हरिहरसुभाषितम्

विकिस्रोतः तः
हरिहरसुभाषितम्
हरिहरः
१९१०

KAVYAMÂLÂ 86. THE HARIHARASUBHASHITAM OF HARIHARA. B 201 HIDITED BY PANDIT KEDARNATH AND WASUDEVA LAXMANA SILÂSTRÎ PANASHIKAR. Second Edition PUBLISHED BY TUKÂRÂM JAVAJÍ, PROPRIETOR NIRNAYA-SAGAR PRESS, BOMBAY PRINTED BY B. R. GHANEKAR AT THE "NIENAYA-SAGAR" PRESS, FOR THE PUBLISHER, 1910. Price 8 Anas.

काव्यमाला।
श्रीहरिहरविरचितं
हरिहरसुभाषितम्।

 

पायाज्जाया पयोजातजन्मनो मन्मनो मुदम् ।
शारदा पारदासारतुल्यधावल्यधारिणी ॥१॥

गोविन्दाख्यानपीयूषप्लवैरिव सितीकृताम् ।
व्यासादिवदनाम्भोजभ्रमरीं भारतीं भजे ॥२॥

गौरीगिरीशयोरेकमङ्कालंकारकारणम् ।
मदवारिझरोद्गारमयं वस्तु वयं स्तुमः ॥ ३ ॥

गण्डकण्डूयनोत्खातमेरुमूलान्तशायिनम् ।
पायाद्गणेशितुः शेषं बिसमित्यामृशन्करः ॥ ४ ॥

स्तुमस्ते लोचने विष्णोर्विना याभ्यां जगन्त्यपि ।
अन्धीयन्त्यप्रतीकारं चारुलोचनवन्त्यपि ॥ ५॥

सामुद्रेषु सुजन्मानमेकं श्रीकौस्तुभं स्तुमः ।
नारायणोरःस्थेनापि येनालंक्रियतेऽम्बुधिः ॥ ६ ॥

नीलिमानमहं वन्दे तं देवस्य मुरद्विषः ।
तदाप्लवादिव प्राप्तं यमुना यं न मुञ्चति ॥ ७ ॥

प्रीयतां श्रीर्यया विश्वं वशीकृत्य लघूकृतम् ।
किमन्यद्विश्वधृग्वक्षःकस्तूरीमकरीकृतः ॥ ८॥

स पायात्पार्वतीपाणिः फणिकङ्कणिना धृतः ।
सात्त्विकेषु विकारेषु त्रासो यत्रास निह्नवः ॥ ९॥

शिवायाः शवतापन्नमपि यन्न जहौ हरः ।
वपुस्तन्नौमि येनान्तःस्फोटः कैटभजित्कृतः ॥ १० ॥

कलां तामैन्दवीं वन्दे यया यादःपतिः पिता ।
आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ११ ॥

जगत्पतिपदस्पर्शजातामर्षेव जाह्नवी ।
जयत्यम्बुकणैर्जन्तूञ्जनयन्ती जगत्पतीन् ॥ १२ ॥

विसृजन्त्याः पुरा यस्या ब्रह्माण्डाण्डानि वारिधौ
सूतिखेदारवो वेदास्तां मात्सीमूर्तिमाश्रये ॥ १३ ॥

तं स्तुमः कमठं यस्मिन्नास्ते सगिरिसागरा ।
मन्थाचलकिणक्रोडमग्ना मृदिव मेदिनी ॥ १४ ॥

स क्रोडः क्रीडतां दन्तकान्तकल्पाब्धिपल्वलः ।
यद्दन्तलग्नजम्बालक्षोदालम्बा जगत्त्रयी ॥ १५॥

विदारयन्हरिः पातु हिरण्यकशिपोरुरः ।
तदन्तर्गतमात्मीयं द्वेषमन्वेषयन्निव ॥ १६ ॥

नमाम वामनं धाम त्रिभिस्त्रिभुवनं पदैः ।
वामनीकृत्य कथिता येनात्मनि तदात्मता ॥ १७ ॥

स्तुमस्तमुद्यमे यस्य त्रासात्त्रिःसप्तधा व्यधात् ।
क्षत्रियक्षतजाम्भोधावन्तर्धानं वसुंधरा ॥ १८ ॥

स पातु यः प्रतापाग्निपाकपिण्डीकृताम्भसम् ।
सेतुना पुनरुक्तेन ततार क्षारवारिधिम् ॥ १९ ॥

तं नौमि यमुना यस्य लाङ्गलाग्रापवर्तिता ।
उपास्य पादावभजद्गङ्गासंगमयोग्यताम् ॥ २० ॥

बुद्धमुद्दुद्धकारुण्यरसावासमुपास्महे ।
अहिंसा दीर्घसंसारदारिणी येन दर्शिता ॥ २१ ॥

निःशेषोन्मूलितम्लेच्छं करिष्यन्नवनीतलम् ।
करवालकरः कल्की भिनत्तु कलिकल्मषम् ॥ २२ ॥

मत्स्यादयो दशाप्यंशा यस्य कंसान्तकारिणः ।
तं कुक्षिकुहरक्षिप्तद्विसप्तभुवनं भजे ॥ २३ ॥

स्तनपं क्षणमङ्केन वोढुं म्लायन्ति मातरः ।
जयत्युर्वीयमक्लिष्टं पुष्णात्यामरणं जगत् ॥ २४ ॥

मृतानुगामि तन्नौमि शंभोरम्भोमयं वपुः ।
आत्मव्ययेन यज्जन्तोरन्तःशैत्याय जायते ॥ २५ ॥

विश्वजीवननिर्बन्धमहं गन्धवहं भजे ।
चेष्टतेऽधिष्ठितं येन सहजेन जडं जगत् ॥ २६ ॥

तद्व्योम व्योमकेशस्य वयं वन्दामहे वपुः।
पूर्त्यै यदेकदेशस्य नालं ब्रह्माण्डकोटयः ॥ २७॥

नमश्चन्द्रमसे तस्मै यस्मै दृक्कोटिकैतवात् ।
अर्पयन्ति जगन्ति द्रागुन्निद्राम्बुरुहाञ्जलीन् ॥ २८॥

सौरी जयत्यसौ रीतिः शश्वद्विश्वविलक्षणा ।
यज्जगद्बोधनायास्य निरालम्बेऽम्बरे भ्रमिः ॥ २९ ॥

स्वर्वासिनां हविर्भागवहनं दहनं स्तुमः ।
दहन्तमपि यं नित्यमुपजीवन्ति जन्तवः ॥ ३०॥

होत्रा नस्त्राणकृद्भूयाद्वपुषा स वृषाकपिः ।
जज्ञे यज्ञेन रूपेण यत्कृते प्रकृतेः परः ॥ ३१ ॥

इलाजलानलव्योमसोमसूर्याग्निमूर्तिभिः ।
अस्मान्विस्मारयत्वेकः कष्टमीशोऽष्टमूर्तिभिः ॥ ३२ ॥

इति श्रीहरिहरसुभाषिते मङ्गलप्रकरणम् ॥१॥

अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
स्नेहं सूक्तिप्रदीपेऽस्मिन्वर्धयन्तु सुबुद्धयः ॥ १ ॥

उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
मत्सुभाषितसोपानसेविनः सन्तु साधवः ॥२॥

समाजेभ्यः सुमनसां सुभाषितमयं मधु ।
यावज्जीवं विचिन्वन्ति साधवो मधुपा इव ॥ ३ ॥

लक्षैर्बन्धकितं बध्वा भारवीयं सुभाषितम् ।
प्रक्रान्तपुत्रहत्याघं निशि माघं न्यवारयत् ॥ ४ ॥

सुभाषितमधून्येव जनो यद्यवमन्यते ।
रसनामात्मनः केन रसेनोपकरिष्यति ॥ ५ ॥

सुभाषितामृतास्वादसुखसंमुखचेतसः ।,
संभावयन्ति पीयूषमप्यूषरजलायितम् ॥ ६ ॥

सुभाषितगुणेनैव मुनेर्वल्मीकजन्मनः ।
नद्धमद्यापि नापैति रामायणमयं यशः ॥ ७॥

भारताख्यं सरो भाति व्यासवागमृतैर्वृतम् ।
यत्र क्षत्रकुलाब्जेषु हंसीयति हरेर्यशः ॥ ८ ॥

न कस्यानुमतः काव्ये गुणो हनुमतः कवेः ।
यद्रसोऽन्तश्चिरं मग्नैरुपलैरपि धार्यते ॥ ९॥

प्रसादोत्कर्षमधुराः कालिदासीर्वयं स्तुमः ।
पीतवाग्देवतास्तन्यरसोद्गारायिता गिरः ॥ १० ॥

दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्टे त्वान्तरं बाणे कण्ठे वागेव रुद्ध्यते ॥ ११ ॥

भ्राम्यन्तु मारवग्रामे विमूढा रसमीप्सवः ।
अमरूद्देश एवासौ सर्वतः सुलभो रसः ॥ १२ ॥

जडानामपि चैतन्यं भवभूतेरभूद्गिरा ।
ग्रावाप्यरोदीत्पार्वत्या हसतः स्म स्तनावपि ॥ १३ ॥

नैतच्चित्रमहं मन्ये माघमासाद्य यन्मुहुः ।
प्रौढतातिप्रसिद्धापि भारवेरवसीदति ॥ १४ ॥

गाश्चारयंश्चिरादासीत्कामं गोवर्धनः क्षितौ ।
सोऽप्यर्थवान्बभूवाहो शालिवाहोपजीवनात् ॥ १५ ॥

रसैर्निरन्तरं कण्ठे गिरा श्लेषैकलग्नया ।
सुबन्धुर्विदधे दृष्ट्वा करे बदरवज्जगत् ॥ १६ ॥

आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
बालिशाः कालिदासाय स्पृहयन्तु वयं न तु ॥ १७ ॥

संपूरयन्तु धामैव धावकस्य धनैर्गिरः ।
गिरे मुरारेर्दारिद्र्यस्पृशेऽपि स्पृहयामहे ॥ १८ ॥

अर्थार्थिनां प्रिया एव श्रीहर्षोदीरिता गिरः ।
सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ १९ ॥

नवीनामनवीनां वा कवीनां लुम्पतां स्मृतिम् ।
नैव शंकरमिश्रेण शंकराचार्यविस्मृतिः ॥ २० ॥

सन्तु शास्त्रविदः श्रेष्ठाः प्रतिष्ठा कापि काव्यतः ।
ख्यातिः किं कालिदासस्य कृता टीकाकृताप्यधः ॥ २१ ॥

हृद्याः सन्तु शतं विद्याः काव्यादव्याहतं यशः ।
निपीतदर्शनग्रामे देहि रामेश्वरे दृशम् ॥ २२ ॥

सत्काल्यं राज्यमित्याहुः कवयो न मयोच्यते ।
तृप्यत्यर्थं कविर्ध्यायन्नैवं राजा तु जात्वपि ॥ २३ ॥

तत्पिबन्त्वमृतं देवाः काव्यमेवामृतं भुवि ।
यत्संबन्धेन जीवन्ति भोजराजादयो मृताः ॥ २४ ॥

के नायुध्यन्न कः प्रादान्नृपोऽनादावनेहसि ।
अनाराध्य कविं कस्य चिरं कीडन्ति कीर्तयः ॥ २५ ॥
'
वशीकरणमेकं हि जगतो यदि पृच्छसि ।
सुभाषितानि सम्यञ्चि संचिन्वानः समभ्यस ॥ २६ ॥

चमत्करोति केषांचित्सुकृतेन सुभाषितम् ।
दुर्लभं पुनरेतस्य वैलक्षण्यपरीक्षणम् ॥ २७ ॥

सुकृतेन कुले जन्म सुकृतेन सुभाषितम् ।
सुकृतेन सती भार्या सुकृतेन कृती सुतः ॥ २८ ॥
.
कुलशीलश्रुताचारवतां किल सतां कुले ।
चिरादाराध्य जायन्ते पुरुषाः पुरुषोत्तमम् ॥ २९ ॥

तपत्युपरि संसारदुःखसंभाभास्वति ।
पूर्वपुण्यतरुच्छाया साध्वी जाया सुजन्मनः ।। ३० ॥

ग्रामस्याधिर्गृहव्याधिः कटुवाणी कुटुम्बिनी ।
हृत्कुठारः,कुलाङ्गारः सुतः साधुपथच्युतः ॥ ३१ ॥

विना शीलेन वनिता वाग्मिता विद्यया विना ।
विनियोगैर्विना वित्तं मास्तु कस्यापि जीविनः ॥ ३२ ॥

सत्कुलं भूषणं पुंसः सद्भार्या कुलभूषणम् ।
सत्पुत्रभूषणा भार्या पुत्राः सन्मतिभूषणाः ॥ ३३ ॥

पुन्नाम्नो नरकादेव पुत्रा न त्राणकारिणः ।
विस्मारयन्ति स्त्रीणां च नरकक्लेशमप्यमी ॥ ३४ ॥

शिशोः क्रीडनकैर्वेश्म कलालापैरपि श्रुतिः ।
वपुरङ्गरजोनिश्चेन्नाकुलं जगदाकुलम् ॥ ३५ ।।

बालैः परिहृतं वेश्म न श्मशानाद्विशिष्यते ।
यत्रस्था देहिनो नित्यं दह्यन्ते गतचेतसः ॥ ३६ ।।

न चन्द्रश्चन्द्रमाः पुत्रं चन्द्रमाहुर्मनीषिणः ।
दृष्टे स्पृष्टे श्रुते चोक्ते घ्राते यत्रेन्द्रियोत्सवः ॥ ३७ ।।

जातमात्रेण पुत्रेण कः प्रमोदो मनीषिणाम् ।
यदि नाम न विद्यादिगुणैः सार्धं स वर्धते ॥ ३८ ॥

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ ३९ ॥

शनैः शनैर्विनीयन्ते तर्जनस्तोषणैरपि ।
नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥ ४० ॥

लालयेद्बालकं तावद्यावदत्र विमुग्धता ।
राजा प्रजास्विव प्रीतिं पश्चात्प्रच्छादयेत्पिता ॥ ४१ ॥

वरं वन्ध्यत्ववादोऽपि योषित्पुरुषयोस्तयोः ।
याभ्यां लालनलुब्धाभ्यां न विनीतः स्वयं सुतः ॥ ४२ ॥

वपूंषि जनयन्त्येव जन्तून्यूकादिकानपि ।
तेषु द्वेषवतः प्रीतिरविनीते सुते कुतः ॥ ४३ ॥

अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् ।
निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ ४४ ॥

एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ १५॥

नीचैरेव परं सर्पत्पयोऽप्युच्चैर्नयेन्नरः ।
विरलास्तरलाक्षाणां बालानां शिक्षणे क्षमाः ॥ ४६॥

पुरा हि पतितः प्राह प्रवाहे निष्प्रतिक्रियः ।
बालानाध्यापयिष्यामो विपत्स्यामो वयं वरम् ॥ १७ ॥

शिशोर्दुःशिक्षणीयत्वात्सोपेक्षो न क्षणं भवेत् ।
विपुलाय फलायालं कष्टकृष्टा वसुंधरा ॥ १८ ॥

व्याहारेण विहारेण सदसत्संगमेन च ।
पुरा पुत्रं परीक्षेत चिरभाविनि पौरुषे ।। ४९ ॥

यः पुरो मधुरोदारस्तेन भारः पितुर्धृतः ।
सान्द्रस्निग्धो नदन्धीरं नीरं क्षरति वारिदः ॥ ५० ॥

शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ ।
गन्धोऽन्यसंनिधेरेव संक्रामति समीरणे ॥ ५१ ॥

कदाचित्साधुतामेति पुरः शिशुरसन्मतिः ।
प्राक्पाण्डुपुत्राः कुत्रापि चीयन्ते चारुभूरुहाः ।। ५२ ।।

किमध्ययनहीनेन सुतेनातिसुबुद्धिना।
तीक्ष्णेन करवालेन किं भीरुकरवर्तिना ॥ ५३ ॥

यावन्न यौवनप्राप्तः शिक्ष्यते तावदात्मजः ।
व्यतीतकाले केदारे कर्षणैः किं करिष्यते ॥ ५४ ॥

विनयन्तु सुतान्सन्तः स्वसंपाद्याः पुनर्गुणाः ।
सर्वे कृषाणाः कुर्वन्तु बीजं सूतेऽङ्कुरं स्वतः ॥ ५५ ॥

स्वयमेव समीहन्ते गुणान्भव्याय भाविनः ।
प्रगुणाय प्ररोहाय करीराः केन शिक्षिताः ॥ ५६॥

इति श्रीहरिहरसुभाषिते बालविनयप्रकरणम् ॥२॥

सुचिरं सुखयति पुरुषं निपुणमधीतं वयःक्रमे प्रथमे ।
संतुष्यति कृषिकारः सत्समये साधुकृष्टकेदारः ॥ १ ॥

नाधीतं कैशोरे किमुपकरिष्यत्यनन्तरे वयसि ।
अङ्कुरनिहितकुठारः कतरो हि तरोः फलं लभते ॥ २ ॥

कुरु गुरुवचो निपीतं भूयो भूयो विचिन्तयाधीतम् । .
विद्या गुरूपदिष्टा चिरपरिमृष्टा विभूषणं विदुषः ॥ ३ ॥

यद्यप्यसि जडचेतास्तदपि न रे तात हेयमध्ययनम् । .
जङ्घाल एव शैलं न लङ्घते किं तु केऽपि गच्छन्तः ॥ ४ ॥

आत्मोपकारचतुरा नरा न गणयन्ति गुरुगृहक्लेशम् ।
वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ॥ ५॥

