हरिश्चन्द्रः

विकिस्रोतः तः
हरिश्चन्द्रः
कैलासनाथः एम् ए
१९२९

( ११० ) - हरिश्चन्द्रः। राज्य--दानम् । विश्वामित्र उवाच- मया पूर्व श्रुतं राजन्कीर्तिस्ते विपुला भुवि । वसिष्ठन च संप्रोक्तं दाता नास्ति महीतले ॥१॥ हरिश्चन्द्रो नृप श्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥२॥ पृथिव्यां परमोदारस्त्रिशंकुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिव । पुत्रस्य च महाभाग तदर्थं देहि मे धनम् ॥ ३ ॥ राजोवाच- विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव । यदिच्छसि धन कामं दाता तस्यास्मि निश्चितम् ॥ ४॥ व्यास उवाच- इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः । उद्भाव्य मायां गांधी पार्थिवायाऽप्यदर्शयत् ॥ ५॥ कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् । वेदीमध्ये नृपाऽद्य त्वं देहि दानं यथेप्सितम्। राजोवाच- किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ ६ ॥ अदेयमपि संसारे यशः कामोऽस्मि सांप्रतम् । व्यर्थ हि जीवितं तस्य विभवं प्राप्य येन वै। नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् ॥ ७ ॥ विश्वामित्र उवाच- राज्यं देहि महाराज वराय सपरिच्छदम् । गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने ॥८॥ व्यास उवाच- मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः । दत्तमित्युक्तवान्राज्यमविचार्य यदृच्छया ॥ ६ ॥ गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः । दक्षिणां देहि राजेन्द्र दानयोग्यं महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥१०॥ इत्युक्तस्तु तदा राजा तमुवाचाऽतिविस्मितः । ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना ॥ ११ ॥ दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् । दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन ॥ १२ ॥ विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् । हेमभारद्वयं साधं दक्षिणां देहि सांप्रतम् ॥ १३ ॥ दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः । तदैव सैनिकास्तस्य वीक्षमाणाः समागताः। दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ १४ ॥ व्यास उवाच- श्रुत्वा तेषां वचो राजा नोक्त्वा किंचिच्छुभाशुभम् । चिन्तयन्वकृतं कर्म ययावंतःपुरे ततः ॥ १५ ॥ किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ १६ ॥ राज्यं सोपस्करं तस्मै मया सर्व प्रतिश्रुतम् । भारद्वयं सुवर्णस्य साधं च दक्षिणा पुनः॥ १७ ॥ किं करोमि मतिभ्रंष्टानज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥१८॥ 'न जाने दैवकार्य वै हा दैव किं भविष्यति। इति चितापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ १६ ॥ पति चिन्तापरं दृष्ट्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमनाभासिका चिन्ता व्रुहि सांप्रतम् ॥ २०॥ कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद । नाऽरातिर्विद्यते क्वाऽपि वलवान् दुर्वलोऽपि वा। वरुणोऽपि सुसंतुष्टः कृतकृत्योऽसि भूतले ॥ २१ ॥ चिन्तया क्षीयते देहो नास्ति चिन्ता समा मृतिः । त्यज्य तां नृपशार्दूल स्वस्थो भव विचक्षण ॥ २२ ॥ तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किंचिच्चिन्तायाः कारणं च शुभाशुभम् ॥ २३ ॥ भोजनं न चकाराऽसौ चिन्ताविष्टस्तदा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ २४ ॥ प्रातरुत्थायचिन्तार्तो यावत्संध्यादिकाः क्रियाः। करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ २५ ॥ क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । श्रागत्योवाच राजानं प्रणामन्तं पुनः पुनः ॥ २६ ॥ विश्वामित्र उवाच- राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्ण स्पृश राजेन्द्र सत्यवाग् भव सांप्रतम् ॥ २७॥ हरिश्चन्द्र उवाच- स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्तां कुरु कौशिक |॥ २८॥ सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्को ह्यधुना द्विज ॥ २६ ॥ दानं ददामि ते तावद् यावन्मे स्याद्धनागमः । पुनश्चेत् कालयोगेन तदा दास्यामि दक्षिणाम् ॥ ३०॥ ( ११३ ) इत्युक्त्वा नृपतिः प्राह पुत्रं भार्या च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ ३१ ॥ हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ ३२ ॥ त्यक्त्वाऽयोध्यां गमिष्यामि कुत्रचित् वनगह्वरे । गृह्णात्विदं मुनिः सम्यग्राज्यं सर्व समृद्धिमत् ॥ ३३ ॥ इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमंदिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ ३४ ॥ अजन्तं भूपति वीक्ष्य भार्या पुत्रावुभावपि । चिन्तातुरौ सुदीनौ तौ जग्मतुः पृष्ठतस्तदा ॥ ३५ ॥ हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा। चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ ३६ ॥ हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनाऽपण्डितेन ह ॥ ३७॥ सर्वे घर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण व महात्मना ॥ ३८॥ निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ ३६ ॥ निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ ४० ॥ दक्षिणायाः सुवर्ण मे दत्त्वा गच्छ नराधिप । नाहंऽदास्यामि वा ब्रूहि मया त्यक्त्रं सुवर्णकम् ॥ ४१ ॥ राज्यं गृहाण वा सर्व लोभश्चेद्धृदि वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ ४२ ॥ एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ ४३ । ( ११४ ) अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥४४॥ सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ ४५ ॥ कथं करोमि नाकारं स्वामिन् दत्त्वा यदृच्छया। अवश्यमेव दातव्यमृणं मे द्विजसत्तम ॥ ४६ ॥ स्वस्थो भव प्रदास्यामि सुवर्ण मनसेप्सितम् । किञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ ४७ ॥ विश्वामित्र उवाच कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थ-साधनम् ॥ ४८ ॥ वृथाऽऽशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृपम् ॥ ४६॥ तस्मात्कथय भूपाल न दास्यामीति सांप्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ ५० ॥ यथेष्टं बज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्ण नास्ति किं तुभ्यं ददामीति वदाधुना ॥ ५१ ॥ व्यास उवाच- गच्छन् वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनि ब्रह्मन् धैर्य कुरु ददाम्यहम् ॥ ५२ ॥ मम देहोऽस्ति भार्यायाः पुत्रस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ ५३॥ ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ ५४ ॥ गृहाण काञ्चनं पूर्ण साधू भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः संतुष्टो भव भूधर ।। ५५ ॥ ( ११५ ) इति ब्रुवञ्जगामाथ सहपत्न्या सुतान्वितः । उमया कान्तया सार्ध यत्राऽस्ते शंकरः स्वयम् ॥ ५६ ॥ तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ ५७ ॥ ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ ५८ ।। प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ ५६ ॥ जगाम पद्भयां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥६०॥ ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ ६१ ॥ प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चाऽयं प्रिया पत्नी मुने मम ॥ ६२ ॥ येन ते कृत्यमस्त्याशुगृहाणाऽद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाऽख्यातुमर्हसि ॥ ६३॥ विश्वामित्र उवाच- पूर्णः समासो भद्रं ते दीयतां मम दक्षिणा । पूर्व तस्य निमित्तं हि मर्यते स्ववचो यदि ॥ ६४। राजोवाच- ब्रह्मन्नाऽद्याऽपि संपूर्णा मासो ज्ञानतपोवल । तिष्ठत्येकदिनार्ध यत्तत्प्रतीक्षस्व नाऽपरम् ॥ ६ ॥ विश्वामित्र उवाच- एवमस्तु महाराज श्रागमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेत्तदा प्रयच्छसि ॥ ६६ ॥ ( १२६ ) इत्युक्त्वाऽथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ ६७ ॥ कुतः पुष्टानि मित्राणि कुत्रार्थः सांप्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याच्ञा कथं भवेत् ॥ ६८ ॥ राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ ६६ ॥ ब्रह्मस्वहाकृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ ७० ॥ सूत उवाच- राजानं व्याकुलं दीनं चिन्तयनिमधोमुखम्। प्रत्युवाच तदा पत्नी वाष्पगद्गदया गिरा ॥ ७१ ॥ त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यवहिष्कृतः ॥ ७२ ॥ नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ ७३ ॥ अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ ७४ ॥ सत्यमत्यन्तमुदितं धर्मशास्त्रषु धीमताम् । तारणायाऽनृतं तद्वत्पतनायाऽकृतात्मनाम् ॥ ७५ ॥ शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत् स्वर्गादसत्यवचनाच्चयुतः ॥ ७६ ॥ राजेावाच- वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ ७७ ॥ पत्न्युवाच- राजन् मा भूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तन देहि विप्राय दक्षिणाम् ।। ७८ ॥ व्यास उवाच- एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य व संशां वै विललापातिदुःखितः ॥ ७ ॥ महद्दुःखमिदं भद्रे यत्त्वमेवं ब्रवीषि मे। किं तव स्मितसंलापा मम पापस्य विस्मृताः॥२०॥ हा हा त्वया कथं योग्यं वनुमेतच्छुचिस्मिते। दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ ८१ ॥ इत्युक्त्वा नृपतिः श्रेष्ठो न धीरो दारविक्रये। निपपात महीपृष्ठे मूर्च्छयाऽतिपरिप्लुतः ।। ८२ ॥ शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥३॥ हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः॥ ८४ ॥ येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ ८५ ॥ हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापमिमां दशाम् ॥ ८६ ॥ इत्युक्त्वा साऽपि सुश्रोणी मूर्ञ्छिता निपपात ह । भर्तुर्दुःखमहाभारेणाऽसोनातिपीडिता ॥ ८७ ॥ शिशुदृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् । क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥८॥ ( ११८ ) पत्नी-विक्रयः। एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः। अन्तकन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ १ ॥ तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्ञ्छितः । स वारिणा तमभ्युदय राजानमिदमब्रवीत् ॥ २॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ ३ ॥ आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥४॥ पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः । समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ ५ ॥ विश्वामित्र उवाच- दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्यनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ ६ ॥ सत्ये चोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वेमधसहस्रं तु सत्यं च तुलया धृतम् ॥ ७ ॥ अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्नेनास्ति प्रयोजनम् ॥ ८ ॥ मदीयां दक्षिणां राजन्न दास्यसि भवान् यदि । अस्ताचलगते हर्के शप्स्यामि त्वामतो ध्रुवम् ॥ ६॥ इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽतिपदसौ सुदीनो मुनिनार्दितः ॥ १० ॥ सूत उवाच- एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः। ब्राह्मणैर्वहुभिः सार्धं निर्ययौ स्वगृहाद्वहिः ॥ ११ ॥ ततो राशी तु तं दृष्ट्वा श्रायान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ १२ ॥ त्रयाणामपि वर्णानां पिता ब्राह्मण मन्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ १३ ॥ तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच- नाहं प्रतिग्रहं काः क्षत्रियोऽहं सुमध्यमे ॥ १४ ॥ याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्त सर्वदा ॥ १५ ॥ तस्माद्गुरुर्न याच्यः स्यात्तात्रयाणां विशेषतः । यजनाध्ययनंदानं क्षत्रियस्य विधीयते ॥ १६ ॥ शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपर्ण वचः ॥ १७ ।। ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्र चिद्द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ १८ ॥ पत्न्युवाच- कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारञ्च ॥ १६ ॥ विप्रेण विदुषः राजा क्रुद्धनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ २०॥ राजोवाच- असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ २१ ॥ क्षत्रियोऽहं महाभागेन याचे किंचिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ २२ ॥ ( १२० ) पत्ल्युवाच- यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ २३ ॥ अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं संगृहीत्वाथ गुर्वर्थ संप्रदीयताम् ॥ २४ ॥ एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः। कष्ट कष्टमिति प्रोच्य विललापातिदुःखितः ॥ २५ ॥ भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्र-शापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ २६ ॥ न द्यूतहेतोर्न च मद्य हेतो- र्न राज्य हेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यवत त्वं सफलं कुरुष्व ॥ २७ ।। स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ २८ ॥ नृशंसैरपि यत्कर्तुं न शक्यं तत् करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २६ ॥ एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ॥ ३०॥ वाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥ ३१॥ कस्यचिद्यदि कार्ये स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ३२ ॥ ते ब्रवन् पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच- किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः । ( १२१ ) राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ॥ ३३॥ व्यास उवाच- तं शब्दं सहसाश्रुत्वा कौशिको विप्ररूपधृक् । वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ३४॥ अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे।। ३५ ॥ अहं गृहामि दासी तु कति दास्यामि ते धनम् । एवमुक्तं तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ ३६ ॥ विदीर्ण तु मनो दुःखान्न चैनं किंचिदब्रवीत् । विप्र उवाच- कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ३७॥ अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ ३८ ॥ द्वात्रिंशलक्षणोपेता दता शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्वुदम् ॥ ३६ ॥ इत्याकर्ण्य वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताविष्टो न चैनं किंचिदव्रवीत् ॥ ४० ॥ ततः स विप्रोः नृपतेः पुरतो वल्कलोपरि। धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ ४१ ॥ राश्युवाच- मुञ्च मुशाऽऽर्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ ४२ ॥ पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मा स्प्रा‌क्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ ४३ ॥ ततः स वालः सहसा दृष्ट्वा कष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ ४ ॥ हस्ते वस्त्रं समाकर्षन्काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद्वालमभ्याहनत्तदा ॥ ४५ ॥ वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राश्युवाच- प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ ४६॥ क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ ४७ ।। ब्राह्मण उवाच- गृह्यतां वित्तमेतत्ते दीयतां मम बालकम् । स्त्रीपुंसोधर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ ४८ ।। शतं सहनं लक्षं च कोटि मौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ ४६ ॥ कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्वुदम् । सूत उवाच- तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ ५० ॥ प्रगृह्य बालकं मात्रा सहकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ ५१ ॥ प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । वाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ ५२ ।। यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ती हरिश्चन्द्रोऽस्तु वै पुनः ॥ ५३ ॥ पादयोः पतितां दृष्ट्वा प्राणभ्योऽपि गरीयसीम् । हा हेति च वदन्राजा विललापाकुलेन्द्रियः ॥ ५४ ।। वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायाऽपि वृक्षं तं न जहाति कदाचन ॥ ५५ ॥ ( १२३ ) एवं भार्या वदित्वाऽथ सुसंबद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा व यास्यसि ॥ ५६ ॥ कां दिशं प्रति यास्यामि को मे दुःख निवारयेत् । राजत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ५७ ॥ यत्पुत्रवियोगे हि मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ ५८ ।। मया त्यक्ताऽसि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसंभूतं सर्वराज्यसुखोचितम् ॥ ५६ ।। मामीशं पति प्राप्य दासीभावं गता ह्यसि । ईदृशं मज्जमानं मां सुमहच्छोकसागरे ॥ ६० ।। सूत उवाच- पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः । घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे ॥ ६१ ॥ नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः । विललापातिदुःखार्तो निश्वस्योष्णं पुनः पुनः ॥ १२ ॥ यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथग्जनाः दृष्टवन्तः पुरा पत्नी सेयं दासीत्वमागता ॥६३॥ हा प्रिये हा शिशो वत्स ममाऽनार्यस्य दुर्नयः । दैवाधीन दशां प्राप्तो न मृतोऽस्मि तथापि धिक् ॥ ६४ ॥ व्यास उवाच- एवं विलपतो राज्ञोऽग्रे विप्रोऽन्तरधीयत । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ ६५ ॥ स शिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः करदर्शनः । विश्वामित्र उवाच- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा । तां ददख महाबाहो यदि सत्यं पुरस्कृतम् ॥ ६६ ॥ ( १२४ ) हरिश्चन्द्र उवाच- नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् । राजसूयस्य यागस्य या मयोक्का पुराऽनघ || ६७ ॥ विश्वामित्र उवाच- कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते । एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् ॥ ६८॥ राजोवाच- किमनेन महाभाग कथितेन तवाऽनघ । शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत ॥ ६६ ॥ ऋषिरुवाच- अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे। द्रव्यस्याऽऽगमनं राजन्कथयस्व यथातथम् ॥ ७० ॥ राजोवाच- मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया ॥ ७१ ॥ सूत उवाच- तद्वित्तं स्वल्पमालक्ष्य दारविक्रयसंभवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ७२ ॥ ऋषिरुवाच- राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय तिप्रं संपूर्णा येन सा भवेत् ॥ ७३ ॥ क्षत्रवन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ ७४॥ तपसोऽस्य सुतप्तस्य ब्राह्मणस्याऽमलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याऽध्ययनस्य च ॥ ७५ ॥ ( १२५ ) राजोवाच- अन्यद्दास्यमि भगवन् कालः कश्चित् प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ ७६ ॥ विश्वामित्र उवाच- चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ७७ ।। 7 स्व-विक्रयः । व्यास उवाच- तमेवमुक्त्वा राजानं निघृणं निष्ठुरं वचः। तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥१॥ विश्वामित्रेगते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २ ॥ कस्यचिद्यदि कार्य स्याद्दासेन प्रेतेन मया । स ब्रवीतु त्वरायुक्तो या मे तिष्ठति भास्करः ॥ ३ ॥ अथाजगाम त्वरितो धर्मश्चांडालरुपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥४॥ कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः। हस्तजर्जरयष्टिश्च शवमाल्यैरलंकृतः ॥५॥ चांडाल उवाच- अहं गृहामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्वं मौल्यं किमेतत्ते संप्रदीयते ॥ ६ ॥ व्यास उवाच- तं तादृशमथाऽऽलक्ष्य करदृष्टिं सुनिघृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥७॥ L ( १२६ ) चांडाल उवाच- चांडालोऽहमिह ख्यातः प्रवीरति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ ८ ॥ एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ ६ ॥ उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ १० ॥ चांडाल उवाच एवमेव त्वयाऽधर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्नं ममाग्रतः ॥ ११ ॥ विचारियत्वा यो व्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयाऽनघ ॥ १२ ॥ यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच- असत्यानरके गच्छेत् सद्यः करे नराधमः ॥ १३ ॥ ततश्चांडालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच- तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ १४ ॥ क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चांडालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ १५ ॥ कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच- भगवन् सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ १६ ॥ कथं चांडालदासत्वं गमिष्ये वित्तकामतः। विश्वामित्र उवाच- यदि चांडालवित्तं त्वमात्मविक्रयजं मम ॥ १७ ॥ ( १२७ ) न प्रदास्यसि चेत्तर्हि शपस्यामि त्वामसंशयम् । चांडालादथवा विप्रादेहि मे दक्षिणाधनम् ॥ १८ ॥ विना चांडालमधुना नान्याः कश्चिद्धनप्रदः । धनेनाऽहं विना राजन्न यास्यामि न संशयः ॥ १६ ॥ इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ २० ॥ व्यास उवाच- हरिश्चन्द्रस्ततो राजा मृतवच्छ्रितजीवितः । प्रसीदेति वदन् पादौ ऋषेर्जग्राह विह्वलः ॥ २१ ॥ हरिश्चन्द्र उवाच- दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्चविशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चांडालसंकरः ॥ २२ ॥ भवेयं विसशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ २३ ।। विश्वामित्र उवाच- एवमस्तु महाराज ममैव भव किंकरः । किं तु मद्धचनंं कार्यं सर्वदैव नराधिप ।। २४ ॥ व्यास उवाच- एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ २५ ॥ तवादेश करिष्यामि सदैवाऽहं न संशयः । श्रादेशय द्विज श्रेष्ठ किं करोमि तवानघ ॥ २६ ॥ विश्वामित्र उवाच- चांडालागच्छ महासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ २७ ॥ नास्ति दासेन मे कार्ये वित्ताशा वर्तते मम । ( १२८ ) व्यास उवाच- एवमुक्ते तदा तेन श्वपचो हृष्टमानसः ॥ २८॥ आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चांडाल उवाच- दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ २६ ॥ भूमि रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ ३०॥ व्यास उवाच- ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः। चांडालेन प्रदत्ता निजग्राह द्विजसत्तमः ॥ ३१ ॥ हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः॥ ३२॥ तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाऽशरीरिणी ॥ ३३ ॥ अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया। ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ ३४ ॥ साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ ३५ ॥ राजोवाच- त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थ मोचितोऽहं ते क्षणाच्चैवऽनृणीकृतः ॥ ३६ ॥ किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ ३७॥ विश्वामित्र उवाच- चांडालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्त्विति तं प्रोच्य तदाऽऽदाय धनं ययौ ॥ ३८॥ १२६ ) स्व-कृत्यम् । . सूत उवाच- विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ १ ॥ असत्यो यास्यसीत्युक्त्वा दण्डेनाऽताडयत्तदा । दण्डप्रहारसंभ्रांतमतीवव्याकुलेन्द्रियम् ॥२॥ इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ ३ ॥ निगडस्थस्ततो राजा वसंश्चांडालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ ४ ॥ तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां सरत्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ ५॥ उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च संबोधयिष्यति ॥६॥ तातपार्श्व ब्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ ७॥ न सा मां मृगशावाक्षी वेत्ति चांडालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥८॥ ततश्चांडालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥६॥ निनाय दिवसाम्राजा चतुरो विधिपीडितः । अथाऽह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ १०॥ चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन पुरुषैर्वाक्यैर्निर्मीत्स्य च पुनः पुनः ॥ ११ ॥ काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । ( १३० ) तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ १२ ॥ इमं च जर्जर दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दंड इति घोषस्व सर्वतः ॥ १३ ॥ सूत उवाच- कस्मिश्चिदथ काले तु मृतचैलापहारकः हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥ १४ ॥ चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ १५॥ पुर्यास्तु दक्षिण देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धवहुधूमकम् ॥ १६ ॥ श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम् ॥ १७ ॥ अस्थिसंघातसंकीर्णं महादुर्गंधसंकुलम् । अर्धदग्धशवास्यानि विकसद्दंतपंक्तिभिः ॥ १८ ॥ हसन्तीवाऽग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ १६ ॥ हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाऽद्य मे । हाप्यते भागिनेयाऽहं हा मातुल पितामह ॥ २० ॥ मातामह पितः पौत्र क गतोऽस्येहि वान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ २१ ॥ ज्वलन्मांसवसामेदच्छूमितिध्वनिसंकुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ २२ ॥ कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र संप्राप्तो दुःखादेवमशोच यत् ॥ २३ ॥ हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । पुत्र मां त्यक्त्वा मन्दभाग्यकम् ॥२४॥ ( १३१ ) ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विनाधर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ २५॥ यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ २६ ॥ मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च घावंश्चापि ततस्ततः ॥२७॥ अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाऽग्रतः । इदं मम इदं राक्ष इदं चाण्डालकस्य च ।। २८ ।। इत्येवं चिन्तयन्राजा व्यवस्था दुस्तरां गतः। जीर्णैकपटसुग्रंथिकृतकंथापरिग्रहः ॥२६॥ चिताभस्मरजोलिप्तमुखवाहूदरांघ्रिकः । नानामेदोवसामज्जालिप्ताप्यङ्गुलिः श्वसन् ॥ ३० ॥ नानाशवौदनकृतनुन्निवृत्तिपरायणः । तदीय माल्यसंश्लेषकृतमस्तकमंडलः॥३१॥ न रात्रौ न दिवा शेतं हा हेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्ष शतोपमाः॥ ३२॥ - रोहित-मृत्युः। सूत उवाच- एकदा तु गतो रंतुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः॥१॥ क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपवक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्तयनुसारतः॥२॥ आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ ३॥ ( १३२ ) पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥४॥ उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ ५ ॥ कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ ६ ॥ विश्वामित्राशया तावत् कृष्णसर्पो भयावहः। महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥७॥ तेनाऽसौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्वाला द्विजालयम् ॥ ८ ॥ त्वरिता भय-संविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्त्तुं बहिर्गतः ॥ ६ ॥ अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ १० ॥ पपात मूञ्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः सुजलेनाऽभ्यर्षिंचत ॥ ११ ॥ मुहूर्ताचेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । व्राह्मण उवाच- अलक्ष्मीकारकं निन्द्यं जानीहि त्वं निशामुखे ॥ १२ ॥ रोदनं कुरुषे दुष्टे लजात हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किंचिद्वाक्यमब्रवीत् ॥ १३ ॥ रुरोद करुणं दीनां पुत्रशोकेन पीडिता। अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्द्धजा ॥ १४ ॥ अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक् त्वां दुष्टे क्रयं गृहा मम कार्य विलुम्पसि ॥ १५ ॥ ( १३३ ) अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भत्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ १६ ॥ रुदिता कारणं प्राह विप्रं गद्गदया गिरा। स्वामिन् मम सुतो बालः सर्पदष्टो मृतो वहिः ॥ १७ ॥ अनुशां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन संजातं मम सुव्रत ॥ १८ ॥ इत्युक्त्वा करुणं वाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ १६ ॥ ब्राह्मण उवाच- शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्य विलुम्पति ॥ २० ॥ नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ ३१ ॥ किमनेनाऽथवा कार्यं धर्मसंकीर्तनेन मे। यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ २२ ॥ तद्वाक्यं निष्फलं तस्मिन् भवेद्वीजमिवोषरे । एहि ते विद्यते किंचित् परलोकभयं यदि ॥ २३ ॥ एवमुक्त्वाथ सा विप्रं वेपमानाऽब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ २४ ॥ प्रस्थापय मुहूर्ते मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाऽथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥२५॥ रुरोद करुण बाला पुत्रशोकेन पीडिता। अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ २६ ॥ विप्र उवाच- किं ते पुत्रेण मे कार्ये गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोघं कशाघातफलप्रदम् ॥ २७ ॥ ( १३४ ) एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यंगादिकर्मणा ॥ २८ ॥ ब्राह्मणेनाऽथ सा प्रोक्ता पुत्रपार्श्व व्रजाऽधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ २६ ॥ न लुप्येत यथा प्रातगृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम सा ॥ ३०॥ दृष्ट्वा मृतं निजपुत्रं भृशं शोकेनपीडिता । यूथभ्रष्टा कुरंगीव विवत्सा सौरभी यथा ॥ ३१ ॥ वाराणस्या वर्हिगत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रंकवद् भूमौ काष्ठदर्भतृणोपरि ॥ ३२ ॥ विललापातिदुःखाता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाऽधुना ॥ ३३ ॥ श्रायास्याभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्ञ्छिता ॥ ३४॥ पुनः सा चेतनां प्राप्य दोामालिंग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदाऽऽर्तस्वनैस्तदा ॥ ३५ ॥ कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर ।। ३६ ॥ हा राजन्क्व गतोऽसि त्वं पश्येम बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ ३७॥ तथाऽपश्यन्मुखं तस्य भूयो जीवित शंकया । निर्जीववदनं ज्ञात्वा मूर्ञ्छिता निपपात च ॥ ३८ ॥ हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्र जागृहि भीषणम् ॥ ३९ ॥ निशाध वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ ४० ॥ ( १३५ ) मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः ।

