सामग्री पर जाएँ

हितोपदेशः २२

विकिस्रोतः तः

अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्तत्रयेणावलोकितः । ततस्ते धूर्ताःयद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मतिप्रकर्षो भवतीति समालोच्य, वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोभिहितःभो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तंनायं श्वा, किन्तु यज्ञच्छागः । अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः । यतः

मतिर्दोलायते सत्यं सताम् अपि खलोक्तिभिः ।
ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥५९॥

राजाहकथम् एतत्
स कथयति

अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश्च्कुतो भवान् आगतः सार्थाद् भ्रष्टः स चात्मवृत्तान्तम् अकथयत् । ततस्तैर्नीत्वा सिंहायासौ समर्पितः । तेन चाभयवाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीरवैकल्याद् भूरिवृष्टिकारणाच् चाहारम् अलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टकभुजास्माकम् व्याघ्र उवाच्स्वामिनाभयवाचं दत्त्वानुगृहीतोयं, तत् कथम् एवं सम्भवति काको ब्रूते इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । यतः

त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥६०॥

अन्यच्च मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥६१॥

इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तमाहारार्थं किञ्चित् प्राप्तम् तैरुक्तम्देव ! यत्नाद् अपि प्राप्तं किञ्चित् सिंहेनोक्तंकोधुना जीवनोपायः काको वदतिदेव ! स्वाधीनाहारपरित्यागात् सर्वनाशोयम् उपस्थितः सिंहेनोक्तम्त्राहारः कः स्वाधीनः काकः कर्णे कथयतिचित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् चभयवाचं दत्त्वा धृतोयम् अस्माभिः । तत् कथम् एवं सम्भवति तथा हि

न भूतदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्व् अभयप्रदानम् ॥६२॥

अन्यच्च सर्वकामसमृद्धस्य अश्वमेधस्य यत् फलम् । तत्फलं लभते सम्यग् रक्षिते शरणागते ॥६३॥

काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिरेव तथा कर्तव्यं, यथासौ स्वदेहदानम् अङ्गीकरोति । सिंहस्तच् छ्रुत्वा तूष्णीं स्थितः । ततोसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तंदेव ! यत्नाद् अप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तद् इदानीं मदीयमांसम् उपभुज्यताम् । यतः

स्वामिमूला भवन्त्य् एव सर्वाः प्रकृतयः खलु । समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥६४॥

सिंहेनोक्तंभद्र ! वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तंमैवम् । अथ व्याघ्रेणोक्तंमद्देहेन जीवतु स्वामी । सिंहेनोक्तंन कदाचिद् एवम् उचितम् । अथ चित्रकर्णोपि जातविश्वासस्तथैवात्मदेहदानम् आह्ततस्तद्वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर्भक्षितश्च । अतोहं ब्रवीमिमतिर्दोलायते सत्यम् इत्य् आदि । ततस्तृतीयधूर्तवचनं श्रुत्वा, स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च तैर्धूर्तैर्नीत्वा भक्षितः । अतोहं ब्रवीमिात्मौपम्येन यो वेत्तीत्य् आदि । राजाह्मेघवर्ण ! कथं शत्रुमध्ये त्वया सुचिरम् उषितम् कथं वा तेषाम् अनुनयः कृतः मेघवर्ण उवाच्देव ! स्वामिकार्यार्थितया स्वप्रयोजनवशाद् वा किं किं न क्रियते पश्य्

लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥६५॥

तथा चोक्तम् स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् । यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥६६॥

राजाह्कथम् एतत् मेघवर्णः कथयति

</poem>

अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोतिजीर्णतया स्वाहारम् अप्यन्वेष्टुम् अक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन्मण्डूकेन दृष्टः, पृष्टश्च्किम् इति त्वाम् आहारं नान्विष्यति सर्पोवदत्गच्छ भद्र ! किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन ततः सञ्जातकौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पोप्याह्भद्र ! पुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः । तथा चोक्तम् <poem> उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥६७॥