क्व लघुः श्रियो विलासः क्व पुनर्विद्यारसोल्लासः ।
साक्ष्यं वदन्त्विदं च द्वितयेऽसिंस्तारतम्यसम्यञ्चः ॥ ६ ॥

उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम् ।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ॥ ७ ॥

वरमेकैव निसृष्टा विद्येति ब्रूयुरल्पसंतुष्टाः ।
परिमितगुणपरितुष्टा न जात्वभीष्टोन्मुखाः पुरुषाः ।। ८ ॥

एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः ।
क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ॥ ९ ॥

विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य ।
मणिकाञ्चनसंयोगो जनयति लोकस्य लोचनानन्दम् ॥ १०॥

अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः ।
मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानाम् ॥ ११ ॥

विगुणा बहवोऽपि गुणा विना विनीतेन चेतसा पुंसः ।
निशितैरलं शरशतैरनुपेतपतञ्जिके धनुषि ॥ १२ ॥

भूषणमेव न कुरुते दूषणमप्यावृणोति विनयोऽयम् ।
भूषयति रुचिरमंशुकमङ्गान्यपि तानि किं न गोपयति ॥ १३ ॥

पुंसो विभूषणाय प्रसरत्येकोऽपि कोऽपि गुणः ।
वसुधावलयमलंकृतमनवरतगुणेन पुरुषरत्नेन ॥ १४ ॥

जननीजठरव्याधिबन्धूनामाधिरपगुणः पुरुषः ।
एतत्कृतो धरित्र्या भारो हरिणाप्यनपनेयः ॥ १५ ॥

यदि गुणमिच्छसि फलिनं कुलमकलङ्कं मनो निरातङ्कम् ।
अतिदूराद्गुरुदोषं परिवर्जय दुर्जनेषु परितोषम् ॥ १६ ॥

पिशुनप्रणयी पुरुषो यदि न विनश्यत्यवश्यमेति भयम् ।
यदि संनिहितं दहनो न दहति संतापयत्येव ॥ १७ ॥

परपरितापनकुतुकी गणयति नात्मीयमपि तापम् ।
परहतिहेतोः पिशुनः संदंश इव स्वपीडनं सहते ॥ १८ ॥

करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि ।
दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ॥ १९ ॥ :

वक्रं विचरन्नहिरिव विहितजगलाणचर्वणः पिशुनः ।
मुदितः क्वचिदुपलब्धे परकीयच्छिद्र एव निद्राति ॥ २० ॥

परिहृतमसाधुवाचा प्राचामाचारगोचरं वर्त्म ।
सज्जनसमाजसेवनमेव नरेभ्यो निवेदयति ॥ २१ ॥

मार्जितपरमालिन्यस्तप्तोऽपि मनागनन्तरं शिशिरः ।
जलमिव सुजनः स्नेहं विनिहितममितः प्रसारयति ॥ २२ ॥

उपनीतनीतिनौकः संसारविकारवारिवन्यासु ।
सत्पुरुषकर्णधारस्तारयति बहूञ्जनानेकः ॥ २३ ॥

परहितहेतोर्विहिताः सुहृदः स्वहिताहितान्यजानन्तः।
उपविन्यस्तपदानपि नौका इव तारयन्ति परान् ॥ २४ ॥

परिहृतपरापवादः परिमितवाक्परहितासक्तः ।
परिणतमतिपरिचयापरः पुरः सरति साधुचरितानाम् ॥ २५ ॥

प्राचां पथा प्रयत्नादाचर संचारमन्यतो मा गाः।
तत्रापवादपङ्के निपतति तं के नयन्तु बहिः ॥२६॥

यद्यधिरजनि शयानः सद्मनि सुषमीहते सुमतिः ।
योषामिव परपुरुषापवादपरुषां गिरं त्यजतु ॥ २७ ॥

निपुणं निगूढमेतच्चेतसि निर्व्यूढमाकलयेः ॥२८॥
स्थालीव स्वलस्तापादुद्वमति रसेन पिहित...मन्तः।

अन्तः कोटरगुप्तैः सहैव शाखीव दह्यते सुजनः ॥ २९ ॥
इदमस्खलितं धारय वारय परुषाक्षरा वाचः ।

एकः सकलजनानां जगति रिपुः परुषवाक्पुरुषः ॥ ३०॥
परभृन्मौखर्यभिया पोषकमप्यात्मघोषमुत्सृजति ।

अतिमुखर एष सहते मुहुरपि दण्डाहति पटहः ॥ ३१ ॥
परमुखरत्वज्वलितः करोषि मौखर्यमेषोऽपि ।

पुनरपि तदेव कर्ता कः परिहर्तानवस्थितिं युवयोः ॥ ३२ ॥
सुखमुखमिति यदि न त्वं परिहरसि परापवादपारुष्यम् ।

द्विगुणितहेतुः स कथं तवापवादानिवारयतु वाचम् ॥ ३३ ॥
परिहर चापलमुच्चैः पदसंस्थितिसुस्थिरे मनसि ।

चिरमेधते न चपलश्चपलैव निदर्शनं तत्र ॥ ३४ ॥
पुण्यानि सततमर्जय परिवर्जय पौरुषेषु वैमुख्यम् ।

पौरुषपुण्यविहीनः पुरुषो लोकद्वये हीनः ॥ ३५ ॥
परिचर मातरपितरावाचर नितरामभीप्सितामनयोः ।

संस्मृत्य जननजीवनलालनपरिपालनप्रणयम् ॥ ३६ ॥
परवित्तविमुखमन्तः परदारनिरीक्षणाक्षमं चक्षुः ।

हरिपरिचितस्य पुंसः परदूषणदूरवासिनी रसना ॥ ३७ ॥

न्यायोपनीतवित्तः परस्वपरिवर्जनप्रयतचित्तः ।
जीवति सुजीवनं तज्जीवनमरणं तदितरस्य ॥ ३८ ॥

यद्युच्चैरपि न परानुपकुरुषे तन्मृषैव ते जन्म ।
यदि नैष जनितवर्षः को नाम पयोधरोत्कर्षः ॥ ३९ ।।

निरुपधिपरोपकारः कोऽप्युच्चैःस्थायिनां भारः।
जगदमृतैरभिषिञ्चन्नश्चति केनाभिसंधिना चन्द्रः ॥ ४० ॥

उपकाराय न जातः सपदि सुजातः कुजातवैरेऽपि ।
ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ॥ ४१ ।।

आचारमाचर चिरादालस्यमपास्य जात्युचितम् ।
लोकानुरागसाधनमाराधनमेतदेव हरेः ॥ ४२ ॥

अलमथ वा बहुवादैर्विरचय लोकानुरागनिर्बन्धम् ।
तत्रैका समयं तन्निहितं यन्न जातु संनिहितम् ॥ ४३ ।।

उन्मदतया कयाचित्कदाचिदपथप्रवृत्तमपि पुरुषम् ।
सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्तयति ॥ १४ ॥

दुष्टाः सुहृदुपदिष्टा द्विष्टा इव रोषरुक्षतां दधते ।
भेषजकारिणि पुरुषे परुषाः पशवः प्रकुप्यन्ति ॥ ४५ ॥

इति श्रीहरिहरसुभाषिते सुहृदुपदेशप्रकरणम् ॥ ३॥

धनमेव धरणिवलये कलयति सफलायुषं पुरुषम् ।
यदि जीवति धनरहितः कथय मृतः कीदृशो भवति ॥ १॥

अकपर्दस्य विफलं जनुरिति जानीमहे महेशोऽपि ।
शिरसि कृतेन कपर्दी भवति जटाजूटकेनापि ॥ २ ॥

नीचस्याप्युत्कर्षो धनस्य नाम्नापि जायते जगति ।
वदति वराटकयोग्यं जलाशयं यत्सरोवरं लोकः ॥ ३ ॥

को नाम नानुवृत्तिं सुमहानपि धनवतः कुरुते ।
विभवनभित्तेः समीपमुपसेवते शंभुः ॥ ४ ॥

अपि नित्यानन्दमयं महः श्रियं वहति संततं हृदये।
कः साधारणपुरुषः प्रभवत्वेनामनादर्तुम् ॥ ५ ॥

दौर्गत्यकलुषितानां दूषणतामेव गच्छति गुणोऽपि ।
बिभ्राणो गुणमभजद्विषधरवत्तां दिगम्बरो देवः ॥ ६ ॥

धनवानपि गुणवानप्यभिजनवानप्यपौरुषः पुरुषः ।
श्रृङ्गारितमिव चित्रं न भवति पात्रं दयादरयोः ॥ ७ ॥

पौरुषविमुखः पुरुषः परहितपरुषश्च पौरुषमयोऽपि ।
अपि कृतपरोपकारः स्वकृतश्लाघी च लाघवं भजते ॥ ८॥

शोभामुपैति पुरुषः स्वजातिसदृशेन पौरुषवशेन ।
न ब्राह्मणस्य बडिशं सदृशं न च धीवरेऽधीतम् ॥९॥

न क्षत्रिय इव योद्धा न वैश्यवत्कर्षणादिसंपन्नः ।
विप्रः प्राप्नोति परं चिरं यशः प्रार्थनकृतार्थः ॥ १० ॥

निवसन्निजेऽपि भवने प्रभवति भरणाय यदपि भृत्यानाम् ।
तदपि न गुणवान्पुरुषः प्रवासविमुखः परादरं लभते ॥ ११ ॥

शयनाशनादिविधुरो भवति विदेशेषु चङ्कमक्लेशः ।
निर्धनभवननिवासप्रयासखेदस्य षोडशो भागः ॥ १२ ॥

किं जीवति यच्छायामुपजीवति बन्धुवर्गस्य ।
तरुविटपप्रच्छन्ने प्रक्षिप तापक्षुपे नयनम् ॥ १३ ॥

परदेशे पर्यटतो यापनमपि जन्मनः श्रेयः ।
कृतमुपचितस्य बन्धोर्मुखावलोकात्सुधावगमैः ॥ १४ ॥

तावज्जीवति जन्तुर्यावद्भूङ्क्ते स्वयं समाहृत्य ।
पिण्डं परप्रयुक्तं प्राप्य प्रीणाति परिहृतप्राणः ॥१५॥

न्यक्कारमुदरभरणे लब्ध्वा राहुर्जहावुदरमेव ।
उचितं केतुरहासीदमृतेऽपि कृतार्थनामुदनम् ॥ १६ ॥

इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् ।
मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ॥ १७ ॥

अपि जलकणान्पयोधेर्दूरादाहृत्य जायते जलदः ।
निकटाद्धटानपि शतं समाहरन्वारिहार्येव ।। १८॥

तत्तद्देशाचारश्रुतवेषवचोविशेषवैदग्ध्यम् ।
विदुषामिदं विभूषारत्नमयत्नादुपैति परदेशे ॥ १९ ॥

भ्रमतामुदेति जगतो वैचित्र्यविलोकनेन विज्ञानम् ।
यादृच्छिकानि पुण्यान्यनेकतीर्थाभिषेकजनितानि ॥२०॥

कलिकलुषसंकटाकुलकुटुम्बसंवलनखेदविकलस्य ।
प्रतिनिधिरिव प्रवासः संसारविरागमुखमुदस्य ॥ २१॥

योषिदजनितापत्या नित्यापरिभूतवैरिणः क्षितिपाः ।
गुणिनो विदेशविमुखा न सुखाय भवन्ति बन्धूनाम् ॥ २२ ॥

नानानरपतिपरिषत्परिगणितगुणो जनो जगति ।
यज्जीवति तज्जीवितमितरत्किं तन्न जानीमः ॥ २३ ॥

यदपि प्रवासगमनं जीवितसंदेहदोलिकारोहः ।
तदपि तदेव श्रेयो जीवनमरणादनुद्यमहतस्य ॥ २४ ॥

प्रवसन्त्वनलसमनसः परानुरागोन्मुखाः पुरुषाः ।।
अलमलसैर्जनविसरैश्चिरमपि परदेशदर्शिभिः पशुभिः ॥ २५ ॥

शीतातपवर्षाणामुत्कर्षान्संभवे समपहाय ।
प्रवसेदसंभवेऽपि प्रावृषि न प्रोषितो भूयात् ॥ २६ ॥

कः प्रेत इति प्रश्ने सदुत्तरे प्रान्तभक्षकं रक्षः ।
प्रादाद्धनमतिहर्षात्प्रेतं वर्षाध्वगं [व]दते ॥ २७ ॥

सदासरे सुलग्ने प्रमोदमाने च मङ्गलैर्मनसि ।
गरुडारूढस्य हरेः सरेत्प्रयातः पदाम्बुरुहम् ॥ २८ ॥

सति संभवे सहायैः प्रसरति बहुदेशदर्शिभिर्बहुभिः ।
ग्रामाद्ग्रामान्तरमपि जातु सचेताः प्रयाति नैकाकी ॥ २९ ॥

विपदं प्रतिपदसुलभा कः प्रतिकुर्याद्विना सहायेन ।
एकाकिनो जगदिदं जनमयमपि निर्जनारण्यम् ॥ ३ ॥

श्वेवायात्याहूतः शर इव संयात्यनुप्रहितः ।
मन इव हितनिहितात्मा सुकृतशतैः सेवको भवति ॥ ३१ ॥

शठमतिरलसप्रकृतिः प्राज्ञंमन्यश्च लोलुपश्चपलः ।
अभिमानवान्निदेशाक्षेप्ता सप्तापि सेवका विपदः ॥ ३२ ॥

यानाशनशयनासनवेशाद्युपयोगिवस्तुविस्तारैः ।
सुखिनः प्रवसन्ति नराः प्रवसति कश्चित्कमण्डलुकरोऽपि ॥ ३३ ।।

कौपीनवानपि गतः श्रिया वृतः सम्यगेति सत्पुरुषः ।
श्रीमानपि प्रयातः कापुरुषः पुनरुपैति कौपीनी ॥ ३४ ॥

सति संभवे शयानः सुविदितगन्तव्यवर्त्मसंस्थानः ।
अनुचरजनहितकारी वन्याहारी भवेत्पथिकः ॥ ३५ ॥

तत्तत्पथपथिकक्रमसमुचितसंचारवासविश्रामः ।
पथि संचरेदवहितः परिचयरहितेषु येषु तेष्वेव ।। ३६ ॥

नापरिशीलितशीले सद्मन्यपि विश्वसन्ति विद्वांसः ।
परदेशेषु कराले कलिकाले कस्य विश्वासः ॥ ३७ ॥

शनकैः संतीर्णपथः पुरोपकण्ठे धरापतेर्धीरः ।
विश्रम्य विदितवासप्रदेशमस्मिन्प्रवेशमाचरति ॥ ३८ ॥

पुरतः पुरमपरिचितं न नीचवेशा विशन्ति विद्वांसः ।
प्रथमेक्षितामवस्था यस्मात्सर्वे सरन्ति सर्वस्य ।। ३९ ॥

नगरे नरेश्वरस्य प्रविश्य पुरतो विचीयते वसतिः ।
आरामदेवमन्दिरवापीकूपादिरम्यविजनेषु ॥ ४० ॥

नाचरति दूरदर्शी परदेशी पौरविपरीतम् ।
नापरिचितस्य सहते तनुतरमपि वैकृतं लोकः ॥ ४१ ॥

पुरतः परनगरगतः परिचयमासाद्य साधुलोकेन ।
निभृतेन भवति निपुणः सदसन्नृपभृत्यवृत्तविज्ञाने ।। ४२ ।

सुविदितसकलविशेषः समुज्वलैरनुचरैरनुचितवेषः ।
अभिगत्य पश्यति पुरः पुरस्कृतं नरपतेर्धीरः॥ ४३ ॥

निजदेशकुलाख्यानामाख्यानादनुगुणान्विनयी ।
ज्ञापयति नृपतिदयितं सुभाषितैराहरन्हृदयमस्य ॥ १४ ॥

सदवसरे सप्रणयः प्रागेव निवेदितः प्रभवे ।
नीतो नरपतिपरिषत्पुरस्कृतेनोपसर्पति नरेन्द्रम् ॥ ४५ ॥

गुणजातिसमयसदसामनुरूपेणोज्वलेन वेशेन ।
करचरणवदनचिकुरादिभिरुज्वलितैरुपैति नरपालम् ।। ४६ ॥

गुरुणा गुणानुबन्धाल्लघुरपि नीतो निमज्जनमुपैति ।
उपलनिबद्धालाबूनिचय इवान्तर्जडस्यापि ॥ ४७ ॥

परिषदमपरिचितां च प्रविश्य धैर्यापवर्जितातङ्कः ।
आशीःपद्यविशेष [वि]चिन्तयन्वीक्षते क्षितिपम् ॥ १८ ॥

सुललितकलादिवलिताञ्जलिरुपयातो नृपासनसमीपम् ।
विनयगुणावनतवपुर्विकाशिमुखमाशिषं ब्रूते ॥ १९ ॥

आमेरुमलयमूर्वीवलयमलंकृत्य कीर्तिकपूरैः ।
मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यम् ॥ ५० ॥

उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः ।
निजवेशजातिसमुचितमासनमालोक्य सेवते सुमतिः॥५१॥

परिषज्जनोपवेशनविन्यासविशेषसदृशमुपविष्टः ।
सति संभवे समीपं संमुखमपि सेवते नृपतेः ॥ ५२॥

क्षणमपसारितसाध्वसमुपविश्य सतां विलोक्य वदनानि ।
परतः स्वतोऽपि वा खं वचनावसरं प्रवर्तयति धीरः ।। ५३ ।।

आवर्जित इव विनयादीषन्मधुरस्मिताननसरोजः ।
अङ्गार्पितकरयुगलः कलयति विज्ञप्तिमीक्षतो नृपतेः ॥ ५ ॥

