हितोपदेशः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

विग्रहः[सम्पाद्यताम्]

अथ पुनः कथारम्भकाले राजपुत्रैर् उक्तम् ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम् यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम्

आद्यः श्लोकः
हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे ॥१॥

राजपुत्रा ऊचुःकथम् एतत् विष्णुशर्मा कथयति
अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षिराज्येभिषिक्तः । यतः

यदि न स्यान् नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥२॥

अपरं च्
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद् रक्षणं श्रेयस्तदभावे सद् अप्यसत् ॥३॥

एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाच्दीर्घमुख ! दशान्तराद् आगतोसि । वार्तां कथय।
स ब्रूते देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतोहम् । श्रूयताम्
अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये चरन्न् अवलोकितः । पृष्टश्च्कस्त्वम् कुतः समागतोसि
तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतोस्मि । एतच् छ्रुत्वा पक्षिभिरुक्तम्नयोर्देशयोः को देशो भद्रतरो राजा च
ततो मयोक्तम् किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्देशे गम्यताम् ।
ततोस्मद्वचनम् आकर्ण्य सर्वपक्षिणः सकोपा बभूवुः । तथा चोक्तम्

पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥४॥

अन्यच्च
विद्वान् एवोपदेष्टव्यो नाविद्वांस्तु कदाचन ।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥५॥

राजोवाच्कथम् एतत्
दीर्घमुखः कथयति

कथा - १[सम्पाद्यताम्]

अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः । तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले । धारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत <poem>

अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः । हस्तपादादिसंयुक्ता यूयं किम् अवसीदथ ॥६॥

तच् छ्रुत्वा वानरैर्जातामर्षैरालोचितम्हो ! निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेरुपशमः । अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि । अतोहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि । राजोवाच्ततस्तैः पक्षिभिः किं कृतम् बकः कथयतिततस्तैः पक्षिभिः कोपाद् उक्तम्केनासौ राजहंसो राजा कृतः ततो मयोपजातकोपेनोक्तम्यं युष्मदीयो मयूरः केन राजा कृतः एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्वविक्रमो दर्शितः । यतः

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥७॥

राजा विहस्याह् आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेरिभिः ॥८॥

सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् । द्वीपिचर्मपरिच्छन्नो वाग्दोषाद् गर्दभो हतः ॥९॥

बकः पृच्छतिकथम् एतत् राजा कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१४&oldid=317959" इत्यस्माद् प्रतिप्राप्तम्