सामग्री पर जाएँ

हर्षचरितम् (लघुसङ्ग्रहः)/पञ्चमोछ्वासः

विकिस्रोतः तः

॥ पञ्चम उच्छ्वासः ॥


 अथ कदाचित् राजा राज्यवर्धनं कवचहरम् आहूय हूणान् हन्तुम् उत्तरापथं प्राहिणोत् । प्रयान्तं च तं देवो हर्षः कतिचित्प्रयाणकानि तुरंगमैः अनुवव्राज । प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि, तुषारशैलोपकण्ठेषु क्रीडन् मृगयाम् , कतिपयानि अहानि बहिरेव व्यलम्बत ॥

 एकदा तु वासतेय्यास्तुरीये यामे, प्रत्युषस्येव स्वप्ने दवहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानं पातयन्तीं सिंहीमप्यपश्यत् । प्रबुद्धस्य चास्य मुहुर्मुहुः दक्षिणेतरत् अक्षि पस्पन्दे । अह्नि च तस्मिन्, शून्येनैव चेतसा चिक्रीड मृगयाम् । आरोहति च हरितहये मध्यमह्नः, भवनमागत्य, वेत्रपट्टिकामधिशयानः साशङ्क एव तस्थौ ॥

 अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्डमालकम्, वर्त्मनि शून्यहृदयतया स्खलन्तं कुरङ्गकनामानम् आयान्तमद्राक्षीत् । दृष्ट्वा च अभिद्यत हृदयेन । कुरङ्गकस्तु कृतप्रणामः, उपनिन्ये लेखम् । तं च देवो हर्षः स्वयमेवावाचयत् । "कुरङक, किं मान्द्यं तातस्य?" इत्यभ्यधात् । स च “देव, दाहज्वरो महान्” इस्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताचमनश्च जनयितुरायुष्कामः, आत्मपरिबर्हमशेषं ब्राह्मणसादकरोत् । अभुक्त एवोच्चचाल । वेपमानहृदयश्च, आरुह्य तुरङ्गम् एकाक्येव प्रावर्तत (गन्तुम्) ॥

 तूष्णींभूतेन च भूपाललोकेनानुगम्यमानः, बहुयोजनसंपिण्डितमध्वानम् एकैनैवाह्ला समलङ्घयत् । भण्डिप्रमुखेण राजपुत्रलोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव निन्ये निशाम् ॥

 अन्यस्मिन्नहनि मध्यंदिने, विगतजयशब्दम्, अस्तमिततूर्यनादम्, उपसंहृतगीतम्, उत्सारितोत्सवम् , शून्यमिव स्कन्धावारं समाससाद । तुरगादवतीर्णश्च "सुषेण, अस्ति तातस्य विशेषः, न वा" इति वैद्यकुमारमप्राक्षीत् । सोऽब्रवीत्--"नास्ति इदानीम् । यदि भवेत्कुमारं दृष्ट्वा" इति । मन्दं मन्दं प्रणम्यमानश्च द्वारपालैः, दीयमानसर्वस्वम्, पूज्यमानकुलदैवतम्, प्रयतविप्रप्रस्तुतसंहिताजपम्, कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश ॥

 तत्र चातिनिःशब्दे संज्ञानिर्दिश्यमानसकलकर्मणि धवलगृहे स्थितम्, ज्वरज्वलनेन अनवरतपरिवर्तनैः शयनीये विचेष्टमानम्, पीतमिव पीडाभिः, जग्धमिव जागरेण, निगीर्णमिव वैवर्ण्येन, विरलं वाचि, क्षीणमायुषि, प्रचुरं प्रलापे, पार्श्वोपविष्टया मुहुर्मुहुः "आर्यपुत्र, स्वपिषि ?" इति व्याहरन्त्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत् ॥

 दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत। निराकृत इव अन्तःकरणेन क्षणमासीत् । पस्पर्श च हृदयेन भियम्, उत्तमाङ्गेन च गाम् । अवनिपतिस्तु दूरादेव दृष्ट्वा अतिदयितं तनयम्, तदवस्थोऽपि निर्भरस्नेहावर्जितः प्रसार्य भुजौ "एह्येहि" इत्याह्वयन्, विस्मृतज्वरसंज्वरः, बलादुरसि निवेश्य सुचिरमालिलिङ्ग । क्षयक्षामकण्ठश्च कृच्छ्रादिवावादीत्--"वत्स, कृशोऽसि" इति । भण्डिस्त्वकथयत्--"देव, तृतीयमहः कृताहारस्यास्य अद्य" इति ॥

 तच्छ्रुत्वा, आयतं निःश्वस्य, उवाच--"वत्स, जानामि त्वां पितृप्रियम् अतिमृदुहृदयम् । निशितमिव शस्त्रं तक्ष्णोति मां त्वदीयः तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रियाः । कृताहारे च त्वयि, अहमपि स्वयमुपयोक्ष्ये पथ्यम्" इति । क्षणमात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादवततार ॥

  राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृताश्रुपातान् अग्निमयानिव जनितहृदयतापान् कतिचित्कबलान् अगृह्णात् । अस्ताभिलाषिणि च सवितरि, सर्वानाहूय उपह्वरे वैद्यान्, "किमस्मिन्नेवंविधे विधेयमधुना" इति विषण्णहृदयः पप्रच्छ । तेषां तु भिषजां मध्ये, अष्टादशवर्षदेशीयः पारं गतोऽष्टाङ्गस्य आयुर्वेदस्य रसायनो नाम वैद्यकुमारकः "देव, श्वः प्रभाते यथावस्थितम् आवेदयितास्मि" इत्यब्रवीत् ॥   गतेषु च भिषक्षु, क्षतधृतिः क्षपामुखे क्षितिपालसमीपमेव पुनरारुरोह । दूयमानहृदयो दुःखदीर्घा जाग्रदेव निशामनैषीत् ॥

  उषसि चावतीर्य, चरणाभ्यामेवाजगाम स्वमन्दिरम् । तत्र च त्वरमाणो भ्रातुरागमनार्थम् उपर्युपरि क्षिप्रपातिनो दीर्घाध्वगान् प्रजविनश्च उष्ट्रपालान् प्राहिणोत् । अग्रतः स्थितानां च राजपुत्रयूनां विमनसाम् "रसायनो रसायनः" इति जल्पितमव्यक्तमश्रौषीत् । पृष्टाश्च ते "देव, पावकं प्रविष्टः" इति दुःखेन कथं कथमप्याचचक्षिरे । तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात् । दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगुण्ठ्य अतिष्ठत् । महोत्पातदर्शनदूयमानश्च कथमपि निनाय निशाम् ॥

  अन्यस्मिन्नहनि, "क्व कुमारः, क्व कुमारः" इति प्रतिपुरुषं पृच्छन्ती वेलेति नाम्ना यशोवत्याः प्रतीहारी समीपमस्थाजगाम । उपसृत्य च "देव, परित्रायस्व परित्रायस्व । जीवत्येव भर्तरि, किमप्यध्यवसितं देव्याः" इति विज्ञापितवती । ततस्तदाकर्ण्य, च्युत इव सत्त्वेन, द्रुत इव दुःखेन अप्रतिपत्तिरासीत् ॥

  उत्थाय च त्वरमाणोऽन्तःपुरमगात् । प्रविशन्नेव, निर्यान्तीम्, दत्तसर्वस्वापतेयाम्, गृहीतमरणप्रसाधनाम्, कुसुम्भबभ्रुणी वाससी दधानाम्, भूपालवल्लभान्कौलेयकानपि सास्रमालोकयन्तीम्, सपत्नीनामपि पादयोः पतन्तीम्, भवनपादपानपि परिष्वजमानां मातरं ददर्श ॥