जीवतु चिरं नरेन्द्रः किंचिदुपन्यस्तुमस्ति मे वाञ्छा ।
इत्यादिवागुपक्रमकुशलोऽवसरे सुभाषितं ब्रूते ॥ ५५ ॥

निःसाध्वसमतिमधुरं स्पष्टाक्षरमुन्नतग्रीवम् ।
बहुधाव्यवहितसमयानुचिन्तितं पाठ्यमाशिषां पद्यम् ।। ५६ ॥

वर्ण्यो बलिरिव दाने सुरगुरुरिव विश्वविज्ञाने ।
अमरेश्वर इव समरे स्मर इव शोभासु भूपालः ॥ ५७ ॥

इति श्रीहरिहरसुभाषिते प्रवासप्रकरणम् ॥ ४॥

देव त्वन्नेत्रपाथोरुहसहचरणादस्तु पद्मा सपद्मा
 वाग्देवी सत्कवीनां विशदयतु यशो वीर युष्मद्यशोभिः ।
सन्तु द्वीपास्त्वदोजःप्रतिनवतपनैरेव संतापितप्ता
 भूयात्तद्वैरिनारीनयनमृगमयी भूधरारण्यभूमिः ॥ 11

साम्भोदर्भतिले भवत्करतले मेरौ भयोत्कम्पिनि
 ब्रूमः किं वयमेव देव भवतो भव्याय दिव्याशिषः ।
प्राप्य प्रार्थनयाप्यलभ्यमसकृत्रस्यत्प्रियालिङ्गानं
 स्वर्गेऽप्युत्पुलकाङ्कुरैस्त्वयि सुरैराशीःपरैर्भूयते ॥ २ ॥

भूमीपाल भवत्कृपालव इवोपासन्नकल्पद्रुमः
 श्रीमत्सैन्यवदन्यजित्वरपुरोद्दाहस्फुरत्साहसः ।
युष्मद्वैरिवदुज्जटो गतपटो भिक्षावशस्त्वद्यशः
 कर्पूराचलवत्सितस्तवं हितः कोऽप्यस्तु लोकस्तुतः ॥ ३ ॥

गङ्गोत्सङ्गवलन्मृणालशकलप्रत्याशयोद्यत्करं
 भोक्तुं मुग्धहृदि क्षपाकरकलां लम्बोदरे धावति ।
सद्यस्त्वद्यशसि स्वयं गिरिभुवा गीते पुरः प्रोच्छल
 त्तद्धावल्यतिरोहिते हिमकरे हृष्टो हरस्त्रायताम् ॥ ४ ॥

भुज एव तव क्षितेर्निवासस्त्वदपाङ्गे कमलालयाविलासः ।
सुखलब्धवधूद्वयीसमाजस्तव चित्ते हरिरस्तु भक्तिभाजः ॥ ५<

यौष्माकीणयशोनिशाकरशते नित्योदिते मुद्रिते
 नाभीपल्वलपङ्कजे मुररिपोरन्तर्गते ब्रह्मणि ।
निःप्रत्यूहमहन्यपि च्युतचिरब्रीडाभरं भूयते
 भूयादब्धिभुवो रतोत्सवरसव्यासङ्गलग्नं मनः ॥ ६॥

चैत्रीचन्द्राभचन्द्रातपतलचकितोच्चित्तचञ्चच्चमूरु
 प्रोदश्चल्लोचनानां चतुरकरचलच्चामरोच्चारिचेलः ।
त्यञ्चच्चामीकराारुचिरुचिरमुखस्त्वं चिरं चारुकीर्तेर्वीचीनां
 चाकचिक्यं चतुरुदधिचराश्चारयोच्चैश्चकोरान् ॥ ७ ॥

निर्णाय त्वत्प्रतापज्वलनसमुदयं किं द्रवीभावभीत्या
 ब्रह्मा ब्रह्माण्डमेतत्कनकमयमधाद्वीरवारिण्यपारे ।
अस्थाप्यन्तस्थनागावलिमनवरतान्निर्झरान्निम्नगानां
 लक्षं सप्ताम्बुराशीन्यधितनिरवधीनुन्मदानम्बुवाहान् ॥ ८॥

त्वदरिपुरपुरंधिभिः प्रतापज्वलनमुपेतमुदीक्ष्य तावकीनम् ।
कति कति न समन्ततः क्रियन्ते प्रतिभवनं नयनाम्बुभिस्तटिन्यः ॥९॥

नित्याक्षीणकले निरकधवले युष्मद्यशोमण्डले
 व्योमारोहिणि रोहिणीपतिरतिव्यर्थोऽभवद्भूपते ।
एतस्य प्रतिकारमेष महतो वैरस्य वीराचरन्वीक्ष्य
 त्वां मुदिताः पुरेषु वनिताः संतापयन्नाभ्यति ॥ १० ॥

त्वत्कीर्त्योपनतं न किंनरपतेऽरण्यस्थितौ वैरिणां
 यद्वासांसि मलीमसानि धवलस्फीतन्त्यधौतान्यपि ।
ज्योत्सन्त्याशु तमांसि चन्दनरसक्षोदन्ति पङ्कच्छटा
 मृद्भाण्डान्यपि राजतन्ति परितः सौधन्त्यरण्यान्यपि ॥ ११ ॥

यैर्युष्मत्करबालकालदशनोत्कृत्तरिहैकक्षणे
 कीर्णा, भूमिरियं भयंकरतरैरेतैरुपेतैर्दिवम् ।
नीरन्ध्रं परिपूरितामुपचितो रथ्यासु मिथ्याभय
 व्यग्रैः स्वर्गिभिरर्गलाकुलगृहद्वाःस्थैरवस्थीयते ॥ १२ ॥

त्वदसिदलितदेहेरेकदैवोत्पतद्भिर्व्यरचि विधुरवगैश्वालनीचण्डरोचिः ।।
 अहमहमिकयास्मिन्दिग्वधूभिर्विधूते
धरणिरजनिपुष्टा कीर्तिपिष्टातकैस्ते ॥ १३ ॥

नरेन्द्र मन्ये निगदन्तु देवं मया दयादक्षिणदृष्टमेव ।
द्विपायिते दीनपयःपयोधेः पृथ्वीतले कल्पतरोः प्रवाहः ॥ १४ ॥

संनिविश्य मनसा क्षितिप त्वां सैन्धवेषु समशोधि विरोधः ।
येन ते चिरदरिद्रकुलेषु ग्रामवासविकलेषु पतन्ति ॥ १५ ॥

इह तव देव निपतता करकमलकुशोदके [तु] जायन्ते ।
तत्तद्दूरदरिद्रद्वारि द्विपदानवारिभिः सरितः ॥ १६ ॥


प्राप्तास्त्रासात्पिपासातिशयमुपगताः पातुमारण्यमम्भो
 युष्मद्विद्वेषियोषाः श्वसितसमुदयैस्तत्तदीयैरशोषि ।
एतत्संवीक्ष्य मूर्छानिपतिततनवो नैव जीवेयुरेता
 श्चेन्नोपेताः शबर्यो निजनयनजलैः पल्वलं पूरयेयुः ॥ १७ ॥

वीर त्वद्वैरिदारा गहनगिरिमहागबान्तस्थमित्रं
 त्वत्त्रासागुप्तवासा दवकलितहृदो यद्यदेव प्रपन्नाः ।
तत्तज्योत्स्वायमानं धरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभिः
 सद्यो मोहान्धकारानुसरणशरणा वासरान्वाहयन्ति ।। १

भृङ्गारेण महीमयेन करकं क्षौमेण वल्काम्बरं
 पट्टीयप्रकरेण बर्हनिवहं हारेण गुल्जावलीम् ।
इत्थं प्रार्थनया कया न भवतो वैरिस्त्रियो वस्तुभिः
 क्रीडन्त्यात्मविनियाय चकितं चिहान्यरण्यस्त्रियाम् ॥

निभृतमुषितैर्योषिद्वन्दैर्वनान्तलतान्तरे
 प्रतिदलततिच्छिद्रे च्छिद्रेऽर्पितेषु भियाक्षिषु ।
शिव शिव मृगीयूथमान्त्या समीपमुपागता
 न्दधति हरिणान्हस्तैर्जीवातवे तव शत्रवः ॥ २० ॥

गान्धारा गुप्तदारास्त्वयि चलति गलवाष्पधाराविहारा
 गाढास्त्रासावगाढा क्षितिपकुलमणे गुर्जरा जर्जराशाः ।
तैलनास्त्यक्त्रशास्त्रिभुवनतिलक क्लिश्यदङ्गाः कलिङ्गा
 मोरङ्गा मुक्तरङ्गाः सपदि समभवन्वीररणा विहङ्गाः ॥ २६॥

वीराणामेष गन्ता नगरमयमरीन्संमुखानेव हन्ता
 सद्यो भेद्यं ततस्तैर्बत रुचिरमिदं मण्डलं चण्डभासः ।
मत्वैतन्मेदिनीयं प्रतरुणकरुणोत्कम्पिता त्वत्प्रयाणे
 सेनाधूलीवितानाञ्चलतलविवलद्विम्बमेनं विधत्ते ॥ २२ ॥

त्वत्सैन्ये धरणीमणे प्रचलति प्रोत्पीतमर्मान्तरे
 कूर्मे द्राक्परिवर्तिनि क्षितितले व्यावर्तमाने ततः ।
वार्धेर्वारिभवे बहिर्विचलिते मैनाकपक्षक्षतिः
 किं न स्यात्स न चेद्भवेद्विकलहग्धूलीभरैर्वासरः ॥ २३ ॥

यौष्माकीणे प्रयाणे प्रचलजलनिधिप्रोच्छलद्वारिपूर
 स्नातैर्नालम्भि तोयप्लुतधरणिगतैर्धू लिरुद्धूलनाय ।
सेनारिङ्गत्तुरङ्गावलिवलितखुरोद्भूतधूलीवितान
 व्याप्तैर्निष्प्रयत्नं स्थितमतिसुखितैर्दिग्गजग्रामणीभिः ॥ २४ ॥

भूमीपाल कृपालवस्तव हया द्राग्दीर्णताया भयादुल्लङ्घ्यैव
 गिरीनटन्त्यघटितैष्टापानलैश्चञ्चलैः ।
क्षुद्रा क्षोणिरियं स्फुरत्खुरपुटक्षु[ण्णा]क्षणान्मास्त्वितो
 धावन्त्यम्बरमेव चत्वरमनुप्राप्यान्तराप्यायिताः ॥ २५ ॥

इन्द्रो निन्दति वाहमाह दिनकृद्गुर्वा च मे वार्वत-
 श्चञ्चुर्न्यञ्चति किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः ।
वातः खञ्जति पङ्गुपुञ्जति मनोराजिभवद्वाजिषु
 द्वेषामाजिषु वैरिणामभिमुखं धावत्सु यावत्सुखम् ॥ २६ ॥

वान्तु क्वामी समीराः क्षणमपि च मनः कुत्र न स्पृष्टपृष्ठं
 तिष्ठन्त्वेते सहस्र समपथि गिरयः को वयस्यापकर्षः ।
किं नश्छिन्नं प्रतेयुर्यदि जलनिधयः सर्वतः संनिकर्षा
 न्हेषाहर्षान्नृपैतत्त्वयि जिगमिषति व्याहत्येव वाहः ॥ २७ ॥

समुद्रावधिक्षुद्रभावान्दधाना कुतो भूर्यतोऽभीष्टवेगो विनष्टः ।
हयैर्मन्युनेवामुना हन्यते किं धरा निर्भराहंकृतैः पद्भिरेव ॥२८॥

दृष्टोदञ्चत्कुथान्तान्धरणिप करिणो धावकस्तावकीनां
 किं भूयो जातपक्षाः क्षितिवलयमिदं माभृतः क्षोभयन्ति ।
इत्युद्भ्रान्ताः प्रधावेदमरपरिवृढः स्यान्न सधः शची
 चेद्भेरीभाङ्कारघूर्णत्कनकगिरिशिरःस्थायिनी स्थापनीया ॥ २९ ॥

शृङ्गेनैकेन हेम्नः कथमयमभवन्मेरुरग्र्यो गिरीणामित्येतं
 जेतुमेतस्तुहिनगिरिरसौ श्रीमतः सौधभावम् ।
आकीर्णः खर्गशृङ्गः सुललितकलशव्याजतो जायमानै
 र्युष्मत्सेवानुरूपं विभवमलभत काफलस्त्वत्प्रसादः ॥ ३० ॥

प्राप्ता वासकसज्जतां प्रथमतस्त्वां यु(यो)द्धुमुत्कण्ठिता
 योधास्तेऽभिमृता मनागरिचमूः खाधीननाशस्थिता ।
भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता
 दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधेः ॥ ३१ ॥

शृङ्गारस्त्वमसि क्षितावरिवले वीरः परेषां पुरे
 रौद्रो दीनहृदामुदारकरुणस्तैस्तैर्गुगैरद्भुतः ।
हास्यो नित्यमदातुरङ्गदलने बीभत्स एव द्विषां
 दुर्वृत्तस्य भयानको नवरसः शान्तोऽर्थिसंतोषणे ॥ ३२ ॥

प्रामाण्यं परतः स्वतोऽपि भवतो विज्ञायते सन्मते
 भूमीन्द्रो भवता क्षणस्थिरतया वर्णाश्चिरं स्थापिताः ।
सर्वज्ञैकसदीश्वरोऽपि न परं ब्रूते भवानीश्वरं
 तन्नैयायिकनायकस्य भवतो मीमांसकत्वं कुतः ॥ ३३ ॥

स्वतः प्रकाशो मनसो महत्वं धर्मेषु शक्तिश्च तथान्यथा धीः।
भूपालगोपालपदैकभक्तेरन्यैव नैयायिकता तवेयम् ॥ ३४ ॥

शक्तिः प्रमापयति वीर तवोपमानं
 प्रामाण्यमाप्तवचनेषु परैव जातिः ।
जातौ गुणागुणगणाश्रयिणो विशेषा
 वैशेषिकं किमपि दर्शनमद्भुतं ते ॥ ३५ ॥

त्वद्बाणेषु यमो जयेषु नियमो याने स्थिरं चासनं
श्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृतिः श्रीमतः ।
ध्यानं शूलिनि धारणा च धरणौ धर्मे समाधिर्यत
स्तनिर्विण्णहृदः किमीश्वरपरे ध्यायन्ति पातञ्जले ॥ ३६ ॥

एकं वस्तु यदस्ति नित्यनिबिडानन्दप्रबोधात्मकं
 सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति ।
त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गारमन्मन्यते
त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥ ३७॥

गुणास्ते निःक्षोभाः प्रकृतिरियमाधत्त भवतो
महत्तत्त्वं तच्चाप्यजनयदहंकारमुचितम् ।
कृतं तेनाप्युर्वीरमण गुणमात्रार्जनमितः
स्फुरत्कर्मज्ञानेन्द्रियसचिवसूर्यादिकमभूत् ॥ ३८ ॥

इति श्रीहरिहरसुभाषिते राजप्रशस्तिप्रकरणम् ॥५॥

स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥

विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥

यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥

यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥

नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥

पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥

उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥

प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥

नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥

मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥

राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या.....यथोचितेन परितोष्याः ॥ ११ ॥

नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥

अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥

नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥

अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥

गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥

बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥

उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥

वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥

अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥

राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥

लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥

कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥

उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥

अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥

तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥

आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥

अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ।।
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥

अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥

अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥

यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥

किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥

संकथनमप्यनर्हं पश्यति नृपतौ परेण केनापि ।
स्तुत्याशीःस्तुत्यादेः का वान्यस्मिन्कथापि तत्पुरतः ॥ ३३ ॥

राजनि पराग...ग्रन्थिं श्लथयन्ति संततं पिशुनाः!
एषामिहावकाशो रेखासदृशोऽपि वयते विदुषा ॥ ३४ ॥

क्षुद्रोपद्रवभीत्या न त्याज्या राजपरिषदः पुरुषैः ।
कण्टकभेदादिभिया सुधियां केनापि मुच्यते देहः ॥ ३५ ॥

कुलशीलपौरुषादि प्रख्यातयशोविशोभिजन्मानम् ।
धनवन्तमधनमपि वा रञ्जय राजानमुन्नतारम्भम् ॥ ३६॥

नीचसचिवसंघृष्टं धनसंचयलुब्धमल्पसंतुष्टम् ।
धर्मपथादपरक्तं वृथा विधायापि नृपतिमनुरक्तम् ॥ ३७ ॥

यद्यपि गुणसमवहितो विहितोचितपौरुषप्रणयः ।
क्षुद्रक्षितिपसभायामाचारणया समुपविश्य ॥ ३८ ॥

त्यागी वरमल्पधनः कुबेरकल्पेन किं कदर्येण ।
उदधेरलभ्यपयसः सुलभजलं पल्वलं श्रेयः ॥ ३९ ॥

अलमथ कथनसहर्नरपतिगुणदोषतारतम्यस्य ।
द्रविणार्पणे समर्थः सेव्यो राजेति परमार्थः ॥ ४० ॥

शास्त्रार्थव्याख्यानैर्धर्मकथाभिर्नयाख्यानैः ।
ललिताभिः कविताभिः प्रसङ्गतः प्रीणयेन्नृपतिम् ॥ ४१ ।।

इति श्रीहरिहरसुभाषिते राजोपासनप्रकरणम् ॥ ६ ॥

विज्ञाय नीतिमन्तं श्रीमन्तं सेवते सुमतिः ।
अनयप्रणयिनि राजनि नाजनि कुत्रापि कल्याणम् ॥१॥

अत्युपचितैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः।
नृपतिः श्रियमतिसुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥ २॥

