हितोपदेशः १८

विकिस्रोतः तः
Jump to navigation Jump to search

विग्रहः[सम्पाद्यताम्]

कथा - ८[सम्पाद्यताम्]

अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राजद्वारम् उपगम्य प्रतीहारम् उवाचहं तावद् वर्तनार्थी राजपुत्रः । मां रजदर्शनं कारय । ततस्तेनासौ राजदर्शनं कारितो ब्रूतेदेव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्वर्तनं क्रियताम् । शूद्रक उवाच्किं ते वर्तनम् वीरवरो ब्रूतेप्रत्यहं सुवर्णपञ्चशतानि देहि । राजाह्का ते सामग्री वीरवरो ब्रूतेद्वौ बाहू । तृतीयश्च खड्गः । राजाह्नैतच् छक्यम् । तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिरुक्तम्देव ! दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तोयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रिवचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्चशतानि सुवर्णानि दत्तानि । वर्तनविनियोगश्च राज्ञा सुनिभृतं निरूपितः । तद्अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्यविलासव्ययेन । एतत् सर्वं नित्यकृत्यं कृत्वा, राजद्वारम् अहर्निशं खड्गपाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्वगृहम् अपि याति । अथैकदा कृष्णचतुर्दश्यां रात्रौ स राजा सकरुणक्रन्दनध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूतेकः कोत्र द्वारि तिष्ठति तदा तेनोक्तंदेव ! अहं वीरवरः । राजोवाच्क्रन्दनानुसरणं क्रियताम् । वीरवरोपियथाज्ञापयति देवः, इत्य् उक्त्वा चलितः । राज्ञा च चिन्तितम्यम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि । ततो राजापि खड्गम् आदाय तद्अनुसरणक्रमेण नगराद् बहिर्निर्जगाम । गत्वा च वीरवरेण रुदती रुपयौवनसम्पन्ना सर्वालङ्कारभूषिता काचित् स्त्री दृष्टा, पृष्टा च्का त्वम् किम् अर्थं रोदिषि इति । स्त्रियोक्तम्हम् एतस्य शूद्रकस्य राजलक्ष्मीः । चिराद् एतस्य भुजच्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि । वीरवरो ब्रूतेयतापायः सम्भवति, तत्रोपायोप्यस्ति । तत् कथं स्यात् पुनरिहावासो भवत्याः लक्ष्मीरुवाच्यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि, तदाहं पुनरत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् । ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस्तत् सर्वं लक्ष्मीवचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूतेधन्योहम् एवम्भूतः । स्वामिराज्यरक्षार्थं यस्योपयोगः । तात ! तत् कोधुना विलम्बस्य हेतुः एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः


धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
तन्निमित्तो वरं त्यागो विनाशे नियते सति ॥१०२॥

शक्तिधरमातोवाच्यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूतेदेवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश्चिच्छेद । ततो वीरवरश्चिन्तयामास्गृहीतराजवर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश्चिच्छेद ।
ततः स्त्रियापि स्वामिपुत्रशोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास

जायन्ते च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः ।
अनेन सदृशो लोके न भूतो न भविष्यति ॥१०३॥

तद् एतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्वशिरश्छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते
धृतः । उक्तं च्पुत्र ! प्रसन्नोस्मि ते, एतावता साहसेनालम् । जीवनान्तेपि तव राजभङ्गो नास्ति ।
राजा च साष्टाङ्गपातं प्रणम्योवाच्देवि ! किं मे राज्येन जीवितेन वा मम किं प्रयोजनम् यद्य् अहम् अनुकम्पनीयस्तदा ममायुःशेषेणाप्ययं सदारपुत्रो वीरवरो जीवतु । अन्यथाहं यथाप्राप्तां गतिं
गच्छामि ।
भगवत्य् उवाच्पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि सपरिवारो राजपुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं गतः । राजापि तैरलक्षितः सत्वरम् अन्तःपुरं प्रविष्टः ।
अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्न् आह्देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्यन्या वार्ता विद्यते ।
तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास्कथम् अयं श्लाघ्यो महासत्त्वः यतः

