादेवी समुद्दवल्लहा पावणाणं शिरोमणी संभुसीसम्मि विन्ष्नुपअम्मि माहप्पेण थिहिहरूवा सव्यत्त न्पिट्टदि । ( मखेदम् ) कह उण लच्छीए ता जीव-


धारणं । अहह ण कअं सिंधुणाहमहादेवीए गंगाए सोहणं जं लच्छीए अग्गदो वण्णिदा तहा तहा विन्हुगुणा, चङ्ढाविदो अ तर्स्सि पेम्माणुवंधो । अहवा अलं मे खेएण । को एअस्स कज्जसिद्धीए संसओ, जर्हि गंगादेघीए मणं पत्तिआअदि । ता इह वेलावणम्मि खण वीसमिअजाम्नि ।( क्षण पिश्रम्य स्मरणमभिनीय ) अये गंगादेवीसमप्पिद विन्हुचित्तवडंपि दाव गडुअ दंसेमि लच्छीए,जाव ण सा चेलावली समेदि । सा खु मह पेसणसमए पिदरं समुइं वेलावणागमणत्थं पुच्छन्ती आसि । अहंपि णिअचीसामसुहलालसो णिट्टुरोव्व र्णिदिदो य्येव संचुत्तो ।

( नेपथ्ये सरोपम्)

 आः! क एप मूर्खे व्याहरति निष्ठुर इव निन्दित एवेति । निरूपयरे पाप ! निरूपय अस्ति तवैवं व्याहरतो रसना न वेति ।

 पइकः-( सभयम्),आः ! को एस अकारणं कुप्र्प[३०९]दि ? ( इति तत इतोऽवलौकते )

( तत प्रविशति कुद्धो भगवानिष्ठुरक )

(निष्टुरक सक्रोध पुनर्निरूपयेत्यादि पठति )

 पझकः--( स्वगतम् ) अये भअवं एसो कुप्पदि । णूणं णिट्टरेत्ति एदस्स णामसमाणदाए एसो कुप्पदि । ( प्रकाश सप्रश्रयम्) भअवं ! पणमामि तुमं । कर्हि मे णिारचराहा जीहा गम्मिस्सदि । अहं खु करुणाविरहिदं णिट्ठुरेत्ति अत्ताणं णिंदेमि[३१०]

 निष्ठुरकः---( स्वगत सवैलक्ष्यम्) अये आत्मानं नैष्टुर्यादसावुपालभते । ( प्रकाशम् ) भद्र । किं पुनर्भवानेवमात्मानमुमालभते ।


अहह ! न कृत सिन्धुनाथ महादेव्या गङ्गया शोभन यल्लक्ष्म्या अग्रत वर्णिता तथा, तथा विष्णु गुणा वर्धार्पितश्च तस्मिन् प्रेमामुपन्ध । अथवा अल मे खेदेन । क एतस्य कार्यसिद्धया सशय यन्र गङ्गादेव्या अपि मन प्रत्यायति । तदिह वेलावने क्षण विश्रम्य यामि । अये । गङ्गादेवीसमर्पित विष्णुचित्र पटमपि तद्रत्वा दर्शयामि लक्ष्म्यै यावन्न सा वेलावली समेति । सा खलु मम प्रेपण समये पितर समुद्र वेलावनागमनार्थ पृच्छन्ती आसीत् । अहमपि विजविश्रामसुखलालसो निष्ठुर इन निन्दित् एव सवृत्त ।  निप्ठुरकः-क पुनस्तव भर्त्तृदारिका ? ।

 पद्मकः-भअवं ! सुट्टु मे तावेण उत्तम्मदि भट्टिदारिआ[३११]

 पझ--चिट्टदि समुद्दमज्झम्मि[३१२]

 निष्ठु०-( सोपहासम् ) या समुद्रमध्ये तप्यते सा यदि मण्डले विगतसन्त्तापा भवेिप्यति ।

 पद्म०--( सरोपम् ।) भअवं! णामोचिदं मन्तेसि ण दंसणोचितं। भअवन्तो खु करुणापरव्वसा मन्तेर्हि तन्तेर्हि दूअत्तणेर्हि पि कामुआणं पि कामाइं संघडायेन्ति[३१३]

 निष्ठु०-( सन्तोधम् ) आः पाप ! किमालपसि ! । कधमहं पुण्डरीकाक्षप्रसादमन्त्रमपहाय त्वद्भर्तृदारिकायाः स्मरसिन्द्धिमन्त्रमाराधयिप्ये ।

 पद्दा०--( सप्रश्रयम् ) अय्य ! मा कुप्य । जम्मन्तरे खु तुह मंतेहि भअवं कमलणअणो पसन्नो भोदि । देवीए उण समुद्दसुआए दूअत्तर्ण विरअन्तस्स सहसच्चिअ समीहियं दइस्सदि[३१४]

 निप्टु०-( सोपद्दासम् ) रे रे मूर्ख ! न तवैवं व्याहरतो व्रीडा न च मे क्षृण्वतः । कथं नु जूलमानुपीसमागमे सकलजगदीशो भगयान्यैकुण्ठ एय समुत्कण्ठते । त्वद्धर्तृदारिकाया अपि महानयमुपहामो यत्तत्र निविहेयमासक्तिः । नहि वापोमरालिकायाः पितामहमरालः प्रेमपात्रं भवितुमर्हति ।

 पझ---( सगर्पम्) अय्य ! मा एवं-

हत्थीण सव्वदसणं मोहणमंनं य जयइ सोहग्गं ।
वुहिहइ णं समुहे लच्छीपेम्मेण गोविंदो[३१५]


 निष्ठु०--(सोपद्दासम्) ययेवं तदा गतप्रायं नारायणस्य पाणिग्रहणम् । किमेवमुत्तष्यसे ? । अहो अद्भुत्तमद्भुतं चक्षुःपथमेव यो नायतरति कस्तेन सह प्रमवन्धः । रे रे मूर्ख ! अस्मदादीनामपि गुरव एवमुपदिशान्ति-

दुर्द्दर्शो निर्गुणः सृक्ष्मः केवलोऽङ्गुष्टमात्रकः ।
वीनरागो महामायः कृप्णस्रैलोक्यमोहनः ॥ ५ ॥

 पद्म०-( सकोधम्) ये एवं मन्नंति ण ते तुम्हाणं गुरू जाणन्ति, ण अ तुम्हारिसा सुणेन्ति । अंधाणं अघेसु एस रूवविशेसो व एसो । पेच्छ रे ! पेच्छ ! भअवदो कन्हस्स स्ल्र्व [३१६]। ( इति चित्रपटं दर्शयति )

 निष्टु०-( विलोक्य सवित्मयम् ) रे रे! क्क पुनरयं भवता समासादितः?। मया किलेह ध्यानाय मधुसूदनरूपमालिखितम् । अत्राहं वेलावनाश्रमे वसन्नहरहः कृप्णरूपमिदं ध्यायामि । एकदा वर्द्धिष्णुसिन्घोः कल्ललेनापहृतः ।

 पझ०-भअवं ! एसो खु समुद्ददइआए गंगाए समुद्दसुआए महुमहविरहविहलाए लच्छीए कए महुमहालेक्खसणाहो चित्तवडो पेसिदो अत्थि[३१७] । निप्टु०- ( सन्तोधम्) अर्पय मदोयम् ।

 पद्दा०-( सरोपोपहासम् ) अप्पिदो वि ण तुह हत्थे चिट्टदि ! अत्थि किंपि तुह पाचं ज्ञेण आलेक्खेवि ण तुहु दंसणं देवो कन्हो । अदो य्येव कल्लोलपेल्लणववदेसेण तुह हत्थादो पव्भट्ठो चित्तयडो[३१८]

 निप्टु०-( सकोधम् ) आः पाप! पापलेशोऽपि न मे विद्यते । इदानीं भवतः कलुयशीलस्य संलापेन भविप्यति । तदपसर्पतु भयानन्पतः कुतोऽपि ।

 पझ्०--( सगर्वम्) रे रे भगवं ! नारायणपरायणाए दुक्करं तवन्तीए लच्छीए सन्निहणम्मि कृदो मे पापं, कृदो अ लच्छीए मणोरहाणं असिद्धी[३१९]? ।


तहा अ--
 मज्झम्मि घसइ णिचं सुरसरिजलपूरपुण्णजलणिहिणो ।
 सेवाए अहिरमन्तो दूसहवडघाहुआसस्स ॥ ६ ॥
 पुज्जइ हिअअंम्मि हरिं घच्छत्थलणिहिदकमलमालाए ।
 झाणोवहाणलग्गा अवहीरिअपरिअणालावा ॥ ७ ॥
 इअ घम्मकम्मकलण हरिपअपंकअपसाअकामाए ।
 कह ण फलह लच्छीए आहारविरदाए ॥ ८ ॥

 संपइ उण इहय्येव जलहिनीरम्मि वेलावणकुसुमलक्खेण भअवदिं रुहाणिं अंचहत्सदि भट्टिदारिआ[३२०]

 निष्टु०-इहागमिप्यति त्वद्भर्तृदारिका? ।

 पझ०--अध इं[३२१]? ।

 निष्ठु०-तदिदानीमनुचितं समवस्थानमिह रागिजनप्रत्यासत्तौ ।

 पझ०-- ( सक्रोधम् ) तए परिचत्तं एदं पावणं भविस्सदि वणं[३२२]

 निष्ठु०- ( सरोपम्) आः पाप ! किमालपति ? । ( इति वृपीमुद्यम्य ताडयितुतुमिच्छति )

 पझ०-( सक्रोधम् ) चिट्ठ रे जाव जलजंतुं कंपि दुट्टअरं तुह कए कअन्तं वाहरेमि[३२३]


तश्थं' च-  निष्ठु-(पुरोऽयलोक्य सभयम् ) आ पाप ! त्वदनुस्मृत एव जलकुञ्जरोऽयं दुष्टः कश्चिदुन्मज्वति । तद्यामि यतस्त्लतः ।( इति पलायते )

 पद्म०-( निरूप्य ) णूणं एसा कुंजरं आरुहिअ लच्छी समेदि । जिस्सा उहयपासम्मि दीसदि सही लज्ज धिदी अ । ता इहय्येव पडिवालेमि[३२४]

( तत्तः प्रविशति यथनिर्दिष्टा लक्ष्मीः)

 लक्ष्मीः-सहीओ ! अइष्ट्टपुव्वं मह एदं सुरहि॒कुसुमपव्भारनिव्भरभरिदं । ता इद्दय्येव सहत्थावचिदेर्हि कुसुमेहिं अंचइस्सं भअवर्दि रुद्दाणिं[३२५]

 धृतिः-जहा सुहं भष्ट्टिदारिआए[३२६]

 लजा-अपि कुंजरेसर ! इह थिरो भोदु भवं[३२७]

( कुञ्जरस्तधा तिष्ठति )

 पद्मा०--( स्वगतम्) इह कहिंपि पच्छन्ने पेच्छामिदाव[३२८]।( इति तथा क्ररोति )

( लक्ष्मी अत्रतरणं नाटयति )

 धूतिः-पिअसहि ! लज्जे ! येच्छ तणुअत्तणं भट्टिदारिआए[३२९]

 लजा--सुट्टु खु दुव्वला, ण उण लक्खीअदि लाअण्णपुण्णदाए[३३०]

 तहा अ---

  चंगत्तणमेदाए चंदस्सग्गसहोओरस्स सारिच्छं ।


  रणरणअदुव्यलाए अहिअं अह होइ अच्छरिअं ॥ ९ ॥

 लक्ष्मीः--एघ वअंसिआओ एध । उच्चिणीअन्ति कुसुमाइं[३३१]

( सर्वा पुष्पावचयं नाटयन्ति )

 लक्ष्र्मीः-( सहर्पाश्चर्यम् )

मालाहिं छम्मासिअमोत्तिआणं केणावि वल्लीओ विहृसिदाओ ।
एतारिसं किं इघ विहुमाणं दीहत्तणं दीसदि पाअवेसु[३३२] ॥ १० ॥

( धृतिलज्जे इतरेतरमुखावलोफनस्मितं नाटयतः )

 लक्ष्मीः-( साशङ्कम् ) सहोओ ! किं इध हसीअदि[३३३]

 लजा-पिअसहि ! अणहिण्णा खु तुमं हसीअसि । ण एदाओ मोतिअमालिआओ, विअइल्लफुल्लाएइं ।एदाइं कंकेल्लिकुंस्ठमाइं ण विहुमदलाइं[३३४]

 लक्ष्मीः--( सविलक्षं विहस्य ) ता एदाइंय्येव उच्चिणोम्ह[३३५]

( तया कुर्वन्ति )

 लक्ष्मीः-( भ्रमरवाधं रूपयन्ती ससम्भ्रमम्) सहोओ ! के एदे लटुअलहुआ पक्खिसावा जन्ता उड्डेन्ति[३३६] ? ।

 धृतिः----- ( विहस्य ) पिअसहि लच्छि[३३७] !

तुह मुहपरिमलरसिआ भसला ण रमन्ति पेच्छ कुसुमेसु ।
उण्होण्हसासलहरीसंतावकरंविदा भन्ति ॥ ११ ॥


 रणरणकदुर्वलाया अविकमय भवति आक्ष्चर्यम् ॥  लक्ष्मीः--(सलनं सस्मिदम्) सहि ! ण तुर्म पुच्छिस्सं । पिअसहि लज्जे ! फधेहि एदे दे भसला जे मअरंदजीवा सुणीअन्ति[३३८] ? ।

 लजा-अघ इं[३३९] ? ।

 धृतिः पिअसहि ! अवचिदाइं पहदाहं कुसुमाहं । अंचीअदु संपइ भअवदी भवाणी[३४०]

 लक्ष्मीः-आणीअन्तु परिअणादो पूओवरणाइं [३४१] । ( धृतिस्तया करोति )

( लक्ष्मीः पार्वतीपूजां नाटयति )

 लज्जा -( सप्रार्थनम् )

तह अंचिदासि पव्वइ ! लच्छीए विविहकुसुममालार्हि ।
अंचेदु तुह पसाए जह कण्हं णअणकमलेहिं[३४२] ॥ १२ ॥

 धृतिः-(सद्दर्पम् ) पिअसहि ! लच्छि ! दिट्टिआवडठसि । पेच्छामि तुह वाहुलअं वामं पप्फुरन्तं । पच्चासन्नं पिअदंसणं पिसुणेदि [३४३]

 लक्ष्मीः-(सलञ्जरिमतम्.) अवेहि अवेहि[३४४] । ( इति कुसुमेन ताडयति )

 पद्म०--( स्वगतम् ) दंसेमि एदरिंस अवसरे कण्हचित्तवडं इमीए । ( सहुसोत्थाय ) देवि ! पुज्जीअदु एदं कण्हस्स रूवं णअणकुसुमेहिं कुसुमेर्हिपि[३४५]

( इति चित्रपटमर्पयति )


 लज्जा-(विलोक्य सहर्यम्) साहु साहु किं भण्णइ पोमञ्अस्स । जहा पोमओ दव्वाणं णिही तहा सुहाणं तुमं णिही[३४६]

 लक्ष्मीः--(सप्रसादस्मितं पद्मकमवलोक्य सहर्पेचिनपटमवलोकयन्ती स्वागवं साश्चर्यम्) अहो रूवं अहो रूवं ! ठाणे महामुणिणो एदं पुरिसोत्तमं अणिम्मिदं वाहरन्ति णहु णहु एआरिसं रूचं केणावि णिम्मीज्मदि । ( सोत्कप्ठम् ) हिभअ ! दिट्टिआ वडतुसि । कुसुमिदो दाव देवीए कच्चाअणीए पसाअपाअवो संपइ उण आलेक्खदंशणपुण्णादोहदेणं य्येव फलिस्स्सदि[३४७]

 पझ०-देवि लच्छि ! किं विलंवीअदि ? । एसो खुयु चित्तवडो गगादेवीए पेसिदो पुज्जीअदु । जणद्दणपूआएय्येय जणद्दणो पावीअदि । किं सुन्नहिअआ तुमं ? । अहं खुटु तएय्येय गंगादेवीए पादवंदणं काउं पेसिदो[३४८]

 लूज्जा-पिअसहि ! सोहणं मन्तेदि पोमओ ' पुज्जीअदु चित्तलिहिओ महुमहो[३४९]

 लक्षमीः-- ( सलन्वं धृतिमुखमवलोक्म्य सगद्रदम् ) अप्पेहि पूओवअरणाइं[३५०]

(धृतिस्तया करोति लक्ष्मीः। पृजां नाटयति)

 लज्ज्ञा-( सपरिहासस्मितम् )

कुसुमंजलिसंघडणा वेविरहत्थाए कह णु संपडइ ।
गग्गिरगिरा अ मन्तो समग्गवपणो कर्ह होइ[३५१] ॥ १३ ॥


दिट्ठी घाहाउलिओा तुमम्मि झाणं सुणिव्भरं णवरि ता ।
कमलणअण ! कमलं अणुअंपसु विमलसव्भावं [३५२]॥ १४ ॥

( लक्ष्मीः सत्रीडस्मितं पूजां परिहर्तुमिच्छति )

 धृतिः-( ससम्भ्रमं सप्रार्थनम्) मा एवम् ।

पिअसहि ! तुज्झ पवड्टउ काममओ महुमहम्मि सव्भावो ।
निक्कामलअसुलआ मा मुर्त्ति झत्तिं पावेसु [३५३]॥ १५ ॥

( लक्ष्मीः सस्मितं कुसुमाश्ञ्जलिमारोपयति )

 लज्जा-(सहपं सप्रार्थनं चिप्रपटे लक्ष्यं वद्धा ) सुहअ पुरिसोत्तम!पेच्छ पेच्छ भट्टिदारिआभर्त्ति । भक्तिगेज्झो खु तुमं इत्ति पञ्चासन्नो होहि[३५४]

( नेपथ्ये )

 आः किमेतत् !

