हितोपदेशः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सुहृद्भेदः[सम्पाद्यताम्]

कथा - ५[सम्पाद्यताम्]

अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः । राजपुरुषा ऊचुःकिम् इति नायं वध्यः । स आह्श्रूयताम् । स्वर्णरेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति । त आहुःकथम् एतत् परिव्राजकः कथयतिहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्याम् आविर्भूतकल्पतरुतले रत्नावलीकिरणकबूतरपर्यङ्कस्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततोहं पोतव्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केधमग्रा तथैव सावलोकिता । ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज् झम्पो दत्तः । तद्अनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्सख्या च मया पृष्टया समाख्यातमेषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्वचक्षुषागत्य पश्यति, स एव पितुरगोचरोपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्वविवाहेन परिणयतु भवान् ।

अथ तत्र वृत्ते गन्धर्वविवाहे तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्रगता स्वर्णरेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा । तथा चित्रतयाप्यहं चरणपद्मेन ताडित आगत्य स्वराष्ट्रे पतितः । अथ दुःखितोहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकान्ते दिवसे गोपगृहे सुप्तः सन्न् अपश्यम् । प्रदोषसमये पशूनां पालनं कृत्वा स्वगेहम् आगतो गोपः स्ववधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् । ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोर्धरात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीम् उपेत्यावदत्तव विरहानलदग्धोसौ स्मरशरजर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम् <poem> रजनीचरनाथेन खण्डिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥१११॥

तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्टमनास्त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोवदत्िदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्का वार्ता दूत्योक्तम्पश्य माम् । मुखम् एव वार्तां कथयति ।

अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततोसमग्रभाण्डे प्राप्ते समुपजातकोपोयं नापितस्तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारिसमीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाचरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः

आदित्यचन्द्रावनिलानलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥११२॥

अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥११३॥

उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥११४॥ करटकः पृच्छतिकथम् एतत्

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१०&oldid=23526" इत्यस्माद् प्रतिप्राप्तम्