हरिवंशपुराणम्/माहात्म्यम्/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search

पञ्चमोऽध्यायः

हरिवंशस्य नवाह-पारायणस्य उद्यापनं, तस्मिन् क्रियमाणानि दानानि, पुस्तकपूजा, वाचकपूजनादिविधानं माहात्म्यं च

वैशम्पायन उवाच
एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत् ।
जन्माष्टमीव्रतमिव कर्तव्यं फलकाङ्क्षिभिः ।। १ ।।
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः ।
श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ।। २ ।।
एवं नवाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।
पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ।। ३ ।।
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।
मृदङ्गतालललितं कीर्तनं कीर्त्यतां ततः ।। ४ ।।
जयशब्दो नमःशब्दः शङ्खशब्दश्च गीयताम् ।
विप्रेभ्यो याचकेभ्यश्च वित्तमन्नं च दीयताम् ।। ५ ।।
श्रवणान्ते हरेर्मूर्तिः सश्रीकस्य प्रदीयताम् ।
सुवर्णस्य कृता सम्यग्लक्ष्म्यङ्का पलमानतः ।। ६ ।।
समाप्तौ विधिवद् वस्त्रं क्षौमं दद्याच्च वाचके ।
विशेषोऽयं समुद्दिष्टो मुनिभिस्तत्त्वदर्शिभिः ।। ७ ।।
समाप्य सर्वं प्रयतः संहिताशास्त्रकोविदः ।
शुभे दिने निवेश्याथ क्षौमवस्त्राभिसंवृतः ।। ८ ।।
शुक्लाम्बरधरस्तत्र शुचिर्भूत्वा स्वलंकृतः ।
अर्चयत्तु यथान्यायं गन्धमाल्यैः पृथक्पृथक् ।। ९ ।।
सहितापुस्तकं तत्र प्रयतः सुसमाहितः ।
भक्ष्यैर्भोज्यैश्चापूपैश्च कौतुकैर्विविधैः शुभैः ।। 5.१० ।।
हिरण्यमन्यद् द्रव्यं च दक्षिणां तत्र दापयेत् ।
ये श्रावयन्ति मनुजान्पुण्यां पौराणिकीं कथाम् ।। ११ ।।
कल्पकोटिशतं साग्रं यान्ति ते ब्रह्मणः पदे ।
आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ।। १२ ।।
कम्बलाजिनवासांसि मञ्चाफलकमेव च ।
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान्।। १३।।
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निरामयम् ।
पुराणस्य प्रयच्छन्ति ये सूत्रवसनं नवम् ।। १४ ।।
भोगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ।
ये महापातकैर्युक्ता उपपातकिनश्च ये ।। १५ ।।
पुराणश्रवणादेव ते यान्ति परमं पदम् ।
हरिवंशं लिखित्वा यो वाचकाय प्रदापयेत् ।। १६ ।।
यत्फलं भूमिदानस्य तत् फलं लभते हि सः ।
राजसूयेन तेनेष्टमश्वमेधेन वै नृप ।। १७ ।।
दत्तानि सर्वदानानि हरिवंशे श्रुतेऽखिले ।
राजसूयाश्वमेधाद्या यज्ञाश्चैव युगे युगे ।। १८ ।।
श्रवणं हरिवंशस्य कलौ यज्ञफलप्रदम् ।
श्रद्धावानास्तिको दान्तो हरिवंशं यदारभेत् ।। १९ ।।
पातकानि प्रकम्पन्ते प्रत्यूहानि ज्वलन्ति च ।
समारभ्य नयेत् पारं हरिवंशं य आदितः ।। 5.२० ।।
स्पर्शनाद् दर्शनात्तस्य विष्णुर्दृष्टो भवेन्नृप ।
जन्मत्रयस्य निकषः पातकस्य क्षयो धुवम् ।। २१ ।।
फलाप्तिश्च समाप्तौ च हरिवंशस्य बुद्ध्यते ।
श्रोतुर्भारत विज्ञेयं पूर्वं सुकृतिलक्षणम् ।। २२ ।।
येन संजायते बुद्धिर्हरिवंशावधारणे ।
सर्वाणि च पुराणानि वेदाश्च स्मृतयस्तथा ।। २३ ।।
हरिवंशेन बद्धार्था व्यासेन च महर्षिणा ।
श्रुतिस्मृतिपुराणानां निन्दकेभ्यः कथंचन ।। २४ ।।
पापिभ्यश्च महाराज श्रावयेन्नैव वाचकः ।
श्रुत्या तुष्टेन मनसा वाचकं परिपूजयेत् ।।२५ ।।
दान्तं यशस्विनं कान्तं शुचिं स्पष्टाक्षरब्रुवम् ।
त्रिशुक्लमाचारपरमक्रोधनमवादिनम् ।। २६ ।।
ग्रामं दद्यात्सुवसितं कुण्डलोष्णीषमालिकाम् ।
पादुकोपानहौ छत्रं सवितानं मसूरिकाम् ।। २७ ।।
एवं कृत्वा तु विधिवद् वाचकाय प्रदापयेत् ।
यानं बार्षं हयगजौ क्षौमं मणिमयासनम् ।। २८ ।।
पञ्च भाण्डानि ताम्रस्य ताम्रस्यैवाम्बुभाजनम्।
सकुटुम्बं च सस्त्रीकं वाचकं परया मुदा ।। २९ ।।
विभूषणैरलंकृत्य परिधाय्य सुवाससी ।
कृष्णद्वैपायनं ध्यायन् नमस्कुर्वीत भावतः ।। 5.३० ।।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।
वित्तशाठ्यं न कर्तव्यं हरिवंशफलेप्सुभिः ।। ३१ ।।
प्रदेया गौः शुभा चैका सवत्सा हेमपूरिता ।
पलेन च पलार्धेन तदर्धं वाथ वा पुनः ।। ३२ ।।
वाचकं येन केनापि तोषयेत् सुसमाहितः ।
तुष्टे तु वाचके राजंस्तुष्टाः स्युः सर्वदेवताः ।। ३३ ।।
तुष्टेषु सर्वदेवेषु कार्यं तु सफलं भवेत् ।
हरिवंशे समाप्ते तु वाचके परिपूजिते ।। ३४ ।।
ऋणत्रयेण मुक्ताः स्युस्ते नरा जनमेजय ।
मोदन्ते पितरस्तेषां लोकान् प्राप्याक्षयान्नृप ।।३५ ।।
हरिवंशस्य प्रारम्भे समाप्तौ चैव तैः सह ।
सर्वान् कामानवाप्नोति विपाप्मा जायते नरः ।। ३६ ।।
एवं कृते विधाने तु प्रजां प्राप्नोति मानवः ।
धनमारोग्यमायुष्यं सौभाग्यं गुणगौरवम् ।। ३७ ।।
प्राप्नोति मनुजः सम्यङ्नात्र कार्या विचारणा ।। ३८ ।।
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम पञ्चमोऽध्यायः ।। ५ ।।