प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः ।
दाता नापात्रवर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥१०४॥

एतन्महापुरुषलक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्टसभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटकराज्यं ददौ । तत् किम् आगन्तुको जातिमात्राद् दुष्टः तत्राप्य् उत्तमाधममध्यमाः सन्ति ।

चक्रवाको ब्रूते
योकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामिमनोदुःखं तन्नाशो न त्व् अकार्यतः ॥१०५॥

वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥१०६॥

शृणु देव !
पुण्याल् लब्धं यद् एकेन तन्ममापि भविष्यति ।
हत्वा भिक्षुं यतो मोहान् निध्य्अर्थी नापितो हतः ॥१०७॥

राजा पृच्छतिकथम् एतत्
मन्त्री कथयति
 

कथा - ९[सम्पाद्यताम्]

अस्त्य् अयोध्यायां पुरि चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरम् आराधितः । ततः क्षीणपापोसौ स्वप्ने दर्शनं दत्त्वा, भगवद्आदेशाद्य्अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड हस्तः सन् स्वगृहद्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुडप्रहारेण हनिष्यसि । ततोसौ भिक्षुकस्तत्क्षणात् सुवर्णकलसो भविष्यति । तेन त्वया यावज्जीवं सुखिना भवितव्यम् । ततस्तथानुष्ठिते तद् वृत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्ये निधिप्राप्तेरयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्माद् अपराधात् सोपि नापितो राजपुरुषैर्व्यापादितः । अतोहं ब्रवीमिपुण्याल् लब्धं यद् एकेन इत्य् आदि । राजाह्

<poem>

पुरावृत्तकथोद्गारैः कथं निर्णीयते परः । स्यान् निष्कारणबन्धुर्वा किं वा विश्वासघातकः ॥१०८॥

यातु, प्रस्तुतम् अनुसन्धीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस्तद् अधुना किं विधेयम् मन्त्री वदतिदेव ! आगतप्रणिधिमुखान्मया श्रुतं, यत् महामन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततोसौ मूढो जेतुं शक्यः । तथा चोक्तम्

लुब्धः क्रूरोलसोसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥१०९॥

ततोसौ यावद् अस्मद् दुर्गद्वाररोधं न करोति, तावन् नद्य्अद्रिवनवर्त्मसु तद्बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्

दीर्घवर्त्मपरिश्रान्तं नद्य्अद्रिवनसङ्कुलम् । घोराग्निभयसन्त्रस्तं क्षुत्पिपासार्दितं तथा ॥११०॥

प्रमत्तं भोजनव्यग्रं व्याधिदुर्भिक्षपीडितम् । असंस्थितम् अभूयिष्ठं वृष्टिवातसमाकुलम् ॥१११॥

पङ्कपांशुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम् । एवम्भूतं महीपालः परसैन्यं विघातयेत् ॥११२॥

अन्यच्च अवस्कन्दभयाद् राजा प्रजागरकृतश्रमम् । दिवासुप्तं सदा हन्यान् निद्राव्याकुलसैनिकम् ॥११३॥

अतस्तस्य प्रमादितो बलं गत्वा यथावकाशं दिवानिशं घ्नन्त्व् अस्मत्सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो विषण्णः स्वमन्त्रिणं दूरदर्शिनम् आह्तात ! किम् इत्य् अस्मद्उपेक्षा क्रियते किं क्वाप्यविनयो ममास्ति तथा चोक्तम्

न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् । श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ॥११४॥

अपि च् दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी । उद्युक्तो वियान्तं धर्मार्थयशांसि च विनीतः ॥११५॥

गृध्रोवदत्देव ! शृणु अविद्वान् अपि भूपालो विद्यावृद्धोपसेवया । परां श्रियम् अवाप्नोति जलासन्नतरुर्यथा ॥११६॥

अन्यच्च पापं स्त्री मृगया द्यूतम् अर्थदूषणम् एव च । वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥११७॥