उच्छिद्य स्वयमुत्पतिष्प्णुतनवः साभोगवेगोर्मिभि-
 र्घद्धव्यूहमरण्ययन्ति गगनं वृक्षाः सपक्षा इच ।
एतेन क्रियते युगान्तपवनप्रावन्धमाकस्मिफं
 दुवीतेन विनन्वताऽतिरयतः सर्वे जगज्वङ्गमम् ॥ १६ ॥

 पझ---( स्वगतम् ) नृनमायाति सुरासुरपरिवारो मुरारिः । नृनमन्वेति तं मन्दराद्रिः, यदेप भीपणः पवनोत्पातः ।

 लक्ष्मीः-( पपनवेगनाधां नाटयन्ती ) दृद्धी हद्धी सहीओ णएध मं पिदुणो महोअहिणो उच्छंगं । मए खु भअवदीए कच्चाअणीए चारंचारं कअविविहरअणपूआए वेलावण्यकुसुमपूआणिमित्तं तादं अव्भत्थिअ इध आगदं । इध अ एअं फलं संवुत्तं [३५५]


 लज्जा--(ससम्भ्रमम्) णाअराअ ! एहि एहि[३५६] ।( हस्ती सद्दसीपसर्पति )

( सर्वाः समारुहा समुद्रप्रवेशं नाटयन्ति )

 पझ०-( स्वगतम् ) अये ! महोअहिमहणवुत्तन्तं गंगादेवीकधिदं ण दाव णिवेदइस्सं । सुट्ठु विहला भविस्सदि भट्टिदारिआ । वरं इघध्येव एदं परूवअन्तो चिट्टामि [३५७]। ( इति तथा तिप्ठति )

( नेपथ्ये )

मधुरिपुरेप स्फुरदुरुकामः सह सुरदैत्पैर्जलधिमुपेतः!
तुङ्गक्षृङ्गसमूहैर्मीलिताम्बरमुपैति मथनोद्यमहेतोर्मन्दरो मिरिराजः ॥१७॥

 पझ०-( सहर्पम् ) अनिष्टमध्पेऽप्यद्य सम्भविप्यति गोविन्दसन्दर्शनं भर्तृदरिकायाः । तदहं त्यरितयुपसर्पामि जलधिमध्यय् । (इति जलधिप्रवेशामभिनीय निप्क्रान्तः )

( ततः प्रविशति व्योमयानेन महेन्द्रादिसुरासुरपरिवारो वामुदेवः )

 वासुदेवः-( सहर्यकौतुत्र्कम्) अयि सुरपते ! पश्य--

  व्योमाङ्गणादवतरत्र्निदशासुरौघ-
   च्छायाजिघृक्षुमकरोत्कघूर्णिताम्बुः ।
  अप्यत्र दूरतरवर्त्तिनि मन्दराद्रा -
   वुन्मथ्यमान इव राजति सिन्धुराजः ॥ १८ ॥

 तद्धद्रयमवतोर्य वेलावने प्रतीक्षामहे यायदायान्ति व्रह्ममहेशादयःसर्वेऽपि देवाः सर्वेऽपि चासुराः स च गिरिर्मन्दरः । ( इति वेलावनमध्यास्ते )

 वृदृस्पतिः-(समन्तादवलोक्य साक्ष्चर्य सभयम्)

  अहो वृद्धिर्वार्द्धेत्तदिह हृदयं क्षुभ्यति परं
   दुरन्तोऽयं मन्थः प्रसभमुपहासाय भविता ।
  विघाया॒त्र स्नानं सपदि सदूनं यात विबुघाः
   प्रमोदो यादोभ्यः प्रभवति न चेत्कोपि विपमः ॥ १९ ॥



 इन्द्रः-( स्वगतम् ) अहो ! वृहस्पतेर्मन्त्रपरामर्शैकनानजदृमतेभींरुत्वम् । तदेवं तावत् । ( प्रकाशं सगर्वम्)

कियान्पारावारः कमलभवभृङ्गारकुहर-
 क्षरद्धारारब्धन्निदिवसरिदौपाधिकसरः ।
तदेतन्मन्थाय व्यवसितमिदं दैत्यदिविप-
 त्समूहस्यैतावद्भवति हसनीयं नहि कथम् ॥ २० ॥

( सोल्णुण्ठम्)

दम्भोलिपाणेर्वलसृदनस्य
 वाचस्पतेः! त्वं सचिवोत्तमोऽसि ।
तदत्र दुग्धाम्युधिदोर्घिकाया-
 मुत्साहभङ्गः कनमस्तवायम् ? ॥ २१ ॥

 वृहस्पतिः-(सावज्ञं विहस्य ) देव प्रभो पुरन्दर !

त्रैलोक्यदाहप्रभुरौर्ववह्निः
 किन्नास्य किं नास्य स कालकूटः ॥
क्रोधोद्धुरेऽमुत्र न वृत्रशत्रो
 रक्षाप्रकारः कवचादिकः स्यात् ॥ २२ ॥

 धनदः-( सगर्वं सावज्ञम्)

जीव पयोधेर्मथनं कारय किं वा निवारय स्वैरम् ।
शौर्यं किमत्र पातुं दुग्धं वडवानलकथितम् ॥ २३ ॥

 वृह०-( सावज्ञोपद्दासम् ) दूरेऽस्तु शौर्यम् ॥ अमुना महिम्नैयास्य

चक्त्रुवाक इव चीचिविलोलो मन्दरोऽन्त्र भवतु भ्रमनिष्ठः ।
पाश्वैतोऽस्य परिवर्त्तनभङ्गया कीटका इव भवन्तु भवन्तः ॥ २४ ॥

 वासु०-( स्वगतम् ) अये ! गर्वायते गीर्वाणवर्गः समुद्रोन्मथनाय । तत्पुत्रीप्रेमपाशपरवशश्चास्मि | तर्तिक सुरमन्त्रिमन्त्रानुसारेण समुद्रोथनोद्योगं विसृज्य प्रकारान्तरेण तत्पाणिग्रहणमारभे, अथवा सुरासुरसर्वैः समभ्यर्थ्यानीतः कथमिवैतानतिसन्घाप भग्रमनोरथान्करिप्ये ! । तदेवं तावत् । (प्रकाशम्) अयि वाचस्पते !

नालसं कुलिशं शार्व्रतं न युद्धिर्विधुरास्ति ते ।
सर्वं भावि शुभोदर्कं हरौ सहचरे मयि ॥ २५ ॥

 वृह०-(स्वगतं सद्दर्पम्) अये ! अनध्यवसायोत्तयैच मे सुदृढं संवृत्तं सुरकार्ये, यदेवमयं भगवान्मुकुन्दः प्रतिज्ञातवान् । तदेवं तावत् । ( प्रकाशम्)

पाथोनिधिर्मधित एय समीहितानि
सिद्धानि तानि मधुसूदननिर्जराणाम् ।
दुप्प्रापमेतदधिगम्य वचस्त्वदोयं
पीयूपमप्यतनु सम्प्रति पीतमेव ॥ २६ ॥

 इन्द्रः-(सप्रश्रयम् )

पादोदकं तव जनार्द्दन ! जाह्नवी या
 तत्तोयपूर्णजलधेर्मथनं कियत्ते ।
आज्ञाकरैस्त्रिदशदानघमन्दराद्यै-
 राडम्चरव्यतिकरोऽपमहो विनोदः ॥ २७ ॥

 वासु०-( ऊचंमवलोम्य ) अयि सहस्रेक्षय ! दृश्यतामयमायात्येव कमलासनः । तधाहि-

दुग्घाम्वुथेर्दुग्धमदः पिपासुः
 पैतामहोऽयं तरलो मरालः ।
अप्रेयैमाणोऽपि पितामहेन
 विहङ्गराजाधिकमभ्युपैति ॥ २८ ॥

 इन्द्रः-(सफौतुफमूर्ध्वमवओन्य ) कथमयं भगवान्महेशोऽपि समायाति वेगेन ! । अदृष्टपूर्वं महदेतत्कुतूहलम् ! देवदेवोऽपि तरलायन एव ।

 कृष्णः-महेन्द्र ! मैवम्-

क्रीडन्तु कोमलपराक्रमसन्निवेशैः
 स्वर्गेसदः सुठुरपतेः प्र॒थुकामचाराः ।
अत्याहिते परिपतत्यथ दैययोगा-
 द्देवोऽयमेव शरणं करिकृत्तिवासाः ॥ २९ ॥

( ततः प्रविशति महेशो मह्मा च )

 ब्रह्मा-( सरभसमुपसृत्य )

उद्यमं कुरु गोविन्द ! पृर्णकामो भवाचिरात् !
फलितोद्यमखेदानां विश्रामो मण्डनायते ॥ ३० ॥

 महेशः-( सहर्पस्मितम्) कृप्ण ! अनुप्ठीयतां सुरज्येष्ठशासनम्।

 वासु०-~-( सप्रश्रयम् )

उग्र ! त्वदग्रतो गाढं सर्व एवोत्सहामहे ।
उज्जृम्भते हि भृटत्यानां कापि शक्तिः प्रभोः पुरः ॥ ३१ ॥

 तदायातु मन्दराद्रिः ।

 इन्द्रः-( नभोऽवलोक्य ) कृप्णदेव ! पश्य पश्य ॥ अम्परादुत्तीर्य प्रत्पातन्नो बभृव महोदघेर्मन्दराद्रिः॥

अभ्युत्थित इवातिथ्यान्मैनाको गौरवेण यम् ।
समुद्रमध्यसङ्क्रन्तप्रतिविम्घस्य कैतवात् ॥ ३२ ॥

 वासु०-( सद्दर्षस्मितं हरकण्ठे शेपमालोक्य)

निर्मोकवद्यः पृथिवीं वेिभर्त्ति
 पयैङ्कतां याति जगत्पतेर्यः
तस्यैव ते मन्दरशैल ! मन्थ-
 नेन्त्राधिकारः फणिराजयोभ्यः ॥ ३३ ॥

 शेपः--( सप्रश्रयम्)-

दन्दशूकस्य कीटस्य शत्तिरेवंविधा क मे ।
प्रभुः करोतुं यत्किश्विन्मयि न्यस्य स्ववैभवम् ॥ ३४ ॥

 महेशः-( सत्मितम्) नागराज ! अविलन्वितं विघेहि मुकुन्दसन्देशम् )

( शेपः सहसा शिवफण्ठादुत्तीर्य नाट्येनोङ्डीय दुग्धाीिधमध्यगतमन्दरमभिवेष्टयति )

 महेन्द्रः-( सहपेोंडासम् ) अये देवा अये देवा ! पूर्ववदेव अवलम्बत नागेन्द्रनेत्रमुभयपाश्र्वयोः । ( सर्वे तथा कृन्वा विलोडनाभिनयं कुर्वेन्ति !| मन्दरस्तथैप तिष्टति )

 महेशः-(विद्दस्य )

सर्वेऽपि कुणयः कृप्ण ! त्वां विनामो सुरासुराः ।
त्वमेपामद्धुतो वाहुर्निप्प्रत्यूहश्चतुर्भुजः ॥ ३५ ॥

 तद्धयवस्यतु भवान् । मा भवतु विडम्ब्र॒ना सुरासुराणाम् ।

 कृष्णः-(सहसोपसृत्य मन्दरमावर्त्तयन्स्वगतं सोत्क्ण्ठम्)

तामम्वुधावत्र विचिन्त्य म्क्ष्मी-
 मुत्फम्पितं निःक्ष्वसितं च दीर्घम् ।

उज्जृम्भते गङ्गदशव्दता मे
 मन्थक्षमः किन्तु सुसंघृणोति ॥ ३६ ॥

 तत्सावहित्थमावर्त्तयामि तावत् । ( इति मन्दरमावर्त्तयति )

 ब्रह्मा-(व्रिलोफ्य सओफौतुकम् ) महेश ! दृश्यताम् ।

क्रीडति भ्रमरकैरिव नृत्य-
 न्मन्दरः सह सुरासुरसार्थैः ।
शेषपुच्छमुखवाहुयुगस्प
 द्राग्गतागतमनोज्ञविनोदैः ॥ ३७ ॥

 महेशः - (सहर्पाक्ष्चर्यम् ) अहो महत्कौतुकं वर्त्तते ! । तधाहि ---

साटोपसम्पातरयप्रकर्पा-
 दुल्लासिनस्तुङ्गतरङ्गफूटाः ।
हस्ता इव क्त्रोघनदुग्घवार्द्धेः
 पतन्त्पमीं मन्दरशैलमौलौ ॥ ३८ ॥

 वासु०-( आकर्णनाभिनयं कृत्वा ) तिष्ठत तिष्टत क्षणम् । निर्गच्छदिव केिमपि विभाव्यते ।

( सर्वे निश्चला भवन्ति )

 वासु०-( सहर्यकौतुफम् )

कथितकुलिशपातदुनिंमित्त-
 स्फुरदुरुमेघविख्क्षगर्जितान्ते ।
ध्वनिरिव मधुरः कलापियूनः
 सुखयति मन्थरवात्पयश्चरोऽयम् ॥ ३९ ॥

( ततः प्रविशन्ति वेदाः )

 वासु०-(ज्ञानेन प्रत्यभिज्ञाय स्वगतं सहर्षम्) दिष्ट्या नूनममी वेदाः समागताः।

 वलिः-( सप्रक्ष्रयम्) भगवन् जगदीश ! साघारणः प्रभ्रुरसि सुराणामसुराणां च । समानभक्तिव्यवसायेपु च परिजनेपु समानप्रसादाः प्रभवो भवन्तीति विचिन्त्यम् ।

