हितोपदेशः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सन्धिः[सम्पाद्यताम्]

पुनः कथारम्भकाले राजपुत्रैरुक्तमार्य ! विग्रहः श्रुतोस्माभिः । सन्धिरधुनाभिधीयताम् । विष्णुशर्मेणोक्तम्श्रूयताम् । सन्धिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः

वृत्ते महति सङ्ग्रामे राज्ञोर्निहतसेनयोः ।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥१॥

राजपुत्रा ऊचुःकथम् एतत्
विष्णुशर्मा कथयतिततस्तेन राजहंसेन उक्तम्केनास्मद्दुर्गे निक्षिप्तोग्निः किं पारक्येण किं वास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन
चक्रवाको ब्रूतेदेव ! भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टितम् इदम् ।
राजा क्षणं विचिन्त्याहस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्

अपराधः स दैवस्य न पुनर्मन्त्रिणाम् अयम् ।
कार्यं सुचरितं क्वापि दैवयोगाद् विनश्यति ॥२॥

विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
आत्मनः कर्मदोषांश्च नैव जानात्य् अपण्डितः ॥३॥

अपरं च्
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥४॥

अन्यच्च
रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् ।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥५॥

राहाह्कथम् एतत्
मन्त्री कथयति
 

कथा - १[सम्पाद्यताम्]

अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कटविकटनामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं यत्त्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह्सुहृदौ ! श्रुतोयं धीवरालापः । अधुना किं मया कर्तव्यम् हंसाव् आहतुःज्ञायतां तावत् । पुनस्तावत् प्रातर्यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूतेमैवम् । यतो दृष्टव्यतिकरोहम् अत्र । यथा चोक्तम्

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।
द्वाव् एव सुखम् एधेते यद्भविष्यो विनश्यति ॥६॥

ताव् ऊचतुःकथम् एतत्

कूर्मः कथयति

कथा - २[सम्पाद्यताम्]

पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । तत्रानागतविधाता नामैको मत्स्यः । तेनोक्तंहं तावज्जलाशयान्तरं गच्छामि । इत्य् उक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमतिनाम्ना मस्त्येनाभिहितम्भविष्यद्अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् तद् उत्पन्ने यथाकार्यं तद् अनुष्ठेयम् । तथा चोक्तम्


उत्पन्नाम् आपदं यस्तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥७॥

यद्भविष्यः पृच्छतिकथम् एतत् प्रत्युत्पन्नमतिः कथयति

कथा - ३[सम्पाद्यताम्]

पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते । यतः

<poem>

न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते । गावस्तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥८॥

अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह्नाथ ! एतस्य सेवकस्य महती निकृतिः । यतोयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखम् आघ्राय ज्ञातम् । तथा चोक्तम्

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥९॥

तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तंनाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततोसाव् उत्थाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः । अतोहं ब्रवीमिुत्पन्नाम् आपदम् इत्य् आदि ।

ततो यद्भविष्येणोक्तम् यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ताविषघ्नोयम् अगदः किं न पीयते ॥१०॥

ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः । अतोहं ब्रवीमिनागतविधाता च इत्य् आदि । तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसाव् आहतुःजलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस्ते को विधिः कूर्म आह्यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि, तथा विधीयताम् । हंसाव् ब्रूतःकथम् उपायः सम्भवति कच्छपो वदतियुवाभ्यां चञ्चुधृतं काष्ठखण्डम् एकं मया मुखेनावलम्बितव्यम् । ततश्च युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतःसम्भवत्य् एष उपायः । किन्तु

उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥११॥

कूर्मः पृच्छतिकथम् एतत् तौ कथयतः

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१९&oldid=23556" इत्यस्माद् प्रतिप्राप्तम्