हितोपदेशः १५अ

विकिस्रोतः तः

कथा - ४[सम्पाद्यताम्]

अस्त्य् उज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः । तत्र हंसकाकौ निवसतः । कदाचित् ग्रीष्मसमये परिश्रान्तः कश्चित् पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्मुखाद् वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं व्याप्तम् अवलोक्य, तद्वृक्षस्थितेन पुण्यशीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्राशुखिना पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् । अथ परसुखम् असहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोहं ब्रवीमिन स्थातव्यम् इति ।

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१५अ&oldid=23553" इत्यस्माद् प्रतिप्राप्तम्