 महेशः-( स्वगतम्) अये विभागलालसा दानया !। अप्रियं च तद्दानवारेस्तदेयं तावत् । ( प्रकाशम् ) अयि दानवेश ! अलमुष्ठुत्सुकनया । किमौचित्यमच्युतात्प्रच्ययते ?। तदयमेव प्रमाणम् ।  कृष्णः-( सद्दप स्यगतम् ) साधु सर्वज्ञ ! साधु, यत्किमपि न विशिष्टं सन्दिष्टवानसि । तदेवं तावत् । (प्रफाशम् ) अयेि दानवेशा ! यद्यद्विनिःसरति सागरात्तत्तद्द्यापि सागरगर्भ एव तिष्टतीति सम्प्रधार्यताम् । वस्तुजातं च वेलावने पालयन्तु दिक्पाला अग्निपमनिर्त्र्क्षतयः । सिद्धे समुद्रमथनोद्यमे र्भगाज्ञपा विभागोऽस्तु ।

 वलिः-पथा रोचतेऽच्युताय ।

 कृष्णः-अयि भगवन्तो वेदाः ! समुचितेऽत्र वेलावने व्यपनीपतां तावदयं मथनायासो दिक्पालशुक्ष्रूपया ।

 अग्न्यादिदिक्पालाः-(सप्रश्रयम् ) इत इतोऽत्र भवन्तो वेदा।

( परिक्त्रम्य सर्वे तथा तिष्टन्ति )

 कृष्णः-( सोल्लासम् ) अये देवासुराः ! पुनर्विलोडयत गाढम् । (सर्वे तया कुर्वन्ति )

 कृष्णः-तिष्ठत तिष्टत तावत् ।

( सर्वे तिष्टन्ति )

 कृष्णः-(निरूपणामभिनीय साश्वर्यमूं) गरीपान्कश्चिदिदानीमायाति ।

आयात्यर्वाग्वीचीमालास्फूर्जत्फेनावेगाभोगात् ।
गर्जाभङ्गिर्वल्गत्येपा प्रत्यग्राव्दध्यानोदारा ॥ ४० ॥

( ततः प्रविशत्यैरावतः )

 इन्द्रः-( विलोक्य सविस्मयम्)--

दम्भोलिघातचकितः प्रसभं पुरा यः
 पाथोधिकोणकुहरे निभृतं निलीनः
उत्तुङ्गक्षृङ्गसवलः पृथुमन्धखेदा-
 न्मैनाक एप स पुनर्वहिरभ्युपैति ॥ ४१ ॥

 कृष्णः-(स्वगतम्) दिष्ट्या नूनमपमैरावतः करी । ( प्रकाशम् ) अयि परमेशान ! निर्गतोऽयं गजेन्द्रस्तद्विलोक्यताम् ।

 महेशः-( सहर्षस्मितम्) राजत्वमर्हति कुञ्जरविशेपोऽपम् । 'अधितिष्ठतु शिशिरशिशिरां वेलावनतरुच्छायाम् ।

( ऐरावतस्तथा करोति )

 वासु०-अपि चालयत पुनर्मन्थाचलम् ।

( सर्वे तथा कुर्वन्ति )

 वासु०-स्थीयतां स्थीयताम् पुनः किञ्चिदायाति ।

( सर्वे स्थिरा भवन्ति )

 वलि-( विलोक्य ) अयि वासुदेव ! व्यर्थमिदानीं संवृत्तं मन्दरावर्त्तनं, यदिदमवस्तुभूतमिव किञ्चिन्निःसरति ।

 वासु०--( स्वगतम्.) व्यर्थमेव भवनां मन्दरावर्त्तनम् । अवस्तुभूतं च सर्वं भयतां भविप्यति ।

 इन्द्रः---- साधूक्त्तं दानवराजेन । तथाहि ----

प्राणमारुनहतोल्लसदूर्घ्व-
 क्षीरसीकरकृतोत्करवृष्टिः ।
वार्द्धिमध्यगतपर्वतक्षृङ्गा-
 द्वयाकुलः स्फुदमुपैति हयास्यः ॥ ४२ ॥

 तदघस्तुभूत एवायम् ।

 वासु०-निर्गच्छतु निःशेपस्तावत् ।

( ततः प्रविशत्युञ्चै.श्रवाः)

 वासु०-(विलोक्य स्पगतम् ) अये ! अयं हपराज उञ्चैःश्रवाः सर्वलक्षणसम्पूर्णः श्रूयते । तदेवं तावत् । (प्रक्राशं सपरिहासम्) प्रभो शम्भो ! सर्वलक्षणसम्पूर्णोऽपमश्वमेधपोग्यो हयो दोयतां भगयते हिरण्पगर्भाय ।

 ब्रह्मा-( सपरिहासम् ) अहो ! अस्मासु हरेर्हयप्रतिग्रहं कारयितुमुपचिकीर्पा ।

 महेशः--( सहर्षे विद्दत्य ) अयि कृप्ण ! सेनाङ्गत्वादपमपि हस्तिसविधमघ्यास्ताम् ।

(उञ्चैःश्रवास्तथा करोति )

 कृष्णः-( सोल्लासम्) अये भ्रमयन्तु पुनर्मन्दरं भयन्तः ।

( देवा सुरास्तथा कुर्वन्ति )

 धनदः-(साश्चर्ये सवितर्कम्) अये ! मथनं मन्थरीकृत्य दृश्यतां ताचत्।

प्रहादनं द्रव्यमुदेति किञ्चि---
 दालक्ष्यवृत्ताकृतिसंनिवेशम् ।
यत्फान्तिपूरप्रसरेण वार्द्धिः
 मन्थक्रुधा द्यामधिरोहतीव ॥ ४३ ॥

( ततः प्रविशति चन्द्रः )

 इन्द्रः-- (सहर्पे सवितर्कम् )

किमपममृतकुम्भः किन्नु मन्थापमर्द्द-
 व्यथितजलघिदुग्धस्नेहपिण्डोऽयमीद्दक् ।
किमिदमननुभूतं भूतमाह्लादि किञ्चि -
 त्किमिय नहि विचित्रं स्यात्पयोधौ यिचित्रे ॥ ४४ ॥

 कृष्णः-(स्मरणमभिनीय स्पगतं सोत्कण्ठम्)

तञ्चित्रद्दष्टं किमु वक्त्रमेत-
 दाविर्भवत्यम्चुनिघेः सुतायाः ।
अपि श्रुतं यत्कुसुमायुधस्य
 मृत्युक्ष्त्रयत्वादमृतं जिगाय ॥ ४५ ॥

 ( निपुणं निरूप्य ) अये ! कलङ्ककलुपमन्यदेव किमपि । न तद्वत्र्कम् । ( सखेदं निःश्वस्य )

प्रियामुग्याशया दृष्टिर्धाविता मेऽत्र निर्मले ।
द्रागेवापसरत्येपा कलङ्कगलहस्तिता ॥ ४६ ॥

 ( निरूप्य ) नुनमनेन पीयूपमयूस्वेन भवितव्यम् { ( प्रक्राशम् ) प्रभो ! शङ्कर ! सुधाकरोऽयं सम्प्राप्सः ।

 चन्द्रः-(मद्देशमालोक्य सहर्षे स्पगतम्) दिष्ट्या प्रमथितो मे पिता पाथोधिर्यदेप महामुनिभिरपि दुरासदसन्दर्शनो नयनपथमवलीर्णे भगवान्प्रमथनाथः ।

 महेशः--( सुधांशुमालोक्य स्वगतम्) अये महाफलः संवृत्तः पाथोधिमथ नायासो यदयमासादितो यज्चनां परिवृढः । (प्रकाशय्) अयि कृष्ण !

फकुभि फकुभि चर्पन् शैत्यगर्भान्गाभस्ती- ,
 न्मथनजनितखेदं खण्डयन्यः प्रकामम् ।
अधिवसतु मुहर्त्त वार्द्धिवेलावनालीं
 द्विजपरिवृढ एप ग्रामणीः प्रीणमानः ॥ ४७ ॥

(चन्द्ररतया करोति)

 कृष्णः-(सद्दर्पोल्टम्) अहो ! पाथोधिमथनस्पाद्भुतानि फलानि । तद्भूयोऽभियर्त्ततां मन्दराचर्त्तः ।

(सुरामुरास्तथाकुर्वन्ति )

 वरुणः-(पुरोऽवलोक्य सखेदम्) आः ! किमामूलतो व्पधितः पाधोधिर्पदेताः समुल्लसन्ति शेवृाललताः ! ।

 इन्द्रः-(साघर्येम्)

ताद्दग्विधैर्मेन्दरदुर्थिवत्तै-
 र्विनाशमायुर्जलजन्तवो ये ।
प्राणन्ति ते पश्ट्यन सद्य एव
 झम्पालियाचालितघार्द्धिपूराः ॥ ४८ ॥

 सर्वे सुरासुराः-अहह ! चित्रं चित्रं मोदामहे ।

अङ्गमङ्गगमधिकृत्य वर्द्धते
 तादृगेव वलवान्वलोदयः ।
मन्धशैलपरियर्त्तनश्रमः
 सघ एव शममेति दारुणः ॥ ४९ ॥

 तत्किमेनत् ? ।

 वासु०-( मृिमृश्य) नूनमेना महौपधयो न शेवाललताः ।

( तवः प्रविशन्ति महौपधयः)

 कृष्णः--(महर्यम्)

अम्लानपुप्पभरमम्पदुपास्यमाना
 मृन्युच्छिदस्त्यमिव शङ्कर । पुण्पशीलाः ।
अभ्पागताः शिाव ! महौपघपस्नदासा-
 माशां प्रयच्छ महसा हसिनानलानाम् ॥ ५० ॥

 महेशः-(सइर्पम्)

दुग्घाम्युघौ जन्म सुया सूयमा मा
 परोपफाराप रमप्रफर्पः ।
आमां प्रसद्गेन महानुभाया
 भपन्तु येलापनशानोऽपि ॥ ५१ ॥

 कृष्णः--क्त्रियतां महेशनिदेशः ।

(औपधयस्तथा तिष्टन्ति )

 वायुः--(सोत्साहम्) अयि देवदानवाः ! विवर्त्तयत मन्थाचलम् । अहमपि निजयेगवैभवेन सहस्रगुर्णीकरोमि तद्धेगम् । वितरतु रत्नाकरो दुष्प्रापपदार्थान् ।

(देवदानवास्तथा कुर्वन्ति )

 कुवेरः-(साश्वर्यम्) आस्तामास्ताम् । पश्यत पश्यत विविधवर्णतां महार्णवस्य ।

 कृष्णः ---- (सवितर्कम् )

उत्प्रेह्खन्ति तुपित्कटस्य वहवावह्ने किमेताः शिखाः
 सिन्धुर्दर्शयते पुरन्दरधनुर्निर्जिप्णु किंवा धनुः !
एतत्किञ्चिदुदीयतेऽद्भुतमयं द्रव्यान्तरं किन्नु वा
 यज्जयोतिर्निचयैर्घनं कवचितो नेत्रायते सागरः ॥ ५२ ॥

(तत प्रविशन्ति विविधवर्णानि रत्नानि )

 कृष्णः-( निरूप्य सहर्षम् ) अये ! रत्नानि समागतानि । इदमेतेपु किमपि मांसलं कुटिलं प्रधानरत्नम् । (सोत्कण्ठम् )

क्षृङ्गारिताशेपसमुद्रपूर-
 मिदं मनोहारि न रोचिपैव ।
जन्मान्तरोपार्जितबन्धुकम्पं
 हार्द्दादपि द्रावयतीव चेतः ॥ ५३ ॥

 तदावेदयामिदेवदेवस्य । क्षीकण्ठ । निरूपय निरूपया रत्नानि समागतानि ।

 महेशः-( सद्दर्पम्) अद्य कृतार्था पृथिवी । ननु वक्त्तव्यं समागतानि निघानानि, समागता लक्ष्मीः , समागतममृतम्। तदिदानीम्-

एतेऽत्र पावनशिरोमणयो भजन्तां
 वेलावनाभरणतां मणयो मुहर्त्तम् ।
आयामिभिः किरणबाहुभिरम्बुराशे-
 राप्रश्नकालपरिरम्भमिवार्ययन्तः ॥ ५४ ॥

( रत्नानि तया तिष्टन्ति)

 वासु०--( स्वगतं सहर्पम् ) हृदय ! हृदय ! दिष्ट्या वर्द्धसे कमलावलोकनप्रत्यासत्त्या । नहि नहि महेशव्याष्टृतयो वृथा भवन्ति । (प्रफाशं सौत्मुम्यम्) त्वरध्वं त्वरध्वं सुरासुराः । भ्रमयन्तु भर्वेन्तो मन्धाचलम् ।

( सर्वे तथा कुर्वन्ति )

 इन्द्रः--{ साश्चर्यं संसग्भ्रमम् ) शाम्यतु शाम्यतु ताचन्मथनावर्त्तः । अयनरति किमपिसौम्पतरं वस्तु ।

(सर्वे साश्चर्ये निरूपयन्ति )

 वासु०-( विलोक्य सवितर्कम्)

समुल्लसत्सौम्यम्होमहोर्मिः
सहोदरः किं भवित्तायमिन्दोः ।
अपूरको नेत्रमहोत्सवस्य
मध्ये स तादृङ् न तु कालिमास्ति ॥ ५५ ॥

 इन्द्रः-( निरूप्य साश्चर्यम्) अहो ! सहसैव निर्गत्प स्फुटीवमूव स्त्रीरूपमिदम् ।

 वासु०-( विभाव्य सान्यर्येम्) अहो ! स्रूपमस्याः ।

अधिञ्जलनिधिगर्भ कोऽपि लावण्यवार्द्धि-
र्निवसनि जननिरस्यास्नत्र ननं वमूव ।
भवति हि कघमिर्न्थ योग्यनाऽस्यैव वार्द्धे-
रमृनफरसुधाघा यत्प्रसृतिः प्रश्ट्रात्पा ॥ ५६ ॥

 अपि घ---

अस्याः स्फृरत्कान्तिविमूपिनाव्घेः
कल्लोलदोलानरलाद्गयष्टेः ।
आपृरयन्त्याः ककृभोऽक्षिपझै-
राफन्पमेपाभरणन्यमेनि ॥ ५७ ॥

 (प्रत्पभिज्ञाप स्वगतं सोटफष्ठम्) नूनमिपं गद्गया आलिरुय कधिना मा पपोभिपुस्त्री भविप्पति । तधादि ---

आलेख्ये दृष्ट्घैतां यश्चेतसि परिचयो ममाहुरितः ।
उत्पल्लवः स सहसा सहस्रभासत्वमभ्येति ॥ ५८ ॥

(ततः प्रविशति लक्ष्मीः)

 लक्षमीः--हद्धी ! हद्धी ! अहो मह हअजीवस्स कदिणत्तणं ज एआरिसे वि विसमवैअरे ण णीहरदि । (पुरः कृण्णमालोक्य सप्रत्यमिज्ञमिव ) कघं आलेक्खदिट्ठं तं सुहृअं अणुहरदि एसा रूवरिद्धी । (निःश्वस्य ) अहवा कृदो एआरिसाइं भग्गाइं ? । किं करेमि । तहवि अहिरमदि इघ मे दिट्टो । (इदि अभ्रमवलोक्रते)

 वासु०-(स्वगतं सद्वर्षम्) हृदय ! दिष्ट्या वर्द्धसे । महत्यपि सम्भ्रमे साकृतमिव दृष्टमस्याः । तथाहि-

साभोगवेगमथनक्लमम्भृतोप्म-
 क्षीराव्घिवोचिपटलीपरितापितानि ।
अङ्गानि मे शिशिारयन्ति सरोम्हाक्ष्या
 अक्लिष्टमुग्धलहरीसुह्टदः कटाक्षाः ॥ ५९ ॥

 महेशः-(लक्ष्मीं दृष्ट्वा स्वगतम्) नृनमिपं सा भाविनी पुरुपोत्तमस्य वल्लभा लक्ष्मीस्तदेवं तावत् । (प्रकाशं साकूतम्.) अयि पुरुपोत्तम ! समुद्धरैतामद्वितीयामशरणां पाणिग्रहणेन योपिनम्[३५८]