 "अम्ब, त्वमपि मां मन्दपुण्यं त्यजसि? प्रसीद । निवर्तस्व" इति चरण्योर्न्यपतत् । देवी तु तथा तिष्ठति पादनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये, कृतप्रयत्नापि निवारयितुं न शशाक बाष्पोत्पतनम् । दूयमानमानसा च स्मरन्ती प्रसवदिवसादारभ्य सकलं शैशवमस्य, "हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि" इति प्रेष्ठं ज्येष्ठं तमयमसंनिहितं क्रोशन्ती, "अनाथा जाता" इति श्वशुरकुलवर्तिनीं दुहितरमनुशोचन्ती, मुक्तकण्ठमतिचिरं प्राकृतप्रमदेव प्रारोदीत् ॥

 प्रशान्ते च मन्युवेगे, सस्नेहमुत्थापयामास सुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्तीं दृष्टिमुन्ममार्ज । "वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता । किं विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य गृहिणीम् । वीरजा वीरजननी च मादृशी पराक्रमक्रीता कथमन्यथा कुर्यात् । एवंविधेन पित्रा ते गृहीतः पाणिः । मर्तुमविधवैव वाञ्छामि । मरणश्च मे जीवितमेवास्मिन् समये स्राहसम् । तदहमेव त्वां तात, प्रसादयामि । न पुनर्मनोरथप्रातिकूल्येन कदर्थनीयास्मि " इत्युक्त्वा पादयोरपतत् ॥

  स तु ससंभ्रममपनीय चरणयुगलम् , अवनमिततनुः, उदनमयन्मातरम् । कुलयोषिदुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम्, तूष्णीमधोमुखोऽभवत् ॥

 देव्यपि परिष्वज्य समाघ्राय च शिरसि, निर्गत्य चरणाभ्यामेव अन्तःपुरात् , सरस्वतीतीरं ययौ। तत्र च भगवन्तं चित्रभातुं प्राविशत् । इतरोऽपि मातृमरणविह्वलः पितुः पार्श्व प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्यास्य पादपद्मौ, इतरवद्विमुक्तावश्चिरं रुरोद ॥

 राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रितश्रवणः प्रत्यभिहाय शनैः शनैरवादीत्- "पुत्र, नार्हस्येवं भवितुम् । भवद्विधा नह्यमहासत्त्वाः। सत्त्ववतां चाप्रणीः सर्वातिशयाश्रितः क्व भवान् , क्व बैक्लब्यम् " इत्येवं वदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ॥

 अस्मिन्नेव चान्तरे पूषापि आयुपेव तेजसा व्ययुज्यत । पूर्वस्थां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्रः स्वयं समर्पितस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरैः सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसंस्क्रियया यशःशेपतामनीयत ॥

 देवोऽपि हर्षः शोकमूकेन राजकुलसंबद्धेन लोकेन परिवृतः, निर्व्यवधानायां भूमावुपविष्ट एव तां निशीथिनीं जजागार । अस्य कथमपि स क्षयमियाय यामिनी । ततो निर्जगाम राजकुलात्। अगाच्च सरस्वतीतीरम् । तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्च निरातपसश्चरणाभ्यामेव भवनमाजगाम ॥

 देवमपि हर्षं तदवस्थं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति जीवितम् अयश इति आहारं विषमिति मन्यमानं सर्वासु क्रियासु विमुखम्, कुलपुत्राः, गुरवः, जरद्द्विजातयः, अमात्याः ब्रह्मवादिनः, पौराणिकाश्च शोकापनयननिपुणाः पर्यवारयन् ॥

 अनुनीयमानश्च तैः, कथं कथमप्याहारादिकासु क्रियासु आभिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत्--"अपि नाम तातस्य मरणमिदमुपश्रुत्य आर्यो बाष्पजलस्नातो न गृह्णीयात् वल्कले ? नाश्रयेद्वा राजर्षिराश्रमपदम् ? न विशेद्वा पुरुषसिंहो गिरिगुहम् ? इहागतो वा राजभिरभिधीयमानो न पराचीनतामाचरेत् ?" इत्येतानि चान्यानि च चिन्तयन्, भ्रातुरागमनमुदीक्षमाणः कथं कथमप्यतिष्ठत् ॥

इति हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः ॥