हितोपदेशः ०९
सुहृद्भेदः
[सम्पाद्यताम्]कथा - ३
[सम्पाद्यताम्]अस्त्य् उत्तरपथेर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रमः सिंहः । तस्य पर्वतकन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो
विवरान्तर्गतं मूषिकम् अलभमानोचिन्तयत्
क्षुद्रशत्रुर्भवेद् यस्तु विक्रमान् नैव लभ्यते ।
तम् आहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥८४॥
इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्णनामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्वकन्दरे स्थापितः । अनन्तरं तद्भयान् मूषिकोपि विलान् न निःसरति । तेनासौ सिंहोक्षतकेशरः सुखं स्वपिति । मूषिकशब्दं यदा यदा शृणोति, तदा तदा मांसाहारदानेन तं बिडालं संवर्धयति ।
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः ।
पृथक् शय्या च नारीणाम् अशस्त्रविहितो वधः ॥८५॥
ततो देशव्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टाङ्गपातं करटकं प्रणतवान् । तथा चोक्तम्
मतिरेव बलाद् गरीयसी यद्अभावे करिणाम् इयं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥८६॥
अथ संजीवकः साशङ्कम् आह्सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् ।
करटको ब्रूतेवृषभ ! अत्र कानने तिष्ठसि । अस्मद्देवपादारविन्दं प्रणय ।
संजीवको ब्रूतेतद्अभयवाचं मे यच्छ । गच्छामि ।
करटको ब्रूतेशृणु रे बलीवर्द ! अलम् अनया शङ्कया । यतः
प्रतिवाचम् अदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥८७॥
अन्यच्च
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितान् एव तरून् प्रबाधते
महान्महत्य् एव करोति विक्रमम् ॥८८॥
ततस्तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलकसमीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह्त्वया स दृष्टः
दमनको ब्रूतेदेव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलोसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्दमात्राद् एव न भेतव्यम् । तथा
चोक्तम्
शब्दमात्रान् न भेतव्यम् अज्ञात्वा शब्दकारणम् ।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता ॥८९॥
राजाह्कथम् एतत्
दमनकः कथयति
कथा - ४
[सम्पाद्यताम्]अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टारवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोयं घण्टानादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्वजनपूज्याभवत् । अतोहं ब्रवीमिशब्दमात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परमप्रीत्या निवसति ।
अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस्तद्आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदतिदेव ! अद्य हतमृगाणां मांसानि क्व राजाह्दमनककरटकौ जानीतः । संजीवको ब्रूतेज्ञायतां किम् अस्ति नास्ति वा सिंहो विमृश्याह्नास्त्य् एव तत् । संजीवको ब्रूतेकथम् एतावन् मांसं ताभ्यां खादितम् राजाह्खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः । संजीवको ब्रूतेकथं श्रीमद्देवपादानां अगोचरेणैव क्रियते राजाह्मदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूतेनैतद् उचितम् । तथा चोक्तम् <poem> नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् । कार्यम् आपत्प्रतीकाराद् अन्यत्र जगतीपते ॥९०॥
अन्यच्च कमण्डलूपमोमात्यस्तनुत्यागी बहुग्रहः । नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥९१॥
स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥९२॥
किं चार्थैर्न कुलाचारैः सेवताम् एति पूरुषः । धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः ॥९३॥
एतच् च राज्ञः प्रधानं दूषणम् अतिव्ययोनपेक्षा च तथार्जनम् अधर्मतः । मोषणं दूरसंस्थानां कोषव्यसनम् उच्यते ॥९४॥
यतः क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्ववाञ्छया । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥९५॥
स्तब्धकर्णो ब्रूतेशृणु भ्रातः चिराश्रिताद् एतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत् कथ्यते ।
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते । ब्राह्मणः सिद्धम् अप्यर्थं कृच्छ्रेणापि न यच्छति ॥९६॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥९७॥
अपराधेपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ॥९८॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते । उपकारं ध्वजीकृत्य सर्वम् एव विलुम्पति ॥९९॥
उपंशुक्रीडितोमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥१००॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥१०१॥
सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि । सिद्धानाम् अयम् आदेशः ऋद्धिश्चित्तविकारिणी ॥१०२॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्तोनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोमात्यस्य दूषणम् ॥१०३॥
नियोग्य् अर्थग्रहोपायो राज्ञा नित्यपरीक्षणम् । प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥१०४॥
निपीडिता वमन्त्य् उच्चैरन्तःसारं महीपतेः । दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः ॥१०५॥
मुहुर्नियोगिनी बाध्या वसुधारा महीपते । सकृत् किं पीडितं स्नानवस्त्रं मुञ्चेद् धृतं पयः ॥१०६॥
एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूतेस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचनकारिणौ । स्तब्धकर्णो ब्रूते एतत् सर्वम् अनुचितं सर्वथा । यतः आज्ञाभङ्गकरान् राजा न क्षमेत सुतान् अपि । विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥१०७॥
स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री नष्टेन्द्रियस्य कुलम् अर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥१०८॥
अपरं च् तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् । नृपतिर्निजलोभाच् च प्रजा रक्षेत् पितेव हि ॥१०९॥
भ्रातः ! सर्वथास्मद्वचनं क्रियताम् । व्यवहारोप्यस्माभिः कृत एव । अयं संजीवकः सस्यभक्षकोर्थाधिकारे नियुज्यताम् । एतद्वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलकसंजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोतिवर्तते । ततोनुजीविनाम् अप्याहारदाने शैथिल्यदर्शनाद् दमनककरटकावन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम्मित्र ! किं कर्तव्यम् आत्मकृतोयं दोषः । स्वयं कृतेपि दोषे परिदेवनम् अप्यनुचितम् । तथा चोक्तम्
स्वर्णरेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका । आदित्सुश्च मणिं साधुः स्वदोषाद् दुःखिता इमे ॥११०॥
करटको ब्रूतेकथम् एतत् दमनकः कथयति