 लक्ष्मीः-(स्वगतं सइर्पम्) कघं एसो पुरिसोत्तमो ! । एदं एस कोवि अवरो महाणुभावो आदिशदि ! ता किं अयुकंपिस्सदि मं पाअवर्ह [३५९]

 वासु०-एप सम्पादयामि शिवनिदेशम् । (इति पार्णि प्रसार्य लक्ष्मीमानयति)

 लक्षमीः ---- (स्वगतं सोत्कठं वैकुण्ठमवलम्बमाना ) अच्छरिअं अच्छरिअं


तादस्स महणदुक्खे विरहे चंदादिवंधुवग्गस्स ।
उक्कणे पाणाणं को एसो पहरिसो जाओ ॥

 ( प्रकाशं विवृत्य समुद्रमवलोक्य सखेदम्) अहो मे पिदुणो महणवेअणाए पज्ज्ञाउलत्तणं ।

 वासु० ---- ( सोल्लासम् )

मुक्ष्च सुभ्रृ ! भयमेप ते पिता
 प्रार्थ्यते न खलु मत्यतेऽम्वुधिः ।
आगतान्वदति देवदानवा-
 न्मन्दरस्तमवहेलनिप्ठुरम् ॥ ६० ॥

 (स्वगतम् ) इयदेय मे सुखं, परार्थः कायल्केशोऽपरः । ( इवि सव्रीडं कथठ्कथमपि कण्ठात्तामवतारयति )[३६०]

 लक्ष्मीः-(सद्दर्पमात्मगतम्) अणूभूदं मए अमअं, अणुसूदो चंदो, अणणुभूदं मए एअं वअणमहुरत्तणं । ता णूणं एस सो ज्जेव सुहओ । संवदन्ति ते गंगादो आअण्णिदा गुणा एदस्सि[३६१]

 वासु०-( सप्रश्रयम्) अपि परमेश ! आगतेयं लक्ष्मीः ।

 महेशः-कृप्ण !कृप्ण ! प्रथमत एव मया ज्ञातं, यत्तरलापितमस्पा जनन्या रत्नाकरपत्न्या मम मौलिमन्दाकिन्या । ( गङ्गां प्रति ) अयि गङ्गे कामरूपे ! विश्रमय वेलावने कभलालयाम् ।

( गङ्गा सहसोत्थाय तया करोति )

 वलिः--( स्वगतं सविपादम्)अहो ! दुराशयतामिव महेशकेशवादीनामवघारयामि । पदैते धारयन्ति, न विभजन्ते पाथीधिमथनोपात्तानि वस्तूनि । ( सावज्ञम् ) भवतु । पश्चादपि वाहुवलेनैव सुलभानीतराणि वस्तूनि, यावन्न


दिविपदः पीयूपं निपीयामरा भवन्ति । तदमृताविर्भावसमये मया अवहितेन भाव्यम् । तदेवं तावत् । (प्रकाशम्) सखे कुजम्भ ! एह्येहि ।

 कुजम्भ०-(प्रविश्य ) किमादिशयते ?

 ( वलिः । कर्णे एवमेव )

 कृजम्भः'-( सहर्पोल्लासम्) सिद्धमेतत् ।

 इन्द्रः--अगवन्नारायण ! त्वत्परायणोऽयं व्यवसायः । किमिदानीमेव भन्दायसे ? ।

 वासु०--( मन्दरमावर्त्तयन्स्वगतं सोत्कण्ठम्)

यावद्वभूव हरिणार्भकलोचनाया-
 रत्रासप्रगल्भपरिरम्भसुखोपभोगः ।
वाह्वोर्यलं मतिवलं व्यपनीय काम-
 स्तावद्विडम्वयति मां करवै किमत्र ॥ ६१ ॥

 ( प्रकाशं सावहित्थम्) अयि गीर्वाणाः ! अयि दानवाः ! सर्वप्राणेन परिभ्रमयत पुनर्मन्थाचलम् ।

( सर्वे तथा कुर्वन्ति )

 धनदः--पश्यत पश्यत कुम्भानामिव_मुखान्युत्प्रेङ्खन्ति ।

 इन्द्रः-( ससम्भ्रमम् ) आस्तामास्तां तावन्मन्दरावर्त्तनम् । कथं समग्रा एव कुम्भाः समुत्तरन्ति । ( सवितर्फम्) किममी स्फुदितत्वाद्विविक्त्ताः कथमन्यथोत्तानमुग्खास्तरन्ति ।

 धनदः-( सवितर्कम्) विचिन्रा किमियमुत्तानमुखी कौम्भो नौरद्भुतनिधौ पयोधी ! ।

 वासु०-(निरूष्य सहपैम्)

कौम्भी ध्रवं नौरियमभ्युपैति
 विनिर्मिता किन्नु निधानकुम्भैः ।
यस्याः प्रसिद्धा भुवनत्र्नयेऽपि
 दारिघवार्द्धेस्तरणे प्रसूक्त्ति ॥ ६२ ॥

 इन्द्रः-(साश्चर्यम् ) कृप्ण ! कृप्ण! पश्य पश्य उपनिधानकुम्ग्तं किञ्चिदपरं विनिर्गच्छति । ( क्षणं निरूप्य सहर्पाक्ष्चर्यम् )

कुम्भोऽयमम्भोनिधिपूरमध्पा-
 दत्यद्भुतः कोऽप्युदयांत्रभूव ।
असंस्तुतं किञ्चिदुदयन्ति
 यद्भन्धयाहाः परमप्रमोदम् ॥ ६३ ॥

 कृप्णः-( सद्दर्पे स्पगतम् ) नृनमनेन पीयूपकुम्भेन भयितव्यं, यद्स्प सन्दर्शनादेव ममाप्यन्तरात्म्मा प्रहर्पव्याकुलतामुपैति । ( प्रकाशं सद्दर्पम् ) महेश! महेश ! दिष्टवा वर्द्धसे पोयूपसमागमेन । निघानकुम्भा अप्पमी समागताः ।

 महेशः-( सद्दर्पे ससम्भ्रमम्) कृप्ण ! कृप्ण ! अवहितेनात्र भवता भवितव्यम् । स्वयमेव सन्भाययन्तु वेलावनं निघानकुम्भा । आहय समर्पय हुतमुजः पीयूपकुम्भम् ।

 कृष्णः--( सद्दर्पमुघै:फारम्) पायनशिरोमणे पावक ! एघ्येहि ।

 वलिः-(ससग्भ्रममिप ) सखे कुजम्भ ! स्ययमेव देवदेवो जनार्दनः पायफमाह्वपते । तत्त्वं गत्वा समानय वेलावनात्पावफम् । (इति काक्षेण यीक्षने )

 कुजम्भः-( सद्दसा निर्गत्य पावपचेपः प्रविश्य सप्रश्रयम् ) क्रिमादिशति देयदेचः केशयः ? ।

 कृप्णः-( मद्दर्पम् ) सखे शोचिःकेश ! मुग्पमसि सर्वेपां, मुग्प्योऽसि सर्वेपु, तद्गृहाण पीयूपफुम्भम् । ( फुजम्भं प्रतीन्छति )

 कृष्णः--(प्तोपहाममिइ ) सखेशिष्विन् ! किं पुनत्नवं मन्दतेजाः संघृत्तः? ।

 कुजम्भः-( सप्रश्रयम् )फिमस्मदादीनांत्यत्समीपेऽपि तेजः समुदीयते? ! ( इति निप्फामति )

 वलिः--( स्वगवं सद्दर्पम् ) साघु साघु समर्धितं फुजम्भेन ।

 वासु०-( महर्पोमाहम् ) अयि दानपाः ! कृनकृत्पाः मंपृत्ताःस्मस्तदिदानीमुद्दामरभसाः सहस्त्रमुणवलेन चलयन मन्धाचलम् ।

( सर्ये तया गुर्पन्ति )

 वायुः-( सभयम् ) अहह ! क्रुद्धमिवेदानीं चैवर्ण्यमापद्यमानमम्भोनिधिमवलोकयामि । इतश्च कश्चिहुष्टो जलजन्तुरिव निर्गच्छति ।

 इन्द्रः-( सम्यग्विभाव्यं ) नैप जलजन्तुः ।

भीपणोऽतिकुटिलः कठिनात्मा
 मर्मकर्त्तनचिचक्षणवक्रः ।
अङ्कुशः खल इवैप पयोधे-
 र्दुष्टचेष्टिननिधिः समुपैति ॥ ६४ ॥

 धनदः-( साश्वर्यम्) पश्यत पश्यत । इतश्चायम्-

दुःसहः सुरपतेरिवृ दण्डो
 दण्ड एप समुपैति कठोरः ।
यद्भयेन जलजन्तुसमृहो
 दूरतोऽपसरति कचिदव्धौ ॥ ६९ ॥

 वायुः-( समयम्) समुल्लसत्कान्तिषूरानुसारदृश्यमानशरीरो मीनः कश्चिदितोऽभिवर्त्तते ।

 इन्द्रः-( निरूप्य ) मैवम्

आयर्त्तते तिमिरयं यदि तत्किमस्य
 स्पर्शाद्विदीोर्णतनवस्तिमयो म्रियन्ते ।
सक्त्ताभिरामपुलकोत्करसङ्कलाङ्ग-
 स्तद्वारिधेरयमुदश्चति मण्टलाग्रः ॥ ६६ ॥

 वासु०--अयि परमेश ! पश्य पश्य । परिकुपितः पारावारः ।

 महेशः- ( साप्पज्ञम् ) किमस्य सैनिकाः सायुधा विनिर्गता उतायमेव स्वयमुदायुघो विक्रामति ?। गभीरोऽयं महात्मा वैदेशिफः कोपप्रकारेषु । मथनायासोल्लुसितानि महानुभावानि स्वयमायुधानि निप्कामन्ति । तदेतानि साधिदैवतानि नमस्कृत्य वासय वेलावने । देवानामेवैतानि सुलभानि महते फलाय भविप्यन्ति ।

( कृय्णः तथा कृत्वा पुनस्तथैव मथनावर्त्ते प्रवर्त्तयति )

 महेन्द्रः- ( विलोक्य साश्चर्यम् ) कृष्ण ! कृष्ण ! पश्य पश्य । आश्चर्यमयं किमप्यतिप्रमाणं मरकतरत्नं समुल्लसति ।

 वासु०-( निरूप्य )

आनन्दसन्दोहनिदानशक्त्ते
 रुदीयते पात्रामिदं सुरायाः
तद्भधगाध्यग्रहगाढलग्
 भृङ्गोत्करैमरकतं विभाति ॥ ६७ ॥

 धनदः-( ससन्भ्रमम् ) अत्याहितमत्याहितम् पश्यत तावदितः।

इहोपरिप्टाद्विहगा भ्रमन्तः
 कल्लोलवातोपहताः पतन्ति ।
परासचोऽमी तिमयो भवन्ति
 द्रागारनालत्वमुपैति दुग्धम् ॥ ६८ ॥

 इन्द्रः-( विभाव्य ) पश्यत पश्यत । विनिर्गतैव काचिदिह वल्ली ।

 कृष्णः-( निरूष्य ) नूमं विपमिदम् । अहह! अत्याहितमापतितम् । शिव ! शिव ! सुरा समागता, विपं चागतम् ।

 महेशः --- (ससम्भ्रमम् ) कृष्ण ! कृष्ण ! साधिदैवतं द्रव्यद्वमिदं प्रसाघ वेलावने निवेशयतु भवान् ।

( कृष्णस्तथा करोति )

 महेन्द्रः--( सरभसम् ) अयि सुरासुराः.! तथेदार्नी समधिकबला विरचयत विलोडनं , यथा समासादिताङ्भुतपदार्थाः पुनर्विलोडनाय न स्पृहयामहे । ( सर्वे तया कुर्वन्ति )

( नेपथ्ये कलकलः )

 वासु०-( समाकर्ण्य ससम्भ्रमम् ) आः !कएप मन्दरापरपार्श्वे सुरासुराणां भोपणः कलकलो विजृम्भते ? ।

( पुनर्नेपध्ये )

धूमः प्रेद्वति कोऽपि सार्द्धमशुचिर्नेत्राणि निर्वासयन्
ज्वालौघामृतमारणाप्रणयिनः प्रङ्खन्ति पक्ष्चदमी ।

दुग्धप्लोपविरूक्षगर्वविपमच्छङ्कारवाचालितः
 क्षीराब्घिः पुनरेति मेचकरुचिः कोऽप्येप वोपर्युधः ॥ ६९ ॥

 वासु०-( सभयं साश्चर्ये समन्तादलोक्य ) कथमहह! क्षणादेव न किमपि पशयामि ।

नष्टः कुत्र महार्णयः क्क नु ययौ तादृक्स मन्थाचलो
 विद्राणः क फणीश्वरः क्क नु गतास्ते हन्त देवासुराः ।
दिकूचक्रं ज्वलयन्निरडुशमिलदद्धोरान्घकारोर्मिभिः
 पातालायितरोदसीपरिकरः कोऽयं प्रकारोऽभवत् ॥ ७० ॥

 महेशः-( ससम्भ्रमम् ) अयि कृप्ण ! पालने तव नियोगस्तदिदानीं सह देवासूरैः समुद्रमथनोपात्तवस्तृनि गृहीत्वा क्कचित्परिपालय । अहमेनमनर्थं शामयामि ।

( इति निष्फान्ताः सर्वे )

प्रथमोऽङ्कः


( ततः प्रविशति कपटकामिनीवेपो चैकुण्ठः सखीवेपो वैनतेयश्च )

 वैनतेयः-( सहर्षम् ) अपि जनार्द्दन ! सकलजगद्रूपस्य केयं भवतोऽद्रुतरूपनिर्माणनैपुणे क्ष्लाघा ? । अद्य पुनर्यदिदं भवना वनितारूपमाविष्कृतं नहि तद्भवनाप्यनुभूतपूर्वम् । किं पुनरयं पुरुपशून्ये वेलावने निकुञ्जे निरर्थको भवता सफलीकृतमदनप्राक्त्तनसुकृतपरिपाको हेवाकः प्रसार्यते ? । तथाहि-----

दृशोर्द्वन्द्वं खेलत्यलसमलसं कर्णसविधे
 नटन्ती भ्रूवल्ली कुसुमविशिखं वीजयति च ।
मुहुः स्मेरस्मेरं मदयति मुखाम्भोरुहमिदं
 स्वतः क्षोभं यास्सि त्वमपि मुकुरं पश्यसि यदा ॥ १ ॥

 वैकुण्ठः-सखे वैनतेय ! अर्थक्षृङ्गारोऽयमद्भुतो महतेऽर्थाय प्रगल्भते । हेवाकाभिनयं चात्राकस्मिकपुरुपागमनशङ्कया प्रसारयामि ।

 वैन०-( ससम्भ्रमम् ) कथं शब्द इवेह क्षूयते ! । न्नृनमायाति कश्चित् ।

 वैकुण्ठः-( साशङ्कम् ) सखे वैनतेय ! तदितःप्रभृति योपिद्भावाभिनयार्थश्मावाभ्यां प्राकृतभापया तदनुरूपः कृनार्थीकृनकुसुमचापः संलापः क्रियताम् ।

 वैन०-( पत्रान्तरालैरालोक्य अपवारितकेन ) आयात एव सानुचरः कश्चिन्महानुभावः पुरुपविशेप ।

( ततः प्रविशति वलिः कुजम्भश्च )

 वलिः--( सपरितोषम् ) सखे कुजम्भ ! साधु साधु भवता कृर्त, पन्महता नैपुगेन पीयूयमानीोतर्मं । किं पुनः पीयूपं लब्धमप्यलब्धमेव, यन्मया न समासादिता जलधिकन्यावमानिलावण्या कापि कन्या ।

 कुजम्भः--( स्वगतं सजुगुष्सम् ) अहो ! अस्प मदनमोहान्घता, पदयममृतं कामिनीसमागमादधरमवधारयति । ( प्रकाशं सप्रश्रयम्)तदपि न भवतो वळवद्भाग्यस्य वलेर्द्धष्प्रापमवधारयामि ।

 वैकुण्ठः-( स्वगतं सोपहासम्) द्वयमपि दुप्प्रापं भविप्पति ।

 वलिः-सखे कुजम्भ ! किं पुनरितो मृगमदामोदः प्रवर्त्तने ? ।  कुजम्भः--(आव्राणमभिनीय साश्चर्यम् ) अयि दानवेश !