साम समे सुमतीनामधिके दानं रिपावुचितम् ।
भेदः सर्वत्र हितो विहितो विजयाय विग्रहः कृतिनः ॥ ३

समकक्षे प्रतिपक्षे साम्ना सुखमेधते सुमतिः ।
अन्यत्र सामकामः पश्चात्परितप्यते नृपतिः॥४॥

साम्नान्वितोऽपि बलवाञ्जलमिव वह्निं विनाशयत्येव ।
तस्माद्बलवति सामध्यानमलं मन्यते सुमतिः ॥ ५ ॥

वदतोऽपि प्रियवचनं रुदतोऽपि हि कण्ठमाश्लिष्य ।
शपतोऽपि दैवतशतैर्न भवति विद्वान्वशे द्विषतः ॥ ६ ॥

रणपतितस्य मुखान्मे शृणोतु भूयो रिपोर्धनं गुप्तम् ।
इत्याहूय समीपं हतो हतेनापि हतनृपीयेन ॥ ७ ॥

अतिबलिनामपि मलिनाशयेन विश्वभरादीनाम् ।
विश्वासोपनतानां वासोपुत्रेण जीवितं जहे
अपरीक्षितपरवञ्चनमञ्चति लोभादवेक्षितप्रेक्षी ।
व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ॥ ९ ॥

क्रूरचरितेन संगतमसंगतं सत्स्वभावस्य ।
जीवति पटीरविटपी परिरभ्य न पावकं प्रायः ॥ १० ॥

निहतं गीतेन मृगं मीनं बडिशेन तेजसा शलभम् ।
दृष्ट्वापि यदि न पश्यति नश्यति कि केन करणीयम् ॥ ११ ॥

कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
पाकान्वितमतिसुरसं मुझे बहुधावधानेन ।। १२ ।।

अतिबलवति मतिशाली सदसि नृपाली नमस्कृते नृपतौ ।
दानविधि विदधानो गताभिमानोऽतिवाहयेत्समयम् ॥ १३ ॥

अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ १४ ॥

अप्यतिशयितमनर्थं समयत्यर्थं समर्पयन्नृपतिः ।
तदनर्पयन्निरर्थैः प्राणेन समं परित्यजत्यर्थम् ॥ १५ ॥

उत्तारयति विपत्तावतिधनमत्तामपक्षते क्षितिपः।
चेन्नेह तदुपयोगस्तन्नियतं वित्तसंचयो रोगः ॥ १६ ॥

रविरिव सुचिरेण रसं भृशं नृपो धनमुपादत्ते ।
काले वर्षति हर्षानिस्पृहमुच्चेऽपि नीचेऽपि ॥ १७ ॥

दानं राज्यनिदानं प्रबले स्वबले च दुर्बले नृपतेः ।
फलमत्र कालहरणं सहप्रहरणं च पापसंहरणम् ॥ १८ ।।

वृत्तिभिरनिवृत्तमुखा यस्य नृपस्योपजीविनः पुरुषाः ।
स हि समिति विजयमयते शेते सह वा सहस्रेण ॥ १९ ।।

यद्भुक्तमभून्नृपतेराकोटिवटावधि भटानाम् ।
यावद्गुणं तदर्पणमिदं वदन्त्याजि पिशितभुजः ॥ २० ॥

विजितो रिपुरपखेदं भेदं चेत्तस्य साधयेन्नृपतिः ।
सुहृदा योऽजनि भिन्नः किं न हि तं तुष्य वेधसा विहितम् ॥२१॥

एकारिमित्रयोश्चेत्परस्परं भूपयोर्मेदः ।
तदरिः परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ २२ ॥

शत्रोः पराभियोगश्वेदजनि निरौषधं गतो. रोगः ।
परपरिभूतस्य यतः कुतोऽन्यतः पौरुषप्रसरः ॥ २३ ॥

श्रितसागरपरिखाकामवाप्य लङ्कामपि दशास्यः ।
तदेन समरपृष्ठे शयितो दयितोऽपि गिरिसुताभर्तुः ॥ २४ ॥

अभिलषतोरनुभावातिलोत्तमायाः किलोत्तमानुभयोः ।
सुन्दोपसुन्दयोरपि नाशो भेदादुदाहियते ॥ २५ ॥

मित्रे धनरथ जनैनयेन विनयेन भेदिते नृपतेः ।
कुत्राहिभयव्याकुलहृदो बहिर्भावसंभवो भवति ॥ २६ ॥

भेदो भवति निहन्ता क्षुद्रेणापि स्वकेन लोकस्य ।
अन्तःशरीरजन्मा स्फोटोऽपि स्फुटतरं विनाशयति ॥ २७ ॥

निजबलपौरुषबाध्यं यदि वोपायान्तरासाध्यम् ।
नृपतिर्विज्ञाय रिपुं चण्डकृतिर्दण्डमाधत्ते ॥ २८ ॥

शक्तिः प्रभावमन्त्रोत्साहकृतां प्राह पण्डितो नृपतेः ।
संपन्नः सुखमनयापनयाय परस्य विग्रहं कुरुते ॥ २९ ॥

चिरपरिपोषितवाहः स्ववृत्तिसोत्साहसुभटसन्नाहः ।
नीरन्ध्रगुप्तमूलः प्रयाति राजा रिपोरननुकूलः ॥ ३०॥

देवद्विजगुरुभक्तिश्चिरपरितुष्टैर्भटैर्युक्तः ।
बहुधा विमृष्यकारी नारीणां वशमुपैति नरपालः ॥ ३१ ॥

अबलोऽसि न जितकाशी प्रतिभटराशीन्परापत क्षितिप ।
जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ ३२ ॥

शूरोऽसि दूरपातिभिरात्मसमैः सद्भटैरपि समेतः ।
युध्यस्व बद्धसाहसमधिकैरपि धीरवीरवलैः ॥ ३३ ॥

विजयेन राज्यभोगः संगरमरणेऽप्सरोभिरभियोगः ।
मा विरम वीर युद्धादुभयविरुद्धा पशोर्यशोहानिः ॥ ३१ ॥

युध्यस्व बद्धमानं दानं सानन्दमाचर धनानाम् ।
मा तात कातरत्वं राज्याय भज क्षणक्षयिणे ॥ ३५॥

निर्भरमुपाय यशो न वशो भूयाः कृपणतायाः ।
आकर्ण्य नरपतीनां पुण्यमतीनां पुरा चरितम् ॥ ३६॥

क्षुद्रेऽपि क्षोणिभुजां न जातु वैरिण्युपेक्षया स्थेयम् ।
स्व यमनिहतः समुद्रे क्षिप्तोऽपि जघान शम्बरं बालः ॥ ३७ ॥

कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ३८ ॥

धीरः सत्कुलजन्मा सन्मार्गरतः कृतज्ञसेवी च ।
स्फुरितमतिर्पनृतिहितः सुकृतैरुपयात्यमात्यपदम् ॥ ३९ ॥

नृपहितविनिहितहृदये सुकृतिनि सचिवे निवेशितात्मभरम् ।
यद्राज्यं तेन सुखी भवति परायत्तसिद्धिरवनीशः ॥ ४० ॥

स्वस्मिन्नेव समस्तो येन न्यस्तो भरः क्षितीशेन ।
स्वायत्तसिद्धिरेषः स्वकरधृते मन्दिरे वसति ॥ ४१ ॥

दुःखं परवशमखिलं खवशं सुखमित्युदाहृतं मुनिभिः ।
तदनवहिते सहाये यद्वाप्यहितेऽवगन्तव्यम् ॥ ४२ ॥

राज्यं हि सचिवनृपयोरत्युच्छ्तियोर्यदायत्तम् ।
तद्वै राज्यं तत्फलमलम्भि शकटारनन्दाभ्याम् ।। ४३ ॥

नृपसचिवयोर्द्वयोरपि सरूपयोश्चेद्विभक्तिरवशिष्टा ।
द्वन्द्वापवादहेतुर्नियतं स्यादेकशेषविधिः ॥ ४४ ।।

पौराः परिणतनीतेः फलेन जानन्ति मन्त्रितं नृपतेः ।
इदमन्यैरुन्नीतं विपरीतं फलति निर्णीतम् ॥ ४५ ॥

हृदयं नृपतेर्मन्त्रो मर्माणि भवन्ति मन्त्रिणस्तस्य ।
तेषामपि यदि भेदो विच्छेदो जीवतस्यैव ॥ ४६॥

निजहृदयं सत्प्रणधिः शास्त्रं चक्षुस्त्रयं नृपतेः ।
यैः पश्यत्यतिसूक्ष्मं व्यवहितमपि दूरवर्ति वा वस्तु ॥ १७ ॥

पर्यालोचयति न यः कार्याणि कृतान्यपि प्रकृतिमुख्यैः ।
स्वयमनवेक्षितकर्मा कृषिपतिरिव हीयते स नृपः ॥ ४८ ॥

हिमकरसमः समक्षे परं परोक्षे सखा वृषार्कस्य ।
जलधिरिव दुरवगाहस्तमाह नरपालमाङ्गिरसः ॥ ४९ ॥

अन्धोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
राजत्वमप्रतिहतैर्जनानुरागैर्भजति भूपः ॥ ५० ॥

उच्चैर्यद्यस्ति मनः किं विपदा संपदागन्त्री ।
पुरुषस्य मनसि भने मग्नैरापत्सु लक्ष्यते लक्ष्मीः ॥ ५१ ॥

लघुरप्युच्चैश्चरितः क्रमेण गन्तासि गौरवं तात ।
कलया कलया काले कलानिधिः पूर्णतामेति ॥ ५२ ॥

भज लघुमपि भजमानं मानं मा वर्धयावलिप्तस्य ।
यदि सर्वत्र समत्वं श्रियोऽसमत्वं विमुञ्च योगीव ॥ ५३ ।।

हृतमथ मधुरतरैरपि भूमिभृति व्यापृतैर्बहुभिः ।
प्रतिजानामि समृद्धिं साहसमुक्ते च नित्यमुद्युक्ते ।। ५४ ॥

इयमत्र कयापि दिशा नीतिशा दर्शिता पदवी ।
चाणक्याद्यभिधानाज्ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ५५ ॥

. इति श्रीहरिहरसुभाषिते राजनीतिप्रकरणम् ॥७॥

प्रस्तावे समयादेतर्वर्णनमाकर्णयन्नृपतिः ।
प्रायः प्रसीदतीति प्रसादयेदेनमेतेन ॥ १॥

कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशवीं
 विश्लेषादितरस्य पाण्डिमभृतामालीलतानामियम् ।
कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां
 प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ २॥

दरोन्मीलन्मल्लीमुकुरकुहराभ्यन्तरगतं
 त्वरासाद्यं सद्यो दलमविकलीकृत्य सकलम् ।
समीपे संविश्य क्षणमथ परिक्रम्य परितो
 न पातुं हातुं वा प्रभवति मरन्दं मधुकरः ॥ ३ ॥

अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपा-
 त्पुष्प्यात्किंशुकचूतनूतनदलाविर्भूतशाणश्रियः ।
पद्मोल्लासितगन्धवासितवहद्वातावदातद्विषो
 मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥ ४ ॥

प्रसूनपटलारुणोन्नतपलाशजालक्षका
 न्मनांसि मदनो बलाद्दहति मानिनीनां मुहुः ।
न चित्रमिदमुद्गता यदिह भृङ्गधूमावली
 वियोगिनयनाञ्चलीर्नयति खेदमस्राम्बुभिः ॥ ५ ॥

संततागतवसन्तमारुतप्रोल्लसल्ललितपल्लवोर्मिभिः ।
प्लाविता वनलताभिलाषिणः शाखिनः किमनुरागसागरैः ॥ ६ ॥

कर्णाटीकेलिंबाटीविटपिनवदलान्दोलनाश्चोलवाला
 चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः ।
वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदा
 गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ७ ॥

व्याधूतचूतनूतनसौरभधनमञ्जरीपरीलब्धाः ।
वाताः सरानुयाता वसन्ति वासन्तिकासु लतिकासु ॥ ८ ॥

संभुक्तसुरभिमीनो रविरुच्चैरश्विनीमुपारूढः ।
स्फीताचरः सहेलं खेलति मेखेण राजेव ॥ ९॥

हित्वा हित्वा मधुरमनसो वीतकालान्रसाला
 नन्तःपुष्पामपि मधुलिहः पाटलां पालयन्ति ।
तत्तन्वीनां स्तनशिरिशिरो नूनमावोढुकामो
 जातः स्वीयोत्सवसमुदयं वीक्षितुं स्वेदबिन्दुः ॥ १० ॥

पाटलापरिमलापहारिणः कुञ्जकोषझरगूढचारिणः ।
तस्करानिव तपर्तुवासरे प्राप्नुवन्ति न जनाः समीरणान् ॥ ११॥

 रविकिरणानुगृहीता ग्रीष्मेष्वणवोऽपि रेणवो धरणेः ।
 चरणं दहन्ति सुचिरोपमर्दनं कः क्षमो भवन्क्षमते ॥ १२ ॥

माद्यञ्चण्डमरीचिमण्डलचलत्तेजोऽनलनासतो
 दूरोन्मुक्तवियत्पथं विचरयन्वातं बलान्निष्कथम् ।
कुर्वस्तायमहो कदुष्णकलुषं भूयस्त्रिषन्द्राधय-
 अखेदेषु वपूंषि निष्कुथयति प्रीमोऽयमूष्मोल्बणः ।। १३ ॥

उपभुक्ताशेषवृष धावन्तं मृगशिरोंऽशभोगाय ।
का खेचरकेसरिणं पश्यतु भावन्तमन्तकप्रतिमम् ॥ १४ ॥

स्वपिति ग्रीष्म भयादासायं सुखमाश्लिष्टसवातच्छायम् ।
जन्तुर्यत्नशतान्यारभतां को नामान्यत्रैतल्लभताम् ॥ १५ ॥

तापतीभ इव तोयचरोऽभूद्भैष्मिकेषु दिवसेषु मनोभूः ।
यजले विहरतामिह यूनामाविरन्ति रतिकेलिरनूना ॥ १६ ॥

सारङ्गाः परमादरादगणितप्रौढातपाः पादपा-
 नारुह्य स्फुटमाह्वयन्ति विरुतैरागामिनी प्रावृषम् ।
औत्सुक्येन समीयुषां मधुलिहामन्तःस्पृहादन्तरं
 ब्रूते नीपवनीषु हर्षजननीं संभाविनी संपदि ॥ १७ ॥

हृष्यन्तश्चिरदुर्गता इव घने दातर्युपर्युद्यते
 दातुं वारिवसून्यसूनिव पुरःप्राप्तं परिस्पर्धिनः ।

झञ्झावातविधूतपत्रमुखराः शाखाकरास्फालिनः
किं वर्षासु परस्परेण कलहायन्ते धरित्रीरुहः ॥ १८ ॥

अस्याङ्के करपट्टभासि चपला श्रीः स्वर्णरेखायते
 धारासारधनं सुदर्शनमदश्चकं जगत्पश्यति ।
प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं
 दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ १९ ॥

एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि
 प्राप्तौ यत्र सनिर्भराविह धराकाशी चिरादेकताम् ।
योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते
 छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥२०॥

मैथुनभोगोपरतः पयोदमलिनाम्बरावरणः ।
पामर इव रविरधुना प्रकटं वर्षासु कर्कटं भुङ्क्ते ॥ २१ ॥

म्लानान्नीपतरोरपीपतदिमान्संधिः शरत्प्रावृषो
 रन्तःकोरकितामहो मधुलिहो जातीमवातीतरत् ।
पुंहंसान्समचीकरत्कृतधियो भाष्येषु वागुद्यम
 कि केकानिगदं त्वजीगमदतिक्लैब्यं कलापिनजान् ॥ १२ ॥

सिंहादवाप्य कन्यां सैंहीमयमाश्रितो वृत्तिम् ।
विकिरति कैरवमुक्ता घनकरटिघटाविदारणो भानुः ॥ २३ ॥

शुभैरप्रेकुलैः सितं समकृताकाशं सहः कैरवै-
 जर्जातीभिर्विपिनश्रियो विकसितैः काशैरियं काश्यपी ।
चञ्चच्चन्द्रमरीचिवीचिभिरिमाः किं च क्षपास्तत्किमु
 क्षुब्धक्षीरसमुद्रमुद्रितहरित्कोडे शरत्क्रीडति ॥ २४ ॥

उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिरा
 द्देवः सेवितवान्सरोजनयनो निद्रा समुद्राम्भसि ।
सोऽप्युत्तु भुजङ्गभोगशयनाज्जागर्ति मत्स्योत्सवे
 सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ २५ ॥

जालोद्गतैरुज्जघनोत्कटातटैर्विकाशिकाशैः शितकेशपेशला ।
पुरस्फुरन्नर्तयतीव स्वञ्जनं शरज्जरद्वारवधूरिवेक्षणम् ॥ २६ ॥

शरदमपसरन्तीं युक्तमेषा सरःश्री-
 रनुसरति विनोदान्कौमुदानाददाना ।
उपसरति कराले हन्त हेमन्तकाले
 भवति किमिति शालिक्षेत्रपाणिप्रमोदः ॥ २७ ॥

नीचस्त्वमसि तुलायामयमुच्चैः कार्तिकीशशाङ्क इति ।
 व्रदं काशविकाशादुपाहतरतिं मुमोच मलिनोऽर्कः ॥ २८ ॥
शीतैरुदीतैर्निकृतं निसर्गान्मार्गादपि अंशितमंशुमन्तम् ।
 दृष्ट्वा सरो वा रतवासरो वा दैन्ये यदन्वेति न चित्रमेतत् ॥ २९ ॥

