हितोपदेशः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कथा - ७[सम्पाद्यताम्]

अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुम् असमर्थः, प्रातरात्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीलीभाण्डस्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः । ततोसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्हम् इदानीम् उत्तमवर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तंहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः । शृगालाश्च तं विशिष्टवर्णम् अवलोक्य, साष्टाङ्गपातं प्रणम्योचुःयथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्यवासिष्व् आधिपत्यं तस्य बभूव । ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम् । ततस्तेन व्याघ्रसिंहादीन् उत्तमपरिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्धशृगालेनैतत् प्रतिज्ञातंमा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्वसमीपात् परिभूतास्तद् यथायं नश्यति तथा विधेयम् । यतोमी व्याघ्रादयो वर्णमात्रविप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामिसर्वे सन्ध्यासमये तत्सन्निधाने महारावम् एकदैव करिष्यथ । ततस्तं शब्दम् आकर्ण्य जातिस्वभावात् तेनापि शब्दः कर्तव्यः । यतः

<poem>

यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥६०॥

ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस्तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्

छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्य् अन्तर्गतश्चैव शुष्कं वृक्षम् इवानलः ॥६१॥

अतोहं ब्रवीमिात्मपक्षं परित्यज्येत्य् आदि । राजाह्यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्सङ्ग्रहे विचारः कार्यः । चक्रो ब्रूतेदेव ! प्रणिधिस्तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुकोप्यानीय प्रस्थाप्यताम् । किन्तु योधबलसमन्वितो भूत्वा, दूराद् एव तम् अवलोकय । यतः

नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः । तद् दूरान्तरितं दूतं पश्येद् वीरसमन्वितः ॥६२॥

ततः सभां कृत्वाहूतः शुकः काकश्च । शुकः किंचिद् उन्नतशिरा दत्तासने उपविश्य ब्रूतेभो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्चित्रवर्णः समाज्ञापयतियदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय । राजा सकोपम् आहाः, सभायाम् अस्माकं न कोपि विद्यते य एनं गलहस्तयति तत उत्थाय मेघवर्णो ब्रूतेदेव ! आज्ञापय, हमि चैनं दुष्टशुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूतेभद्र ! मा मैवम् । शृणु तावत्

न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति ॥६३॥

यतो राजधर्मश्चैषः दूतो म्लेच्छोप्यवध्यः स्याद् राजा दूतमुखो यतः । उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ॥६४॥

अन्यच्च स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः । सदैवावध्यभावेन दूतः सर्वं हि जल्पति ॥६५॥

ततो राजा काकश्च स्वां प्रकृतिम् आपन्नौ । शुकोप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुकोपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच्शुक ! का वार्ता कीदृशोसौ देशः शुको ब्रूतेदेव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश्चासौ कर्पूरद्वीपः स्वर्गैकदेशो, राजा च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्सम्प्रति कर्तव्ये विग्रहे यथाकर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनरवश्यं कर्तव्यः । तथा चोक्तम्

असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥६६॥

दूरदर्शी नाम गृध्रो मन्त्री ब्रूतेदेव ! व्यसनितया विग्रहो न विधिः । यतः

मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः । शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ॥६७॥

अन्यच्च भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन् निश्चितं भावि कर्तव्यो विग्रहस्तदा ॥६८॥

राजाह्मद्बलं तावद् अवलोकयतु मन्त्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभलग्नं निर्णीय ददातु । मन्त्री ब्रूतेदेव ! तथापि सहसा यात्राकरणम् अनुचितम् । यतः

विशन्ति सहसा मूढा येविचार्य द्विषद्बलम् । खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥६९॥

राजाह्मन्त्रिन् ! ममोत्साहभङ्गं सर्वथा मा कृथाः । विजिगीषुर्यथा परभूमिम् आक्रमति तथा कथय । गृध्रो ब्रूतेदेव ! तत् कथयामि । किन्तु तद्अनुष्ठितम् एव फलप्रदम् । तथा चोक्तम्

किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवीपतेः । न ह्य् औषधपरिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ॥७०॥

राजादेशश्चानतिक्रमणीय इति यथाश्रुतं निवेदयामि शृणुदेव !

