हितोपदेशः २०

विकिस्रोतः तः
Jump to navigation Jump to search

सन्धिः[सम्पाद्यताम्]

कथा - ४[सम्पाद्यताम्]

अस्त्य् उत्तरापथे गृध्रकूटनाम्नि पर्वते महान् पिप्पलवृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस्तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्धबकेनाभिहितंभो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुलविवराद् आरभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण एकैकशो विकिरत । ततस्तद्आहारलुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः । स्वभावद्वेषाद् व्यापदयितव्यश्च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर्वृक्षोपरि बकशावकानां रावः श्रुतः । पश्चात् तद्वृक्षम् आरुह्य बकशावकाः खादिताः । अत आवां ब्रूवःुपायं चिन्तयन् इत्य् आदि । आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदतिकिम् अहम् अप्राज्ञः नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथाविधं कूर्मम् आलोक्य सर्वे गोरक्षकाः पश्चाद् धावन्ति, वदन्ति चहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदतियद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदतिसरसस्तीरे दग्ध्वा खादितव्योयम् । कश्चिद् वदतिगृहं नीत्वा भक्षणीयः । इति । तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह्युष्माभिर्भस्म भक्षितव्यम् इति वदन्न् एव पतितस्तैर्व्यापादितश्च । अतोहं ब्रवीमिसुहृदां हितकामानाम् इत्य् आदि । अथ प्रणिधिर्बकस्तत्रागत्योवाच्देव ! प्राग् एव मया निगदितं दुर्गशोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर्न कृतं, तद्अनवधानस्य फलम् इदम् अनुभूतम् । दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रत्युक्तेन कृतः । राजा निःश्वस्याह्

प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥१२॥

अथ प्रणिधिरुवाचितो दुर्गदाहं विधाय, यदा यतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तम्यं मेघवर्णोत्र कर्पूरद्वीपराज्येभिषिच्यताम् । तथा चोक्तम्

कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् ।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥१३॥

चक्रवाको ब्रूतेदेव ! श्रुतं यत् प्रणिधिः कथयति
राजा प्राहततस्ततः
प्रणिधिरुवाच्ततः प्रधानमन्त्रिणा गृध्रेणाभिहितम्देव ! नेदम् उचितम् । प्रसादान्तरं किम् अपि क्रियताम् । यतः

अविचारयतो युक्तिकथनं तुषखण्डनम् ।
नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥१४॥

महताम् आस्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्

नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुम् इच्छति ।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥१५॥

चित्रवर्णः पृच्छतिकथम् एतत्
मन्त्री कथयति

कथा - ५[सम्पाद्यताम्]

अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः । तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद् भ्रष्टो दृष्टः । ततो दयायुक्तेन तेन मुनिआ नीवारकणैः संवर्धितः । ततो बिडालस्तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तंकुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर्मूषिकोयम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्तिनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा सव्यथो व्याघ्रोचिन्तयत्यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस्तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वापुनर्मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतोहं ब्रवीमिनीचः श्लाघ्यपदं प्राप्येत्य् आदि ॥

अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु


भक्षयित्वा बहून्मत्स्यान् उत्तमाधममध्यमान् ।
अतिलोभाद् बकः पश्चान् मृतः कर्कटकग्रहात् ॥१६॥

चित्रवर्णः पृच्छतिकथम् एतत्
मन्त्री कथयति

कथा - ६[सम्पाद्यताम्]

अस्ति मालवविषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश्च्किम् इति भवान् अत्राहारत्यागेन तिष्ठति बकेनोक्तम्मत्स्या मम जीवनहेतवः । ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन्मरणम् उपस्थितम् इति ज्ञात्वाहारेप्यनादरः कृतः । ततो मत्स्यैरालोचितमिह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथाकर्तव्यं पृच्छ्यताम् । तथा चोक्तम्

उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥१७॥

मत्स्या ऊचुःभो बक ! कोत्र अस्माकं रक्षनोपायः बको ब्रूतेस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि । मत्स्या आहुः एवम् अस्तु । ततोसौ दुष्टबकस्तान्मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस्तम् उवाच्भो बक ! माम् अपि तत्र नय । ततो बकोप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरोपि मस्त्यकण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्हा हतोस्मि मन्दभाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः

तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥१८॥

किं च् अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥१९॥

इत्य् आलोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतोहं ब्रवीमिभक्षयित्वा बहून्मत्स्यान् इत्य् आदि । ततश्चित्रवर्णोवदत्शृणु तावन्मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह्देव !

अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति । स तिरस्कारम् आप्नोति भग्नभाण्डो द्विजो यथा ॥२०॥

राजाहकथम् एतत् मन्त्री कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_२०&oldid=23557" इत्यस्माद् प्रतिप्राप्तम्