नौहारतूलभृतमम्बरमेतदुच्चै-
 रासाद्य नाद्य मिहिरो रविरभ्युपैति ।
दीने दिने द्रुतमनेन विनेह शोच्ये
 नोच्येत केन तरुणं तिमिरावरोधः ॥ ३०॥

स्पृष्टं वारि व्यथयति मुहुर्वहिदाहावशिष्टं
 कम्पः कष्टं नटयति वपुर्वादयन्दन्तवाघम् ।
तूलस्थूलावरणविकलं हन्त हेमन्तजाता
 वाताः सूचीनिचयवचितप्रायतां प्रापयन्ति ॥ ३१ ॥

वृश्चिकसंदंशवशान्मलिनमुखो जातवेदन इवायम् ।
पौषभिषजोपनीतं वियन्मणिर्मूलमुपभुते ॥ ३२ ॥

निर्गतान्यकुसुमे हिमागमे संनिषेव्य तिलसूनसंपदम् ।
भाविकुन्दमकरन्दविन्दवे मन्दमन्दमलिवृन्दमञ्चति ॥ ३३ ॥

सोत्कम्पमस्मिञ्छिशिरे शरीरं शोचितं को न करोति जन्तुः ।
नीहारतूलप्रकरप्रवेशान्निशा परं व्यायतकायमास्ते ॥ ३४ ॥

अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड-
 प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति ।

बन्धन्त्येते सपदि सुदृशां दुर्भगानामपीह
प्रौढाश्लेषाश्नथितदयितं मूर्ध्नि सौभाम्यपट्टम् ॥ ३५ ॥

निन्दितवहिरनिन्दितभानुः श्रितसोध्मस्त्रीस्तनगिरिसानुः ।
तूलस्थूलावरणास्तरणः शिशिरं शमयति सम्यक्तरुणः ॥ ३६ ॥

शिशिरेऽनुधावति रिपौ धनुरप्युन्मुच्य भानुरपयातः ।
मकरालयमपि तीर्णः किं भीरुः कुम्भमाविशति ॥ ३७ ॥

आविष्कुर्वन्निव नवनवेनादरेणानुरागं
 सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं
 व्याहुर्वान्ता किमयमुदयत्यम्बरे तिग्मरोचिः ॥ ३८ ॥

इदमनुचितहोतुः कोऽपि होमावसान-
 ज्वलदनलमवादीकुण्डमाखण्डलस्य ।
मणिघटमभिषेके प्रातरस्योचुरेके
 कलितकिरणतोयं मण्डलं चण्डभासः ॥ ३९ ॥

व्यधित विधुमधीनं वल्लभं वारुणीति
 स्फुरदरुणितमास्यं तिर्यगावर्तयन्त्याः ।
सुरपतिहरितो यत्कुण्डलं व्यक्तमेकं
 तदिदमुचितमूचुमण्डलं चण्डभासः ॥ ४० ॥

प्रायः प्राचीप्रमदाभिहतः प्रागचलप्रासादोत्पतितः ।
उदयति रविरतिशोणिमशीलः कुङ्कुमकेसरकन्दुकलीलः ॥ ४१ ॥

सवितरि चिरवैरिण्युत्थिते निष्यतन्तो
 भयविचलितपक्षा गोलताप्रान्तरक्षाः ।
मधुकरनिकराणां कैतवादन्धकाराः
 प्रियकुलमदसीयं कि सरः संश्रयन्ते ॥ ४२ ॥

विरहेण रवेर्दिनावसाने परिपीतानि विषाणि वारिजिन्यः ।
कमलोदरनिःसरविरेफव्यपदेशादधुना किमुद्गिरन्ति ।। ४३ ॥

त्वमन्यहरिदङ्गनाबिहरणव्यपतक्षपः
 स्पृशन्नपगतोऽत्रपः किमधुना करैर्मामिति ।
प्रसार्य कमलं करं अमरभाकृतिव्याजतः
 समाचरति पद्मिनी किमु रवेरुपालम्भनम् ॥.४४ ॥

मध्याहिकैर्मिहिरवलिकरालकीलैः
 काष्ठोत्करादिव परिज्वलतः पतद्भिः ।
अङ्गारकैरिदमपूरि जगत्किमन्य-
 तेजोऽपि नायनमिहायनमुज्जहाति ॥ ४५ ॥

नीहावैर्विहगैस्तिरोहितगिरो निर्वातनिःस्पन्दना
 मध्याह्ने मिहिरातपेन तरवस्तप्ता इवोन्मूच्छिताः ।
शोकोन्मादभरेण पादपतितास्तेषां तु जाया इव
 च्छायाः संकुचितोपतप्ततनवः क्रोशन्ति झिल्लीरवैः ॥ ४६॥

रविरयमभूयागारूढो नभःशिखरं शनै
 र्झटिति पतति प्रत्यक्सिन्धौ परिस्खलितस्थितिः।
कथमपि चिरायासादासाद्यते चिरमुच्चकै
 र्विधिरयमधः कर्तु किंचित्पलं न विलम्बते ॥४७॥

विधिना विनिपातनाय नीतो रविरस्ताचलमम्बुधावगाधे ।
मुखमुद्रणमम्बुजैरुपेतं प्रणयं के विपदि प्रमाणयन्ति ॥ ४८ ॥

चिरकरपरिमृष्टं भानुबिम्बं दिनान्ते
 सकुतुकमिव शोणं कालकापालिकेन ।
चरमशिखरिकण्डान्वस्थली नीयमानं
 विशति भसितपिण्डं गैरिकैलिप्तमेतत् ॥ ४९॥

प्राची कलावत्युपयाति कान्ते सायं सपत्नी स्मयतेऽस्मदीया ।
इतीव शोणं सपदि प्रतीची वर्षार्कबिम्ब वदनं पिधत्ते ॥ ५० ॥

संध्यासङ्गपिशङ्गवारिदघटाचञ्चज्जटासंकटा-
 दीषद्दर्शितचारुचन्द्रकलिकाहान्तालिकान्तद्युतिः ।

क्वापि क्वापि वनालिनीलिमसमाश्लिष्टारुणाभाष्टदि
 ग्द्वीपित्वक्पटिधूर्जटेन हि घटेतैतद्वियत्किं वपुः ॥ ५१ ।।

नक्षत्राली पद्मकुञ्जे मृणाली चक्रेणार्केणार्धभुक्ता विमुक्ता ।
यद्वा संध्यारागसिन्दूरवीथीयुक्ता शुक्तिः किं कलावत्कलेयम् ॥ ५२ ॥

चरमाचलव्यवहितस्य रवेः किरणावशेषमवरोद्भुमिव ।
कथमेकदैव सहसा परितस्तमसा समाववृतिरे हरितः ॥ ५३ ॥

याासन्वासरश्रीविरचितमिहिरोदारदीपोपविष्टा
 त्संसृष्टा याकपालायितवितनुरियं मीलताकजलानि ।
भूमीभाण्डे हरिद्भिर्युवतिभिरमितः पात्यमानानि मन्ये
 तान्येतान्येव संप्रत्यविरलतिमिरस्तोमभावं भजन्ति ॥ ५४ ॥

दत्तोऽष्टांशुकवारकाशमभितोऽप्याकाशमाशु प्रस
 न्नद्वैतं महसामुपाहृतरसां मामन्धकूपे क्षिपन् ।
मत्वैतान्यपि तैजसानि सहसा चक्षूंषि मुष्णन्नहो
 द्रोहोन्मादमयस्तमिस्रनिचयस्त्रैलोक्यमानामति ॥ ५५ ॥

अधिगगनमनेकास्तारका राज्यभाजः
 प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् ।
दिशि दिशि विलसन्तः सन्ति स्वद्योतपोताः
 सवितरि परिभूते किं न लोकैर्व्यलोकि ॥ ५६ ॥

समुदेति लम्बितालकचुम्बितमिव कैतवात्कलकस्थः ।
प्राचीललाटपाटलचन्दनसिन्दूरबिन्दुरयमिन्दुः॥ ५७ ।।

प्राच्याः किं वदनं दिनेशविरहाध्यक्ताञ्जनात्रं शशी
 कान्दर्पः किमु दर्पणो दिनपरित्यागोन्मिपन्मालिमा ।
किंदैवामृतपाकपात्रमुदितान्तर्बाप्यमुज्जम्भते
 किं वा पञ्जरमभ्रकीयमुदुरव्यक्तेन्द्रलीलामृगम् ॥ ५८ ॥

अस्तग्रस्तगभस्तिमत्करततिन्य ङ्ग्रीतचञ्चूपुटी
 पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयम् ।

पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचां प्रकाशच्छला-
 दण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ५९ ॥

निशा सूते सूनुं सपदि सुरतानन्दमिति य
 त्पुरः प्राची दूर्वाचितमकृत पिष्टातकभृतम् ।
तदेतन्नः पात्रं स्फुरति दरसिन्दूरवलितं
 शशाङ्केऽयं शोणद्युतिरिति मितिं कोऽपि कुरुते ॥ ६० ॥

दुग्धाब्धेर्नवनीतमन्वहमयं निःसार्य कालः क्रमा-
 त्पिण्डं पूर्णतरं व्यधादधिवियद्भाण्डं विधोर्मण्डलम् ।
सान्निध्यं तु यथा यथाम्बरमणेर्वह्नेरिदं नीयते
 तत्तापेन तथा तथा द्रववशादासादितं क्षीयते ॥ ६१ ॥

किं यूनां मृगनाभिलिप्तमुड्डुभिः कर्पूरपक्षाक्षरै
 र्व्योमाज्ञापनपत्रमत्र परताशान्त्यै मरः प्राहिणोत् ।
अन्तर्लाञ्छनकल्पिता गुरुमषी तन्नामवर्णाङ्किता
 यत्रायं धनचन्दनद्रवमयी मुद्रा समुद्रात्मजः ॥ ६२ ॥

उद्भियमायेन्दुकरैरुन्मज्जत्यन्धकारवारिनिधेः ।
कापि कापि विलमच्छायाजम्बालधोरणी धरणी ॥ ६३ ॥

अजनि रजनिरन्या चन्द्रमःकान्तिरन्या
 विपुलचपलवीचिव्याचिता काचिदेव ।
सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं.
 धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥ ६४ ॥

इति श्रीहरिहरसुभाषिते समयवर्णनप्रकरणम् ॥ ९ ॥


शृङ्गारे धनभाजामाजानिक एव मानसो मोदः ।
 तस्मिन्नृपतिसभायां पठनीयानीदृशानि पद्यानि ॥ १॥
संचारं जडिमा गिरं मधुरिमा गण्डस्थलं स्फीतिमा
 वक्षोऽपि द्रढिमा त्रिकं च तनिमाप्याक्रान्तमुत्कण्ठते ।

ताटङ्कं निभृतेन धारय जहौ बाल्यावलीभृत्तनुं
 वक्तुं वै सममेतदक्षि किमभूत्कर्णान्तिकं गन्तुकम् ॥ २ ॥

काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां
 गाढं बद्धमिदं च कञ्चुकमदादुच्छूनतां वक्षसः ।
नेत्रप्राप्तमथाकुलं कलयति श्रोत्रावतंसद्वयं
 तत्कोऽयं बत मत्प्रसाधनविधौ सख्यैषमस्त्वत्क्रमः ॥ ३ ॥

 किं परा विनपरापतन्धनाः किं परुन्नरमरुन्नकैतकः ।
 मोहरोहणतया भयावहो भाव एष विषमः किमैषमः(?) ।। ४ ।।

सव्रीडस्मितमधुराधरान्तकान्तियत्तिर्यड्यनतरङ्गतावतारः ।
जानीमः समजनि यौवनोपदिष्टैर्मुग्धाया मनसि मनोभवाधिवासः ॥ ५ ॥

देवरुद्भमितोऽङ्गभृन्नजलधेः किं त्वास्यमस्या विधुः
 संश्लिष्यैव यदेष मण्डनवशोन्मिश्रान्यमून्युद्गतः ।
कम्बूकण्ठमथामृतं विहसितं शैवालजालं कचा-
 न्मुक्ता एव रदात्प्रवालमधरं मीनावुदारे दृशौ ॥ ६ ॥

अजनि शिशिरशीलं शैवलं सागरे य
 च्चिकुरमकृत कामस्तन्वि ते किं न तेन ।
वहति कुटिलमेनं हेतुना केन मूर्धा
 वदनविधुरयं चेत्सादरो नादसीयः ॥ ७ ॥

उदयति तलिचित्रं मित्रं रतेः कमलद्वयी
 कुसुमितनवस्तम्भे रम्भे विधाय तनोरधः ।
तलिति बलति व्योम व्योमाश्रयं च गिरिद्वयं
 गिरिपरिसरे कम्बुः कम्बौ कलानिधिमण्डलम् ॥ ८ ॥

जलजकमलकुड्मलौ स्तनौ ते तरुणि तनूसरसो रसोर्मिभाजः ।
स्फुटमियमनयोस्तु नाभिनिम्नस्थितनवनालति बालरोमराजिः ॥९॥

विधौ वदनकैतवादिह तवातिदीप्तोदिते
 स्तनाचलतलादपि स्फुटपलायमाना घना ।

कृपाभयवशादिवाविशति रोमराजीमिषा-
 दियं तिमिरधोरणी किमु गभीरनाभीह्रदम् ॥ १० ॥

उन्नयति नामिनिम्नान्मुक्तावलिपाशिरोमराजिनलम् ।
 स्मरशरवः स्तनभूधरनिपतत्तरुणाक्षिपक्षिबन्धाय ॥ ११ ॥
हृदाश्लेषोदारः परिमृशतु हारः स्तनतटं
 नटत्वेतद्गुण्डे कुवलयदृशः कुण्डलमपि ।
स्मितालम्बी संवाहयसि यदि बिम्बाधरदलं
 फलं वीटीराग त्वदुपरि न जागर्ति जनुषः ॥ १२ ॥

चित्रं तरुणिमराज्ये समाश्रिता बलिभिरप्यबला ।
किमपरमुरोजशंभुर्जीवातुर्जायते मनोजस्य ॥ १३ ॥

विसर्पत्कालिन्दीलहरिपरिपाटीपरिमृशा
दृशा दीर्घापाङ्गक्रमणरमणीयं वलितया ।
निरुन्मीलो निलोत्पलदलकलापैन कतिधा
सुधास्निग्धासारखपित इव सद्यः समभवम् ॥ १४ ॥

प्रियेक्षितायाः पतिनेत्रपातस्त्रपाभरैर्दूरमपाकृतोऽस्याः ।
रोमाङ्कुरो रङ्कुविलोचनायाः कपोलयोः केन निवारणीयः ॥ १५ ॥

स्मितमधुरमेत्य निभृतं जनयति यूनोः परस्परप्रणयम् ।
दूती दृगेव चतुरा पैरा तु शङ्काकलङ्काय ॥ १६ ॥
अन्य इत्यनुपयातयन्त्रणं द्रागुदञ्चितवती विलोचनम् ।
मामवेत्य चकितावृतानना दन्तदष्टरसना मनागभूत् ॥ १७ ॥

प्रतिनवपुलकाली मण्डिता गण्डपाली
 निगदति विनिगूढानन्दहिन्दोलि चेतः ।
सुदति वदति पुण्यैः कस्य धन्यैर्मनोज-
 प्रसरमसकृदेतच्चापलं लोचनस्य ॥ १८ ॥

क्षौमेण स्तनतुङ्गमङ्गलघटावाच्छाद्य माद्यत्तरा
 सद्यः प्राप्तचिरानवाप्तविषयं यद्गेयमुद्गायसि ।

तत्प्रायः परिणीय कामपि रतिं प्राग्जन्मपुण्यार्जिता-
 मद्यालम्भि कुतोऽपि तन्वि कुतुकागारे स्मरेणोत्सवः ॥ १९ ॥

नैशं किमाचरति वासर एव हृद्यं
 नृत्यन्निवैष करभोरु करस्त्वदीयः ।
मेरं सरोजमुखि वञ्जुलकुञ्जपाली-
 मालीमिव त्वमनुपश्यति कस्य हेतोः ॥ २० ॥

तव तन्वि तरुणपुण्यादम्बरमणिमकरसंक्रमो जातः ।
अधिवेलि भवति नियमः फलमविलम्बेन कामस्य ॥ २१ ॥

कालीयैःकुचकाञ्चनाचलचमत्कारः किमुत्सार्यते
 कीहक्कुङ्कुमकेसरविषि मुखे कस्तूरिकालेपनम् ।
स्फीतेऽस्मिञ्जघने सरोजवहने किं नीलचोलार्पणं
 कस्मै साहसिनि त्वमिच्छसि विधेर्विन्यासमन्यादृशम् ॥ २२ ॥

प्रातः कङ्कण किं कदाप्यसि मयाश्लेषेषु विश्लेषितं
 मातः किक्किणि किं कृता कचिदपि त्वं सौरते दूरतः ।
किं मञ्जीर बहिःकृतोऽप्यसि रहस्तातातिपकेरुहा-
 संकेताध्वनि बद्धवैरमिव यन्मौखर्यमभ्यस्यथ ॥ २३ ॥

सविलम्बे वनमालिन्यविलोकनविक्लवस्य नयनस्य ।
अपि केलिगेहदेहलि केवलमवम्बनं त्वमसि ॥ २४॥

केलीसद्मनि पद्मसुन्दरमुखी मन्दाक्षमन्देक्षितं
 संप्राप्तेति समीक्ष्य निर्भरतराविर्भूतचेतोभुवा ।
प्रत्युद्गम्य जवादवारितधनाश्लेषालसात्प्रेयसा
 पर्यकोपरि कार्यते सुकृतिना पादार्पणानुग्रहम् ॥ २५ ॥