नद्य्अद्रिवनदुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर्यायाद् व्यूहीकृतैर्बलैः ॥७१॥

बलाध्यक्षः पुरो यायात् प्रवीरपुरुषान्वितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥७२॥

पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥७३॥

पश्चात् सेनापतिर्यायात् खिन्नानाश्वासयन् छनैः । मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः ॥७४॥

समेयाद् विषमं नागैर्जलाढ्यं समहीधरम् । समम् अश्वैर्जलं नीमिः सर्वत्रैव पदातिभिः ॥७५॥

हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥७६॥

शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम् । स्वयोधै रक्षितस्यापि शयनं योगनिद्रया ॥७७॥

नाशयेत् कर्षयेच् छत्रून् दुर्गकण्टकमर्दनैः । परदेशप्रवेशे च कुर्याद् आटविकान् पुरः ॥७८॥

यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस्ततो दद्यात् को हि दातुर्न युध्यते ॥७९॥

यतः न नरस्य नरो दासो दासस्त्व् अर्थस्य भूपते । गौरवं लाघवं वापि धनाधननिबन्धनम् ॥८०॥

अभेदेन च युध्येत रक्षेच् चैव परस्परम् । फल्गु सैन्यं च यत् किंचिन्मध्ये व्यूहस्य कारयेत् ॥८१॥

पदातींश्च महीपालः पुरोनीकस्य योजयेत् । उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ॥८२॥

स्यन्दनाश्वैः समे युध्येद् अनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥८३॥

दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् । भिन्द्याच् चैव तडागानि प्रकारारान् परिखास्तथा ॥८४॥

बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः । निजैरवयवैरेव मातङ्गोष्टायुधः स्मृतः ॥८५॥

बलम् अश्वश्च सैन्यानां प्राकारो जङ्गमो यतः । तस्माद् अश्वाधिको राजा विजयी स्थलविग्रहे ॥८६॥

तथा चोक्तम् युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः । अपि दूरस्थितास्तेषां वैरिणो हस्तवत्तिनः ॥८७॥

प्रथमं युद्धकारित्वं समस्तबलपालनम् । दिङ्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते ॥८८॥

स्वभावशूरम् अस्त्रज्ञम् अविरक्तं जितश्रमम् । प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः ॥८९॥

यथा प्रभुकृतान् मानाद् युध्यन्ते भुवि मानवाः । न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥९०॥

वरम् अल्पबलं सारं न कुर्यान् मुण्डमण्डलीम् । कुर्याद् असारभङ्गो हि सारभङ्गम् अपि स्फुटम् ॥९१॥

अप्रसादोनधिष्ठानं देयांशहरणं च यत् । कालयापोप्रतीकारस्तद् वैराग्यस्य कारणम् ॥९२॥

अपीडयन् बलं शत्रूञ् जिगीषुरभिषेणयेत् । सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥९३॥

दायादाद् अपरो यस्मान् नास्ति भेदकरो द्विषाम् । तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ॥९४॥

सन्धाय युवराजेन यदि वा मुख्यमन्त्रिणा । अन्तःप्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥९५॥

क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गोग्रहाकृष्ट्या तन्मुख्याश्रितबन्धनात् ॥९६॥

स्वराज्यं वासयेद् राजा परदेशापहरणात् । अथवा दानमानाभ्यां वासितं धनदं हि तत् ॥९७॥

अथवा बहुनोदितेन् आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती । तद् ऊरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥९८॥

राज्ञा विहस्योक्तम्सर्वम् एतद् विशेषतश्चोच्यते । किन्तु,

अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्रनियन्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥९९॥

तत उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थितः । अथ प्रहितप्रणिधिश्चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच्देव ! समागतप्रायो राजा चित्रवर्णः । सम्प्रति मलयपर्वताधित्यकायां समावासितकटको वर्तते । दुर्गशोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतोसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वासकथाप्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्नेन कोप्यस्मद्दुर्गे प्राग् एव नियुक्तः । चक्रवाको ब्रूतेदेव ! काक एवासौ सम्भवति । राजाह्न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते । मन्त्री ब्रूतेतथाप्यागन्तुकः शङ्कनीयः । राजाहागन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु

परोपि हितवान् बन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितम् आरण्यम् औषधम् ॥१००॥

अपरं च् आसीद् वीरवरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्पकालेन स ददौ सुतम् आत्मनः ॥१०१॥

चक्रवाकः पृच्छतिकथम् एतत् राजा कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१७&oldid=23545" इत्यस्माद् प्रतिप्राप्तम्