हितोपदेशः १६
विग्रहः
[सम्पाद्यताम्]कथा - ५
[सम्पाद्यताम्]एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थितदधिभाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधिभाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः । अतोहं ब्रवीमिन गन्तव्यम् इत्य् आदि । ततो मयोक्तम्भ्रातः शुक ! किम् एवं ब्रवीषि मां प्रति यथा श्रीमद्देवपादास्तथा भवान् अपि । शुकेनोक्तम्स्त्व् एवम् । किन्तु,
दुर्जनैरुच्यमानानि संमतानि प्रियाण्य् अपि ।
अकालकुसुमानीव भयं संजनयन्ति हि ॥२४॥
दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर्भूपालयोर्विग्रहे भवद्वचनम् एव निदानम् । पश्य्
प्रत्यक्षेपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारो निजां भार्यां सजारां शिरसाकरोत् ॥२५॥
राज्ञोक्तम्कथम् एतत्
शुकः कथयति
कथा - ६
[सम्पाद्यताम्]अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति । किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजातविश्वासः स जारः सन्ध्याकाल एवागतः । पज्चात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्कतलस्थितस्य भर्तुः किञ्चिद् अङ्गस्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम्किम् इति त्वम् अद्य मया सह निर्भरं न रमसे विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तम्नभिज्ञोसि । योसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि तत्र परस्थाने किं खादितवान् कथं वा प्रसुप्तः इत्य् अस्मद्धृदयं विदीर्यते । जारो ब्रूतेतव किम् एवंविधा स्नेहभूमी रथकारः बन्धक्य् अवदत्रे बर्बर ! किं वदसि शृणु <poem> परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा । सुप्रसन्नमुखी भर्तुः सा नारी धर्मभाजनम् ॥२६॥
अपरं च् यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥२७॥
अन्यच्च भर्ता हि परमं नार्या भूषणं भूषणैर्विना । एषा विरहिता तेन शोभनापि न शोभते ॥२८॥
त्वं च जारः पापमतिः, मनोलौल्यात् पुष्पताम्बूलसदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर्मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना तस्मिन् जीवति जीवामि । तन्मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः
तिस्रः कोट्योर्धकोटी च यानि लोमानि मानवे । तावत् कालं वसेत् स्वर्गे भर्तारं योनुगच्छति ॥२९॥
अन्यच्च व्यालग्राही यथा व्यालं बलाद् उद्धरते बिलात् । तद्वद् भर्तारम् आदाय स्वर्गलोके महीयते ॥३०॥
अपरं च् चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः । कृत्वापि पापं शतलक्षम् अप्यसौ पतिं गृहीत्वा सुरलोकम् आप्नुयात् ॥३१॥
यतः नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥३२॥
एतत् सर्वं श्रुत्वा मन्दमतिः स रथकारःधन्योहं यस्येदृशी प्रियवादिनी, स्वामिवत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्रीपुरुषसहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतोहं ब्रवीमि प्रयक्षेपि कृते दोषे इत्य् आदि । अतोहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः । शुकोपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथाकर्तव्यम् अनुसन्धीयताम् । चक्रवाको विहस्याह्देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथाशक्ति राजकार्यम् अनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,
शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् । विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम् ॥३३॥
राजाहलम् अनेनातीतोपालम्भनेन । प्रस्तुतम् अनुसन्धीयताम् । चक्रवाको ब्रूतेदेव ! विजने ब्रवीमि । यतः, वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः । अप्य् ऊहन्ति मनो धीरास्तस्माद् रहसि मन्त्रयेत् ॥३४॥
ततो राजा मन्त्री च तत्र स्थितौ अन्येन्यत्र गताः । चक्रवाको ब्रूतेदेव ! अहम् एवं जानाम्कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः,
वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम् ॥३५॥
राजाब्रवीत्भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् । चक्रवाको ब्रूतेदेव ! प्रणिधिस्तावत् तत्र प्रहीयताम् । ततस्तद्अनुष्ठानं बलाबलं च जानीमः । तथा हि
भवेत् स्वपरराष्ट्राणां कार्याकार्यावलोकने । चारश्चक्षुर्महीभर्तुर्यस्य नास्त्य् अन्ध एव सः ॥३६॥
