हितोपदेशः ०२
मित्रलाभः
[सम्पाद्यताम्]अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्तावक्रमेण पण्डितोब्रवीत्भो राजपुत्राः शृणुत
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१॥
तद् भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यतां । विष्णुशर्मोवाचच्छृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥२॥
राजपुत्रा ऊचुः कथम् एतत्
सोब्रवीत्स्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाशहस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरणक्रमेण व्याकुलश्चलति । यतः
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥३॥
अन्यच्च विषयिणाम् इदम् अवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥४॥
अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणान् अवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राह्कुतोत्र निर्जने वने तण्डुलकणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥५॥
कपोता ऊचुः कथम् एतत्
कथा - १
[सम्पाद्यताम्]सोऽब्रवीदहम् एकदा दक्षिणारण्ये चरन्नपश्यम् एको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते भो भो पन्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्मसन्देहे प्रवृत्तिर्न विधेया । यतः
अनिष्टाद् इष्टलाभेपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोमृतं तद् अपि मृत्यवे ॥६॥
किन्तु सर्वत्रार्थार्जनप्रवृत्तौ सन्देह एव । तथा चोक्तम्
न संशयम् अनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥७॥
तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोवदत्कथं मारात्मके त्वयि विश्वासः व्याघ्र उवाच्शृणु रे पान्थ ! प्राग् एव यौवनदशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेकगोमानुषाणां वधाद् मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दानधर्मादिकं चरतु भवान् इति । तद्उपदेशादिदानीम् अहं स्नानशीलो दाता वृद्धो गलितनखदन्तः न कथं विश्वासभूमिः उक्तं च
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥८॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थम् अपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ॥९॥
मम चैतावान् लोभविरहः । येन स्वहस्तस्थम् अपि सुवर्णकङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥१०॥
मया च धर्मशास्त्राणि अधीतानि । शृणु
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥११॥
प्राणा यथात्मनोभीष्टा भूतानाम् अपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१२॥
अपरं च
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥१३॥
अन्यच्च
मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥१४॥
त्वं च अतीवदुर्गतः । तेन तत् तुभ्यं दातुं सयत्नोहम् । तथा चोक्तम्
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥१५॥
अन्यत् च
दातव्यम् इति यद् दानं दीयतेनुपकारिणि ।
देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१६॥
तद् अत्र सरसि स्नात्वा सुवर्णकङ्कणम् इदं गृहाण । ततो यावद् असौ तद्वचःप्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन्महापङ्के निमग्नः पलायितुम् अक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोवदत्हह महापङ्के पतितोसि । अतस्त्वाम् अहम् उत्थापयामि । इत्य् उक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोचिन्तयत्
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥१७॥
किं च
अवशेन्द्रियचित्तानां हस्तिस्नानम् इव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१८॥
तन्मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्
नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥१९॥
अपरं च
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥२०॥
अन्यच्च
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ॥२१॥
इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोहं ब्रवीमिकङ्कणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः
सुजीर्णम् अन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेपि न याति विक्रियाम् ॥२२॥
एतद् वचनं श्रुत्वा कश्चित् कपोतः सदर्पम् आहाः ! किम् एवम् उच्यते
वृद्धस्य वचनं ग्राह्यम् आपत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेपि प्रवर्तताम् ॥२३॥
यतः
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ॥२४॥
यथा चोक्तम्
ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षड् एते नित्यदुःखिताः ॥२५॥
एतच् छ्रुत्वा तण्डुल्कणलोभेन नभोमण्डलाद् अवतीर्यस्अर्वे कपोतास्तत्रोपविष्टाः । यतः
सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्ताः संअयानां च क्लिश्यन्ते लोभमोहिताः ॥२६॥
अन्यच्च
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥२७॥
अन्यच्च
असंभवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोपि पुंसां मलिना भवन्ति ॥२८॥
अनन्तरं ते सर्वे जालनिबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान् मुखरस्तत्र हन्यते ॥२९॥