लजां संमलितामुपेयुषि मयि व्याधूय कम्पच्छला-
 त्सद्यः खेदमिषाव्यधायि सुदृशा धैर्याय वार्यञ्जलिः।
भूयो मास्तु वियोगवैशसमिति प्रत्यङ्गमालिङ्गने
 मद्गात्रप्रथनोचिता विरचिता रोमाङ्कुरश्रेणयः ॥ २६ ॥

तन्व्या तरुपमुपेयुषि प्रियतमे सनीडया निर्गतं
 सख्येति अपयापि केलिभवनादेवापयातं बहिः।
गाढाश्लेषनिपीडनानिपतितामालोक्य हारावली
 स्थातुं हन्त भिया क्षणं निविलया नीव्यापि न व्यापृतम् ॥ २७ ॥

विश्लेषज्वरवेदनासहनयोः कारुण्यकीर्णात्मना
 कापि प्रापितयोः समागमसुखं यूनोमनोजन्मना ।
नैरन्तर्यनिवेदितात्मविशिखव्याजेन सूचीचयैः
 संस्यूते वपुषी परस्परगुणैरेकात्मतामापतुः ॥ २८ ॥

अविरतविरुतकपोतीमर्पितरसमावृणोति धनवलनः ।
नवलतिकामतिकातर तरलितमुदिरद्वयीं मुदिरः(१) ॥ २९ ॥

पयोवाहारूढा नटति कदलीकाण्डयुगली
 तलित्तत्र न्यञ्चत्तटिनि घटयुग्मं नटयति ।
नयत्यम्भोजन्मन्यमृतमकरन्दौ विनिमय-
 न्महच्चित्रं चञ्चत्तिमिरपरिवेषो हिमकरः ॥ ३०॥

पर्याप्ते सुरते विकीर्णचिकुरोद्गीर्णे प्रसूने पुरः
 प्रक्षिप्ते कुचकञ्चुके कचिदपव्यस्ते च हारे हृदः ।
खस्ते लूनगुणे नितम्बरसने भन्ने च दोःकरणे
 प्रत्येकं निपतन्ति पक्कजहशो दैन्यस्पृशो दृष्टयः ॥ ३१ ॥

नीरागेऽधरपल्लवे कृतवती ताम्बूलरागार्पणं
 प्राप्ते निर्गुणतां चकार चिकुरे निर्बन्धतो बन्धनम् ।
निर्वेदात्सुरतावसानसुलभानिर्गन्तुकाम हृदः
 कन्दर्प कृपणा रुणद्धि निविलत्यस्ताञ्चलव्याजतः ॥ ३२ ॥

नीव्यां संयमनं कचे नियमनं श्रोणीतले चासनं
 निःश्वासाभ्यसनं मुखे समभवत्प्रत्याहृतिभूषणे ।
ध्यानं प्रेमणि धारणा स्तनतटे तन्व्याः समाधिः प्रिये
 निर्वेदादिव किं रतान्तसुलभात्सर्वाङ्गयोगोत्सवः ॥ ३३ ॥

तन्वी स्मारानलाङ्गारान्निर्वाणप्रायतां गतान् ।
 प्रदीपयति किं कान्ते रतिश्रातेऽश्चलानिलैः ॥ १४ ॥
स्मरसमरपरिश्रमप्रसुप्तं मिथुनमपेतदयः मतिप्रतीकम् ।
 परिस्प्रुषति निशावसानवातः प्रकटितमन्मथपक्षपक्षपातः ॥ ३५ ॥

जालान्तरालमालोक्य बालारुणकरारुणम् ।
शयितं दयितं प्रातः कातराक्षी निरीक्षते ॥ ३६॥

पर्ङ्कात्सहसावंतीर्य विहिता नीवीनवीनस्थितिः
 संरुद्धा कबरी कथंचन कुचाभोगोऽञ्चलेनावृतः ।
द्वारस्तम्भतले निलीय निभृतं प्रायस्त्रपाकातर
 दूरादुन्नमिताननार्धमसकृत्तन्व्या बहिर्वीक्ष्यते ॥ ३७॥

अङ्गाकृष्टिर्व्यथयति नखाङ्गेषु वक्षोजकुम्भा-
 वास्यं जृम्भा दशनवसने दन्तदष्टं दुनोति !
यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः
 प्रातर्याति प्रगुणतरतां वैशनं नैशमस्याः ॥ ३८ ॥

भ्रमान्नामान्यस्या मयि निगदतीन्दीवरदृशः
 श्रयन्मन्यौ नव्ये नयनमपसव्येन वलितम् ।
प्रणीयासं धौताञ्जनमहह बन्धूचितमदा-
 द्विपन्नाय प्रेम्णे सपदि तिलतोयाञ्जलिमिव ॥ ३९ ॥

धन्याहमस्मि यदि नाथ मयापि नाम
 तस्या निकामसुभगं सुकृतैरलम्भि ।
कुर्यामनीगतिवारिधुरा कथं ते
 शान्ति मनागपरथा विरहव्यथायाः ॥ ४० ॥

प्रतिरुद्धेव प्रेम्णा कुपितेन बहिः... कृष्यमाणेव ।
अधिकेलिगेहदेहलि बाला दोलायते कृतिनः ॥४१॥

 कुतस्ते देहलीस्तम्भ संभवस्तपसामयम् ।
 कोपना मामनादृत्य यत्त्वां बालावलम्बते ॥ ४२ ॥

मानं मानिनि मा विमुञ्च विदुषि ब्रूयाः क एष क्रमो
 यद्रागः श्रुतिगामिनोनयनयोरेतादृशो दृश्यते ।
किं चान्यत्कुचशंभुसेवनपरे बन्धः कथं कङंचुके
 काञ्चीसनिधिसंगतापि लभते नीवी न मुक्तिं कुतः ॥ ४३ ॥

प्रतिषिद्धनखेन्दुसमयोचिरमुत्सारितहारसङ्गयोः ।
किमुदेति न शंभुशोभयोः स्तनयोरप्यनयोरनुग्रहः ॥ ४४ ।।

तव गुरुतरापराधादपि बाधा गोपकोपना कुत्र ।
नितरामितरासु परं गणिता वनितासु वहति परितापम् ।। ४५ ॥

निखिलं गोकुलभूषण.....मतिनिर्भरानुरागस्य ।
त्वयि सरुषं यत्परुषं पल्लवयति बल्लवी वचनम् ॥ ४६ ॥

इति श्रीहरिहरसुभाषिते शृङ्गारवर्णनप्रकरणम् ॥ ९॥


नायकनायिकयोरपि भेदा वर्ण्याः पुरो नृपतेः ।
तत्तदुदाहरणेभ्यो लक्षणमवसेयमेतेषाम् ॥ १॥

पतिरुपपतिश्च वेशिक इति त्रयो नायकाः कथिताः ।
एतेषां कथ्यन्ते क्रमादुदाहरणपद्यानि ॥२॥

दातुं जातु पदाङ्गुलीमपि बहिस्तल्पादकल्पार्णवे
तल्पे स्थापयितुं भुजङ्गरचिते नैवोचितेयं प्रिया ।

इत्यालोच्य निरस्तकौस्तुभमधः प्रक्षिप्य हारं हरि
 र्लक्ष्मी वक्षसि कामकातरतया संधारयन्पातु वः ॥ ३ ॥
किं दुर्जनान्न हि बिभेषि यदेषि पार्श्व
 मा मेति भीतिपरुषं परिवर्जयन्त्याः ।
संत्यक्तसाध्वसभरं परिरभ्य दोभ्या

 बिम्बाधरं धयति धन्यतमः प्रियायाः ॥ ४ ॥
नीता भवेत्क्वचन केनचिदेव यूना
 किं गेह एव रमते तरुणान्तरेण ।

इत्याकुलं द्रविणपाणिरुपेत्य कामी
 द्वारान्तिकं चकितमञ्चति वारवध्वा ॥५॥

एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति ।
भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकम् ॥ ६ ॥

नेष्यामि हा कथमरण्यदरीषु सीतां
 तामन्तरा व पुनरक्षिपुटं क्षिपामि ।
इत्थं वधूं विपिनसार्थचरी विधातुं
 गेहे निधातुमपि रोदिति रामचन्द्रः ॥ ७॥

मान्या कुन्तिनभूरभूदसुभगा कुत्राथ सात्राजिती
 वैषम्यस्य कथापि मे धरणिभृत्कन्यासु नान्यावपि ।
इत्थं दित्सति पारिजातकुसुमं संदेहदोलायिते
 भूयः पश्यति नारदस्य वदनं देवे भवेन्मे मतिः ॥ ८॥

नीत्वान्यत्र निशामुपेत्य सुदृशो बाष्पाम्भसा नापिते
 वीक्ष्यात्मप्रतिमां कपोलफलके संभोगचिह्नाङ्किताम् ।
मूर्धालक्तमानतश्चरणयोश्चुम्बन्बलादाननं
 धृष्टः स्वाधरपल्लवाञ्जनमपि प्रच्छादयन्प्रोञ्छति ॥ ९॥

चुम्बति कपोलपालीमलीकसौभाग्यमेकस्याः ।
तत्प्रतिविम्बितमाननमन्यस्याः स्मरतां नयति ॥ १०॥

भेदास्त्वेषां शतशो विमुग्धमध्यप्रगल्भाद्याः ।
प्रायेण तेऽपि कुशलैरुन्नेया नायिकाभेदैः ॥ ११ ॥

अथ नायिकाप्रभेदास्तत्र नवोढानवोढविश्रब्धा ।
मध्या तदनु प्रौढा तासामग्रे क्रमादुदाहरणम् ॥ १२ ॥

दृशं दूरात्पत्युः परिहरति किं श्रोष्यति वच-
 स्तदासन्नं सम त्यजति किमुपायास्यति रहः ।
तदीयं नामापि श्रुतिपथमुपेतं न सहते
 नवोढा नियूंढामिह विमतिमुन्मुञ्चतु कुतः ॥ १३ ॥

सखीभिरुपनीतया करनिगूढनीवीपदं
 प्रसुप्तमचिरोढया शयनसीग्नि पर्यङ्मुखम् ।
तदङ्गपरिवर्तनं सुरतसङ्गसंनर्तनं
 सरप्रणयमन्त्रिणा सुकृतिना परं प्राप्यते ॥ १४ ॥

मयि प्रणयचञ्चलं रुचिरमञ्चयत्यञ्चलं
 स्खलन्निबिडनीविकानियमितैकपाण्यम्बुजम् ।
परेण बत पाणिना युगपदेव गण्डाधर-
 स्वनावरणलुब्धया व्यवसितं न किं लुब्धया ॥ १५ ॥

सीत्कारः कथमेष भाविनि भवदन्तब्रणैरुल्बणै
 र्वक्त्रं दर्शय दर्शयामि कितव प्रौढापराधं तव ।
इत्युद्वीक्षितुमुन्नमय्य वदनं द्राक्चुम्बतो राधया
 गोविन्दस्य कराञ्चलेन चिबुकप्रान्ते प्रहारोऽर्पितः ॥ १६ ॥

आसामपि प्रभेदाः प्रथमामुन्मुच्य कथ्यन्ते ।
धीराधीरा मिश्रा क्रमेण कियदप्युदाहरणमासाम् ॥ १७ ॥

साकूतस्मितमेव नाधरपुटीसीमानमुल्लङ्घते
 किं वाणी हरिणीदृशः सहचरीश्रोत्रात्परत्राञ्चतु ।
केलीमन्दिरमध्यमागतमपि द्राक्प्राप्नुवन्ति प्रियं
 प्राक्पुण्येन शिरोऽवगुण्ठनपटप्रान्तार्धरुद्धा दृशः ॥ १८ ॥

मधुरिपुरुपयातीत्येवमुक्ते कयाचि-
 चकितवलितवक्राम्भोरुहं राधिकायाः।
समुदयति समन्तात्कज्जलोन्मजदञ्त
 त्कुवलयदलदामश्यामला लोचनश्रीः ॥ १९ ॥

निभृतेक्षितैकताना मयि चिरमासीद्विदूरमासीने ।
प्रतिनेत्रोपनिपाते स्मितमधरमधोमुखी स्थिता सुमुखी ॥ २० ॥

आसामपि प्रभेदास्त्रयः खकीया च परकीया ।
सामान्या चेत्यासां वदाम्युदाहरणमेकदेशेन ॥ २१ ॥

परिरभ्य प्रियं प्रेमप्रसारिपुलकाङ्कुरा ।
निःसाध्वसा सुखं साध्वी निशां नयति नायिका ॥ २२ ॥

सातङ्कवारितनस्वाङ्कमसोढदन्त-
 संपातमात्महृदयादपि शङ्कमाना ।
येनार्यते(?) हमिति ते तरुणान्तराय
 तस्मै नमः सरणजन्मशरासनाय ॥ २३ ॥

श्रीमन्तं समुपेतमन्तिकमनुप्रेक्ष्यादरादुत्थिता
 हस्तन्यस्तधनं प्रवेशितवती बद्धोत्सवं सद्मनि ।
सद्यः स्रस्तशिरोवगुण्ठनपटं प्रव्यक्तवक्षःपटं
 पर्यङ्के परिरभ्य नागरजनं वाराङ्गना रोहति ॥ २४ ॥

तासामष्टौ भेदाः प्रोषितपतिकाथ खण्डिता तद्वत् ।
कलहान्तरिता च तथाभिसारिका विप्रलब्धा च ॥ २५ ॥

उत्कण्ठिता च वासकसज्जा स्वाधीनभर्तृका चेति ।
उच्यन्ते संक्षेपादेताः कैश्चित्क्रमादुदाहरणैः ॥ २६ ॥

संतप्तं वपुरेतदुज्झितमिव स्यन्देन संलक्ष्यते
 विक्षिप्तं भुजमुन्मुमोच वलयश्रेणीयमेणीदृशः।
तत्याजास्यमपास्तहास्यविवशं वाक्प्रेयसी प्रोषिते
 प्रस्थातुं परिरभ्य कण्ठमहह प्राणैः परं स्थीयते ॥ २७ ॥

निःश्वासेन ममाधरादपहृतो रागस्तवान्यस्त्रिया
 दीर्णं तन्नखरैश्च तावकमुरस्त्वद्वेष्टितैर्मामकम् ।
शोणं जागरणेन ते मम पुनस्त्वद्वीक्षणेनेक्षणं
 सर्वत्रासि समा तथापि विषमामाख्याय मां भ्राम्यसि ।। २८॥

कोपिन्याः कतिधा व्यधायि न पदप्रान्तानतिः प्रेयसा
 कुत्रासीदिह जातु जन्मनि पुनः सद्भावसंभावना ।
तस्मिन्नेत्रपथादथापसरति प्रान्तानुतापज्वराः
 सद्यः सास्रुझराः पतन्त्यनुचरीवक्रारविन्दे दृशः ।। २९ ।।

स्वापश्वासपरम्परां परिजनस्योवाच कर्णद्वयी
 नेत्राभ्यामपि दर्शिता गुरुतमस्तोमावली देहली ।
पाणिभ्यां निभृतेन नूपुरमपाचक्रे पदाम्भोजयोः
 संकेतोद्यमसंभ्रमे वरतनोरासीन्मनोऽग्रेसरम् ॥ ३० ॥

समुपेता संकेतादललितसकलप्रसाधना सुमुखी ।
अवचनमेव ब्रूते श्वसितेन सखीषु विप्रलब्धत्वम् ।। ३१ ॥

वनमालिनि सविलम्बे वितर्कशतकर्कशान्मनसः ।
हतया धीरतया मे चिर...सर्यापि निर्यातम् ॥ ३२ ॥

मुहुरपि बाधयति तल्पं पुनराकल्पं परामृशति ।
अधिकेलिगेहदेहलि विन्यस्तविलोचना सुतनुः ॥ ३३ ॥

परिरम्भणैश्चिरनिरन्तरिताः पुलकाङ्कुरैः किमपि दन्तुरिताः ।
परिचुम्बनैस्तरलिताः शतशः सुखमासते सुकृतिनां सुदृशः ॥ ३४ ॥

सप्तैकद्वयभेदास्तासामेवं सुहृद्भिरवसेयाः ।
एभ्यः पुनरपि शिष्टान्ब्रूमो भेदान्महद्भिरुपदिष्टान् ॥ ३५ ॥

अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता।
सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ॥ ३६ ॥

संगोपितसुरताथ क्रियाविदग्धा च वाग्विदग्धा च ।
क्वापि प्रोष्यत्पतिकानुशयाना लक्षिता कुलटा ॥ ३७ ॥

स्यादुत्तमा च मध्या तथाधमा चेति सप्तदश ।
एता उदाह्रियन्ते भेदास्त्वासां सुहृद्भिरुन्नेयाः ॥ ३८ ॥

अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः ।
परदेशादागच्छत्पतिकापि यथा प्रमुदितैव ॥ ३९ ॥

सहचरि कियत्प्रेयः प्राप्तौ सुखं न स दर्शितः
 परुषमथ वा संदष्टौष्ठं न किं समुदीरितः ।
सुहृदयबहिर्भावासत्वं मयेव कृतं त्वया
 तदननुनयं किं वा कुर्याः स एव गतत्रपः ॥ ४० ॥

सबाष्पव्यालापं प्रसरदनुतापं प्रियतमे
 समासन्ने साम्ना बहु सहचरीभिर्व्यवहृतम् ।
सनिःश्वासं शून्याहितनयनमस्मेरवदनं
 निविष्टाया मानः किमजनि कृशः पङ्कजदृशः॥४१॥

सहचरि विरम ग्रथनान्मम कथनादस्य हारस्य ।
अस्मिन्नुरसि विनिहिते विरहित इव भूयते दयितः ॥ ४२ ॥

कर्णे कान्तागमनवचनाश्राविणि वर्णभूषां
 तस्यादर्शिन्यकृत नयने श्यामिकामञ्जनेन ।
स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के
 हृत्पर्यङ्के पुलकपटलीतूलिकामास्तृणोति ॥ ४३ ॥

