हरिवंशपुराणम्/माहात्म्यम्/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search

चतुर्थोऽध्यायः

नवाहव्रतिभ्यः श्रोताभ्यः पालनीयानि नियमानि, तेभ्यः त्याजनीयानि द्रव्याणां उल्लेखम्, न्यायविरुद्धेन कथाश्रवणीयानां दुर्गतिः, कथायां विघ्नकरणेन एका नार्या नरकयातना राक्षसयोनेः च प्राप्तिः, श्रोतॄणां चतुर्दश भेदाः

वैशम्पायन उवाच
नवाहव्रतिनां पुंसां नियमाञ्छृणु सत्तम ।
एककालाशनश्चैव अधःशायी भवेन्नरः ।। १ ।।
स्थातव्यं ब्रह्मचर्येण यावद् ग्रन्थः समाप्यते ।
हरिवंशे तथा राजन् पायसं चरुभोजनम् ।। २ ।।
पारणे पारणे यातं यथावद् भरतर्षभ ।
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।। ३ ।।
हविष्यान्नेन कर्तव्यमेकवारं कथार्थिना ।
उपोष्य नवरात्रं वा शक्तिश्चेच्छृणुयात्तदा ।। ४ ।।
घृतपानं पयःपानं कृत्वा वा शृणुयात्सुखम्।
फलाहारेण वा भाव्यमेकभुक्तेन वा पुनः ।। ५ ।।
सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत्।
भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।। ६ ।।
नोपवासो वरः प्रोक्तो कथाविघ्नकरो यदि ।
शृणुयाद्यः शुचिस्तिष्ठन्नेकचित्ततया सदा ।। ७।।
प्रातःस्नानादिकं कृत्वा पुत्रदारसमन्वितः ।
पुराणश्रवणं कुर्यात् कृष्णपूजनपूर्वकम् ।। ८ ।।
पुष्पधूपफलैः सम्यङ् नैवेद्यैः श्रद्धयोद्धृतैः ।
गुरोः शुश्रूषणं तेन कर्तव्यं फलकाङ्क्षिणा ।। ९ ।।
श्रुत्वा यथेच्छया शौचं कार्यं पुण्येन वर्त्मना ।
सायंकाले गुरुश्रेष्ठं तोषयित्वा सबान्धवः ।। 4.१० ।।
स्वपरिग्रहसङ्गेन सुखं स्वपिति वै तदा ।
नियमादि प्रकर्तव्यं पापानां विनिवर्तने ।। ११ ।।
यथासुखं व्यवहरेन्नित्यं विष्णुपरायणः ।
शुचिःशुद्धमनास्तिष्ठन् पत्रावल्यां च भोजनम्। १२ ।।
कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ।
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ।। १३ ।।
भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती ।
वृन्ताकं च कलिङ्गं च दग्धमन्नं मसूरिकाम् ।। १४ ।।
निष्पावानामिषाद्यं च वर्जयेच्च कथाव्रती ।
पलाण्डुं लशुनं हिंगुं मूलकं गृञ्जनं तथा ।। १५ ।।
नालिकामूलकूष्माण्डं नैवाद्याच्च कथाव्रती ।
कामं क्रोधं मदं मानं मत्सरं लोभमेव च ।। १६।।
दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ।
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ।। १७ ।।
स्त्रीराजमहतां निन्दां वर्जयेच्च कथाव्रती ।
रजस्वलान्त्यजम्लेच्छपतितव्रात्यकैः सह ।। १८ ।।
द्विजद्विड्वेदबाह्यैश्च न वदेच्च कथाव्रती ।
सत्यं शौचं दया मौनमार्जवं विनयं तथा ।। १९ ।।
उदारं मानसं तद्वत् कुर्यादेव कथाव्रती ।
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ।। 4.२० ।।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।