किं च् न साहसैकान्तरसानुवर्तिना न चाप्य् उपायोपहतान्तरात्मना । विभूतयः शक्यम् अवाप्तुम् ऊर्जिता नये च शौर्ये च वसन्ति सम्पदः ॥११८॥

त्वया स्वबलोत्साहम् अवलोक्य, साहसैकरसिकेन मयोपन्थस्तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्

दुर्मन्त्रिणं कम् उपयान्ति न नीतिदोषाः सन्तापयन्ति कम् अपथ्यभुजं न रोगाः कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्त्रीकृता न विषयाः परितापयन्ति ॥११९॥

अपरं च् मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचम् आपदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः ॥१२०॥

ततो मयाप्यालोचितम्प्रज्ञाहीनोयं राजा । न चेत् कथं नीतिशास्त्रकथाकौमुदीं वाग्उल्काभिस्तिमिरयति । यतः

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥१२१॥

इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिराह्तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश । गृध्रः स्वगतं चिन्तयतिक्रियताम् अत्र प्रतीकारः । यतः,

देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च ॥१२२॥

मन्त्री प्रहस्य ब्रूतेदेव मा भैषीः । समाश्वसिहि । शृणु देव् मन्त्रिणां भिन्नसन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥१२३॥

अपरं च् आरम्भन्तेल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥१२४॥

तद् अत्र भवत्प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्तिप्रतापसहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाह्कथम् अधुना स्वल्पबलेन तत् सम्पद्यते गृध्रो वदतिदेव ! सर्वं भविष्यति । यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यम्भावि लक्षणम् । तत् सहसैव दुर्गद्वारावरोधः क्रियताम् । अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्देव ! स्वल्पबल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्गद्वारावरोधं करिष्यति । राजहंसो ब्रूतेस्वबले सारासारविचारः क्रियताम् । तज् ज्ञात्वा सुवर्णवस्त्रादिकं यथार्हं प्रसादप्रदानं च क्रियताम् । यतः

यः काकिणीम् अप्यपथप्रपन्नां समुद्धरेन् निष्कसहस्रतुल्याम् । कालेषु कोटिष्व् अपि मुक्तहस्तस् तं राजसिंहं न जहाति लक्ष्मीः ॥१२५॥

अन्यच्च क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसङ्ग्रहे । प्रियासु नारीष्व् अधनेषु बान्धवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु ॥१२६॥

यतः मूर्खः स्वल्पव्ययत्रासात् सर्वनाशं करोति हि । कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ॥१२७॥

राजाह्कथम् इह समयेतिव्ययो युज्यते उक्तं चापद्अर्थे धनं रक्षेद् इति । मन्त्री ब्रूतेश्रीमतां कथम् आपदः राजाह्कदाचिच् चलिता लक्ष्मीः । मन्त्री ब्रूतेसञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्वभटा दानमानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्

परस्परज्ञाः संहृष्टास्त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्बलम् ॥१२८॥

अपरं च् सुभटाः शीलसम्पन्नाः संहताः कृतनिश्चयाः । अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम् ॥१२९॥

किं च् शिष्टैरप्यवशेषज्ञ उग्रश्च कृतनाशकः । त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः ॥१३०॥

यतः सत्यं शौर्यं दया त्यागो नृपस्यैते महागुणाः । एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥१३१॥

ईदृशि प्रस्तावेमात्यास्तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्

यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥१३२॥

यतः धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः । अनीतिपवनक्षिप्तोकार्याब्धौ स निमज्जति ॥१३३॥

शृणु देव! हर्षक्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस्तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥१३४॥

येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमन्येत् कदाचन ॥१३५॥

महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः । स्खलतो हि करालम्बः सुशिष्टैरेव कीयते ॥१३६॥

अथागत्य प्रणम्य मेघवर्णो ब्रूतेदेव ! दृष्टिप्रसादं कुरु । इदानीं विपक्षो दुर्गद्वारि वर्तते । तद् देवपादादेशाद् बहिर्निःसृत्य स्वविक्रमं दर्शयामि । तेन देवपादानाम् आनृण्यम् उपगच्छामि । चक्रवाको ब्रूतेमैवम् । यदि बहिर्निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च्