नायं विपिनलतानां सहस्रशाःपरिचितो हि तद्गन्घः ।
मृगमदपरिमललहरी पिशुनयति किमप्यधिष्ठानम् ॥ २ ॥

 तदुत्थाय निरूपयामि तावत् । ( तथा कृत्वा सहर्षाश्चर्यम्) दानवेश ! एह्येहि कृतार्थय चक्षुपी । अद्यप्रभृति ते सफलं जन्म ॥ अदृष्टपूर्वं पश्य कन्यारत्नम् ।

( वलिः सोत्कण्ठमुत्तिष्टति )

 वैन०-( अपपार्य ) वैकुण्ठ ! अभिनीयन्तां विप्रलम्भानुभायाः ।

 वैकुण्ठः-( स्वगतम् )

तैस्तैः पूथुक्ष्वसितपाण्डिमतानवाद्यै-
 र्ये विप्रलम्भमभिनेतुमहं समीहे ।
सोऽयं पयोनिधिसुताव्यवधानदुःख-
 सन्धुक्षितो भवति सम्प्रति सत्य एव ॥ ३ ॥

 वैन०-पियसहि मोहणिए ! किं उण अत्ताणं अणवेक्खिय एवं उत्तम्मसि ? । साहेसु मे शिाविणाअदिट्ठ तं सुहअं [३६२]

 मोहनिका-णिउणिए ! अलं साहिदेण । णहु णहु तेण सारिक्खेण तिहुअणम्मि कोवि अत्थि[३६३]

 वलिः-( आकर्ण्य सोत्कण्ठम् ) किं पुनरित्धमद्भुतसम्भावनया सुकृती सुदृशा कृतार्थाक्रियते ।

 कुजम्भः-एहि तावत्प्रकटीभवावः ।

( उमावुपमर्पतः )

 निपुणिका--( सहमोत्याय सप्रश्रयम् ) मद्दाभाअ! पणामोभट्टिदारिआए [३६४]

 वलिः--{ सगन्दम् ) अभिलपितमासादयतु भवद्भर्तृदारिका ।

 वैकुण्ठः-( स्वगदम्) गद्भदगलिताक्षरापि सम्पूर्णेयमुपश्रुतिर्भविष्यति ।


 कुजम्भः- ( उत्तरीयमासनवत्कृत्वा ) इदमलङ्करोतु दानवेन्द्रः ।

 वलिः--( उपविश्य सहपोंत्क्रठं स्वगतं साश्चर्य )

अनुभूतपूर्वमित्थं स्त्रीरत्नं न खलु वेधसः शिल्पे ।
मदनस्य भुवनजयिनः शाक्त्तिमीयामयी किमियं ? ॥

 (प्रकाशं सखीरूपं वैनतेयं प्रति) भद्रे ? केयं भवद्भर्तृदारिका ? । किं निमितमुत्ताम्यति ? ।

 निपुणिकावेपो वैनतेयः-महाभाअ ! एसा खु कमलाए कणिट्ठा समुद्ददुहिदा ! जदोपहुदि इमीए कोवि अब्भुदरूवो सुहओ सिविणए' पुलोइदो तदोपहुदि अव्भंतरविअंभमाहुड्डामरवेअणाए णिविडविलयावगुण्ठणा किलम्मदि । परं परमसाहसिअव्च ण वीहेदि मरणादो अण्प्गहा--

अग्याइ करुणअं का झंपइ का मलयगंधवाहम्मि ।
का जीविए सअण्हा कलअंठकुहूझुणिं सुणाइ

[३६५] ॥ ४ ॥

 ( साकृतरिमतम्) संपइ उण तुम्हाण दंसणादो पहुदि किंपि किंपि आसर्त्ति व विहावेमि । का मुणेदि अत्थि तुम्हाण सिविणयदिट्ठसारिक्खं ण वेति[३६६]

( निपुणिकावेपं वैनतेयं तर्जयन्निव तिर्यगवलोकनैः सव्रीडमधोमुखं तिष्टति )

 वलिः-( सौत्सुक्यं सोत्कण्ठम्)--

मामनुगृहाण मुग्घे ! दृक्पातैरमृतपाटवग्रहिलैः ।
जीवितमजीवितं मे सम्प्रति सुभ्रु ! त्वदायत्तम् ॥ ५ ॥

(पैकुण्ठः अवाड्मुख एव सस्मितं पश्यति )

 वलिः-( सहपोंत्कण्ठ म् ) ---

लोचनसरोजमाला प्रेमगुणेनेयमद्भुता ग्रथिता ।
विक्ष्राम्यति मयि दिष्टया सुतनोः संवरणमालेय ॥ ६ ॥


 (प्रक्राशम्) सखे कुजम्भ ! सम्भावितोऽस्मि सुदृशा प्रसादेन । किं पुनश्चिरयति गुरुर्नो भगवान्भार्गवः ? । स हि मया अमृतप्राशनमहोत्सवे अग्रासनार्थं सन्घानकं प्रेप्य समाहृतस्नत्कि सन्धानकः पङ्गु कर्मान्तरव्यग्रो वा गुरुः ? ।

( तवः प्रविशति सन्धानकेनानुगम्यमानो भार्गवः )

 सन्धानकः-( सप्रणामम्) दाणवेस ! एसो भग्गवो गुरू संपत्तो[३६७]

( वलिः ससम्भ्रमं यथावदुपस्थाय प्रणमति )

 शुक्रः-( सद्दर्पम्) वर्द्धनां वर्द्धतां कलिः। ( स्वगतं सवैलक्ष्यम्) आः कथं मे हर्पभरव्याकुलस्य वलिरिति वक्त्तव्ये कलिरिति समागतम् ! । भवतु । यातु तावदविदिनमेवैनत् ।

 सन्धानकः-( वृषीमुपनीय ) अलंकरेदु एदं अज्जो[३६८]

 शुकः-( उपविश्प कन्यारूपं वैकुण्ठमालोक्य स्वगवं साश्चर्यम् ) अहो अदृष्टपूर्वमद्भुतमिदं स्त्रीरूपं प्रजापतेः सर्गे । तत्वेयं भायामयीव ? ।

(रुत्रीरूपो वैफुण्ठम्तथैत्र सव्रीडमास्ने )

 वलिः-( सद्दर्पम् ) भगवन्भार्गव ! रत्नाकरस्य तनयेयमपरा रूपोपहसितकमलालया मयि सरागा । अनःपरं भगवान्प्रमाणम् ।

 शुक्रः- ( सद्दर्षम्) किमत्र विमृश्यमस्ति । निप्प्रत्यूहो भव सर्वाभ्युदयपरम्पराणां पात्रम् ।

( नेपथ्ये )

 न मन्यते सुदारुणं दैवमेनत् । यदेनैर्गृहोनसकलसमुद्रोपार्जिनद्रव्यैर्देवैरपहस्निताः परित्यक्त्तसमराङ्गणाः समापतन्नि विक्लवा दानवाः ।

 वलिः-( सक्रोधमुत्थाय ) आः ! किं दुर्यलो वलिः संवृत्तः ? , यदेवं भविप्यति ।

 कुजम्भः-सज्जय सज्जय सैन्यानि ।

 शुक्रः-(वामाक्षिम्पन्दनं सूचयित्वा स्दगतं सविपादम् ) आः ! कथं मदुपश्रुनिदुर्निमित्तं दुर्निमित्तान्नरमप्यनुवर्त्तते । तदेवं तावत् । ( प्रकाशम् ) अयि दानवराज । न युज्यते तदाजिमहोत्सयः । सम्प्रनि समुदिना देवाः ।


 वलिः--(सोपहासम् ) गुरो भार्गव ! जानात्येव भवान्वलेर्वलम् । तत्किमिदमुच्यते ? । ( ससरम्भम्)

मद्दोःस्तम्भविघूर्णितेन तरसा येनैव मन्थाद्रिणा
 पाथोधिः स तथा तथा प्रमथितस्तद्द्रच्यजातं ददौ ।
तेनैवाघ वृथा भुजोष्मचपलान् निप्पिप्य दैत्पद्रुहो
 भूयोऽस्याः पितरं करोमि सहसा दुर्द्धर्पहर्पोत्कटम् ॥ ७ ॥

 शुक्रः--- दैत्यपते ! कृतामृतप्राशनस्य भवतो मृत्युञ्जयस्य सुखावहः समरारम्भः ।

 वलिः ( सगर्वम् ) गुरो ! भैपज्यमात्रमिदं पीयूपमू । किमनेन? ।

असागरोत्पन्नमतीव चित्रं
 पीयूपमेतद्भुजयोर्द्धयं मे
निर्माय यद्वैरिकुलावसानं
 ममामरत्वं सहसा विभर्त्ति ॥ ८ ॥

 प्रतिज्ञात॒मिदं मया भगवतो गुरोः पुरतः ।

पीयूपाभ्यधिकं प्रहर्पसुहितान्संसारयात्रात्यजो
 धारातीर्थगतायुपः प्रतिभटान्कृत्वा रणप्राङ्गणे ।
त्वय्यग्रासनपूजिते कुलगुरौ सार्द्ध सुहृद्वान्घवैः
 मोहिन्या सह कान्तया सरभसः प्राप्नोमि नो वा सुधाम् ॥९॥

 मोहिनीचेपो वैकुण्ठः-( स्वगतं सहर्पम् ) दिष्ट्या भग्नस्तावद्भार्गवस्प मन्त्र । दिष्टया कृतान्तदोलामिव दुप्प्रतिज्ञामारूढो वलिः ।

 शुकः-( सक्रोधम् ) बले ! अवसन्नं दामचकुलं यदेवमसद्ग्रहगृहीतो भवान् । तदप्यववोधयामि भवन्तम् ।

चरित्रं पातङ्गं यदसिशिखिनि प्रापुरचिरा -
 न्महादैत्यास्ते ते मधुमुरहिरण्याख्यनरकाः ।
इदानीं घैकुण्ठः किसु स महिलाभावमूगम-
 घदेतत्प्रागल्भ्यं स्फुरति भवतो दोर्मदमयम् ॥ १० ॥

( वैकुण्ठवैनतेयौ साफूतमन्योन्यमयलोफ्य संवरणं नाटयतः )

 वलिः-(सगर्रम्) गुरो भार्गव ! किं प्रलपसि ? । महिलैघ ममाप्रतो वैकुण्ठः । एतदेव भघतामहमभ्यर्थये

विचित्ररूपामनुयन्धिरागां
 स्वयं समेनां महते सुखाय ।
कन्यामपूर्वी परिपालयैतां
 माभून्ममायं विफलः प्रयासः ॥ ११ ॥

 सखे कुजम्भ ! उपनय मे पीयूपभाजनम् ।

( कुजम्भः उपनयति )

 वलिः--( पीयूपनमादाय कन्यावेपं वैकुण्ठं प्रवि )----

पीयूपमेतद्दपिते ! गृहाण
 त्वमेव पीयूपमिदं वृथा मे ।
सम्पूर्णाकामा कतिचिन्मुहूर्तै-
 र्भव प्रिये यामि रणोत्सवाय ॥ १२ ॥

( इति पीयूपपात्रमग्रतो धारयति)

 कन्यारूपो वैकुण्ठः-(सकरुणं सगद्गदमिव )समरविजयत्थं पउत्ये अघ्चउ( इत्यर्घोक्त्ते सलज्जमिव सगद्गदम् ) दुवे तिण्णि मुट्टुत्ताइं पडिवालइस्सं । पुणो एदं णिरुवउत्तं तणुं पावअसमागंमि परिच्चइस्सं[३६९]

 वलिः-(ससन्भ्रमम्.)सुभ्रु! क इदानीं शोफावसरः ? आगतप्रायोऽहम्।

( इति त्वरितपदं निष्त्र्कमति )

 स्त्रीरूपो वैकुण्ठः-( स्वगदं सहर्पम्) सिद्धं समीहितेन महाप्रत्यूहेनेव गनमनेन । तदलमिहस्थितेन । तदेवं तावत् । ( प्रफाशं सलज्जमिव ) पिअसहि ! करेहि हत्ये एदं अमअभाअणं । णिउणिआ खु तुमं । णहु कहवि तुमाहिन्तो एदं पत्र्भट्ठं भोदि । पुणोवि तए एदं आणिदं[३७०]

( वैननेयस्तया करोति )

 शुक्रः-( स्वगतं साशङ्कम्) आः ! परकरे भवति पोयूपं विशङ्कते च ममात्मा तत्किमत्र करवै । भवतु किमनेन वलेरेव दुर्विलसिनमिदम् ।


 वैकुण्ठः--( स्वगतम् ) अलमिदानीं विलम्वेन!( अनुस्मृत्य ) । विद्रवाय पावकमानयामि । ( इति पावकस्मरणमभिनयति )

 शुक्रः-- (समन्तादचलोक्य ससम्भ्रमम् ) आः किमतेत् ?

विशालज्वालाभिः कवचयति दिकूचक्रमचिरा-
 न्महाधूमस्तोमैर्जनयति नभः पीवरतरम् ।
अतिक्काथादूर्द्ध तरलयति च क्षीरजलधिं
 विना कल्पापायं प्रसरतितरां कोऽयमनल: ? ॥ १३ ॥

 अपि च---

धूमस्तोमकदर्थनादिघ गतं कुत्रापि तिग्मत्विपा
 तत्कृत्यः क्रिपते तूदेप शिखिना शश्वत्प्रकाशः स्वयम् ।
ज्वालाजालपरम्पराभिरनिलव्याधूणिंनाभिर्चला-
 द्भूयो विश्वमिदं हिरण्मयमहाव्रह्माण्डभाण्डायते ॥ १४ ॥

 तत्किमत्रोचितम् ? ।

 वैकुण्ठः--पिअसहि णिउणिए ! । पात्थि तस्स सुहअस्स भइं । ता एहि जलणपसंगेण अत्ताणं कअत्थं करेम्ह[३७१] । ( उभाचुतिष्टतः )

 शुक्रः-( स्वगतं साशङ्कम् ) अहोऽस्याः पूर्वानुराग एव मरणान्तं प्रेम । गृहीतामृतैव चैपा पावकप्रवेशमारभते । तद्द्वयमपि न मया परिरक्षिनम् । भवतु वारयामि । ( प्रकाशम् ) अयि कल्याणि ! किमकल्याणमिदमकस्मादारभ्यते ? ! प्रतिपालय कतिचिन्मुह्रर्त्तान् ।

 वैकुण्ठः-- ( सविपादं सलञ्चमित्र ) अघ्य ! किं अणय्पोचिदं मन्तेसि ! एवं य्येव तस्सि तुद्दसिस्से वद्धरागाए मह उचिदं भोदि[३७२]

 शुक्रः-अयि मुग्घे! तवामृतस्य च रक्षायै त्वत्समक्षमेव दानवेक्ष्वरेणाभ्यर्धितोऽस्मि । तद्यदेि वार्यमाणा न निवर्त्तसे तद्ग्निस्तम्भमपि करिप्ये ।

 वैकुण्ठः--( स्वयतम् ) हस्ते गतं तावदमृनं संवृत्तम् । तदिदानीमस्यापि पश्यामि कौतुकम् । (प्रकाशम् ) करेंदु अज्ञ्लो जं उचिदं भोदि[३७३]


 शुक्रः-(अग्निस्तम्भमन्त्राभिनयं कृत्वा साश्चर्यम्) अहह ! ।

विशालफालैः प्रसभं प्रसर्प्प-
 न्नग्रग्रतो इम्पति तीव्रतेजाः ।
न मन्यते मन्त्रमयं प्रयोगं
 वीरव्रताविष्ट इवैप वह्निः ॥ १४ ॥