अभक्त्या ये कथां पुण्यां शृण्वन्ति मनुजाधमाः ।।२१।।
तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ।
पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः ।। २२
शृण्वन्ति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ।
कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः ।। २३ ।।
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ।
सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम्।।२४।।
ते बलाका प्रजायन्ते पापिनो मनुजाधमाः ।
ताम्बूलं भक्षयन्तो ये कथां शृण्वन्ति पावनीम्।। २५ ।।
स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ।
नार्या रजस्वलायाश्च योनितुल्यं मुखं भवेत् ।। २६ ।।
ये. तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।
अक्षय्यान्नरकान् भुक्त्वा ते भवन्त्येव वायसाः ।।२७।।
ये च वीरासनारूढा ये च शय्यासनस्थिताः ।
शृण्वन्ति तत्कथां ते वै भवन्त्यर्जुनपादपाः ।। २८ ।।
असम्प्रणम्य शृण्वन्तो विषवृक्षा भवन्ति ते ।
तथा शयानाः शृण्वन्तो भवन्त्यजगरा नराः ।। २९ ।।
यः शृणोति कथां वक्रः समानासनमास्थितः ।
गुरुतल्पसमं पापं सम्प्राप्य नरकं व्रजेत् ।। 4.३० ।।
ये निन्दन्ति पुराणज्ञान् कथां वा पापहारिणीम् ।
ते वै जन्मशतं मर्त्याः शुनकाः सम्भवन्ति च ।। ३१।।
कथायां वर्तमानायां ये वदन्ति दुरुत्तरम् ।
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ।।३२ ।।
कदाचिदपि ये पुण्यां न शृण्वन्ति कथां नराः ।
ते भुक्त्वा नरकान् घोरान् भवन्ति वनशूकराः ।।३३।।
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये शठाः ।
कोट्यब्दान्नरकान्भुक्त्वा भवन्ति ग्रामसूकराः।३४।।
मध्ये वार्तां न कुर्वीत चेत् कुर्यान्निरयं व्रजेत् ।
कथायां श्रूयमाणायां न कुर्याच्छिशुलालनम् ।। ३५ ।।
नर्मवादान् वदेन्नैव स्त्रिया सम्भाषणं तथा ।
न कर्तव्यं प्रयत्नेन कथाविच्छेदकारणम् ।। ३६ ।।
विच्छेदेन कथायास्तु ब्रह्महत्यासमं त्वघम् ।
प्राप्नोति नृपशार्दूल कथाविच्छेदकः पुमान् ।। ३७ ।।
न कुर्यात्तु कथामध्ये त्वन्यवार्ताः प्रयत्नतः ।
नारी वा पुरुषो वापि कुर्यान्निरयमाप्नुयात् ।। ३८ ।।
इतिहासं वदाम्यत्र शृणुष्वैकं हि मानद ।
यं श्रुत्वा न वदेद् वार्तां कथामध्ये कदाचन ।। ३९ ।।
जनस्थाने पुरा कश्चिद् ब्राह्मणो वेदपारगः ।
धर्मशास्त्रेऽतिनिपुणः सदाचारपरायणः ।। 4.४० ।।
गङ्गास्नानं विधायादौ कृत्वा माध्याह्निकं तथा ।
कृत्वा देवार्चनं चैव श्रवणे तत्परोऽभवत् ।। ४१ ।।
तस्य भार्यातिदुष्टा च कर्कशा कलहप्रिया ।
असत्यालापनिपुणा परद्वेषपरायणा ।। ४२ ।।
हृत्वा चक्रे धनस्यापि संग्रहं पापनिश्चया ।
दधि दुग्धं समानीय शर्करागुडमेव च ।। ४३ ।।
घृतं च नवनीतं च स्वयमानीय सर्वदा ।
एकान्ते भक्षणं चक्रे भर्तर्यन्नं प्रशुष्ककम् ।। ४४ ।।
दुराग्रहा दुष्टमनाः पतिनिन्दापरायणा ।