सरसि न विहरन्ति किं तरुण्यः सखि कथमेष मयैव दैवदोषः ।
मुखमिदमवलोक्य चक्रयूनामुदयति सायमिवायमर्तनादः ॥ १४ ॥

हितमभिहितं दीना वाचो वदन्बहु पादयोः
 पतति नियतं मानावेशे वशे भवति प्रियः ।
सहचरि समाक्रान्तं प्रेम्णा परं तु चिरान्मनः
 क्व नु बत पुनर्मानस्यास्मिन्मनागपि संक्रमः ॥ ४५ ॥

आलि कपालिनि जटिले पत्यावत्याग्रहस्तवालमिति ।
हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ॥ ४६॥

हंसैः शैवलमञ्जरीति कबरी चञ्चूभिराकर्षिता
 वक्रे चन्द्रधिया चकार कुपिता चक्री नखैराक्रमम् ।
भृङ्गः पङ्कजकोरकप्रतिभया वक्षोरुहो विक्षत
 स्तन्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ४७ ॥

ग्रामतरुणस्य जाया सायाह्नसमागतेषु पथिकेषु ।
आसन्नविजनवटतटमावासस्थानमुपदिशति ॥ ४८ ॥

एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः
 का मे नोदेत्यहह मनसस्तस्करेणात्र भीतिः ।

दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः
 पान्थ ब्रूमः किमिह सदृशो नैष नैशो निवासः ॥ ४९ ॥

मारोदीः क्षणमेव रोदिमि कुरु प्रस्थास्यतो मङ्गलं
 सम्यक्पाकमयं प्रयास्यति सखि श्वासानिलः प्रेयसा ।
प्राणांस्थापय तत्र कः प्रभवतु प्राणेश्वरे प्रस्थिते
 चेतः स्तम्भय हन्त दैवहतकं क्वागादिदं वेद कः ॥ ५० ॥

स्वयमेव सद्म तक्रे स्वशिरसि विक्रेतुमम्बया निहिते ।
सोद्वेगगमनपराधामपि बाधा सहचरी शपति ॥ ५१ ॥

पूर्वस्मादधिकाधिकादरमिदं श्वश्रूषु शुश्रूषणं
 भिन्नोऽयं परिचारिकासु विपुलाहादः प्रसादक्रमः ।
अद्यान्यः प्रतिवेशिनीषु भवनाचारौचितीसंभ्रम-
 स्तत्किं केनचिदेणशावकद्दशः प्रेमा समालक्षितः ।। ५२ ॥

नाभूद्भूमिरियं सदैव सकला संकेतशय्यामयी
 सर्वोऽप्येष बभूव नैव समयः प्रावृत्तमिस्रामयः ।
सृष्टिः प्रोन्मदपुंमयी न विदधे दुश्चेतसा वेधसा
 मातस्तात कथं घटेत कुलटेत्यस्मादृशीनां यशः ॥ ५३ ॥

कोपः समुत्पन्नविनष्ट एव स्वान्तं प्रियप्रेमनिविष्टमेव ।
त्रासस्तदस्मेरनिमेष एव क्रमः कुलीनस्त्रिय एष एव ।। ५४ ।।

एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः ।
रक्षती द्वयमिदं मनखिनी निर्वृणोतु कथमत्र जन्मनि ॥ ५५ ॥

प्रकल्प्यापि प्रेयःस्खलितमनिशं मानविधुरा
 तरामास्ते वामा दिवसहिमधामायितमुखी ।
चिरं पादप्रान्ते निपततु परं प्राणदयितो
 हतोत्साहं साहंकृतिकुपितमुन्मुञ्चतु कुतः ॥ ५६ ॥

इति श्रीहरिहरसुभाषिते नायकनायिकाभेदप्रकरणम् ॥ १० ॥

सभ्यानामनुरागं समीहमानः प्रसङ्गपतितानि ।
पद्यानि पठेन्नानाविधानि विबुधादिविषयाणि ॥१॥
सामगीतमपनीतगोचरं धाम तामरसलोचनं भजे ।
मूर्ध्नि यच्चरणवारि धारयन्धूर्जटिर्नटति पर्यटन्मुहुः ॥ २ ॥

 लम्बालकं तदालम्बे जम्बालकलुषं मुखम् ।
 दृष्टं व्यादाय विस्पष्टं मात्रा यत्राखिलं जगत् ॥ ३ ॥

वृन्दारण्यविभूतिभूतलपुषां देवद्विषामायुषां
 शेषं शेषशिरश्चिरायितधराभारावताराजिरम् ।
नन्दानन्दलतालवालमनिशोन्मादं यशोदामुदा-
 माभीरीनयनाञ्जनं किमपि तत्कैशोरमैशं नुमः ॥ ४ ॥

कुत्रासीम्त्वमिति यशोदया सरोषं संरुद्धे तनयधियान्तरङ्ग एव ।
कालिन्दीपयसि पलायितस्य विष्णोरुत्तालं हसितमलंकरोतु चेतः॥५॥

त्वं चिरोपचितरोषलक्षणं किं करोषि यमकिङ्करेक्षणम् ।
नन्दमन्दिरविसारिवारिदश्यामलं मदवलम्बनं महः ॥ ६ ॥

स्वं संभाव्य यदङ्घ्रिवारि सरिदस्पर्शन शोच्यं शिवः
 संभोगप्रतिकूलमप्यचलभूषं स्मरारेरभूत् ।
निर्माल्यप्रणयावशेन मनसा यस्याङ्गतो निर्गतं
 चक्रे मन्दिरमम्बुजन्म जगतां धाता सयास्तु वः ॥ ७ ॥

पीयतामुदधिमन्थनोद्धृतं सादरैस्तदमरैः किलामृतम् ।
कालकूटकवलस्य काटवं सोढुमीश्वरमृते न पाटवम् ॥ ८॥

संबिभर्तु भुजगेश्वरं गले भस्म लिम्पतु कलेवरे हरः ।
बंभ्रमीतु वृषभेण कः परः पार्वतीप्रणयसुन्दरः सुरः ॥९॥

प्रभवतु भुवनानां निग्रहेऽनुग्रहे वा
 ननु कलयतु देवो नानुकारं हरस्य ।
निविशति शशिलेखा किं किरीटे परेषा-
 महह वहति कस्य स्वर्धनी मूर्धनीयम् ॥ १० ॥

धौताः स्वर्धुनि मूर्धजास्तव जलैर्जाता जटाजूटता
 स्नातं वारिणि भस्मधूसरमभूदङ्गं क एष क्रमः ।
किंचान्यत्परिमार्जनेन पयसो भालेऽनलेनोत्थितं
 निष्पीतेऽम्बुनि कण्ठ एव गरलज्वालाकुलः क्लाम्यति ॥ ११ ॥

यस्य यस्य तव जातशीकरः स्वस्तरङ्गिणि शिरोऽधिरोहति ।
तेन तेन चरणोदकीकृता मोदमञ्चसि क एष विभ्रमः ॥ १२ ॥

त्रिजगति नगरीणां रीतिराजानकीयं
 भवति नृपतिरेकः सन्तु पौराः सहस्रम् ।
इह पुरहरपुर्यामस्तमर्यादतेयं
 दिवसमपि निवासी यः स काशीनरेशः ॥ १३ ॥

शैलाः सन्तु शतं सुमेरुहिमभृन्मैनाकविन्ध्यादयः
 किं त्वेषां महिमावधारणविधौ गोवर्धनो वर्धते ।
सप्ताहानि मुरारिपाणिकमलकोडोपरि क्रीडता
 येन क्ष्माधरलक्षपक्षदलनः शक्रोऽव्यनुक्रोशितः ॥ १४ ॥

अहो महीयसां पुंसामुपर्युपरि पौरुषम् ।
रामेणाजगवं शम्भोर्भग्नमम्भोजनालवत् ॥ १५ ॥

स्पर्धामर्धाङ्गिन्याः कान्या कर्त्री गिरीन्द्रनन्दिन्याः ।
सा तदपि जलुकन्या मूर्धन्या धूर्जटेर्जयति ॥ १६ ॥

तुल्यं गाधिसुतेन वन्दितमहो पातु सहैतद्गिरा
 गाढे किं च गुणे समं सुजनुषा सद्यः समायोजितम् ।
वैदेहीहृदयेन दाशरथिना द्राक्साकमाकर्षितं
 भमं भूमिभुजां भुजाकुलमदैः सार्ध स्मरारेर्धनुः ॥ १७ ॥

वत्से वेत्सि कुलं त्वमेव किलये शुश्रूषणं लक्ष्मणे
 जानात्याचरितं विपत्तिविधुरे पत्यावपि त्वादृशी ।
विन्ध्यारण्यचरी चिराय शबरीमुख्यं विदध्या इति
 ध्यातुं वक्तुममजि लोचनपयःकुल्यासु कौशल्यया ॥ १८ ॥

यदेतन्मे चेतः कनकहरिणेनाहृतमभू-
 न्मम त्रासाक्रन्दे त्वमपि बत संदेहमकरोः ।
हृता सीता दैन्यान्यकृत नियतं हारिणि खले
 कुले कुत्सा वत्साजनि चिरमियं चण्डमहसः ॥ १९ ॥

बाणान्वारिकणान्किरन्नवतलित्संजातसिञ्जागुणं
 वा..क्वार्मुकमेतदैन्द्रमधुना संधाय किं धावसि ।
किं संपाद्यकदम्बकुङ्मलकुलैर्दावानलैर्दुर्दिनं
 वैदेहीविरहेऽपि जीवितभृतो रामस्य किं दुःसहम् ॥ २० ॥

हे हे का दयिते दशां परवशा केकाभिरेकाकिनी
 व्योमव्यापिनि कोपिनि प्रमुदिते पाथोधरे प्राप्स्यसि ।
मिथ्यावेत्थमशङ्कि जीवितमसि त्वं रामभद्रस्य मे
 देवि स्याः सहनक्षमा न विपदः कस्याः क्षमानन्दिनि ॥२१॥

अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः
 सांनिध्यं विधिना कुतूहलवता कुत्रापि संप्रापिताः।
गच्छन्त्या मरणं गुणव्यतिकृता भेदं न भूमीरुह-
 स्ते काष्ठामपि निष्ठुरा गुणगणैर्येऽनेकतां प्रापिताः ॥ २२ ॥

गुणगौरवमेव गाहमानाः कृतिनः किं गणयन्ति दूषणानि ।
न जहाति विहारि नक्रचक्रं बत रत्नाकरवारि दानवारिः॥ २३ ॥

विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वतः सुजनः ।
क्षारं पिबति पयोधेपत्यम्भोधरो मधुरमम्भः ॥ २४ ॥

उत्कर्षवान्निजगुणो यथा यथा याति कर्णमन्यस्य ।
धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥ २५ ॥

म्लायसि परनिःश्वसितैः स्वच्छतया के निवेशयसि नान्तः ।
अयसा त्वन्निर्माता मुहुरविधाताप्ययोमयो भवति ॥ २६ ॥

आसीत्कल्पमुदम्बुदम्बुनि चिरं भेजे च भालानलं
 भर्म्यस्य प्रतिमासकर्म हुतभुक्कुण्डेऽप्यहोषीद्वपुः ।

तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्जापनं
 किं कुर्याद्विधुरो न वाञ्छति विधिस्तल्लाञ्छनप्रोञ्छनम् ॥२७॥

क्षीणः क्षीणः क्षपयसि निशाः पूर्णतायां पुनस्ते
 राहोरास्ते भयमयमपि स्वन्तशल्यं कलङ्कः ।
एतास्वापत्स्वपि हिमरुचे त्वां विनोल्लासलोलं
 कोऽलं कुर्यात्सपदि सकलं भूतलं भाभिराभिः ॥ २८ ॥

अपि दोभ्यो परिरब्धा बद्धापि गुणैरनेकधा निपुणैः ।
निर्गच्छति क्षणादिव जलधिजलोत्पातिपिच्छिता(त्पातपिच्छला)लक्ष्मीः।।

कस्य करान स्खलिता नीरविधिक्लेदपिच्छिला लक्ष्मीः।
भृगुचरणधूलिपरुषे हृदि परिरब्धा हरेः स्थिरेयमभूत् ॥ ३० ॥

धत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः सोदरं
 तन्नाभीगृहमाकलय्य मकरावासं मनाङ्नोज्झति ।
तन्नामप्रणयान्न लुम्पति हरिः श्रीवत्समक्के स्थितं
 किं केन क्रियतां स एव यदभूदेवंदशः स्त्रीवशः ।।.३१ ॥

अपारे पाथोधौ किमिति सतिमिग्राहगहने
 निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव ।
किमेतावद्भिर्वा भवतु किल सर्वातिशयितः
 प्रियासंश्लिष्टाको व्यपगतभयं को निवसतु ॥ ३२ ॥

लक्ष्मीजनयितुर्जाताः कियन्तो जलजन्तवः ।
खत्रासप्रार्थनापात्रं सोदरोऽस्याः सुरद्रुमः ॥ ३३ ॥

येषामेकतरेण केनचिदपि प्राप्तेन पर्युत्सुको
 मर्यादामवसाद्य माद्यति जनः क्षोणीमपि क्षोभयन् ।
वीचीभिर्विलुठन्ति तानि परितो रत्नानि वारांनिधे-
 नायं प्राक्प्रकृतिं जहाति महतां वित्तैर्विकारः कुतः ॥ ३४ ॥

एकोऽम्बुधिर्जगति जीवति येन तानि
 तावन्ति हन्त सलिलानि समुच्चितानि ।

येभ्यः कथंचिदपि किंचिदमी पयोदाः
 पीत्वा चिराय धरणीमपि तर्पयन्ति ॥ ३५ ॥

शैला निलीना निभृतं यदन्तःशैवालबालाकुरकोटरेषु ।
स एव पाथोधिरगस्त्यहस्तरेखाविशेषान्तर एव तस्थौ ॥ ३६ ॥

देवैर्यद्यपि तक्रवद्विमथितः केदारवद्वानरै-
 सिद्धवदञ्जनात्मजनुषा कुल्यावदुल्लचितः ।
किं चासीच्चुलुकेऽम्बुबिन्दुवदयं द्राक्कुम्भयोनेर्मुने-
 नापारोऽयमिति प्रथा जलानिधेरासीदथापि श्लथा ॥ ३७ ॥

धिग्धिग्विधेविलसितानि कदर्यमेव
 यत्केवलं धनमनुक्षणमावृणोति ।
एको हि वारिधिरपेयपयोमयोऽय-
 मस्यान्तरेव सरितः परिपूरयन्ति ॥ ३८॥

पद्मपालिषु मनाकुहेलिके हेलिकेलिपरिपन्थिनी भव ।
मुञ्च शीकरभरेण वारि वा वारिवाहपदवी दवीयसी ॥ ३९ ॥

त्वां दर्शयन्त्युदरमम्बुधिशुक्तयोऽन्त-
 रासामवाकिर पयोधर वारिबिन्दून् ।
स्वातीमतीत्य पुनरेष्यति वारिदाना-
 माधानसाधनमयं सुचिरेण कालः ॥ ४०॥

कैः क्लान्तैस्तरुवीरुदादिभिरदः प्रत्याशया न स्थितं
 केषां वा न पुनः प्ररोहमकरोदम्भोभिरम्भोधरः ।
एतैरत्र कथं मनोरथमहाभारोऽयमारोपितः
 कस्मादेव समादधे किमश्र वा संभाव्यते नोनते ॥४१॥

ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने ।
तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतम् ॥ ४२ ॥

धारासारेषु धाराधर इव तरवो नूतनोत्पन्नपर्णाः
 पूर्णा नद्योऽपि सद्यो दिशि दिशि निखिलोल्लासभूवासभूमिः ।

भूयो भूयोऽपि काकुं कलयति विवृतत्रोटिरुद्भीविकायं
 नायं प्राप्नोति पाथोलवमपकरुणा चातके तात केयम् ।। ४३ ।।

नीरनिधेरपि नीचान्नाचामति चातकः प्रचुरमम्भः ।
अपि सीकरमुत्कन्धरमुन्नतमम्भोदमर्पयति ॥४४॥

मा धाव तात चातक वारिमुचां तारतम्येन ।
संमिलितजलदकोटिलोटिपुटीपूरमेव तोयं ते ॥ ४५ ॥

प्राप्य प्रावृषमखिलस्तवाधिकारः परोपकारस्य ।
परिहर पयोद चातकयाचनवैमुख्यपातकप्रणयम् ॥ ४६ ॥

अनुरूपमिदं कूप छमच्छन्नस्य किं न ते।
सन्मार्गविभ्रमान्मार्गः पातोऽयं यन्निपातितः॥ ४७ ।।

आलापं कलकण्ठिका न कुरुते कीरा न धीरखरं
 व्याहारं कलयन्ति कोमलगिरः कूजन्ति नो बर्हिणः ।'
लिम्बा(शंपा)डम्बरदुर्दिने बत वने दूरे द्विरेफध्वनिः
 काकाः केवलमेव कांकृतिकृतः कुर्वन्ति कर्णज्वरम् ॥४८॥

मलिनस्यागुरोरेष नामरूपसमक्रमः ।
तथोपलालितो नायं सुखाय ज्वालिते यथा ॥ ४९ ॥

लोचनं रचय चञ्चलतारं ...ञ्चलमुदश्चितहारम् ।
लास्यमन्यदिह पामरि किं चिन्नागरी हरति येन जगन्ति ।। ५०॥

अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्रस्तनमण्डलानि ।
अङ्गानि रे पामर कामिनीनामपुण्यतारुण्य किमाश्रितानि ॥५१॥