(विमृश्य )

अपि लपसमयोत्थे वीतिहोत्रे प्रयुक्ता
 नहि नहि विमुखीस्याद्भार्गवी मन्त्रशक्तिः ।
सततमसुरवंशध्वंसवद्धावधानः
 क्कचिदपि तदिहास्ति फ्रोधनः कैटभारिः ॥ १५ ॥

 तन्निरूपयामि ध्यानेन । (ध्यानाभिनयं कृत्वा स्वगतम्) अहह !! मुरारिरयं महिलारूपस्तत्सम्प्रवृत्तस्नावदनर्थः । किमद्यापि भयेन ? । ( प्रकाशं सगर्योपहासम् ) वैकुण्ठ ! वैकुण्ठ ।

धिग्धिग्सुधां वार्द्धिविलोटनोत्थां
 घिग्घिफ् च तहुर्लभवस्तुजातम् ।
किन्नाम नाप्तं दनुजप्रवीरै -
 र्वैकुण्ठ ! यत्त्वं महिलीकृनोऽसि ॥ १६ ॥

 वैकुण्ठः-( सोपदासं मद्दिलारूपं परित्यज्य ) भार्गव ! त्चमेव नयमार्गे निपुणाः । किमित्थं व्याहरसि ? ।

 वैनतेयः- ( स्रीरूपं परित्यज्य सोपहासम्) दैत्याचार्य ! साघयामस्नावत् । त्वमपि गत्वा दैत्यैः सहाग्रासनीभवामृतप्राशनमहोत्सवे ।

( इति निप्कान्ता सर्वे )

द्वितीयोऽङ्कः


( ततः प्रविशति कृष्णो लक्ष्मीश्च )

 कृष्णः- ( लक्ष्मीं विभाव्य स्वगतं सहर्पोत्फण्ठम्) नृनमोदृग्विधस्त्रोसर्गशिल्पे वैदेशिक एव वेधाः । तथाहि-

इन्दोः कलास्त्रिदशपादपपल्लवानि
पीयूपमुज्ज्वलरुचो मणयश्च ते ते ।
यस्याद्भुतोपकरणावलिरित्थमस्ति
 स्रुष्टुं स ए॒व भवति॒ प्रभ्रुरव्घृिरेनाम् ॥ १ ॥

 ( सखेदुम्) किं पुनरिमां विपादवशंवदामिच चिभावयामि ? । ( विमृश्य) नूममस्याः पाणिग्रहणसमयासत्तिमाकर्ण्य कन्याभावसुलभमाविर्भवति वैमनस्यम् । भवतु सम्वोधयामि । ( प्रकाशम् )

मुञ्च प्रिये ! पितृवियोगभयाकुलत्वं
 मेत्रे नियन्त्रयसि किं चरणाङ्गुलीपु ।
त्वत्सौमनस्यसुखसञ्चपनैकनानः
 स्थास्पामि सुभ्रु ! जलजन्तुवदन्तरव्घेः ॥ २ ॥

 लक्ष्मीः-( स्वगतं सद्दर्पम्) एवंपि भोदि, आदु आसासेदि मं सुहओ ? । (प्रकार्शं सबाप्पगद्रदम्) कुदो एदं महणवेअणादो पहुदि दंसणमेत्त॑पि मह दुल्लइं देवदारूवस्स तादस्स एदंय्येव तव रूवं पअडं पेच्छामि [३७४]

 कृष्णंः-अपि सुतनु ! प्रत्यासन्नमेव तव तातदर्शनम् । ननु प्रभुणा पिनाकिना प्रजापतिप्रमुखत्रिदशैरपि लोभवशविहितानौचित्यैरपराधीनमिवात्मानमाशङ्कमानैर्भगवन्तमम्भोधिमानेतुं वरुणः प्रेपितोऽस्ति । गाम्भीर्यावधेश्च तव तातस्य मन्दरावर्त्तमात्रेण का वेदना ? । मथनार्जितद्रव्यजातादपि यद्यद्यस्य महोदधिदस्यति तत्तस्य भविष्यति । तत्समाक्ष्वसीतु भवती ।

 कृष्णः--( विभाव्य स्वगतम् ) अहो सङ्कटं कन्यकानाम् ।

( लक्ष्मीः समाश्वर्स्य सकरुणस्नेहं सागरममलोकते )


ज्ञातिविक्ष्लेपवैक्कृव्यात्प्रियलाभमहोत्सवात् ।
मुहुर्ज्वलति कन्यानां प्रीयते च मुहुर्मनः ॥ ३ ॥

 तदेयं तावत् । ( प्रकाशम्) प्रिये प्रिये ।

आक्ष्लेपलालसमिलद्वहुवीचिवाहुः
 कारण्डवकणिनकल्पितपेशलासीः ।
त्वां द्रष्टुमुत्क इव सम्भृतनेत्रलशीः
 लोलाक्षि ! राजति चलत्तिमिरम्युराशिः ॥ ४ ॥

( लक्ष्मीः सहर्पमास्ते )

 कृप्णः---( वामाक्षिस्पन्दनं सूचयित्वा स्वगवं सविषादम्) आः ! किमद्यापि कोऽपि प्रत्यूहोऽस्ति ? । (नेपथ्ये) कष्टं कष्टम् ।

अह्नाय लुम्पन्निव सर्वलोका-
 नाकाशमाशाः पृथिवीं पिधाय ।
कल्पान्तफालात्तिनये पटीया -
 न्विजृम्भते कोऽपि नटोऽन्घकारः ॥ ५ ॥

 अपि च-

उपार्जिताः सागरमन्थखेदा-
 चन्द्रादयोऽमी परमाः पदाथीः ।
दुर्चातघाघाविधुराः प्रसह्य
 पुनर्यियासन्ति पयोधिमध्यम् ॥ ६॥

 कृप्णः-( क्ष्रुत्वा ससग्भ्रममुचैःकारम्) अयि दिक्पालाः ! पालपतं पालयत मुहुर्त्त xxx xxxxx xxxxxxxx x xx xxx xxxxxx xxxxxx वार्त्तामुपलब्धुं प्रेपिनः । अहं च पीयूपं कमलांचपरिरक्षुन्नस्मि । इह किल र्निरलसा लालसन्ना दुर्दैत्यानाम् । ( सनिर्वेदपेदृम् ) आः ! कथं सोऽपि शिवोऽसत्यशिव इय संवृत्तो यः कालकृष्टमात्रादपि दारुणां विपदमनुभवति ।

( ततः प्रविशाति कृतफपटकपर्द्दिपेपो भार्गपः )

 भार्गवः-(सावेगं ससम्भ्रमम् )-

कृप्ण ! कृप्ण ! विलीयन्ते ममाद्गनि विपोप्मणा ।
देहि देहि तदेतन्मे पीयूपं किं विलम्यसे ? ॥७ ॥

 कृष्णः-( स्वगतं सविपादम् ) आः ! कष्टं कष्टं दृष्टमदृष्टपूर्वम् । अहह !

इदमेव दुर्निमित्तं यद्धोरोऽन्धकारो यद्दारुणः समीरः । तत्पाययामि पीयूपं, न पुनरस्य समीपे पश्यामि वैनतेयम् । अहो महदिदं विमर्शस्थानम् ।

 तथाहि--

दहतु दहतु घोरः शङ्करं कालकूटो
 नहि नहि तदपि स्यादित्थमत्याकुलत्वम् ।
अभिनयमपि दिव्यस्यानभिज्ञो विधातुं
 स हि परतरतेजोमूर्त्तिरधृष्यः ॥८ ॥

 तन्निरूपयामि ध्यानेन ) ( ध्यानाभिनयं कृत्वा सकोधम् ) आः शुक्र वक्रयुद्धे । किमिदं कृतवानसि ? । शङ्करवेपधरोऽसि द्विजोऽसि चेति कृनापराधोऽपि न मे वध्योऽसि । तद्गच्छ यावन्न शिवनयनगोचरतां प्रपद्यसे ।

( शुक्रः सभयं तिरोघते )

( ततः प्रविशति वैनतेयेनानुगम्यमानः शङ्करः )

 कृष्णः--( विलोक्य सप्रश्रयमुत्थाय साफूतंस्मितम् ) नमो नमो निप्कपटशङ्कराय । इत आस्यताम् ।

 शङ्करः-(वैनतेयोपनीतमासनमधिष्टाय सस्मितम् ) कृप्ण ! कृप्णा! केयमद्भुता तवाद्य विट्रेोपोत्तिः ।

 कृष्णः--( सस्मितम् ) किं विज्ञप्यते सर्वज्ञाय ? ।

 शङ्करः-( सद्दर्षे विद्दस्य ) कृते प्रतिकृतं समुचितमारब्धं भार्गपेण । त्वया हि कृतकैनंवकान्तारूपेण वञ्चिता दैत्याः । प्रत्याहृतं पीयूपम् किमुच्यते त्वयैवेदं विचित्ररूपं दिविपत्कार्यनिर्वहणकोटिमारोप्यते । तत्किं चिरयति वार्द्धिमानेतुं प्रेपितो वरुण: ? ।

 कृष्णः--अयि वैनतेप ! त्वमपि महेशादेशेन गत्वा त्वरितमानय सागरम् ।

 वैन०-( फतिचित्पदानि दत्त्वा व्यावृत्य ) आयान्त्यमो व्रह्मादयो देवाः,एप चाभ्पेति वरुणेनानुगम्यमानो रत्नाकरः । तत्किमेनमेते प्रत्युत्थातुं गताः ? ।

 कृष्णः-वैनतेय ! नहि नहि । एते किल भार्गयोत्पादितमायान्धकारदुर्वृत्तविद्रवच्चन्द्रादिघारणोद्विग्ना, न्नृनं तीरदेशे मिलिताः समायान्ति ।

( ततः प्रविशन्ति यथानिर्द्दिष्टा त्रह्मादयो देवा वरुणेनानुगम्यमानः सागरश्च )

 महेशकृण्णौ-(सश्रय्मुय॒यू), अभिवाद्यावहे अत्रभवन्तं जगज्ज्येष्टम् । इत आस्यतां सह महेन्द्रादिभिर्येथायथम् ।

 सागरः--(सप्रश्रयम्) एप वः प्रणमति समुद्रः ।

 कृप्णः-(सगैौरवम्) निपीदतु प्रत्यासन्नोऽत्र सवम्णो भवान् ।

(सागरः तया करोति )

 लक्ष्मीः-(सकरुणं सास्नम्) ताद् । किं एदं संयुत्तं ? । ( इति फण्ठे लगवि )

 समुद्रः-( सफरुणं ) पुत्रि पुत्रि ! मा विपीद् । भद्रं भविप्यति निर्वहणं रुद्रप्रसादेन ।

 महेशः-( अपवार्य ) कृप्ण कृप्ण ! न शक्रोमि मुखमस्य दर्शयितुम् ।

( इति सविपादमधोमुरतस्तिष्टति )

 समुद्रः-( सप्रश्रयम्)

दाक्षिण्पतस्त्रिजगदीशा ! किमाकुलोऽसि ?
 पशय प्रसन्ननयनो मुखमुन्नमय्य ।
श्रेष्टोऽसि मे नहि नहि प्रमुमात्रकस्त्वं
 मन्येऽवमानमपि मानमहं भयत्तः ॥ ९ ॥

 अपि च । नाहं क्लीवोऽस्मि न चान्येन केनापि पराभूतो यदेवं विपीदति देयस्तथाहि--

चञ्चद्वीचिचपेटताडितमुखैर्द्दष्टोऽस्मि दैत्यैः फदा
 मैनाफं परिरक्षितुं कुलिशतः शक्त्तोउहमकेः परम् ।
सम्युद्धोऽस्नि मयाऽन्तरीर्यदहनग्त्रैलोक्यदाहोत्सृकः
 सर्गेऽपि प्रलयेऽप्यग्वण्दृमहिमा शम्भोः प्रसादादहम् ॥ १० ॥

 शङ्करः-( सहर्पे सगौरवम्) किमुच्यते ?

सर्गस्न्वमघस्त्वयि लब्घजन्मा
 ससर्ज सप्तापि जगन्ति वेघाः ।
सर्वोपजीब्योऽसि तवोपजीब्यो
 न सिन्धुराजः फचिदस्नि कश्चित् ॥ ११ ॥

 तदिदं गृहाण द्रव्यजातम् । क्षमस्व नश्चापलम् ।

 समुद्रः-( सद्दर्पे सप्रश्रयम् ) भगवन्भर्ग ! अनुग्रहोऽयं मपि कृतः । किमिदानीं प्रत्यर्पणेन निग्रहः क्रियते ? ।

 शङ्करः-तद्भवानेव स्वमुखेन विभज्य सम्मानयतु देवान् ।

 समुद्रः-एप सम्पाद्यामि देवादेशम् । ( समन्तादुवलोफ्य ) विनोदयन्तु मदुत्सङ्गमाकन्दवियोगवेदनां विरिञ्चिचदनारविन्दकानने सुस्वरा वेदेन्दिन्दिराः ।

( वेदाः सङ्कामन्ति )

 समुद्रः-कृतार्थयतु मां प्रमथनाथशिरोनेपथ्यपदवीमासाद्य सुपुत्रश्चन्द्रमाः ।

( चन्द्रस्तया करोति )

 लक्ष्मीः-( स्वगतं सविषादम् ) कंठम्मि संठिदं मह जीविदं । ण जाणे किं भणिस्सदि तादो ।

 कृष्णः-( स्वगतं सोत्कण्ठम् ) इदानीं मे सुकृतपरिपाकस्य फलावसरः ।

 समुद्रः-( सहर्पम् ) उज्ज्वालयतु मत्कुलं कमलाकरकमलपरिग्रहेण भक्त्तजनानुग्रहग्रहिलो गोविन्दुः । (इति लक्ष्मीपार्णि कृष्णपाणौ निवेशयति ) अयं चास्तु कन्यामहादानस्य दक्षिणाकौस्तुभो मणिः । (इति कौस्तुभमर्पयति )

 कृष्णः-( लक्ष्मीं विभाव्य स्वगतं सोत्कण्ठम् )

ये तनौ सुतनोर्मग्राः कन्दर्पस्य शराङ्कराः ।
मत्पाणिाचुम्यकाकृष्टास्तेऽमी रोमाञ्चकैतवात् ॥ १२ ॥

 समुद्रः-अयं च निप्कन्दयतु दुदोन्रोदेत्यकुलकमलकाननं देवराजाध्यासनोपबृंहितस्तुंरगराजोच्चैःश्रवसहचरः कुम्भीन्द्रः ।

( ऐरावतः सहोञ्चैःक्ष्रयसा पुरुहूतमाश्रयति )

 समुद्रः एतेऽपि सकलजगदुपकृतिपराणां महौपधीनां रत्नानां चाघारतय घन्यतरा भवन्तु भेरुमन्दरादयो धराधराः । (औपधयः सह रत्नैर्मेरुमन्दरादीनाक्ष्रयन्ति )

 समुद्रः स्वीकुर्यन्तु कृतदारिघनिधनानि निघानानि घनाधिनाथम् ।

( निधानानि तथा युर्वन्ति )

 समुद्रः-अङ्गीकरोतु सकलजगदाह्लादकारिणीं वारुणीं कृताहितविनाशं पाशं च वरुणः ( वरुणस्तथा करोति )

 समुद्रः-अङ्लुशं महायुधमादाय प्रगल्भतां रिपुवंशविशसने निरङ्कशो गन्धवाहः ( वायुस्तथा करोति )

 समुद्रः-कलयतु जगद्रक्षापरायणं कौणपनायकः कृपाणम् । ( निर्त्र्क्षतिस्तथा करोति )

 समुद्रः-भवतुच सकलजगत्प्राणशमनः शमनोऽमुना दण्डेन चण्डतरः ।

( यमः सहर्पमुत्यायादण्डमादत्ते )

 समुद्रः-विपमुररीकृत्य दुर्द्धर्पतरा भवन्तु वासुकिप्रमुखा ' महोरगाः विपमतरमिदं च ।

( वासुकिः सहर्पमुत्थाय विपमादत्ते )

 समुद्रः-सर्वदेवमुखमुपर्बुधमधितिष्ठतु पीयूपम् । एतत्प्राशनेन भवन्तु निर्जरा अमराः सुराः । ( पीयूषं वह्निमाश्रयति )

 समुद्रः-(सहर्पोल्लासम् ) अयि भगवन्पीयूपमयूखशेखर !

