हरिवंशपुराणम्/माहात्म्यम्/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search

तृतीयोऽध्यायः

( २) हरिवंशश्रवणस्य विधिः फलं च

वैशम्पायन उवाच
जपाद्धि श्रवणं प्रोक्तं हरिवंशस्य सूरिभिः ।
पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।। १।।
सुमण्डपं च कर्तव्यं तत्र स्थाप्यो हरिस्तथा ।
कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधिं क्रमात् ।। २ ।।
प्रदक्षिणानमस्कारान् पूजान्ते स्तुतिमाचरेत्।
संसारसागरे मग्नं दीनं मां करुणानिधे ।। ३ ।।
कर्मग्राहगृहीतोऽहं मामुद्धर भवार्णवात् ।
ततः श्रीहरिवंशस्य पूजा कार्या प्रयत्नतः ।। ४ ।।
विधिना षोडशेनैव धूपदीपसमन्विता ।
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।। ५ ।।
स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ।
स्वीकृतोऽसि मया नाथ पुत्रार्थं भवसागरे ।। ६ ।।
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।
निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव ।। ७ ।।
एवं दीनवचः प्रोक्त्वा वक्तारं चाथ पूजयेत् ।
सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत्।। ८ ।।
व्यासरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ।। ९ ।।
तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।
नवरात्रं यथाशक्त्या धारणीयः स एव हि ।। 3.१० ।।
वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये ।
कर्तव्यं तैर्हरेर्जाप्यं द्वादशाक्षरविद्यया ।। ११ ।।
संतानगोपालमन्त्रो महारुद्रजपस्तथा ।
पूजनं पार्थिवस्यैव गणनाथमनोर्जपः ।। १२ ।।
ब्राह्मणान् वैष्णवांश्चान्यांस्तथा कीर्तनकारिणः ।
नत्वा सम्पूज्य दत्ताज्ञः स्वयमासनमाविशेत् ।। १३ ।।
लोकवित्तधनागारसर्वचिन्ता व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ।। १४ ।।
दम्पती शुद्धमनसौ श्रद्धाभक्तिसमन्वितौ ।
श्रद्धैव सर्वधर्माणां मातेव हितकारिणी ।। १५ ।।
श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ।
श्रद्धया भजतः पुंसः शिलापि फलदायिनी ।। १६ ।।
मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति ज्ञानदः ।
श्रद्धया भजतो मन्त्रस्त्वसद् योऽपि फलप्रदः ।। १७ ।।
श्रद्धया पूजितो देवो नीचस्यापि वरप्रदः ।
अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ।। १८ ।।
सर्वं निष्फलतां याति पुष्पं बन्धुतरोरिव ।
सर्वत्र संशयाविष्टः भद्धाहीनोऽतिचञ्चलः ।। १९ ।।
परमार्थात् परिभ्रष्टः संसृतेर्न हि मुच्यते ।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।। 3.२० ।।
यादशी भावना यस्य सिद्धिर्भवति तादृशी ।
अतो भावमयं विश्वं पुण्यपापं च भावतः ।। २१ ।।
ते उभे भावहीनस्य न भवेतां कदाचन ।
तस्मात्सर्वात्मना राजञ्छ्रद्धाभक्ती समाश्रयेत्।। २२ ।।
आ सूर्योदयमारभ्य सार्धं त्रिप्रहरार्धकम् ।
वाचनीया कथा सम्यग् धीरकण्ठं सुधीमता ।। २३ ।।
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयम् ।
तत् कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ।। २४ ।।
एवं श्रुत्वा विधानेन सर्वान्कामानवाप्नुयात्।। २५ ।।
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम तृतीयोऽध्यायः