हितोपदेशः ४

विकिस्रोतः तः
Jump to navigation Jump to search

कथा - ४[सम्पाद्यताम्]

अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रियसुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिम् अताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच्सखे ! किम् इति मम कथाविरक्तोन्यासक्तो भवान् यतः <poem> मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥११५॥

अदृष्टिदानं कृतपूर्वनाशनम् आननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर् विरक्तभावस्य जनस्य लक्षणम् ॥११६॥

चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह्कथम् अयं मूषिकः स्वल्पबलोप्य् एतावद् दूरम् उत्पतति तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धनबाहुल्यम् एव प्रतिभाति । यतः

धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञाम् अप्य् उपजायते ॥११७॥

ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिरसञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्

धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥११८॥

किं च् अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥११९॥

अपरं च् यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥१२०॥

अपरं च् अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१२१॥

अपरं च् दारिद्र्यान्मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥१२२॥

अन्यच्च तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिरप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रम् एतत् ॥१२३॥

एतत् सर्वम् आकर्ण्य मयालोचितंममान्नावस्थानम् अयुक्तम् इदानीम् । तथा चोक्तम्

अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१२४॥

अन्यच्च मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥१२५॥

किं च् कुसुमस्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेथवा ॥१२६॥

यच् चान्यस्मै एतद् वृत्तान्तकथनं तद् अप्यनुचितम् । यतः

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥१२७॥

यच् चात्रैव याच्ञया जीवनं तद् अप्यतीवगर्हितम् । यतः वरं विभवहीनेन प्राणैः सन्तर्पितोनलः । नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥१२८॥

अन्यच्च दारिद्र्याद् ध्रियम् एति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोकफिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥१२९॥

किं च् वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥१३०॥

वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोरण्ये न पुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानाम् उपगमः ॥१३१॥

अपि च् सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरिहरकथेव दुरितं गुणशतम् अप्यर्थिता हरति ॥१३२॥

तत् किम् अहं परपिण्डेन आत्मानं पोषयामि कष्टं भोः ! तद् अपि द्वितीयं मृत्युद्वारम् । अन्यच्च

रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज् जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ॥१३३॥

इत्य् आलोच्यापि लोभात् पुनरपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्

लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥१३४॥

ततोहं मन्दं मन्दम् उपसर्पंस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्य् असन्तुष्टो नियतम् आत्मद्रोही भवति । तथा च्

धनलुब्धो ह्य् असन्तुष्टोनियतात्माजितेन्द्रियः । सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥१३५॥

सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥१३६॥

अपरं च् सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानाम् इतश्चेतश्च धावताम् ॥१३७॥

किं च् तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥१३८॥

अपि च् असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥१३९॥

न योजनशतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्तेप्यर्थे भवति नादरः ॥१४०॥

तद् अत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान् ।

को धर्मो भूतदया किं सौख्यं नित्यम् अरोगिना जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१४१॥

तथा च् परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेदकर्त्णां विपदः स्युः पदे पदे ॥१४२॥

तथा हि त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१४३॥

अपरं च् पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥१४४॥

इत्य् आलोच्याहं निर्जनवनम् आगतः । यतः

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥१४५॥

अतः संसारविषयवृक्षस्य द्वे एव रसवत् फले । काव्यामृतरसास्वादः सङ्गमः सज्जनैः सह ॥१४६॥

अपरं च् सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१४७॥

मन्थर उवाच् अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥१४८॥

युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाहैवाम्भसाम् ॥१४९॥

अन्यच्च यद् अधोधः क्षितौ वित्तं निचखान मितम्पचः । तद्अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ॥१५०॥

यतः निजसौख्यं निरुन्धानो यो धनार्जनम् इच्छति । परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥१५१॥

तथा चोक्तं दानोपभोगहीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥१५२॥

यतः धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥१५३॥

अन्यच्च असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥१५४॥

अपि च् न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥१५५॥

तथा चोक्तम् दानं प्रियवाक्सहितं ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर्भद्रम् ॥१५६॥

उक्तं च् कर्तव्यः सञ्चयो नित्यं न तु कार्योतिसञ्चयः । अतिसञ्चयशीलोयं धनुषा जम्बुको हतः ॥१५७॥ ताव् आहतुःकथम् एतत्

मन्थरः कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_४&oldid=23505" इत्यस्माद् प्रतिप्राप्तम्