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच्नायम् अस्य दोषः, यतः
आपदाम् आपतन्तीनां हितोप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥३०॥
अन्यच्च
स बन्धुर्यो विपन्नानाम् आपद्उद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥३१॥
विपत्काले विस्मय एव कापुरुषलक्षणम् । तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः
विपदि धैर्यम् अथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धम् इदं हि महात्मनाम् ॥३२॥
सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥३३॥
अन्यच्च
षड़्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥३४॥
इदानीम् अपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः
अल्पानाम् अपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वम् आपन्नैर्बध्यन्ते मत्तदन्तिनः ॥३५॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥३६॥
इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोचिन्तयत्
संहतास्तु हरन्त्य् एते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ॥३७॥
ततस्तेषु चक्षुर्विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किम् इदानीं कर्तुम् उचितम्
चित्रग्रीव उवाच्
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥३८॥
तन् मे मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । सोस्माकं पाशांश्छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपातभयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच्सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्य अब्रवीत् ! पुण्यवान् अस्मि प्रियसुहृन् मे चित्रग्रीवः समायातः।
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥३९॥
अथ पाशबद्धांश्चैतान् दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाच्सखे ! किम् एतत् चित्रग्रीव उवाच्सखे ! अस्माकं प्राक्तनजन्मकर्मणः फलम् एतत् ।
यस्माच् च येन च यथा च यदा च यच् च
यावच् च यत्र च शुभाशुभम् आत्मकर्म ।
तस्माच् च तेन च तथा च तदा च तच् च
तावच् च तत्र च विधातृवशाद् उपैति ॥४०॥
रागशोकपरीतापबन्धनव्यसनानि च ।
आत्मापराधवृक्षाणां फलान्य् एतानि देहिनाम् ॥४१॥
एतच् छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच्मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्आश्रितानाम् एतेषां तावत् पाशांश्छिन्धि । मम पाशं पश्चाच् छेत्स्यसि । हिरण्यकोप्याहहम् अल्पशक्तिः । दन्ताश्च मे कोमलाः । तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाचस्त्व् एवम् । तथापि यथाशक्ति बन्धनम् एतेषां खण्डय । हिरण्यकेनोक्तमात्मपरित्यागेन यदाश्रितानां परिरक्षणं तन् न नीतिवेदिनां सम्मतम् । यतः
आपद्अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि ।
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥४२॥
अन्यच् च
धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥४३॥
चित्रग्रीव उवाच्सखे ! नीतिस्तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥४४॥
अयम् अपरश्चासाधारणो हेतु ।
जातिद्रव्यबलानां च साम्यम् एषां मया सह ।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद् भविष्यति ॥४५॥
अन्यच्च
विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् ।
तन् मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥४६॥
किं च
मांसमूत्रपुरीषास्थिपूरितेत्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥४७॥
अपरं च पश्य्
यदि नित्यम् अनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥४८॥
यतः
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥४९॥
इत्य् आकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन् अब्रवीत्साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह्सखे चित्रग्रीव ! सर्वथात्र जालबन्धनविधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः
योधिकाद् योजनशतान् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥५०॥
अपरं च
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवान् इति मे मतिः ॥५१॥
अन्यच्च
व्योमैकान्तविहारिणोपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूराद् अपि ॥५२॥
इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोपि सपरिवारो यथेष्टदेशान् ययौ, हिरण्यकोपि स्वविवरं प्रविष्टः ।
यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥५३॥
अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यम् इदम् आहहो हिरण्यक ! श्लाघ्योसि, अतोहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यकोपि विवराभ्यन्तराद् आह्कस्त्वम् स ब्रूतेलघुपतनकनामा वायसोहम् । हिरण्यको विहस्याह्का त्वया सह मैत्री यतः
यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् ।
अहम् अन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥५४॥
अपरं च
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।
शृगालात् पाशबद्धोसौ मृगः काकेन रक्षितः ॥५५॥
वायसोब्रवीत्कथम् एतत् हिरण्यकः कथयति