हितोपदेशः १५
विग्रहः
[सम्पाद्यताम्]कथा - २
[सम्पाद्यताम्]अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोतिभारवहनाद् दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो गर्दभोयम् इति मत्वोच्चैः शब्दं कुर्वाणस्तद्अभिमुखं धावितः । ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद् गर्दभोयम् इति निश्चित्य, लीलयैव व्यापादितः । अतोहं ब्रवीमिसुचिरं हि चरन् नित्यम् इत्य् आदि । दीर्घमुखो ब्रूतेततः पश्चात् तैः पक्षिभिरुक्तम्रे पापा दुष्टबक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर्हत्वा, सकोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थम् अप्यर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति राज्यं वा तस्य किम् त्वं च कूपमण्डूकः । तेन तद्आश्रयम् उपदिशसि । शृणु
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥१०॥
अन्यच्च
हीनसेवा न कर्तव्या कर्तव्यो महद् आश्रयः ।
पयोपि शौण्डिकीहस्ते वारुणीत्य् अभिधीयते ॥११॥
अन्यच्च
महान् अप्यल्पतां याति निर्गुणे गुणविस्तरः ।
आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥१२॥
किन्तु
अजा सिंहप्रसादेन वने चरति निर्भयम् ।
रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः ॥१३॥
विशेषतश्च्
व्यपदेशेपि सिद्धिः स्याद् अतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥१४॥
मयोक्तम्कथम् एतत्
पक्षिणः कथयन्ति
कथा - ३
[सम्पाद्यताम्]कदाचिद् वर्षास्व् अपि वृष्टेरभावात् तृषार्तो गजयूथो यूथपतिम् आह्नाथ ! कोभ्युपायोस्माकं जीवनाय नास्ति क्षुद्रजन्तूनां अपि निमज्जनस्थानम् । वयं च निमज्जनस्थानाभावान् मृताः । अन्धा इव किं कुर्मः क्व यामः ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्कुलम् । ततो विजयो नाम वृद्धशशकोवदत्मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्कथं मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः
<poem>
स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः । पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ॥१५॥
अतोहं पर्वतशिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच्कस्त्वम् कुतः समायातः स ब्रूतेशशकोहम् । भगवता चन्द्रेण भवद्अन्तिकं प्रेषितः । यूथपतिराह्कार्यम् उच्यताम् ।
विजयो ब्रूते उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥१६॥
तद् अहं तद्आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तद् अनुचितं कृतम् । ते शशकाश्चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवम् उक्तवति दूते यूथपतिर्भयाद् इदम् आह्प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि । दूत उवाच्यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ । ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन्देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमःव्यपदेशेपि सिद्धिः स्यात् इति ।
ततो मयोक्तम्स एवास्मत्प्रभू राजहंसो महाप्रतापोतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिःदुष्ट ! कथम् अस्मद्भूमौ चरसि इत्य् अभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् । एष दुष्टोस्मद्देशे चरन्न् अपि देवपादान् अधिक्षिपति । राजाह्कोयम् कुतः समायातः ते ऊचुःहिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः । अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री इति । मयोक्तम्सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूतेयुज्यते । स्वदेशजोसौ । यतः
स्वदेशजं कुलाचारविशुद्धम् उपधाशुचिम् । मन्त्रज्ञम् अवसनिनं व्यभिचारविवर्जितम् ॥१७॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥१८॥
अत्रान्तरे शुकेनोक्तम्देव ! कर्पूरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देवपादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तमेवम् एव । यतः
राजा मत्तः शिशुश्चैव प्रमदा धनगर्वितः । अप्राप्यम् अपि वाञ्छन्ति किं पुनर्लभ्यतेपि यत् ॥१९॥
ततो मयोक्तम्यदि वचनम्मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यम् अस्ति । शुको ब्रूतेकथम् अत्र निर्णयः मयोक्तंसङ्ग्राम एव । राज्ञा विहस्योक्तम्स्वस्वामिनं गत्वा सज्जीकुरु । तदा मयोक्तम्स्वदूतोपि प्रस्थाप्यताम् । राजोवाच्कः प्रयास्यति दौत्येन यत एवम्भूतो दूतः कार्यः
भक्तो गुणी शुचिर्दक्षः प्रगल्भोव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥२०॥
गृध्रो वदतिसन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः,
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥२१॥
राजाह्ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्अभिलषितं ब्रूहि । शुको ब्रूतेयथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्
खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोहरत् सीतां बन्धनं स्यान्महोदधेः ॥२२॥
अपरं च् न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काकसङ्गाद् धतो हंसस्तिष्ठन् गछंश्च वर्तकः ॥२३॥
राजोवाच्कथम् एतत् शुकः कथयति