सूत उवाच- एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह॥४१॥ हा शिशो वाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ ४२ ॥ तवाऽहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात् पुत्र भर्त्रा स्वविक्रयात् ॥ ४३ ॥ यदासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्वमागतम् ॥ ४४ ।। दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिःसत्त्वो गुरुदेवद्विजार्चकः ॥ ४५ ॥ मातापित्रोस्तु प्रियकृत् सत्यवादी जितेन्द्रियः। इत्यादि सकलं जातमसत्यमधुना सुत ॥ ४६ ॥ चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः। तव पाणितले पुत्र कलशश्चामरं तथा ॥४७॥ लक्षणानि तथाऽन्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सजातान्यधुना सुत ॥४८॥ हा राजन् पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क ते सिंहासनं छत्रं क ते खङ्गः क्व तद्धनम् ॥ ४६॥ क्व साऽयोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः। मां त्यक्त्वा क्व गतोऽसि रे ॥ ५० ॥ हा कान्त हा नृपाऽऽगच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुंकुमेनाऽवलेपितम् ॥ ५१ ।। स्वशरीरजः पंकैर्विशालं मलिनीकृतम् । येन ते वालभावेन मृगनाभिविलेपितः ॥५२॥ भ्रंशितो भालतिलकस्त्वाङ्कस्थेन भूपते । 1 ( १३६ ) यस्य वक्त्रं मृदालिप्तं स्नेहाद्वै चुम्बितं मया ॥ ५३ ॥ तन्मुखं मक्षिकालिङ्गयं पश्ये क्रीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रंकवन्मृतम् ॥ ५४ ।। हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये ॥ ५५ ॥ हा पुत्र हा शिशो वत्स हा कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ ५६ ॥ जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः। जना ऊचु:- का त्वं बालश्च कस्याऽयं पतिस्ते कुत्र तिष्ठति ॥ ५७ ॥ एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्त्वाऽथ सा तन्वी न किंचिद्वाक्यमब्रवीत् ॥ ५८। भूयोऽपि पृष्टा सा तूष्णीं स्तव्धीभूता बभूव ह। विललापाऽतिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ ५६ ॥ अथ ते शंकितास्तस्यां रोमाञ्चिततनूरुहाः । संत्रस्ताः प्राहुरन्योऽन्यमुद्धृतायुधपराणयः ।। ६० ॥ नूनं स्त्री न भवत्येषा यतः किंचिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ ६१ ॥ शुभा चेत्तर्हि किं ह्यत्र निशाधै तिष्ठते वहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ ६२ ।। इत्युक्त्वा तैगृहीता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चाऽपि गलके तथा ॥ ६३ ॥ खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चांडालाय समर्पिता ॥ ६४॥ हे चांडाल वहिर्टणा ह्यस्माभिबार्लघातिनी । वध्यतां वध्यतामेषा शीघ्रं नीत्वा बहिः स्थले ॥६५॥ ( १३७ ) चांडालः प्राह तां दृष्ट्वा शातेयं लोकविश्रुता। न दृष्टपूर्वा केनाऽपि लोकडिम्भान्यनेकधा ॥ ६६ ॥ भक्षितान्यनया भूरि भवद्भिः पुण्यमर्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ ६७ ॥ द्विजस्त्रीबालगोधातीस्वर्णस्तयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ ६८ ॥ महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्याऽपि स्त्रियो वाऽपि न दोषो विद्यते वधे ॥ ६६ ॥ अस्या वधश्च मे योग्य इत्युक्त्वा गाढबंधनैः । बद्ध्वा केशेष्वथाऽऽकृश्य रज्जुभिस्तामताडयत् ॥ ७० ॥ हरिश्चन्द्रमथोवाच वाचा परूषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ ७१ ॥ तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चांडालं प्राह स्त्रीवधशंकितः॥ ७२॥ न शक्तोऽहमिदं कर्त प्रेष्यं देहि ममाऽपरम् । असाध्यमपि यत्कर्म तत् करिष्ये त्वयोदितम् ॥ ७३ ॥ श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ ७४ ॥ बालानामेव भयदानेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ ७५ ॥ स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितं पापं मुनिभिर्धर्मतत्परैः ॥ ७६ ॥ पुरुषो यः स्त्रियं हन्याज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके ॥ ७७ ॥ चांडाल उवाच- मा वदाऽसिं गृहाणैनं तीक्ष्णविद्युत्समप्रभम् । ( १३८ ) यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ ७८ ॥ तस्य हिंसा कृता नूनं बहु पुण्य प्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ ७६ ॥ तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच- चांडालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ ८० ॥ आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चांडाल उवाच- स्वामिकार्यं विना दुष्ट किं कार्यं विद्यते परम् ॥ ८१ ॥ गृहीत्वा वेतनं मेऽद्य कस्मात् कार्य विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्य विलुम्पति ॥२॥ नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच- चांडालनाथ मे देहि कार्यमन्यत्सुदारुणम् ॥ ८३ ॥ स्वशत्रु ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रु तव दास्यामि मेदिनीम् ॥ ८४ ॥ देवदेवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ ५ ॥ एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चांडालः कुपितः प्राह वेपमानं महीपतिम् ॥ ८६ ॥ चांडाल उवाच- "नेतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्" । चांडालदासतां कृत्वा सुराणां भाषसे वचः । दास किंबहुना नूनं शृणु मे गदतो वचः ॥ ८७ ॥ निर्लज्ज तव चेदस्ति किंचित् पापभयं हृदि । किमर्थ दासतां यातश्चांडालस्य तु वेष्मनि ॥ ८ ॥ ( १३६ ) गृहाणेनं ततः खङ्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाऽथ चांडालो राज्ञे खङ्गं न्यवेदयत् ॥ ८ ॥ पुनर्मिलनम्। सूत उवाच- ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥१॥ शिरस्ते च्छेदयिष्यामि हन्तुं शक्नोति चेत्करः। एवमुक्त्वा समुद्यम्य खङ्गं हन्तुं गतो नृपः ॥२॥ न जानाति नृपः पत्नी सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकांक्षती ॥ ३ ॥ स्त्र्युवाच- चांडाल शृणु मे वाक्यं किंचित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नाऽतिदूरे बहिः पुरात् ॥ ४ ॥ तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्य तां पश्चादसिना घातयस्व माम् ॥ ५॥ तेनाऽथ बाढमित्युक्त्वा प्रेषिता वालकं प्रति । सा जगामाऽतिदुःखार्ता विलपन्ती सुदारुणम् ॥६॥ भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि वालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ ७॥ कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याऽविशद् भुवि ॥ ८ ॥ "राजन्नद्य स्ववालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाऽहिना मृतम् ॥ ६॥" तस्या विलापशब्दं तमाकर्ण्य स नराधिपः। शवसन्निधिमागत्य वस्त्रमस्याऽऽक्षिपत्तदा ॥१०॥ ( १४० ) तां तथा रुदती भार्या नाभिजानाति भूमिपः । चिरप्रवाससंतप्तां पुनर्जातामिवाऽबलाम् ॥ ११ ॥ साऽपि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाऽभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ १२ ॥ भूमौ निपतितं वालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ १३ ॥ अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुंगकपोलयुगशोभितम् ॥ १४ ॥ नीलान्केशान् कुञ्चिताग्रान्त्सान्द्रान्दी स्तरंगिणः । राजीव सदृशे नेत्रे श्रोष्ठौ विम्बफलोपमौ ॥ १५ ॥ विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरः सूक्ष्माङ्गुल्यवनीधरः ॥ १६ ॥ मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याऽप्येष कुले शिशुः ॥ १७ ॥ जातो नीतः कृतान्तेन कालपाशाद् दुरात्मना। सूत उवाच- एवं दृष्ट्वाऽथ तं बालं मातुरके प्रसारितम् ॥ १८ ॥ स्मृतिमभ्यागतो राजा हा हेत्यश्रण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ १६ ॥ नीतो यदि च घोरेण कृतान्तेनाऽऽत्मनो वशम् । विचारयित्वा राजाऽसौ हरिश्चन्द्रस्तथा स्थितः ।। २० ।। ततो राशी महादुःखावेशादिदमभाषत । राज्ञ्युवाच- हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ।। २१ ॥ दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ २२ ॥ ( १४१ ) कस्मिन् संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ २३॥ हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया। इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ २४ ।। प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कएं ममैव पत्नीयं वालकश्चाऽपि मे सुतः ॥ २५ ॥ ज्ञात्वा पपात संतप्तो मूर्छामति जगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ २६ ॥ मूर्ञ्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ २७ ॥ विलेपतुः सुसंतप्तौ शोकभारेण पीडितौ। राजोवाच- हा वत्स सुकुमारं ते वदनं कुश्चितालकम् ॥ २८ ॥ पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते। तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ २६ ॥ उपगुह्य कदा वक्ष्ये वत्स वत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ ३०॥ ममोत्तरीयमुत्सहं तथा मलमेष्यति । न वाऽलं मम संभूतं मनो हृदयनन्दन ॥ ३१ ॥ "मयाऽसि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।" गतं राज्यमशेष मे सबांधवधनं महत् ॥ ३२॥ हीनदैवान्नृशंसेन हृतो मे तनयस्ततः।" अहं महाहिदष्टस्य पुत्रस्याऽऽननपंकजम् ॥ ३३ ॥ निरीक्षन्नद्य घोरेण विषेणाऽधिकृतोऽधुना। एवमुक्त्वा तमादाय वालकं वाष्पगद्गदः॥ ३४॥ परिष्वज्य व निश्चेष्टो मूर्च्छया निपपात ह। (२४२ ) ततस्तं पतितं दृष्ट्वा शैव्या वैवमचिन्तयत् ॥ ३५ ॥ अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वजनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ३६ ।। तथाऽस्य नासिका तुंगा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ३७ ।। श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः। विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ ३८ ॥ प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षन्ती सा तदाऽपप्तन्मूर्च्छया धरणीतले ॥ ३६ ॥ प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक् त्वां देव ह्यकरुण निर्मर्याद जुगुप्सित ॥ ४० ॥ येनाऽयममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्याग भार्यातनयविक्रयम् ॥ ४१ ॥ प्रापयित्वाऽपि येनाऽद्य चांडालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथाऽपि वा ॥ ४२ ॥ चामर व्यजने वाऽपि कोऽयं विधिविपर्ययः । यस्याऽस्य वजतः पूर्वं राजानो भृत्यतां गतः ॥ ४३ ।। स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्न घटीपटनिरन्तरे ॥४४॥ मृतनिर्माल्यसूत्रांतर्लग्नकेशसुदारुणे । वसानिष्पंदसंशुष्कमहापटलमंडिते ॥ ४५ ॥ भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे । गृध्रगोमायुनादाते पुष्टचद्रविहङ्गमे ।। ४६ ॥ चिताधूमायतपटनीलीकृतदिगन्तरे। कुणपास्वादनमुदासंप्रकृष्टनिशाचरे ॥ ४७॥ चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाऽथ संश्लिष्य कण्ठे राशो नृपात्मजा ॥ ४८ ॥ कष्टं शोकसमाविष्टा विललापार्तया गिरा। राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ ४६॥ तत्कथ्यतां महाभाग मनो वैमुह्यते मम । यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ॥ ५० ॥ तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नाऽऽर्जवं नाऽनृतांशता ॥ ५१ ॥ यत्र त्वं धर्म-परमः स्वराज्यादवरोपितः । सूत उवाच- इति तस्या वचःश्रुत्वा निःश्वस्योष्णं सगद्गदः ॥५२॥ कथयामास तन्वंग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वासा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ ५३ ॥ स्वपुत्रमरणं भीर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथावाक्यं निपपात महीतले ॥ ५४ । मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथ प्राह शैव्या गद्गदया गिरा ॥ ५५॥ कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । खामिद्रोहो न तेऽस्त्वद्य माऽसत्योभव भूपते ॥५६ ॥ माऽसत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूञ्छितः॥ ५७ ॥ क्षणेन चेतनां प्राप्य विललापाति दुःखितः। राजोवाच- कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ ५८ ।। यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच- मया च पूजिता गौरी देवाविप्रास्तथैव च ॥५६॥ ( १४४ ) भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ ६०॥ मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच- प्रिये न रोचते दीर्घ कालं क्लेशं मयाऽशितुम् ॥ ६१॥ नात्मायत्तोऽहं तन्वनि पश्य मे मंदभाग्यताम् । चांडालेनाऽननुज्ञातः प्रवेत्ये ज्वलनं यदि ॥ १२ ॥ चांडालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ ६३ ॥ तापं प्राप्स्यामि संप्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ ६४॥ एकोऽपि बालको योऽयमासीद्वंशकरः सुतः । मम दैवानुयोगेन मृतः सोऽपि बलीयसा ॥ ६५ ॥ कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःस्त्र बाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ ६६ ॥ त्रैकोक्यैनाऽस्ति तद्दुःख नाऽसिपत्रवने तथा । वैतरिण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवं ॥ ६७ ॥ सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वति क्षन्तव्यं तन्ममाऽधुना ॥ ६८॥ न वक्तव्यं त्वया किंचिदतः कमललोचने । ममवाक्यं च तन्वति निवोधाऽऽहतमानसा ॥६६॥ अनुज्ञाताऽथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ७० ॥ संगमः परलोके मे निजपुत्रेण चेत्त्वया । इह लोके कुतस्त्वेतद् भविष्यति समीप्सितम् ॥ ७१ ॥ यन्मया हसता किञ्चिद् रहसि त्वां शुचिस्मिते । ( १४५ ) अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ ७२ ।। राजपत्नीति गर्वेण नाऽवज्ञयः स मे द्विजः । सर्वयत्नेन तोष्यः स्यात्स्वामी दैवतवच्छुभे ॥ ७३ ॥ राश्युवाच- अहमप्यत्र राजर्षे निपतिप्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया ।। ७४॥ त्वया सह मम श्रेयो गमनं नाऽन्यथा भवेत् । सह स्वर्ग च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ ७५ ॥ --:o: उपसंहारः। सूत उवाच- ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा वद्धाञ्जलिपुटस्तदा ॥१॥ चिन्तयन्परमेशानी शताक्षीं जगदीश्वरीम् । पञ्चकोशांतरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ २॥ रक्ताम्बरपरीधानां करुणारससागराम्। नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ ३॥ तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः॥४॥ आगत्य सर्वे प्रोचुस्ते राजन्छणु महाप्रभो। अहं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम् ॥५॥ साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाऽश्विनौ ॥६॥ एते चाऽन्येऽथ बहवो विश्वामित्रस्तथैव च । विखत्रयेण यो मैत्री कर्तुमिच्छति धर्मतः ॥ ७ ॥ ( १४६ ) विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति । धर्म उवाच- मा राजन् साहसं कार्षीर्घमोऽहं त्वामुपागतः ॥ ८॥ तितिक्षादमसत्त्वाद्यैस्त्वद्गणैः परितोषितः । इन्द्र उवाच- हरिश्चन्द्र महाभागप्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ ६ ॥ त्वयाऽद्य भार्या पुत्रेण जिता लोकास्सनातनाः । प्रारोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ १० ॥ सुदुष्प्रापं नरैरन्यर्जितमात्मीय कर्मभिः। सूत उवाच- ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ ११ ॥ इन्द्रःप्रासृजदाकाशाच्चितामध्ये गते शिशौ । पुष्पवृष्टिश्च महतीं दुंदुभिस्वन एव च ॥ १२ ॥ समुत्तस्थौ मृतः पुत्रो राशस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः॥ १३ ॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रियायुक्तो दिव्यमाल्याम्बरावृतः ॥ १४ ॥ स्वस्थः संपूर्णहृदयो मुदा परमया वृतः । बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥१५॥ सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम् ॥ १६ ॥ हरिश्चन्द्र उवाच- देवराजाननुज्ञातः खामिनाश्वपचेन हि । अकृत्वा निष्कृति तस्य नारोक्ष्ये वै सुरालयम् ॥ १७ ॥ धर्म उवाच- तवैवं भाविनं क्लेशमवगम्याऽऽत्ममायया । ( १४७ ) आत्माश्वपाचतां नीतो दर्शितं तच्चपक्वणम् ॥ १८ ॥ इन्द्र उवाच- प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ १६ ॥ हरिश्चन्द्र उवाच- देवराज नमस्तुभ्यं वाक्यं चेदं निवोध मे । मच्छोकमग्नमनसः कोसले नगरे नराः ॥२०॥ तिष्ठन्ति तानपास्यैवं कथं यास्याम्हं दिधम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ २१ ॥ तुल्यमेभिर्महत्पापं भलत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ २२ ॥ तैर्विना न प्रयास्यामि तस्माच्छकं दिवं व्रज । यदि ते सहिताः स्वर्ग मया यान्ति सुरेश्वर ॥ २३ ॥ ततोऽहमपि यास्यामि नरकं वाऽपि तैः सह । इन्द्र उवाच- बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ २४ ॥ कथं संघातभोज्यं त्वं भूप स्वर्गमभीप्ससि । । हरिश्चन्द्र उवाच- भुक्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेर्ध्रुवम् ॥ २५ ॥ यजते च महायज्ञैः कर्मपूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ।। २६ ॥ १ उपदाद्यन्न संत्यदये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किंचिदस्ति सुवेष्टितम् ॥ २७ ॥ दत्तमिष्टं हुतं जप्तं सामान्य तैस्तदस्तु नः । वहुकालोपभाज्यं च फलं यन्मम कर्मगम् ॥ २८ ॥ तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः । 342 ( १५८ ) 1 सूत उवाच- एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ २६ ॥ प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ ३० ॥ हरिश्चन्द्रस्य निकटे प्रोवाच विवुधाधिपः । श्रागच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ ३१ ॥ धर्मप्रसादात्संप्राप्तं सर्वैयुष्माभिरेव तु । हरिश्चन्द्रोऽपि तान् सर्वाजनान्नगरवासिनः ॥ ३२॥ प्राह राजा धर्मपरो दिवमारूह्यतामिति । सूत उवाच- तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ ३३ ॥ ये संसारेषु निर्विरणास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ ३४ ॥ विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा संभूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ ३५ ॥ राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याऽऽख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ ३६ ॥ तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ ३७ ।। संप्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसांचके कामगमे स्वर्लोकं प्रति प्रेरिते ॥ ३८॥

"https://sa.wikisource.org/w/index.php?title=हरिश्चन्द्रः&oldid=309240" इत्यस्माद् प्रतिप्राप्तम्