विषमोपि यथा नक्रः सलिलान् निसृतो वशः । वनाद् विनिर्गतः शूरः सिंहोपि स्याच् छगालवत् ॥१३७॥

अथ ते सर्वे दुर्गद्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश्चित्रवर्णो राजा गृध्रम् उवाच्तात ! स्वप्रतिज्ञातम् अधुना निर्वाहय । वायसो ब्रूतेदेव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः

पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥१३८॥

गृध्रो ब्रूतेदेव ! शृणु तावत् अकालसहमत्य्अल्पं मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं च दुर्गव्यसनम् उच्यते ॥१३९॥

तत् तावद् अत्र नास्ति उपजापश्चिरारोधोवस्कन्दस्तीव्रपौरुषम् । दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे ॥१४०॥

अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति एवम् एवम् । ततोनुदित एव भास्करे चतुर्ष्व् अपि दुर्गद्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तरगृहेष्व् एकदा काकैरग्निनिक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राजहंससैनिका बहवो दुर्गवासिनश्च सत्वरं ह्रदं प्रविष्टाः, यतः

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । कार्यकाले यथाशक्ति कुर्यान् न तु विचारयेत् ॥१४१॥

राजा हंसश्च स्वभावान्मन्दगतिः । सारसद्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह्सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्पुत्रं चूडामणिनामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूतेदेव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस्तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन्मम मांसासृग् विलिप्तेन द्वारवर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । राजाह्सत्यम् एवैतत् । किन्तु शुचिर्दक्षोनुरक्तश्च जाने भृत्योपि दुर्लभः ॥१४२॥

सारसो ब्रूतेशृणु देव! यदि समरम् अपास्य नास्ति मृत्योर् भयम् इति युक्तम् इतोन्यतः प्रयातुम् । अथ मरणम् अवश्यम् एव जन्तोः किम् इति मुधा मलिनं यशः क्रियते ॥१४३॥

अन्यच्च भवेस्मिन् पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे । जायते पुणय्योगेन परार्थे जीवितव्ययः ॥१४४॥

स्वाम्य्अमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोपि च ॥१४५॥

देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ।१४६॥

अपरं च् नरेशे जीवलोकोयं निमीलति निमीलति । उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ॥१४७॥

अत्रापि प्रधानाङ्गं राजा । अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतरनखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्वदेहान्तरितो राजा जले क्षिप्तः । अथ कुक्कुटनखप्रहारजर्जरीकृतेनापि सारसेन कुक्कुटसेना बहुशो हता । पश्चात् सारसोपि बहुभिः पक्षिभिः समेत्य चञ्चुप्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर्जयशब्दैरानन्दितः स्वस्कन्धावारं जगाम । अथ राजपुत्रैरुक्तंतस्मिन् राजहंसपक्षे पुण्यवान् स सारस एव, येन स्वदेहत्यागेन स्वामी रक्षितः । यतः

जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखितस्कन्धं काचिद् एव गवां पतिम् ॥१४८॥

विष्णुशर्मोवाच्स तावत् सत्त्वक्रीतान् अक्षयलोकान् विद्याधरीपरिवृत्तोनुभवतु महासत्त्वः । तथा चोक्तम्

आहवेषु च ये शूराः स्वाम्य्अर्थे त्यक्तजीविताः । भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥१४९॥

यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥१५०॥

अथ विष्णुशर्मा प्राह्विग्रहः श्रुतो भवद्भिः । राजपुत्रैरुक्तम्श्रुत्वा सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्परम् अप्य् एवम् अस्तु

विग्रहः करितुरङ्गपत्तिभिर् नो कदापि भवतान्महीभुजाम् । नीतिमन्त्रपवनैः समाहताः संश्रयन्तु गिरिगह्वरं द्विषः ॥१५१॥

इति श्रीनारायणपण्डितकृते हितोपदेशे नीतिशास्त्रे विग्रहो नाम तृतीयः कथासङ्ग्रहः ।

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१८&oldid=23547" इत्यस्माद् प्रतिप्राप्तम्