हितोपदेशः १२

विकिस्रोतः तः
Jump to navigation Jump to search

सुहृद्भेदः[सम्पाद्यताम्]

कथा - ८[सम्पाद्यताम्]

अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किम् अर्थम् एकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः । ततः सिंहेनोक्तम्यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् । ततःप्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्धशशकस्य वारः समायातः । सोचिन्तयत् <poem> त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥१२३॥

तन्मन्दं मन्दं गच्छामि । ततः सिंहोपि क्षुधापीडितः कोपात् तम् उवाच्कुतस्त्वं विलम्ब्य समागतोसि । शशकोब्रवीत्देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतोसिम् । सिंहः सकोपम् आह्सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतोहं ब्रवीमि बुद्धिर्यस्य इत्य् आदि । वायस्य् आह्श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसोऽवदत्त्रासन्ने सरसि राजपुत्रः प्रत्यहम् आगत्य स्नाति । स्नानसमये मद्अङ्गाद् अवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित् स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तद्अनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोहं ब्रवीमिुपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि । करटको ब्रूतेयद्य् एवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः । ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच्देव ! आत्यन्तिकं किम् अपि महाभयकारि कार्यं मन्यमानः समागतोस्मि । यतः

आपद्य् उन्मार्गगमने कार्यकालात्ययेषु च । कल्याणवचनं ब्रूयाद् अपृष्टोपि हितो नरः ॥१२४॥

अन्यच्च भोगस्य भाजनं राजा न राजा कार्यभाजनम् । राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥१२५॥

तथा हि पश्य । अमात्यानाम् एष क्रमः । वरं प्राणपरित्यागः शिरसा वापि कर्तनम् । न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥१२६॥

पिङ्गलकः सादरम् आहथ भवान् किं वक्तुम् इच्छति । दमनको ब्रूतेदेव ! संजीवकस्तवोपयसदृशव्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यम् एवाभिलषति । एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनराह्देव ! सर्वामात्यपरित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः

अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः । सा स्त्रीस्वभावाद् असहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥१२७॥

अपरं च् एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥१२८॥

अन्यच्च विषदग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ॥१२९॥

किं च् यः कुर्यात् सचिवायत्तां श्रियं तद्व्यसने सति । सोन्धवज् जगतीपालः सीदेत् सञ्चारकैर्विना ॥१३०॥

सर्वकार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति ।

न सोस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षतेत्र कः ॥१३१॥

सिंहो विमृश्याह्भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य्

कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेषदोषदुष्टोपि कायः कस्य न वल्लभः ॥१३२॥

अन्यच्च अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्धमन्दिरसारेपि कस्य वह्नावनादरः ॥१३३॥

दमनकः पुनरे एवाह्देव ! स एवातिदोषः, यतः यस्मिन्न् एवाधिकं चक्षुरारोहयति पार्थिवः । सुतेमात्येप्य् उदासीने स लक्ष्म्याश्रीयते जनः ॥१३४॥

शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥१३५॥

त्वया च मूलभृत्यानपास्यायम् आगन्तुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः

मूलभृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् । नातः परतरो दोषो राज्यभेदकरो यतः ॥१३६॥

सिंहो ब्रूतेकिम् आश्चर्यम् । मया यद् अभयवाचं दत्त्वानीतः संवर्धितश्च तत् कथं मह्यं द्रुह्यति । दमनको ब्रूतेदेव !

दुर्जनो नार्जवं याति सेव्यमानोपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ॥१३७॥

अपरं च् स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥१३८॥

अन्यच्च वर्धनं वा सम्मानं खलानां प्रीतये कुतः । फलन्त्य् अमृतसेकेपि न पथ्यानि विषद्रुमाः ॥१३९॥

अतोहं ब्रवीमि अपृष्टस्तस्य न ब्रूयाद् यश्च नेच्छेत् पराभवम् । एष एव सतां धर्मो विपरीतोसतां मतः ॥१४०॥

तथा चोक्तम् स्निग्धोकुशलान् निवारयति यस्तत् कर्म यन् निर्मलं सा स्त्री यातुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥१४१॥

यदि सञ्जीवकव्यसनादितोविज्ञापितोपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च्

नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मानध्मातः स पतति यदा शोकगहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ॥१४२॥

पिङ्गलकः स्वगतम् न परस्यापराधेन परेषां दण्डम् आचरेत् । आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ॥१४३॥

तथा चोक्तम् गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे । स्वनाशाय यथा न्यस्तो दर्पात् सर्पमुखे करः ॥१४४॥

प्रकाशं ब्रूतेतदा संजीवकः किं प्रत्यादिश्यताम् । दमनकः ससम्भ्रमम् आह्देव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम्

मन्त्रबीजम् इदं गुप्तं रक्षणीयं यथा तथा । मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥१४५॥

किं च् आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥१४६॥

तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च्

मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥१४७॥

यद्य् असौ दृष्टदोषोपि दोषान् निवत्यं सन्धातव्यस्तद् अतीवानुचितम् । यतः

सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति । स मृत्युरेव गृह्णाति गर्भम् अश्वतरी यथा ॥१४८॥

अङ्गाङ्गिभावम् अज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥१४९॥

सिंहः पृच्छतिकथम् एतत् दमनकः कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१२&oldid=23532" इत्यस्माद् प्रतिप्राप्तम्