हितोपदेशः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

सुहृद्भेदः[सम्पाद्यताम्]

कथा - २[सम्पाद्यताम्]

अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः । तद्अनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोस्ति । अथ गर्दभः श्वानम् आह्सखे ! भवतस्तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः । यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूतेशृणु रे बर्बर ! <poem> याचते कार्यकाले यः स किंभृत्यः स किंसुहृत् । कुक्कुरो ब्रूते भृत्यान् सम्भाषयेद् यस्तु कार्यकाले स किंप्रभुः ॥३२॥

यतः आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥३३॥

ततो गर्दभः सकोपम् आहरे दुष्टमते ! पापीयांस्त्वं यद् विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् । यतः

पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् । स्वामिनं सर्वभावेन परलोकम् अमायया ॥३४॥

इत्य् उक्त्वातीव चीत्कारशब्दं कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । अतोहं ब्रवीमिपराधिकारचर्चाम् इत्य् आदि । पश्य, पशूनाम् अन्वेषणम् एवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहारः प्रचुरोस्ति । दमनकः सरोषम् आह्कथम् आहारार्थी भवान् केवलं राजानं सेवते एतद् अयुक्तम् उक्तं त्वया । यतः

सुहृदाम् उपकारकारणाद् द्विषताम् अप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥३५॥

जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥३६॥

अपि च् यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । काकोपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥३७॥

पश्य् पञ्चभिर्याति दासत्वं पुराणैः कोपि मानवः । कोपि लक्षैः कृती कोपि लक्षैरपि न लभ्यते ॥३८॥

अन्यच्च मनुष्यजातौ तुल्यायां भृत्यत्वम् अतिगर्हितम् । प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥३९॥

तथा चोक्तं वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानाम् अन्तरं हदहन्तरम् ॥४०॥

तथा हि स्वल्पम् अप्यतिरिच्यते स्वल्पस्नायुवसावशेषमलिनं निर्मांसम् अप्यस्थिकं श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये ।

सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥४१॥

अपरं च, सेव्यसेवकयोरन्तरं पश्य्

लाङ्गूलचालनम् अधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥४२॥

किं च् यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञानविक्रमयशोभिरभज्यमानम् । तन् नाम जीवितम् इह प्रवदन्ति तज्ज्ञाः काकोपि जीवति चिराय बलिं च भुङ्क्ते ॥४३॥

अपरं च् यो नात्मजे न च गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलेन मनुष्यलोके काकोपि जीवति चिराय बलिं च भुङ्क्ते ॥४४॥

अपरम् अपि अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥४५॥

करटको ब्रूतेावां तावद् अप्रधानौ । तदाप्यावयोः किम् अनया विचारणया । दमनको ब्रूतेकियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः

न कस्यचित् कश्चिद् इह स्वभावाद् भवत्य् उदारोभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्य् एव नरं नयन्ति ॥४६॥

किं च् आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥४७॥

यात्य् अधोधः व्रजत्य् उच्चैर्नरः स्वैरेव कर्मभिः । कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥४८॥

तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य । करटको ब्रूतेथ भवान् किं ब्रवीति स आहयं तावत् स्वामी पिङ्गलकः कुतोपि कारणात् सचकितः परिवृत्योपविष्टः ।

करटको ब्रूते उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥४९॥

आकाररिङ्गतैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण लक्ष्यतेन्तर्गतं मनः ॥५०॥

अत्र भयप्रस्तावे प्रज्ञाबलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः

प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥५१॥

करटको ब्रूतेसखे त्वं सेवानभिज्ञः । पश्य् अनाहूतो विशेद् यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥५२॥

दमनको ब्रूतेभद्र ! कथम् अहं सेवानभिज्ञः पश्य् किम् अप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥५३॥

यतः यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रम् आत्मवशं नयेत् ॥५४॥

अन्यच्च कोत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च । आज्ञाम् अवितथां कुर्याद् यथाशक्ति महीपतेः ॥५५॥

अपरं च् अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥५६॥

करटको ब्रूतेकदाचित् त्वाम् अनवसरप्रवेशाद् अवगम्यते स्वामी । स चाहस्त्व् एवम् । तथाप्यनुजीविना स्वामिसांनिध्यम् अवश्यं करणीयम् । यतः

दोषभीतेरनारम्भस्तत् कापुरुषलक्षणम् । कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ॥५७॥

पश्य् आसन्नम् एव नृपतिर्भजते मनुष्यं विद्याविहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमिपतयः प्रमदालताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥५८॥