कति सन्ति नोन्नतिभृतास्तरवस्तदपि त्वमेव गुणकीर्तिवरः ।
न विलादरन्नवरमन्दहरः सहकार कारणमिह भ्रमरः ॥ ५२ ॥

सुखमास पङ्कजनिवासपरः सरसीषु विभ्रमरसी भ्रमधीः ।
समुपैति काननपथाप्यवशः स हि केसर त्वदनुरागरसः ॥५३ ॥

यदभञ्जि पङ्कजमखण्डि दलं न ततोऽवसीदति सरोजवनी ।
यदकारि कन्दकवलः करिणा परिणामतस्तदिह दुर्विषहम् ।। ५४ ॥

पीत्वा मधूनि मधुपाः कोडे क्रीडन्तु कमलिन्याः ।
प्राणेशो रविरन्तर्विकसति यस्यावलोकनादस्याः ॥ ५५॥

एतावन्वं समयमलयः केसरोत्सारङ्गी
 दृग्भङ्गीनां सततमेहरस्त्वं सरःसंचरेषु ।
दैवादस्मिन्मधुप निपतन्कानने केतकीना-
 मेतां दीनामनुपमदशां कीलितः कण्टकेषु ॥ ५६ ॥

स्वच्छन्दं सैरसीषु सौरभमयं माध्वीकमाखादय-
 न्कल्लोलावलिदोलितेषु कमलकोडेषु विक्रीडसि ।
धिग्धूली कवलीकरिष्यसि तले सूचीचयानामले
 गूढः स्थास्यसि मूढ यास्यसि यदि त्वं केतकीकाननम् ॥५७॥

धूलीभरो दृगवरोधमहान्धकारः
 पत्राणि किंच करपत्रसहोदराणि ।
एतन्न चेत्यरिमलत्वमलंकरोषि
 स्यात्केन केतकतरोरितरोपयोगः ॥ ५८ ॥

जातिख्यातिभृता हिताय जगतः स्वल्पापि संपत्सता ..
 भूयस्योऽपि जनस्य नोपकृतये नीचाश्रयिण्यः श्रियः ।
आमोदाय चिराय चन्दनतरोः क्षोदोऽपि चूर्णीकृतः
 सर्वेषामफलः फलाचितमहाशाखोऽपि शाखोटकः ॥ ५९॥

त्वमप्यस्तव्यस्तो यदि भवसि जम्बाल यमित-
 स्तृणस्तम्बे स्तम्बरम किमवलम्बे न लभसे
विमुञ्च द्राक्चिन्ताभरमथ समस्तान्मदझर-
 प्रपातैनिःशकं किमिति सरिदकं न कुरुषे ॥६॥

बलं विशालं विपुलं वपुर्वा गर्वाद्वहन्तो विहरन्तु बन्याः ।
किं केसरी खं नखरं निधत्ते मत्तेभकुम्भान्तरमन्तरेण ॥ ६१॥

वारितवान्मदकरिणां नखरेण खरेण हितं सिंहः ।
कुपितोऽपि तव नः फेरव कण्ठरवं केन वारयतु ॥ ६९ ॥

आन्दोलयन्गिरिनिकुञ्जकरञ्जराजी-
 र्नाजीगणः कलम कंचन पौरुषेण ।
ईषत्समुम्मिलितलोचनकोण एव
 कण्ठीरवे किमिति जीवितमुजिहासि ।। ६३ ।।

रे दन्तावलशाव तावकमिदं कुत्रोर्जितं तर्जितं
 कीदृग्वा गिरिकन्दरासु नितरां शुण्डारबिस्फारणम् ।
भूयाद्वा किमिहावीविटपिनां शाखामुखामोटनं
 स्याश्चेदेष विशेषतस्त्वयि घृणा कुण्ठो न कण्ठीरवः ॥ ६॥

येषु प्राक्प्रकृतेषु निःसरदसृग्धारानुसारा पत-
 न्मुक्ता(पात)निरन्तरालमभवत्कान्तारभूमीतलम् ।
पारीन्द्रस्य खरास्त एव मखराः स्यात्कुन तत्पौरुषं
 शुन्या एव बदुरटैः करटिभिभूभृत्तटीभूमयः ॥ ६५ ॥

इति श्रीहरिहरसुभाषिते प्रकीर्णकप्रकरणम् ॥ ११॥

सुमाषितैराहतेभ्यो हृदयेभ्यो महीभृताम् ।
समाप्नुवन्ति सुधियः स्वयमेव समीहितम् ॥ १ ॥

सुभाषितेन विद्वांसः शूराः संग्रामकर्मणा
भीत्यामात्याः प्रजा वित्तराहरन्ति महीभुजम् ॥ २ ॥

विद्वान्विदापमादाय प्रेमभाजो महीभुमः ।
दर्शयित्वा फलं किंचिदनुज्ञातो निवर्तते ॥ ३ ॥

चिरं विलम्बो विदुषां विदेशेषु विधीयते ।
स्वल्पमप्यल्पकालेन तस्मादन्याहृतं हितम् ॥

सबौचित्यान्महत्वस्य मास्तु न्यूनो मनोरथः ।
नोन्माध खेदयात्मानमप्यलीकमनोरथैः ॥ ५ ॥

नेष्यामि लक्षमेवेति प्रतिज्ञाय अमन्भुवस् ।
प्रपेदे पुनरावृत्तिं न महादेवठकुरः ॥ ६ ॥

देशान्तरे वयो नीवं गतं लोकान्तरेऽपि वा।
विभावयन्तु विद्वांसो बन्धूनां किं विशिष्यते ॥ ५ ॥

एकतोऽपरितोषश्चदन्यमन्यं महीभुजम् ।
निदाघपान्थवच्छायामन्यामन्यामुपाश्रयेत् ॥ ८॥

राजानमन्यमन्यं यत्संश्रयन्ते मनीषिणः ।
राज्ञासेवं यशोमोषो नैष दोषो मनीषिणाम् ॥ ९॥

द्रष्टव्याः कष्टग़म्मेऽपि नगरे नगरे नृपाः ।
प्रापकादृष्टसंसृष्टः कश्चित्स्यादेव कस्यचित् ॥ १० ॥

चिरं विनिर्गमो बन्धुवर्गमोदापनोदनः ।
तस्मादपूर्णकामोऽपि समेत्य प्रवसेत्पुनः ॥ ११ ॥

धात्रा वक्रेण धनुषा गुणोत्कर्षेण मार्गणाः ।।
अपि लब्धेषु लक्षेषु प्रक्षिप्यन्ते पुनः पुनः ॥ १२॥

अर्थानाहस्तोऽनाः समायान्ति प्रमादिनः ।
अप्रमतस्ततो मार्गो नित्यमेवास्तु वित्तवान् ॥ १३ ॥

हरिणाथो मनाक्याथोमजनादर्जितं चिरात् ।
पथि प्रकटचोरेण हा विन्धनमहारयत् ॥ ११ ॥

मारयन्ति नराः क्रूरा दूरादाहरतः प्रियम् ।
वाटपाटच्चरैर्नाशं वीतः शंकर ठक्कुरः ॥ १५॥

अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः ।
तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ।। १६ ॥

अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे ।
तत्संतुष्टेर्न चेदिष्टैर्दृष्टैः स्यान्नयनोत्सवः ॥ १७ ॥

तानि वित्तानि किं येषां विनियोलो न बन्धुषु ।
निन्द्या विद्यापि सा यस्या विनोदः स्यान्न संसदि ॥ १८ ॥
 .
शरीरभरणेनैव पर्याप्नोति न पौरुषम् ।
परोपयोगशून्यस्य वैशाल्यं शाल्मलेरलम् ॥ १९॥

पुण्यरत्नभृतः पाणिः प्रार्थकेन प्रसार्यते ।
धान्यं तदङ्कमायाति मायन्मुकुलितः करः ॥२०॥

निन्दास्वार्याः कदर्याणामलं वाचां विलम्बनैः ।
यैर्याचितैर्मिषान्म्लाने कालिमास्ये स्वयं धृतः ॥ २१ ॥

आर्थिनो जठरज्वाला दग्धा वाकंचिदञ्चति ।
तां च समयतो वित्तं किं निमित्तं न विद्महे ॥ २२ ॥

वर्तुलैरप्यलं वितैर्यत्तैर्नोपार्जितं यशः ।
लक्षैर्नवभिरप्यासीत्काशीमिश्रोऽभ्यनामकः ॥ २३ ॥

विद्यामध्यापनैर्दानैर्वित्तं नित्यमलं कुरु ।
पुरा कीर्तिर्वटेशादीनाविवेशामुनाध्वना ॥ २४ ।।

सर्वस्याप्यविशिष्टं तद्धनं यन्नोपयुज्यते ।
चौरादिभीत्या धनिनां निशौन्निधं विशिष्यते ॥ २५ ॥

धने किमिति कार्कश्यं निधने यद्विमुञ्चति ।
यन्न मुञ्चति पर्यन्ते तदर्जय धनैर्यशः ॥ २६ ॥

भ्रातरापूर्यसे वित्तैर्दीयतां दीयवामिदम् ।
जलेनानपनीतेन पूरिता नौनिमज्जति ॥ २७ ॥

धारणेनालमेतस्य विपरीतमिदं धनम् ।
धृतं न प्राप्यते भूयस्त्यक्तं भूयोऽप्यवाप्यते ॥ २८ ॥

विनोदः साधुभिः सार्धे प्रतिपादनमर्थिषु ।
विद्याश्रियोईयोरेतचिरोपार्जितयोः फलम् ॥ २९ ॥

विद्या विनोदैर्विदुषां वरीयान्वयसो व्ययः ।
श्रेयस्यो दानमोगाभ्यां श्रियो निःशेषिता अपि ॥ ३०॥

विनयेन वदान्यत्वं मदास्पर्शेन पौरुषम् ।
पूर्वेण तपसा पुंसां द्वाभ्यां द्वयमलंकृतम् ॥ ३१॥

नम्रीभूया भृशं प्रातर्यद्यस्ति फलगौरवम् ।
चेदननं शिरः शालेरिव तुच्छं फलं तव ॥ ३२ ॥

परोपकृतये जाताः साधवः शालयो यथा
शिरश्छेदेऽपि नोज्झन्ति फलसंपत्तिनम्रताम् ॥ ३३ ॥

नीचाशयानां संपत्तिः प्रतिवेशिविपत्तये ।
निपाताय तटस्थानां सद्यो नद्योऽम्बुपूरिताः ॥ ३४ ॥

धनाभिजनविद्याभिर्यद्यायातो न दुर्मदः ।
गोविन्दानुगृहीतोऽयमिति हीतोऽवधार्यताम् ॥ ३५ ॥

मदोन्मादविहीनेन सततं प्रियवादिना ।
क्रीतमेतत्सुकृतिना जगदेवाकपर्दकम् ॥ ३६ ॥

अस्मिन्परस्परद्वेषपरुषे पुरुषायुषम् ।
केवलं मधुरा वाणी ददात्यानीय सौहृदम् ॥ ३७ ॥

ये सतामवमन्तारस्ते गन्तारः पराभवम् ।
स्वाराज्यानहुषो विप्रावलेपाद्विनिपातितः ॥ ३८ ॥

आचरन्बहुभिर्वैरमल्पकैरपि नश्यति ।
जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ॥ ३९ ॥

विरोधेनाधमस्यापि न महानपि मोदते ।
अपि दासीकृतेनासीद्वनवासी रघुग्रहः ॥ ४०॥

परिष्वङ्गोऽपकर्षाय हीनजातिषु जायते ।
रामस्यापि कपिः स्कन्धमारुरोहादृतः पुरा ॥ ११ ॥

जन्म तन्मन्महे धन्यं संसर्गों यत्र सत्तमैः ।
सौभाग्यं पश्य निम्बस्य चन्दनाचलजन्मनः ।। १२ ।।

एको गोत्रे पुमान्प्रोक्तः प्राक्तनैः खकुटुम्बभृत् ।
एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ॥ ४३ ॥

को निमः कः परो लोके शोकेनायो विशिष्यते।
निजः स एवोपकृते यशो यत्रावशिष्यते ॥४४॥

व्ययमायक्रमेणैव कुर्वन्त्यायतिदर्शिनः ।
यावदास्तरणं पादप्रसारणमिति स्थितिः॥ ४५ ॥

क्षयाय जायतेः पुंसामायादत्यधिको व्ययः ।
मिताशी घोषितां रन्ता किं तात सुखमेधते ॥ ४६॥

अविचारेण यत्कर्म कृतं तन्मर्मकृन्तनम् ।
प्रसह्य सीताहरणादतीता रावणश्रियः॥ १७॥

संपद्यमानमालोक्य श्रेयः सद्यः समाचरेत् ।
दहत्यामरणं कर्म विलम्बेन विनाशितम् ॥ १८ ॥

कष्टं कर्मेति दुर्मेधाः कर्तव्याद्विनिवर्तते ।
न साहसमनारभ्य श्रेयः समुपलभ्यते ॥ १९ ॥

किं वा बहुभिराख्यातस्तस्कुर्वीथाश्चिरं यथा ।
त्वां गायति सतामने यशोभिरवशो जनः ॥ ५० ॥

एकं तु लोकवेदेभ्यः सारसाकृष्य कथ्यते ।
प्राणत्ययेऽपि व त्याज्यो न्याय्यो धर्माश्मथा पश्चः ॥ ५१ ॥

अत्यल्पं जीवितं पापान्यापातमधुराण्यलस् ।
लदाचर चिरास्तेयपरलोकावलोकवस् ॥ ५२ ॥

अवधारय धर्मेषु प्रधानमवधानतः ।
निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ॥ ५३ ॥

कुर्युः के वा न सेवाभिर्देवास्ते वाञ्छितां श्रियम् ।
वाञ्छातीता चिरस्फीता प्रीतात्पीताम्बरादियम् ॥ ५४ ॥

आकर्ण्य वाणी: पौराणीसयैतदधारितम् ।
तिष्ठन्तु देवदेव्योऽपि सेव्यो नारायणः परः॥ ५५ ॥

स्मरत्यहह किं कामी यामीमपि न यातनान् ।
यन्न ध्यायति गोविन्दमरविन्दविलोचनम् ॥ ५६ ॥

नाम नामरणं मुश्च नामिनोऽप्यधिकं हरेः ।
सदेतेनानुरक्तेन तत्तेनोक्तेन लभ्यते ॥ ५७ ॥

पश्यामि त्वामरे मूढ़ गूढमज्ञानवारिधौ ।
स्मर संसारसंतारकारणं चरणं हुरेः॥ ५८॥

कामात्क्लाम्यति कारीतिर्नारीति नरकाभिधा।
मलमज्जमयी मांसस्तुगी किं न विगीयते (?) । ५९ ॥

दुःखनित्यानि वित्तानि त्वं किमासाथ माद्यसि ।
ये भोक्तुमेतानीच्छन्ति तानेतान्येव भुञ्जते ॥ ६ ॥

किं ते पुत्रेण मित्रेण धनेनाभिजनेन वा ।
सर्वे शोकाय लोकानामाकाशनगरायितम् ॥ ६१॥

अलं वा बहुवादेन यत्र यत्रानुरज्यसे ।
तत्र तत्रैव ते दुःखदावपावकपतयः ॥ १२ ॥

साम्यं कुरु सुते शत्रौ कीटकोटीशयोरपि ।
समो जीवस्तमोरूपं न भावमनुधावति ॥ ६३ ॥

भोगारीणां न शक्तोऽसि यादवारिनिवारणे ।
अनौत्सुक्यमय वर्म मनोवर्मणि धारय ॥ ६४ ॥

अनाविलं फले भुङ्क्ते विषयाणामनुत्सुकः ।
उत्सुको लब्बरोकेण तत्र शोकेन शीर्यते ।। ६५ ॥

मा शुचो वार्मुचो वृष्टिलॊकसृष्टिश्च वेधसः ।
उत्पद्यते विनाशाय क्षणरक्षणलक्षणः ॥ ६६ ॥

दुःखभारापहाराय नारायणमयं जगत् ।
आत्मनश्चिन्तया भेदाझेदातीतो भविष्यसि ॥ ६७ ॥

क्वाप्याकारे हरेः सम्यनियम्य सुचिरं मनः ।
धियं निर्विषयं नीत्वा प्रकाशाकाशमाविश ॥ ६८॥

प्रक्षिप्य पक्षिवद्बन्धं स्वच्छीयाकाशमाश्रय ।
पदादास्तामधस्तात्ते मेरोरपि शिरो गतः ॥ ६९ ॥

समाधाय धियां धारां निराकारां चिदम्बरे ।
आत्मानमामुहि भ्रातराप्तमोक्षमधोक्षजम् ॥ ७० ॥

लक्ष्मीराघवयोः सूनोरन्यूनोऽयं गिरां गुणैः ।
सुभाषितानां संक्षेपः प्रेक्षावद्भिः परीक्ष्यताम् ॥ ७१ ।।

वाग्देवीकरपनपञ्जरपठत्कीरायितानां पुरो
 गण्यन्ते कवयः क्व वाङ्मयपुरपाकारकाकायिताः ।
ब्रह्मास्वादसुखावस्वातमनसां गोष्ठीषु सांसारिकाः
 स्वर्गोत्सननिषादिनोऽपि कुररीपाका वराका इव ।। ७२ ।।

इति हरिहरसुभाषिते परमार्थप्रकरणम् ॥ १२ ॥

   समाप्तश्चायं ग्रन्थः॥ Digitized with financial assistance from Mrs.Padma Barve

on 13 March, 2020

"https://sa.wikisource.org/w/index.php?title=हरिहरसुभाषितम्&oldid=309228" इत्यस्माद् प्रतिप्राप्तम्