तत्र कपिलो नाम स्नातकोवदत्रे कौण्डिन्य ! मूढोसि येनैवं विलपसि । शृणु

क्रोडीकरोति प्रथमं यदा जातम् अनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥६८॥

तथा च् क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः । वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥६९॥

तथा च् जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥७०॥

अपरं च् कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥७१॥

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः सन् विभाष्यते ॥७२॥

आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥७३॥

यतः अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । ऐश्वर्यं प्रियसंवासो मुह्येत् तत्र न पण्डितः ॥७४॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥७५॥

यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति । विश्रम्य च पुनर्गच्छेद् तद्वद् भूतसमागमः ॥७६॥

अन्यच्च पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते । स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥७७॥

यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥७८॥

नायम् अत्यन्तसंवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥७९॥

अपि च् संयोगो हि वियोगस्य संसूचयति सम्भवम् । अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥८०॥

आपातरमणीयानां संयोगानां प्रियैः सह । अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥८१॥

अपरं च् व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुरादाय मर्त्यानां तथा रात्र्य्अहनी सदा ॥८२॥

सुखास्वादपरो यस्तु संसारे सत्समागमः । स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥८३॥

अत एव हि नेच्छन्ति साधवः सत्समागमम् । यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥८४॥

सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः । अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥८५॥

संचिन्त्य संचिन्त्य तम् उग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बुसिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥८६॥

याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्य् अस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपम् एति ॥८७॥

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥८८॥

तद् भद्र ! तद् आत्मानम् अनुसन्धेहि । शोकचर्चां च परिहर, यतः अकाण्डपातजातानाम् अस्त्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥८९॥

ततस्तद्वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तद् अलम् इदानीं गृहनरकवासेन वनम् एव गच्छामि । कपिलः पुनराह् वनेपि दोषाः प्रभवन्ति रागिणां गृहेपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्तरागस्य गृहं तपोवनम् ॥९०॥

यतः दुःखितोपि चरेद् धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥९१॥

उक्तं च् वृत्त्य्अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । वाक् सत्यवचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥९२॥

तथा हि आत्मा नदी संयम् अपुण्यतीर्था सत्योदका शीलतटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुष्यति चान्तरात्मा ॥९३॥

विशेषतश्च् जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् । संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥९४॥

यतः दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥९५॥

कौण्डिन्यो ब्रूते एवम् एव । ततोहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । कपिलो ब्रूतेसम्प्रत्य् उपदेशासहिष्णुर्भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥९६॥

अन्यच्च कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते । स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥९७॥

एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान् । अतो ब्राह्मणशापान्मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोग्रे तत् कथितम् । ततोसाव् आगत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । परेद्युश्चलितुम् असमर्थं तं मण्डूकनाथम् अवदत्किम् अद्य भवान्मन्दगतिः सर्पो ब्रूतेदेव ! आहारविरहाद् असमर्थोस्मि । मण्डूकनाथोवदत्स्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतोयं महाप्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोपि तेन खादितः । अतोहं ब्रवीमिस्कन्धेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यानकथनं सर्वथा सन्धेयोयं हिरण्यगर्भराजा सन्धीयताम् इति मे मतिः । राजोवाच्कोयं भवतो विचारः यतो जितस्तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तंदेव ! सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । राजा ससम्भ्रमं ब्रूतेकिं किम् शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच्साधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा सकोपम् आहास्तां तावद् अयं गत्वा तम् एव समूलम् उन्मूलयामि ।

दूरदर्शी विहस्याह् न शरन्मेघवत् कार्यं वृथैव घनगर्जितम् । परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥९८॥

अपरं च् एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । सदर्पोप्य् उरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥९९॥

देव ! किम् इतो विना सन्धानं गमनम् अस्ति यतस्तदास्माकं पश्चात् प्रकोपोनेन कर्तव्यः । अपरं च् योर्थतत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥१००॥

राजाहकथम् एतत् दूरदर्शी कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_२२&oldid=23560" इत्यस्माद् प्रतिप्राप्तम्