अद्य त्वया प्रमथनाथ ! कृतः कृतार्थो
 मन्थोपमर्द्दमहमुत्सवमेव मन्ये ।
द्रव्याण्यमूनि वितरन्नमरार्थिसार्थे
 यद्दातृतामुपगतोऽस्मि किमन्यदीहे ॥ १३ ॥

 तथापीदमस्तु -----

औदार्यशौर्यरसिकाः सुखयन्तु भूषाः
 सन्मार्गवासितधिपो विलसन्तु लोकाः ।
वर्पन्तु यद्धपरितोपभराः पयोदाः
 सारस्वतोत्सवमयाः कवयो भवन्तु ॥ १४ ॥

(इति निष्कान्ताः सर्वे )

तृतीयोऽङ्क्ः


इति महकविवत्सराजविरचितः समुद्रमयनाभिधानः समवकारः समाप्तः

  1. आज्ञापयतु महाभागः ।
  2. इन्द्रोऽपि च शासनेन समगमिप्यति । आर्य ! मद्दामुनिः कोऽपि मुनियुगलयुक्त्तः समेति ।
  3. यथा अज्ञापयति स्वामी।
  4. महाभागा ! परित्रायध्वं परित्रायध्वम् । एप खलु प्रचण्डतुण्डाभिहतविगलद्विक्ष्रयन्ञ्लनिपतच्छवरवरवीरशरीरविपमीकृतमार्गः रुधिरौघपिञ्जरितदाढायुतः दारयन्निव सफलभुवनानि धेश्घुरुत्कारैः भीपणः कोऽपि भूदाररुप: अपमृत्युः प्रविष्टः ।
  5. महाभागाः! अस्मान्मा व्रिभीत मा व्रिभीत । एप खलु अस्माकं स्वामी एकवाणेन वारयति दुष्टभूदारम् । उद्वृत्त,महामुनिः ।
  6. कयमेप स मुनिः । अयि भुनीन्द्र ! न त्वमेतेन दुष्टभूदारेण भिरातवाहिनीशपाणघातपेदुनामोहकृतझम्पेन युत्रापि पीडितः ।
  7. रे रे गोमायुक ! कथमनुचितं मन्त्रयसे ! ननु मुनीन्द्रेणैव सम्मुरलमुपसर्पमाण एप दुष्टकोलो व्यापादितः । किं न प्रेक्षसे हस्ते लोहितलिप्तं शरम् ? ।
  8. आश्चयैमाश्चर्यम् । अपूवैः प्कोऽपि कोदण्डमण्डितो मुनिः । अयेि वीरमुनीन्द्र ! स अस्माकं स्वामिनः शरः ।
  9. मुनिवीर ! तनुलतायास्तनुत्वमात्रफलं तव तपः संवृत्तं यदेवमकृतज्ञोऽसि, यदेवं परवस्तुलोभितोऽसि । एप खलु मार्गणस्तव परित्राणपरायणेन अस्माकं स्वामिना दुर्व्विपहवराहे मुक्तः । सम्प्रति त्वमपमृत्युमुसादुदृत्तः।फुल्लद्रल्लोजल्प यत्प्रतिभावि । नखलु अस्माकं स्वामी त्वया निजकीर्त्तिस्तम्भं भञ्जयिष्यति ।
  10. रे रे शार्दूलक ! अस्माकमेप कलङ्की यदस्माकं पुरतो गोमायुको भयं वल्गति ।
  11. रे रे कण्ठीरव! रे रे शार्दूलक! युष्माकं किं किमगोचरोऽस्मद्वाहिनीशवाणानां प्रसरः ।
  12. महाभग ! निमृतं जल्य । इहैव महावनतेिरोद्दितो मा शृणोतु वाहिनीनाथः।
  13. न खलु त्वमहितो मुनीन्द्रस्य यदेवं मन्त्रयसि ।
  14. मुनीन्द्र ! वारितो मया | किं करोमि | आगत इदानीं साहसी स किरातः ।
  15. गोमायुक ! ****** ! कुञ्व स मुनिः ? ।
  16. नाथ ! एप एव स मुनीश्वरः ।
  17. गोमायुक ! एप एवास्माकं विक्रमोत्फर्पमसहमान आसीत् ? ।
  18. रेरे उपसर्प उपसर्प ।
    यद्दुर्ल्लभं दुष्करदुष्करैः तपोभिर्विस्तारिततानयैः ।
    मुनीन्द्र ! तत्ते कृतफर्मनाशं घाणेण निर्वाणमहं दास्ये ॥ ४१ ॥
  19. अयि मुनिवीर ! न श्रुतानि मया तव भणितानि किरातफलफलेन, तद्वारयामि तावदेतान् । रे रे चपलाः किराताः ! एप किं वीरधर्मः यघूये गणनावाह्या, एप च एकःमुनिवीरः । तदुपसरत अपसरत ।
  20. दिष्ट्या खठु मुक्तं चापल किरातैः । उपरतः कोलाहलः ।
  21. उपरतं तावत्किरातैरेव | सम्प्रति तेपा कलकल. कृतान्तनगरे वर्तते ।
  22. मुनिवीर ! दत्ता मया तव प्राणभिक्षा । करोनु भपान्, सरभसं मयि निजशरानक्षतान् ।
  23. किं भण्यने । दृष्टमेप तक् कोद्प्ण्डविद्यामाहात्म्यं, येन त्वं निजकार्याणि साधयितुमप्रमवन् तपस्वीकृनः ।
  24. अहो मे फर्मलाघत्तं संपृक्तं, यत्तव हृदये वाणभिन्ने त्वं तप गुरश्च व्यापादितो भविष्यति ।
  25. रे रे आत्मानं न जानासि, नैनं मुनीन्द्रं जानासि ।
  26. रे !रे! शार्दूलफ! कथं त्वं न वारयसि कण्ठीरवम् । नादिवराहपराड्द्युरसोऽहम् । तेनैवं वल्ग्यते, तत्सम्प्रति तमपि करिप्ये ।
  27. शार्द्दूलक !प्रेक्षस्व प्रेक्षस्व । घटितौ द्वावपि महा-ीरौ कोदण्डदण्डसङ्गरे ।
  28. कण्ठीरव ! प्रेक्षस्व प्रेक्षस्व द्वयोरपि हस्तलाधवम् ! अहो ! पादलाघनंं यत्कौदण्डनिर्मितपञ्जराभ्यन्तरस्यिताविव द्वावपि दृश्येते।
  29. आः xxxxxxxxx xxxxx xxx xxxxxxxxxx xxxx xxxx xxxxxxxxxx xxxxxx
  30. xxxxx xxx xxxxxxxx xxxxxx xxxxxx
  31. सप्ताष्टवासराणि दुरोदरविरहिणो न तम मुरयं प्रलोक्यते ।
  32. विलासनतीइदयस्य न किमपि ते प्रतिभाति ।
  33. मुघु खलु मे कुतृहृलं ताः प्रेमलीला आकर्णयितुं, याभिः सकलमुपनमोहनस्त्त्वमपि मोहितः ।
  34. अर्हति न तन धृर्ते व्यापारः कोऽपि इतरदूतीनाम् ।
  35. तदेव मेयमात्मनो गाय ।
  36. किं पुनः त्वं मुकुलायमाननेत्रो हृदयं ताडयसि पार्णि धुनोपि ? ।
  37. किं पुनः स्मं सहसैव वाधश्क्षोभप्रक्षराविलमुसः संवृत्तः ? ।
  38. यदि एतादृशः कृतार्थीकृतकुमुमशरः परस्परमनुरागन्धः तत्किं तस्या दूतीमय गृहीतमामृतः प्रतिमुजङ्गं मञ्जीरकमनुसन्धितुं गवोऽसीति हासेन स्फुटितोऽस्मि ।
  39. सुष्छु सलु मे कौतूहलं तत्कथय मे विस्तरेण निजदूतत्वम् ।
  40. किं पुन आरम्भ एव हासेन विलुण्ठति भवान् ।
  41. तन्मम पुरतः तमेव प्रकटथ ।
  42. आर्यपुत्र मञ्जीरक ! प्रेपिताऽस्मि तव सकाशं अत्तया फलावत्या भणितं च तया ।
  43. कलदायित आर्यपुत्र एवं जल्यति । स्वमेऽपि नैतत्सम्माव्यते | सम्प्रति खलु

    सा रागभृतहृदया असदृशरूपस्य सकलसुजने ।
    सव विप्रहस्य विरतिमभिलपत्यनन्यव्यापारा ॥

  44. किं तेन विज्ञातं विकृतार्थ तर्वैतद्वचनम् । कुतः विज्ञातम् ? ।
  45. किं तस्या गणिकायाः चन्द्रसेनायाः परिमुष्य तत्त्वया चीनांशुकं कपटप्रामृते मश्वीरकस्य दत्तम् ।
  46. साधु वयस्य साधु । प्राप्तं मया तव मैत्र्या अर्द्धे फलं यत्त्वया चन्द्रसेनायाः परिमुयितं सर्वस्वम् । अहं खळु तया हताशया हारदत्तदुत्तहृदयया निर्धनीकृतोऽस्मि ! तदा पुनः समग्रं फलं भणितव्यं यदा हारदत्तस्त्वया कुत्रापि संकटे पातितञ्यः ।
  47. परर्म खलु एतत् प्रहर्पस्थानं, तद्विस्तरेण निवेदय यथा तेन चन्द्रसेना परिमुपितेति ।
  48. रवाभिनि । दिप्ट्या यर्धसे । जितं घूते स्वामिना हारदत्तेन सकलघूतकरसर्वस्वम् । अर्ह स्वलु त्वांं वर्द्धापयितुं प्रेपेितोऽस्मि ।
  49. अस्माकं खलु अद्य मदिरापरधीनः परिजनः । एतदस्माकं सर्वत्वं तदैव तदप्रमत्तेण भवितव्यम् ।
  50. तास्त्यत्र सन्देहः, अप्रमत्त एव तिष्ठामि ।
  51. कथं त्वया मम प्रतिपक्षस्य हारदत्तस्य ग्रेपणं कृतम् ? ।
  52. किं तव घूतकारस्य माणिभद्रेण ? ।
  53. किं पुनस्त्वमेव एपं विहृलोऽसि ?
  54. भगवन् माणिभद्र ! नमस्ते । सक्लोऽपि एप तप प्रभावो यन्मे स्वामीहारदत्तः घूते जयलक्ष्मीवल्लभः । तद्रृहाणैनै पूज्ञोपद्दारम् । अपि च यदि मे कनिष्टृभ्राता निपुण्यको दंशान्तरप्रवासित आगमिप्यति तदा एप अहं चतुरकः सर्वस्वेन त्वां परितोपयिप्यामि ।
  55. साधु भणितं खलु केनापि सुभ्रातृकसत्र्क्षकेन एतन् ।
  56. हा धिक् ! हा धिक् । अद्दो ! मे दुष्टजीवितस्य सुदृढत्वं, यत्तादृशस्य सुभ्रातुः चनुरकस्यापि विरहेण न निसरति ।
  57. भद्र ! न त्वं मम कनिष्टभ्राता निपुणकः ।
  58. मुघतु मुघतु मामार्य: । अलीकभ्राता खल्वद्दम् । सदैव आयैस्य दुःरपमुत्पादयामि ।
  59. अहो ते अलीकनिपुणस्यापि वङ्कवदने सत्यं निपुणत्वम् ।
  60. त्वं खलु मे धम्मैपिता । देहि मेऽपरां मदिराम् । मानयिप्ये मधूत्सवम् । मिलितो मे चिरप्रवासिनः कनिष्ठभ्राता निपुणकः । एप खलु हारदत्तप्रेपितो हारः समर्षिपतः यश्चन्द्रसेनायाः सकाशान् प्रापये तत्ते समपैयिष्ये ।
  61. आर्य चतुरफ ! गृहाणैतन् । मया खलु तव प्रभावेगैप वहुतरमर्जितम् । किं पुनः चौरापराधतः ए॒तदेवोश्वग्तिम् । वत्म ! अनुचिनं स्यस्वेतन् फनिष्टस्त्वम् । आयै ! किमेतद्वम्तुभूतम् ! मया पुनः आर्यस्य प्रसादेन यहुतरमर्जिवञ्यम् । किं पुनः त्वया अस्थाने द्रविणव्ययः प्रकृत्तः ।
  62. नास्ति किमयेि भयं नास्ति | अहं खलु चन्दन्कं वर्वापयिनुं प्रधावितोऽस्मि । एप खलु एतस्य प्रतिपक्षो हारदत्तो राजपुरुपैर्निगृहीतो निर्वास्यते । एतस्य क्लि भृत्येन चतुरकेण अलीकफनयकदानेन शौण्डिको वश्चितः । अपरेण च निपुणकेन हाराभिज्ञानदानवञ्चिताया चन्द्रसेनायाः सर्वस्वं
    परिमुपितम् । तवापि सा प्रतिपश्क्षभूता कुट्टिनी फलावती दुद्देित्रा विलासनत्या गणिकागणस्य पुरतः कृतशपथनिर्वन्थमाजन्म परित्यक्ता ।
  63. मया ग्पलु प्रयमं भणिना मुनि॒मृतं कलावती । एपा ग्पलु तव दुहिता घूतकरकर्पूग्येः विलप्रहृदया तव सर्वस्वमुत्रसाय तस्य समर्पयिध्यति । त्वया अप्रमत्तेन भवितव्यम् ! पुनश्च मया विस्लासवनी एवं गृहीतार्या कृना । यया कि एपा तच माता कर्पूरकपक्षपानकारणेण विरक्त्ता तव सर्वम्वमुत्ग्वाय कुत्रापि गमिष्यति । तदद्य रजन्यां निरीश्निनत्र्या त्वया एषा । नतो यामिन्याः प्रथमयामे कलावती द्रविग्यरथानमुल्म्पनन्ती विलासवत्वा सफेशग्राहं क;अहयिता निर्पामिना च ।
  64. यदि वेितयेिनुमुधिवं भयति तर्दिक न विइापामि । फो मम तया विामे द्वितीयां जिक्षां दास्यति ।
  65. तदपि अद्दं न विझपयिध्यामि । लेग एवैय विक्षपयनु ।
  66. एप पुनर्लेखः शिशुपालेन रुक्मिणीकृते प्रेपितः । रुक्मिणाऽपि एतं केशवस्य दर्शयि६यसीति भणित्वा मम हस्ते समर्पितः ।
  67. तत्कथमितरकार्ये कुशलः ? ।
  68. न रसट्ठ न रलु% ।
  69. अपरोऽपि किं कृष्णो वलभद्रभ्राता वमुदेवसुतो देवकीनन्दनः ? ।
  70. कथमेप देव्या रेवत्या: सौविदल्लं आर्यदीपक हतोमुखं परिक्रामति । तज्जानामि अस्माद्रेवतीरमणयृत्तान्तम् । आर्यदीपक । एप प्रियवद प्रणमति ।
  71. आर्यदीपक । प्रतिबुद्धः बलदेव ? ।
  72. अहो कोपसमावेशो महावीरस्य । तर्तिक समग्नामेव रात्रिं जागरित ? ।
  73. कुत्र पुन' आर्यः प्रस्थित '? ।
  74. अहं पुन कामपालमानेतु कृष्णेन प्रेपितोऽस्मि । तिप्ठनि कृष्ण उद्धवाक्रूरसात्यकिसहित सभामण्डपे । तदेतु आर्य । सहितावेप वलभद्रभवन गच्छाव ।
  75. देव! आगत एप सप्नररणरणकजागरेण कयं कयमपि गमितयामिनीसमयो रामबीरः ।
  76. इत इव एतु दे॒वः, इत इतो एनु॒ देवी ।
  77. अजरौ अजमयौ अहो मम पुत्रकौ ।
  78. अयि राम ! कृण्णविवाहार्थे गमिष्यथ कोण्डिनपुरम् । भवनु मम ननान्हनन्दनो विपमशराधिष्ठान रक्त्तावरमण्डितः परमसुखभाजनम् ।
  79. अयि त्रिजये ! मच्छ समानय शिशुपालदूतम् ।
  80. यद्देव्याज्ञापयति ।
  81. जयि सन्धानक ! उल्सर्प कृप्ण सरामम् ।
  82. जयतु जयतु रामेण सम कृष्ण ।
  83. शुभलश्क्षणसम्पूर्णामनुरक्ता रत्नशालितामेताम् ।
    अतिदुर्लभामवरैः गृहाण स्वं कृप्ण ! नग्पते. ॥
  84. विजये ! आसनं सन्धानफस्य ।
  85. कृप्णदेव ! गृहाण गृहाण । एपा खलु मालतीमाला तव कृने मालाकारेण उपनीयमाना केनापि गृहीतुमीहिता । पुनः स मालाकारचण्डवचनाधिक्षिमः पलायितः ।
  86. इहैव माधवे विवाहो भविश्यतीति भणामि ।
  87. अयि देव कृप्ण ! कथं नु देवीं देवकीं परित्यस्रवा गतस्तत्रोच्चरामि ।
  88. सन्धानक ! रामकृष्णौ वरपत्नीकौ आकर्ण्य पितृश्वमुः भविष्यति परितोपः। किं मया।
  89. तदिहैव वधूम्तव पादवन्दनार्थमागमिप्यति ।
  90. इत इतो देवः, इत इतो देवी ।
  91. भगवति सुघुद्धिके ! कुत्र पुनः त्वरितपदं पग्क्रिामसि ? । प्रतिपालय माम् ।
  92. भिलितारिम । चलतु चलतु इदानी भगवती । कुत्र पुनः गम्यते ? ।
  93. रुक्मिण्या भवनं प्रस्थिता भगवती ?! भगवति ! तव सुबुद्धित्वं मम सुवत्सलात्वमपि त्रेिसंवदितम् । रुकिमण्या दोलाधिरुदेव दोलते जीविताशा ।
  94. भगवति ! यत्तव बुद्धिविभवो मन्त्रशक्त्यपि विसवदति तत् रुक्मिण्या दुर्देवमपराध्यति । कृष्णुः पुनः रुक्मिणीं परिभविष्यतीति न मम हृदयं प्रत्ययते । भगवत्या अपि तत्र कृण्णपरिजनादेतद्विदितमेन ।

