हितोपदेशः २१
सन्धिः
[सम्पाद्यताम्]कथा - ७
[सम्पाद्यताम्]अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस्तम् आदायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः । ततः सक्तुरक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्द्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर्घटशरावादिकम् उपक्रीयानेकधा वृद्धैस्तद्धनैः पुनः पुनः पूर्गवस्त्रादिम् उपक्रीय, विक्रीय लक्षसङ्ख्यानि धनानि कृत्वा, विवाहचतुष्टयं करिष्यामि । अनन्तरं तासु स्वपत्नीषु या रूपयौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलोहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्य् अवलोक्य, ब्राह्मणस्तिरस्कृतो मण्डपाद् बहिष्कृतश्च । अतोहं ब्रवीमि अनागतवतीं चिन्ताम् इत्य् आदि ।
ततो राजा रहसि गृध्रम् उवाच्तात ! यथा कर्तव्यं तथोपदिश ।
गृध्रो ब्रूते
मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः ।
गच्छन्त्य् उन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥२१॥
शृणु देव ! किम् अस्माभिर्बलदर्पाद् दुर्गं भग्नम् उत तव प्रतापाधिष्ठितेनोपायेन
राजाह्भवताम् उपायेन ।
गृध्रो ब्रूतेयद्य् अस्मद्वचनं क्रियते, तदा स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते पुनस्तुल्यबलेन विग्रहे सत्य् अस्माकं परभूमिष्ठानां स्वदेशगमनम् अपि दुर्लभं भविष्यति । तत्सुखशोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश्च लब्धेव । मम संमतं तावद् एतत् । यतः
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥२२॥
अन्यच्च
सुहृद्बलं तथा राज्यम् आत्मानं कीर्तिम् एव च ।
युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥२३॥
अपरं च्
सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि ।
नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥२४॥
अपि च्
युद्धे विनाशो भवति कदाचिद् उभयोरपि ।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥२५॥
राजोवाचकथम् एतत्
मन्त्री कथयति
कथा - ८
[सम्पाद्यताम्]पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच् चन्द्रशेखरम् आराधितवन्तौ । ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् तावन्यद् वक्तुकामावन्यद्अभिहितवन्तौयद्य् आवयोर्भवान् परितुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचारमूढयोः पार्वती प्रदत्ता । ततस्तस्या रूपलावण्यलुब्धाभ्यां, जगद्घातिभ्यां मससोत्सुकाभ्यां, पापतिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाणपुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः । अनन्तरंावाभ्याम् इयं स्वबललब्धा, कस्येयम् आवयोर्भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते
<poem>
ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥२६॥
तद् युवां क्षात्रधर्मानुगौ । युद्द एव युवयोर्नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्यतुल्यवीर्यौ, समकालम् अन्योन्यघातेन विनाशम् उपागतौ । अतोहं ब्रवीमिसन्धिम् इच्छेत् समेनापि इत्य् आदि ।
राजाह्तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः मन्त्री ब्रूतेतदा मद्वचनं किम् अवसानपर्यन्तं श्रुतं भवद्भिः तदापि मम संमत्या नायं विग्रहारम्भः । यतःसाधुगुणयुक्तोयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं
सत्यार्थौ धार्मिकोनार्यो भ्रातृसङ्हातवान् बली । अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः ॥२७॥
सत्योनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राणबाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥२८॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥२९॥
सन्धिः कार्योप्यनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात् कालयापनम् ॥३०॥
संहतत्वाद् यथा वेणुर्निविडैः कण्टकैर्वृतः । न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥३१॥
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥३२॥
जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेकयुद्धजयिनः प्रतापाद् एव भज्यते ॥३३॥
अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥३४॥
तत्र तावद् बहुभिर्गुणैरुपेतः सन्धेयोयं राजा । चक्रवाकोवदत्प्रणिधे ! सर्वम् अवगतम् । व्रज । पुनरागमिष्यसि । अथ राजा हिरण्यगर्भश्चक्रवाकं पृष्ठवान्मन्त्रिन् ! असन्धेयाः कति तान् श्रोतुम् इच्छामि । मन्त्री ब्रूतेदेव ! कथयामि । शृणु
