हितोपदेशः ०२,०३

विकिस्रोतः तः
Jump to navigation Jump to search

कथा - २[सम्पाद्यताम्]

अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालोचिन्तयत् ! कथम् एतन्मांसं सुललितं भक्षयामि भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते मृगेणोक्तम्कस्त्वम् स ब्रूतेक्षुद्रबुद्धिनामा जम्बुकोहम् । अत्रारण्ये बन्धुहीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । मृगेणोक्तमेवम् अस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोवदत्सखे चित्राङ्ग ! कोयं द्वितीयः मृगो ब्रूतेमित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥५६॥

तौ आहतुःकथम् एतत् काकः कथयति

कथा - ३[सम्पाद्यताम्]

अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः तस्य कोटरे दैवदुर्विपाकात् गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावकरक्षां च करोति । अथ कदाचित् दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः । ततस्तम् आयान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्कोयम् आयाति दीर्घकर्णो गृध्रम् अवलोक्य सभयम् आह्हा हतोस्मि यतोयं मां व्यापादयिष्यति । अथवा <poem> तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥५७॥

अधुनातिसन्निधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्ार्य ! त्वाम् अभिवन्दे ।

गृध्रोवदत्कस्त्वम् सोऽवदत्मार्जारोहम् । गृध्रो ब्रूतेदूरम् अपसर नो चेत् हन्तव्योसि मया । मार्जारोवदत्श्रूयतां तावत् मद्वचनम् । ततो यद्य् अहं वध्यस्तदा हन्तव्यः । यतः

जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योथवा भवेत् ॥५८॥

गृध्रो ब्रूतेब्रूहि किम् अर्थम् आगतोसि सोऽवदत्हम् अत्र गङ्गातीरे नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतम् आचरंस्तिष्ठामि । युष्मान् धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुम् इहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः गृहस्थधर्मश्च एषः

अरावप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुम् अप्यागते छायां नोपसंहरते द्रुमः ॥५९॥

किं च्यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव ।

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥६०॥

अन्यच्च बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥६१॥

अपरं च् निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥६२॥

अन्यच्च अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥६३॥

अन्यच्च उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः । पूजनीयो यथायोग्यं सर्वदेवमयोतिथिः ॥६४॥

गृध्रोवदत्मार्जारो हि मांसरुचिः । पक्षिशावकाश्चात्र निवसन्ति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च्मया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्मशास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः

सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥६५॥

अन्यच्च एक एव सुहृद् धर्मो निधनेप्यनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ॥६६॥

किं च् योत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥६७॥

अपि च् मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोपि परिरक्षितुम् ॥६८॥

शृणु पुनः स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥६९॥

एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षिशावकान् आक्रम्य स्वकोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोहं ब्रवीमिज्ञातकुलशीलस्य इत्य् आदि ।

इत्य् आकर्ण्य स जम्बुकः सकोपम् आह्मृगस्य प्रथमदर्शनदिने भवान् अपि अज्ञातकुलशील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते अथवा

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोपि द्रुमायते ॥७०॥

अन्यच्च अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७१॥

यथा चायं मृगो मम बन्धुस्तथा भवान् अपि । मृगोब्रवीत् कमनेन उत्तरोत्तरेण सर्वैरेकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः

न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥७२॥

काकेन उक्तमेवम् अस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः । एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्न् एव वनैकदेशे सस्यपूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद् दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोचिन्तयत्को माम् इतः कालपाशाद् इव व्याधपाशात् त्रातुं मित्राद् अन्यः समर्थः अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोचिन्तयत्फलितस्तावद् अस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् ।

यतः आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥७३॥

अपरं च् उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥७४॥

जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावद् अयं बन्धः । ब्रूते च्सखे ! स्नायुनिर्मिताः पाशाः, तद् अद्य भट्टारकवारे कथम् एतान् दन्तैः स्पृशामि मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस्ततोन्विष्यन् तथाविधं तं दृष्ट्वा उवाच्सखे ! किम् एतत् मृगेणोक्तम्वधीरितसुहृद्वाक्यस्य फलम् एतत् तथा चोक्तम्

सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥७५॥

काको ब्रूतेस वञ्चकः क्वास्ते मृगेणोक्तंमन्मांसार्थी तिष्ठत्य् अत्रैव । काको ब्रूतेमित्र ! उक्तम् एव मया पूर्वम् । अपराधो न मेस्तीति नैतद् विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥७६॥

