हितोपदेशः ०५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कथा -५[सम्पाद्यताम्]

आसीत् कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धो धनुरादाय मृगम् अन्विष्यन् विन्ध्याटवीमध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । तथा चोक्तम् <poem> जलम् अग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ॥१५८॥

अथ तयोः पादास्फालनेन एकः सर्पोपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृगव्याधसर्पशूकरान् अपश्यत् । आलोक्याचिन्तयच् चहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् ।

अथवा अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥१५९॥ का अर्थ

मासम् एकं नरो याति द्वौ मासौ मृगशूकरौ । अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥१६०॥

ततः प्रथमबुभुक्षायाम् इदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश्छिन्ने स्नायुबन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च्

यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥१६१॥

किं च् यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने । तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥१६२॥

यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन । यतः नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्व् अपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥१६३॥

तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधम् आतुराणां न नाममात्रेण करोत्य् अरोगम् ॥१६४॥

अन्यच्च न स्वल्पम् अप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । अन्धस्य किं हस्ततलस्थितोपि प्रकाशयत्य् अर्थम् इह प्रदीपः ॥१६५॥

तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्यतिकष्टं त्वया न मन्तव्यम् ।

सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥१६६॥

अपरं च् निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः । सोद्योगं नरम् आयान्ति विवशाः सर्वसम्पदः ॥१६७॥

अपि च् उत्साहसंपन्नम् अदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥१६८॥

विशेषतश्च् विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोप्यर्थैः परिभवपदं याति कृपणः । स्वभावाद् उद्भूतां गुणसमुदयावाप्तिविषयां द्युतिं सैंहीं श्वा किं धृतकनकमालोपि लभते ॥१६९॥

किं च् धनवान् इति हि मदस्ते किं गतविभवो विषादम् उपयासि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥१७०॥

अन्यच्च वृत्त्य्अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥१७१॥

अपि च सखे शृणु येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥१७२॥

अपरं च सतां रहस्यं शृणु, मित्र !

जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ॥१७३॥

अपरं च् धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥१७४॥

यतः यथाआमिषम् आकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥१७५॥

अन्यच्च राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि । भयम् अर्थवतां नित्यं मृत्योः प्राणभृताम् इव ॥१७६॥

तथा हि जन्मनि क्लेशबहुले किं नु दुःखम् अतः परम् । इच्छासम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ॥१७७॥

अन्यच् च भ्रातः शृणु धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्धनाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ॥१७८॥

सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥१७९॥

अपरं च् यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोर्थो यतो वाञ्छा निवर्तते ॥१८०॥

किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः

आम्रणान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः । परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥१८१॥

इति श्रुत्वा लघुपतनको ब्रूतेधन्योसि मन्थर ! सर्वथा आश्रयणीयोसि । यतः

सन्त एव सतां नित्यम् आपद्उद्धरणक्षमाः । गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥१८२॥

अपरं च् श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥१८३॥

तद् एवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्पश्चाद् आयान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोपि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोप्यवलम्बितः । पश्चात् तद्वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तंभद्र मृग ! कुशलं ते स्वेच्छया उदकाद्याहारोनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् । चित्राङ्गो ब्रूतेलुब्धकत्रासितोहं भवतां शरणम् आगतः । ततश्च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः

लोभाद् वाथ भयाद् वापि यस्त्यजेच् छरणागतम् । ब्रह्महत्यासमं तस्य पापम् आहुर्मनीषिणः ॥१८४॥ हिरण्यकोप्यवदत्मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः

औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥१८५॥

तद् अत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायाम् उपविष्टः । अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोसि अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति मृगेणोक्तम्स्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्अवस्थानं भयहेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् । तच् छ्रुत्वा कूर्मः सभयम् आह्मित्र ! जलाशयान्तरं गच्छामि । काकमृगावपि उक्तवन्तौमित्र ! एवम् अस्तु ! हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोस्य का विधा

अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥१८६॥

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । काकी कनकसूत्रेण कृष्णसर्पम् अघातयत् ॥१८७॥

तद् यथा

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_०५&oldid=40048" इत्यस्माद् प्रतिप्राप्तम्