करटको ब्रूतेथ तत्र गत्वा किं वक्ष्यति भवान् । स आह्शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।

करटको ब्रूतेकिं तज् ज्ञानलक्षणम् । दमनको ब्रूतेशृणु

दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् । परोक्षेपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥५९॥

असेवके चानुरक्तिर्दानं सप्रियभाषणम् । अनुरक्तस्य चिह्नानि दोषेपि गुणसङ्ग्रहः ॥६०॥

अन्यच् च कालयापनम् आशानां वर्धनं फलखण्डनम् । विरक्तेश्वरचिह्नानि जानीयान्मतिमान् नरः ॥६१॥

एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।

अपायसं दर्शनजां विपत्तिम् उपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीम् इव दर्शयन्ति ॥६२॥

करटको ब्रूतेतथाप्यप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्ध्य्अवज्ञानम् अवमानं च भारत ॥६३॥

दमनको ब्रूतेमित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः

आपद्य् उन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥६४॥

यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वम् एव ममानुपपन्नम् । यतः

कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥६५॥

तद् भद्र ! अनुजानीहि माम् । गच्छामि । करटको ब्रूतेशुभम् अस्तु । शिवास्ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति । ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः । राजाह्चिराद् दृष्टोसि । दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्तकालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतोस्मि । किं च्

दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किम् अङ्गवाक्पाणिमता नरेण ॥६६॥

यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शक्यते, तद् अपि न शङ्कनीयम् । यतः

कदर्थितस्यापि च धैर्यवृत्तेर् बुद्धेर्विनाशो नहि शङ्कनीयः । अधःकृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव ॥६७॥

देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः

मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥६८॥

अन्यच्च निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यमसमर्थानाम् उत्साहः परिहीयते ॥६९॥

किं च् त्रिविधाः पुरुषा राजन्न् उत्तमाधममध्यमाः । नियोजयेत् तथैवैतांस्त्रिविधेष्व् एव कर्मसु ॥७०॥

यतः स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥७१॥

अपि च् कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥७२॥

अन्यच्च मुकुटे रोपिता काचश्चरणाभरणे मणिः । नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥७३॥

पश्य् बुद्धिमान् अनुरक्तोयम् अयं शूर इतो भयम् । इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥७४॥

तथा हि अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्य् अयोग्याश्च योग्याश्च ॥७५॥

अन्यच्च किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥७६॥

यतः अवज्ञानाद् राज्ञो भवति मतिहीनः परिजनस् ततस्तत्प्रामाण्याद् भवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ॥७७॥

अपरं च् जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥७८॥

किं च् बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥७९॥

पिङ्गलकोवदत्भद्र दमनक ! किम् एतत् त्वम् अस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत् कुतोपि खलवाक्यान् नागतोसि । इदानीं यथाभिमतं ब्रूहि । दमनको ब्रूतेदेव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति । पिङ्गलकोवदत्भद्रम् उक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वासभूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनम् इदम् अपूर्वसत्त्वाधिष्ठितम् अतोस्माकं त्याज्यम् । अनेन हेतुना विस्मितोस्मि । तथा च श्रुतो मयापि महान् अपूर्वशब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूतेदेव ! अस्ति तावद् अयं महान् भयहेतुः । स शब्दोस्याभिरप्याकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमित्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्यसन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः

बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥८०॥

सिंहो ब्रूतेभद्र ! महती शङ्का मां बाधते । दमनकः पुनराह स्वगतम्न्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे प्रकाशं ब्रूतेदेव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयोप्याश्वास्यन्तां यस्माद् आपत्प्रतीकारकाले दुर्लभह् पुरुषसमवायः । ततस्तौ दमनककरटकौ राज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकम् आह्सखे ! किं शक्त्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महाप्रसादो गृहीतः यतोनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य्

यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥८१॥

तथा हि बालोपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्य् एषा नररूपेण तिष्ठति ॥८२॥

दमनको विहस्याह्मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाश्चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूतेयद्य् एवं तदा किम् पुनः स्वामित्रासस्तत्रैव किम् इति नापनीतः । दमनको ब्रूतेयदि स्वामित्रासस्तत्रैव मुच्यते तदा कथम् अयं महाप्रसादलाभः स्यात् । अपरं च्

निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधिकर्णवत् ॥८३॥

करटकः पृच्छतिकथम् एतत् दमनकः कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_०८&oldid=23530" इत्यस्माद् प्रतिप्राप्तम्