बालो वृद्धो दीर्घरोगी तथाज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥३५॥
विरक्तप्रकृतिश्चैव विषयेष्व् अतिसक्तिमान् । अनेकचित्तमन्त्रस्तु देवब्राह्मणनिन्दकः ॥३६॥
दैवोपहतकश्चैव तथा दैवपरायणः । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥३७॥
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥३८॥
एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥३९॥
बालस्याल्पप्रभावत्वान् न लोको योद्धुम् इच्छति । युद्धायुद्धफलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥४०॥
उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस्तथा । स्वैरेव परिभूयेते द्वावप्य् एतावसंशयम् ॥४१॥
सुखच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस्त्व् आत्मसात्कृताः ॥४२॥
भीरुर्युद्धपरित्यागात् स्वयम् एव प्रणश्यति । तथैव भीरुपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥४३॥
लुब्धस्यासंविभागित्वान् न युध्यन्तेनुजीविनः । लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥४४॥
सन्त्य् अज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि । सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ॥४५॥
अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचित्तत्वात् कर्यतः स उपेक्ष्यते ॥४६॥
सदाधर्मबलीयस्त्वाद् देव ब्राह्मणनिन्दकः । विशीर्यते स्वयं ह्य् एष दैवोपहतकस्तथा ॥४७॥
सम्पत्तेश्च विपत्तेश्च दैवम् एव हि कारणम् । इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥४८॥
दुर्भिक्षव्यसनी चैव स्वयम् एव विषीदति । बलव्यसनसक्तस्य योद्धुं शक्तिर्न जायते ॥४९॥
अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहोल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥५०॥
बहुशत्रुस्तु सन्त्रस्तः श्येनमध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥५१॥
अकालयुक्तसैन्यस्तु हन्यते कालयोधिना । कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥५२॥
सत्यधर्मव्यपेतेन सन्दध्यान् न कदाचन । स सन्धितोप्यसाधुत्वाद् अचिराद् याति विक्रियाम् ॥५३॥
अपरम् अपि कथयामिसन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् । कर्मणाम् आरम्भोपायः । पुरुषद्रव्यसम्पत् । देशकाविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः । सामदानभेददण्डाश्चत्वार उपायाः । उत्साहशक्तिः, मन्त्रशक्तिः, प्रभु शक्तिश्चेति शक्तित्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः
या हि प्राणपरित्यागमूल्येनापि न लभ्यते । सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥५४॥
यथा चोक्तं वित्तं सदा यस्य समं विभक्तं गूढश्चरः संनिभृतश्च मन्त्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥५५॥
किन्तु देव यद्यपि महामन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूतजयदर्पान् न मन्तव्यम् । देव ! तद् एवं क्रियतां । सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्रं जम्बुद्वीपे कोपं जनयतु । यतः
सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरन्न् अरातिम् । सन्तापयेद् येन समं सुतप्तस् तप्तेन सन्धानम् उपैति तप्तः ॥५६॥
राज्ञा एवम् अस्त्व् इति निगद्य विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः । अथ प्रणिधिः पुनरागत्योवाच्देव ! श्रूयतां तावत् तत्रत्यप्रस्तावः । एवं तत्र गृध्रेणोक्तम्देव ! मेघवर्णस्तत्र चिरम् उषितः । स वेत्ति किं सन्धेयगुणयुक्तो हिरण्यगर्भो राजा, न वा इति । ततोसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टःवायस ! कीदृशो हिरण्यगर्भो राजा चक्रवाको मन्त्री वा कीदृशः वायस उवाच्देव ! स हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः सत्यवाक् । चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते । राजाह्यद्य् एवं तदा कथम् असौ त्वया वञ्चितः विहस्य मेघवर्णः प्राह्देव !
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥५७॥
शृणु देव ! तेन मन्त्रिणाहं प्रथमदर्शने एवं विज्ञातः, किन्तु महाशयोसौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम्
आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् । स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥५८॥
राजोवाच्कथम् एतत् मेघवर्णः कथयति