दीपनिर्वाणगन्धं च सुहृद्वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥७७॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥७८॥

ततः काको दीर्घं निःश्वस्य उवाचरे वञ्चक ! किं त्वया पापकर्मणा कृतम् । यतः

संलापितानां मधुरैर्वचोभिर् मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥७९॥

अन्यच्च उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥८०॥

दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥८१॥

अथवा स्थितिरियं दुर्जनानाम् प्राक् पादयोः पतति खादति पृष्ठमांसं कर्णे फलं किम् अपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥८२॥

तथा च् दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥८३॥

अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे । मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः । अथासौ ! स्वयं मृतोसि इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । तम् उद्दिश्य तेन क्षेत्रपतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्

त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पापपुण्यैरिहैव फलम् अश्नुते ॥८४॥

अतोहं ब्रवीमिभक्ष्यभक्ष्यकयोः प्रीतिरित्य् आदि । इति मृगवायसशृगालकथा काकः पुनराह्

भक्षितेनापि भवता नाहारो मम पुष्कलः । 

त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥८५॥

अन्यच्च तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैककर्मणाम् । सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥८६॥

किं च् साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥८७॥

हिरण्यको ब्रूतेचपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्

मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात् प्रभवन्त्य् एते विश्वासस्तत्र नो हितः ॥८८॥

किं चान्यत्शत्रुपक्षो भवान् अस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत्

शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥८९॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥९०॥

यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥९१॥

अपरं च् महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्अन्तं तस्य जीवनम् ॥९२॥

लघुपतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि

मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥९३॥

किं च् द्रवत्वात् सर्वलोहानां निमित्ताद् मृगपक्षिणाम् । भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥९४॥

किं च्

नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥९५॥

अन्यच्च स्नेहच्छेदेपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥९६॥

अन्यच्च शुचित्वम् त्यागिता शौर्यं सामान्यं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥९७॥

एतैर्गुणैरुपेतो भवद्न्यो मया कः सुहृत् प्राप्तव्यः इत्य् आदि तद्वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याहाप्यायितोहं भवताम् एतेन वचनामृतेन । तथा चोक्तम्

घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनम् सुखयति प्रत्यङ्गम् अप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टिमन्त्रोपमम् ॥९८॥

अन्यच्च रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तया । क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥९९॥

अनेन वचनक्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः

पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥१००॥

अपरं च् अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्ततेन्यथा वाणी शाठ्योपहतचेतसः ॥१०१॥

मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् । मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥१०२॥

तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोपि स्वस्थानं गतः ततःप्रभृति तयोः अन्योन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोतिवर्तने । एकदा लघुपतनको हिरण्यकम् आह्सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि ।

हिरण्यको ब्रूते स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१०३॥

काको ब्रूतेमित्र ! कापुरुषस्य वचनम् एतत् । यतः स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१०४॥

अन्यच्च को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहुप्रतापार्जितम् । यद् दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हतद्विपेन्द्ररुधिरैस्तृष्णां छिन्नत्त्य् आत्मनः ॥१०५॥

हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् तथा चोक्तम् चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१०६॥

वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यकोवदत्किं तत् वायसः कथयतिस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिरकालोपार्जितः प्रियसुहृन् मे मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । पश्य मित्र !

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१०७॥

स च भोजनविशेषैर्मां संवर्धयिष्यति । हिरण्यकोप्याह्तत् किम् अत्रावस्थाय मया कर्तव्यम् यतः

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१०८॥

अपरं च धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१०९॥

अपरं च लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥११०॥

अन्यच्च तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१११॥

अतो माम् अपि तत्र नय । वायसोऽवदत् एवम् अस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघुपतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्यतिथिसत्कारं चकार । यतः

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥११२॥

तथा गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥११३॥

अपरं च् उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः । पूजनीयो यथायोग्यं सर्वदेवमयोतिथिः ॥११४॥

वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजाम् असमि विधेहि, यतोयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह्भद्र ! आत्मनो निर्जनवनागमनकारणम् आख्यातुम् अर्हसि हिरण्यकोवदत्कथयामि, श्रूयताम् ।

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_०२,०३&oldid=40936" इत्यस्माद् प्रतिप्राप्तम्