बहुपापप्रकर्त्री च परवेश्मोपवेशिनी ।। ४५ ।।
सुभाषणं वदेन्नैव द्विषः क्षेमविधायिनी ।
पंक्तिभेदं प्रकुर्वाणा सदा निष्ठुरभाषिणी ।। ४६ ।।
अतिथिषु सदा वैरकारिणी धर्मनाशिनी ।
सज्जनोऽपि गुणी सौम्यस्तस्या भर्ता सुपूजितः ४७ ।।
यदा भर्ता पुराणस्य श्रवणाय हि संस्थितः ।
प्रत्यहं तत्र गत्वा तु तस्य निन्दां चकार ह ।। ४८ ।।
संन्यासिवत् कथं ह्यत्र श्रवणे व्यासवत् कृतः ।
समुत्पन्ननिरुद्योग किं कर्तव्यं मया वद ।। ४९ ।।
शिशवो मां पीडयन्ति भक्षणाय दिने दिने ।
किं तेषां व प्रकर्तव्यं भक्षणार्थं मया वद ।। 4.५० ।।
नास्त्येवान्नं गृहे किञ्चिद् वस्त्रं वाप्यथवा धनम् ।
किं मया च प्रकर्तव्यं कुत्र गन्तव्यमेव च ।। ५१ ।।
कथं विलिखितं दिष्टं धात्रा पापेन मे पुरा ।
मूर्खश्चालस्यसंयुक्तो दरिद्रो निष्ठुरस्तथा ।। ५२ ।।
स्नेहहीनः कुटुम्बे च कथायाः श्रवणे रतः ।
एतादृशः पतिर्मह्यं धात्रा दत्तो दुरात्मना ।। ५३ ।।
पृथिव्यां दुर्भगैकाहं दरिद्रगृहमागता ।
उदरापूर्तिमात्रं हि नान्नं मे भक्षितं कदा ।। ५४ ।।
सौभाग्यास्ताः स्त्रियो लोके यासामुद्योगशालिनः ।
पतयो धनधान्यादिसमृद्धिपरिशोभिताः ।। ५५ ।।
ते वै स्त्रीणां वाक्यकराः शिशुपालनतत्पराः ।
नित्यं गृहेषु तिष्ठन्ति स्त्रीणां संतोषकारकाः ।। ५६ ।।
सदन्नभक्षणात् पुष्टा भार्याज्ञापरिपालकाः ।
व्यवसायं च भार्याणां कुर्वन्ति बुद्धिशालिनः ।। ५७ ।।
अयं मूर्खश्च जडधीरुपेक्षां कुरुते गृहे ।
अद्य तैलं गृहे नास्ति चेन्धनं लवणं तथा ।। ५८ ।।
शाकश्च मम नास्त्येव धान्यलेशो न मद्गृहे ।
किं मया तु प्रकर्तव्यं पतिरेतादृशो मम ।। ५९ ।।
कथायां श्रूयमाणायां पत्या सन्मार्गमूर्तिंना ।
धान्यादौ विद्यमानेऽपि मिथ्याभाषणतत्परा ।। 4.६० ।।
कथाविघ्नं चकारासौ कर्कशा सा दिने दिने ।
ततः कालेन मरणं प्राप्ता सा दुष्टमानसा ।। ६१ ।।
यमदूतैस्तु बद्धा सा नीता च यममन्दिरे ।
ततो यमाज्ञया तैस्तु नरके पातिता चिरम् ।। ६२ ।।
पश्चात् सा राक्षसी जाता भैरवे जलवर्जिते ।
अरण्ये क्षुत्तृषायुक्ता पूर्वपापप्रभावतः ।। ६३ ।।
तस्माद् विघ्नं न कर्तव्यं भार्यया पुरुषेण वा ।
श्रीहरेः सत्कथायास्तु तव सत्यं वदाम्यहम् ।। ६४ ।।
मीनालिनो महिषहंसबकस्वभावा मार्जारकाकवृककंकजलौकतुल्याः ।
सच्छिद्रकुम्भजलसिन्धुशिलोपमाश्च ते श्रावकाश्च सुचतुर्दशधा भवन्ति ।। ६५।।
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।
अनपत्यो मोक्षकामः शृणुयात् स कथामिमाम् ।।६६।।
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।
स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः ।। ६७ ।।
सुपुत्रं लभते राजन् व्यासस्य वचनं यथा ।
सर्वान्कामानवाप्नोति कथां श्रुत्वा हरेरिमाम् ।।६८।।
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम चतुर्थोऽध्यायः ।। ४ ।।