स च द्वितीयं विश्वासपात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्यमन्त्रकार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं तीर्थाश्रमसुरस्थाने शास्तरविज्ञानहेतुना । तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवसेत् ॥३७॥
गूढचारश्च्यो जले स्थले च चरति । ततोसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया । इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो महीभृता ॥३८॥
पश्य् मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीपतेः । न शक्यास्ते समाधातुम् इति नीतिविदां मतम् ॥३९॥
राजा विमृश्योवाच्प्राप्तस्तावन्मयोत्तमः प्रतिनिधिः । मन्त्री ब्रूतेदेव ! सङ्ग्रामे विजयोपि प्राप्तः । अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच्देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस्तिष्ठति । राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः । यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवासस्थानं गतः । राजाह्विग्रहस्तावत् समुपस्थितः । चक्रवाको ब्रूतेदेव ! तथापि प्राग् एव विग्रहो न विधिः । यतः
स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् । युद्धोद्योगं स्वभूत्यागं निर्दिशत्य् अविचारितम् ॥४०॥
अपरं च् विजेतुं प्रयतेतारीन् न युद्धेन कदाचन । अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥४१।
अन्यच्च साम्ना दानेन भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन् न युद्धेन कदाचन ॥४२॥
अपरं च् सर्व एव जनः शूरो ह्य् अनासादितविग्रहः । अदृष्टपरसामर्थ्यः सदर्पः को भवेन् न हि ॥४३॥
किं च् न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा । अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥४४॥
किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः यथा कालकृतोद्योगात् कृषिः फलवती भवेत् । तद्वन् नीतिरियं देव चिरात् फलति न क्षणात् ॥४५॥
अपरं च् दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ॥४६॥
अन्यच्च प्रत्यूहः सर्वसिद्धीनाम् उत्तापः प्रथमः किल । अतिशीतलम् अप्यम्भः किं भिनत्ति न भूभृतः ॥४७॥
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ॥४८॥
अन्यच्च स मूर्खः कालम् अप्राप्य योपकर्तरि वर्तते । कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा ॥४९॥
किं च् कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् । प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत् क्रूरसर्पवत् ॥५०॥
महत्य् अल्पेप्य् उपायज्ञः समम् एव भवेत् क्षमः । समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥५१॥
अतो दूतोयं शुकोत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः
एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं शतसहस्राणि तस्माद् दुर्गं विशिष्यते ॥५२॥
किं च् अदुर्गविषयः कस्य नारेः परिभवास्पदम् । अदुर्गोनाश्रयो राजा पोतच्युतमनुष्यवत् ॥५३॥
दुर्गं कुर्यान्महाखातम् उच्चप्राकारसंयुतम् । सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम् ॥५४॥
विस्तीर्णतातिवैषम्यं रसधान्येध्मसङ्ग्रहः । प्रवेशश्चापसारश्च सप्तैता दुर्गसम्पदः ॥५५॥
राजाह्दुर्गानुसन्धाने को नियुज्यताम्
चक्रवाको ब्रूते यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्व् अदृष्टकर्मा यः शास्त्रज्ञोपि विमुह्यति ॥५६॥
तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच्भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि । सारसः प्रणम्योवाच्देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किन्त्व् एतन्मध्यद्वीपे द्रव्यसङ्ग्रहः क्रियताम् । यतः
धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्वसङ्ग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राणधारणम् ॥५७॥
किं च् ख्यातः सर्वरसानां हि लवणो रस उत्तमः । गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥५८॥
राजाह्सत्वरं गत्वा सर्वम् अनुष्ठीयताम् । पुनः प्रविश्य प्रतीहारो ब्रूतेदेव ! सिंहलद्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देवपादान् द्रष्टुम् इच्छति । राजाह्काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः । चक्रवाको ब्रूतेदेव ! अस्त्य् एवं । किन्तु अस्मद्विपक्षः काकः स्थलचरः । तेनास्मद्विपक्षपक्षे नियुक्तः कथं सङ्गृह्यते तथा चोक्तम्
आत्मपक्षं परित्यज्य परपक्षेषु यो रतः । स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥५९॥
राजोवाचकथम् एतत् मन्त्री कथयति