    यावदेव हरिदये रुक्मिणीनामेति अक्षरो मन्त्रः ।
    सश्चरेितः तावदेय उद्वसितमितग्दयिताभिः ॥ ३ ॥

  95. तन्नन्दकसहायत्वेनापि सफला भविप्यति भगवत्या मन्त्रशक्तिः ।
  96. भगवति ! तस्या आश्वासनार्थे प्रेपितं मम मकरन्दिकाया हस्ते कृप्णस्यालेरयम् । तदेतु भगवती । कृप्णशिविरं गत्वा अलक्षिता सर्वे ज्ञात्वा त्वरितमुपप्तर्पाव रुक्मिणीम् ।
  97. तदमुना मार्गेण मुलेरपं चित्रकारमालेख्यसनाथं गृहौत्वा गमिप्यानः ।
  98. नून मया जन्मान्तरे चन्द्रशैखरस्य प्रतिविम्बमेवाराधित, यदेतस्य सुभगस्यालेख्यमात्रेणैव मा हतविधिर्विप्रतारयति । सखिपमकरन्दिके । विस्मृता भगनती सुयुद्धिः सुवत्सला च, यत्ताभ्या न कापि तन पोडशसहस्रमध्ये गोपी तानि भाग्यानि अभ्यर्थिता, यै. कृष्णस्य प्रियत्व प्राप्यते । अयवा दैवहताया मम दीनत्वमिदम् । न खळुभाग्यानि दत्तानि भवन्ति । तदेतदेपालेख्यमविनृष्ण विभावयामि ।
  99. सुष्टु उत्ताम्यति भर्तृदारिका । तदङत्र विलम्निता सा निष्फरुणा भगपती सुबुद्धिका सुवत्सला च ।
  100. धन्यास्ता गोप्य. या मदनोप्मक्रम्विता एतस्य सुभगस्य अस्या लावण्यदीर्घिकाया विद्दरन्घ्नि । कृत एप एतादृशा अस्माहशीना--
  101. अयि हृदय ! प्रसीद विरमस्व सुदुर्लभप्रेम्णा किं नु विगुष्यसि ।
    वनहरिण्या हस्यते मृगाङ्कहरिणेऽनुरागः ॥ ५ ॥
  102. भगवति ! त्वां वर्जयित्वा गुरुजन एव मे दुर्जनः ।
  103. बत्से रुक्मिणि ! किं कदापि भगवती अलीकालापिनी । मानितं सुमुहूर्त्तम् । गृहीतासि आलेरयगता हरिणा पाणिना । सम्प्रति निमपाणिगृहीतोचितं हरिर्निर्वीहयिष्यति ।
  104. हदय ! समाश्वसिहि समाक्ष्वसिहि ! सम्मुरसमिव वव दृश्यते दैवम् ।
  105. अहो मुनिमित्तं सुनिमित्तम् ।
  106. भगवति सुचुद्धि । इह त्वया अमुना कृष्णस्यालेख्येन पाणिमह्नणं कारितम् तन पुनर्भर्तृदारिकाया आलेरयेन । द्वावपि एतौ एकस्थानगते प्रेक्षितुं मे कुतूहलम् । तदन चित्रपटे कृण्णसमीपे भतृदारिकामालिखिप्ये ।
  107. भगवति ! प्रत्यासन्ना पुरप्रवेशसम्मुरसा महीनाथा', यदेप निफटतो दुन्दुभिध्वनि श्रूयते ।
  108. भतृदारिके ! तद्त्र उपरितलं सौधशिखरमारुह्य गवाक्षान्तरे प्रेक्षावहे ।
  109. साधु मकरन्दिके ! साधु । यधा भगवती भणति ।
  110. प्रेक्षध्वं प्रेक्षध्वं प्रविशन्ति नरपतयः ।
  111. प्रियसखि! फस्य शरीरं राजति घूएणमानचामरमेतन् ।
    उत्पलकाननमिव मगलमालाभिःसंवलितम् ॥
  112. प्रेक्षष्पं प्रेक्षष्वं । एप स गोपीमहस्रमनोमोद्दनः मधुमपनो रयारूढः समेति ।
  113. अयि लोचने यम्य मुभगस्य गुणगणामृतं पियन्मु श्रयणेपु ईर्प्यालूनामिय युप्माकं दशैनगृण्णा प्रनर्तिता, सदविनृष्णमिदानी यधेच्छं प्रेदोयाम् । मुहूर्नमात्रे ' गृहीतं तावम्वन्मफलम् । को जानीते किं करिष्पति अप्रतो भगवान् प्रजापतिः ।
  114. दित्पा गाक्षान्तरप्रलम्बिनबहुपूर्वफाया प्रेक्षे । एप स प्रियंवदो यः तदानीमयागत्य अपृनकायों गतः ।
  115. न खढु न खढु प्रभवति अप्र संतृट्टे गवाक्षान्तरे रुकिमणीकृष्णालोकनतृष्णा । तदेवं तावन् । अपि मकरभ्दिके ! इतरगवाशान्तरे प्रेक्षस्व त्वम् । प्रेशतामत्र यन्सा ययेरुछं रुकिमणी ।
  116. एषं भदतु ।
  117. कृप्न्देव ! गृद्वाणैतत् तय करकमले कमलमनाथे किमपि नितेितम् ।
  118. देव ! तवालेरत्र्यसमीपे रुकिमणी एपा आलिरिता ।
    किं विद्दरसि हरिहस्ते मम करफमलस्य अमवसरः अप्र ।
    इति तप पार्णि प्राप्ता एपा कमलमिव निस्सार यति ॥
    कृय्णदेव ! रुक्मिण्या एतन् सौधम् । नूनमेतद् रुक्मिणीहस्तान् प्रभ्रष्टम् ।
  119. हतलज्जे अस्माकं गुरुजनादधिकं त्वं निष्करुणा, यत्त्वया दर्शनमाने प्रियस्य मुमगस्य विप्नितम् ।
  120. मफरन्दिकाहस्ताश्चिनपटं निपतितं गृहीत्वा केनापि ऊर्घ्वमुखं प्रलोकितम् ।
  121. भगवति ! का पवरेतस्य जन्मसमये विकृतिः आसीन् ।
  122. भगवति ! किमेप राक्षसः कोपि? ।
  123. भग्वति ! वेपते मे हृदय, तन्नान्प्र स्थास्यामि ।
  124. अयि भगवति ! सुष्ठु भीतरिम ! न जाने र्नितं किमन भविष्यति । फथं मम हताशाया निर्वहण भविप्यति ।
  125. भगवति ! अनुमन्यस्व मम मरणमदोत्सवम् । तव प्रभावेग लव्धस्वर्गगतिः तत्रैवैन्द्राणीमर्चयिप्ये ।
  126. वारयनु मुइर्त्तमाग्रं भगपती वत्मलतया ममं जीवे निरसरन्तम् ।
  127. भगवति ! दृष्टा मया अनुप्रहुसिद्धया तव मन्त्रशक्तिः । तत्सम्प्रति विप्रद्दसिद्धपा दर्शयतु ! उचितं खळु मम घन्धुवर्गावसानकारणेन मरणेण निप्रद्दणम्।
  128. जयतु जयतु देवः ।
  129. One palmleaf after this is Wanting in the ms.
  130. भगवन्म् कमलोद्भव ! किं त्वामुपालभे ? । अद्दो ! ते दुर्विलसितम् ।

    साधारणा अष्ट कुलचला ननु
     ते दिगाजाः स च मुमङ्गराजः ।
    मां धृत्वा इति विस्तरेण
     भञ्जयसि किं दारुणद्वानवैः ॥

     तन्न त्वामुपसर्पिप्ये । तमेव चन्द्रशेत्वरं शरणं गनिष्यामि यत्त्वामपि निर्माति । अइह ! प्तुप्ठु अवलास्मि सञ्जाता । तत्को ममालम्बनम् । दूरे स भुजङ्कराजः ।

  131. कथं नागराजः सम्प्राप्तः ! । अयि नागराज ! लज्जे वञ्ग्रमयी अत्र त्वामलम्वमाना । किं विस्मृतं मया दुर्बियद्ददानवशरासारघूर्णमानां मामुद्वहतस्तव दुर्वहदुष्फटनिमोंकपट्टफणाचवम् ।
  132. भगवन् भर्ग सकललौफद्भसर्गसहांरपरित्राणफारण ! नमस्ते ।
  133. कथमेप मम प्रियवयस्यो विपरीतो गच्छति ! । आश्चर्यमाश्चर्थे यद्विएपोऽन्धस्तत्कथं त्वरितपदं परिक्रामति । यदि नान्धस्तत्कथं न मां प्रेक्षने । भवतु शव्दग्पयामि ! अयि ! विपरीत विपरीत् ! कुन प्रस्थितोऽसि ? ।
  134. प्रियत्रयस्य अलीक ! दिष्ट्या त्वया व्याहृतोऽरिम । अन्यवा त्वामप्रेक्ष्य गतस्त्वामन्विष्यन् रित्रद्यन्नरिम ।
  135. किं पुनस्ल्वं मां न प्रेक्षसे ? ।
  136. वयस्य ! गुरुराज्यकार्यभारोद्वहनव्यापृतहृदयेन न मया त्वं प्रेक्षितोऽसि ।
  137. वयस्य ! कीद्दश राज्यकायैम् ? !
  138. त्रिपुरनाधपरिभूतैः देवैः मिलिञ्या मन्त्रयित्वा हरिविरिञ्चिपार्क्ष्व प्रेपितो नारद इति चरैः दानवनायस्य विज्ञप्तम् ।
  139. दिग्गदूषणार्थे शशकानामेप मेलकः;, ग्रन्निपुग्नायनिर्म्मयनार्थममराणानां मेलरुः।
  140. अयि अलीक ! शैशभात्प्रमृति राजकुलप्रत्रर्धितः खळु त्वं नयशतनिपुणः कथमेवं मन्त्रयसि ? । ननु परमाणुमात्रेयेि वैरिणि अप्रमत्तेण भवितत्र्यम् !
  141. तत्कथय किं सन्दृिष्टं त्रिपुरनाथेन ।
  142. साधु साधु सुमन्त्रितमेतन् ।
  143. वयास्य ! एतस्मिन् कर्म्मणि त्वया मयाऽपि भणितव्यं विपरीतोऽसुराणां विजयः, अलीको देवानां क्षयः । तद्रच्छ त्वं विप्रतारय विरञ्चिम् । नारदो विश्णुकाशे तिष्टति । अहमपि हरं विप्रतार्य पुरन्दरप्रभृतिदेवानपि विप्रतारयामि ।
  144. किं ज्ञातोऽस्मि ? ! अथवा कुपित एप एवं व्याहरति । तथापि एतत् तावन् !
  145. दिप्टया कृतकायों भविष्यामि ।
  146. अयि चञ्चला दानवाः ! तिष्ठत तिष्ठत । क एष युस्माकं अलीकोत्पातभयसङ्कोभः । नूनमेताः पलायमानस्य पावकस्य कराला जाला निपतिताः । मया खलु नारदवेषेण महेशं वश्वयित्वा वञ्चिता महेन्द्रप्रमुखा लोकपालाः । परिदेवितं खलु तेषां पुरतो मया हा तात कमलासन ! हा महेश ! हा केशव ! कथं युस्माभिः त्रिपुरासुरनिवासितैः पातालमूले वसितव्यम् । यूयमपि महेन्द्रप्रमुखाः सर्वे सुराः तत्र गच्छत गच्छत, कुरुत परस्परमुखावलोकेन तत्र कालक्षेपम् । ततो महेन्द्रप्रमुखैरमररविचार्य झटित्येव अपक्रान्तम् । तत्सम्प्रति झटिति सम्भावयनु देवो यथेच्छं सुरेन्द्रराजधानीम् ।
  147. कथमायों विशदाशयः । तत्प्रणमामि ननु । आर्य विशदाशय ! सर्वसन्देद्दविषोपशमकारणं ब्राह्मण इति त्वां प्रणमामि । न पुनः राजसचिवत्वानुरोधेन ।
  148. आर्य विशदाशय ! कः संरम्भः ।

    धूर्तै: नार्हतानां नार्हन्ति सत्यवचनरत्नानि ।
    अनभिज्ञानां प्रभूणामलीफालापेपु रत्तानाम् ॥

     अहं खळु दानवनाधेन सर्वनापनेन पातालमूलमुपगतानां देवानां वृत्तान्तं निरूपयितुं प्रेयितोऽस्मि । ततो मया उपगत्य विज्ञातं यथा किल नारदमहेश्ठिाना विपरीतदान्वविग्चितमायाप्रपञ्चं

  149. किं पुनः एतादृशमत्याहितमार्येण व्यवसितं, येन एवं अनुतप्यते आर्यः ।
  150. तदा किं कृतमार्येण ।
  151. भगवन् तेपां कृते किमपि करोतु अपरं शान्विक्रमांदिकम् ।
  152. न पुनः एतदनुसरिष्ट्यति अलीकगवोंमासितः सर्वतापः ।
  153. परवशोऽस्मि आर्वध्य । विभावयतु आर्यः एप दानवनायः गोपुरपरिसरे इतिपीठसमारुद्धः तिष्टति ! एप्पापि दानववीरवाहिन