हरिवंशपुराणम्/माहात्म्यम्/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

द्वितीयोऽध्यायः

(१) हरिवंशश्रवणस्य विधिः फलं च

वैशम्पायन उवाच
अथ ते सम्प्रवक्ष्यामि नवाहश्रवणे विधिम् ।
सहायैर्बहुभिश्चैव प्रायः साध्यो विधिस्त्वयम् ।। १ ।।
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्प्य च ।। २ ।।
नभस्यश्चाश्विनोर्जौ च मार्गशीर्षः शुचिर्नभः ।
एते मासाः कथारम्भे श्रोतॄणां कामसूचकाः ।। ३ ।।
सहायाश्च त एवात्र कर्तव्याः सोद्यमाश्च ये ।
देशे देशे तथा सेयं वार्ता प्रोच्या प्रयत्नतः ।। ४ ।।
भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ।
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।। ५ ।।
तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् ।
सतां समाजो भविता नवरात्रं सुदुर्लभः ।। ६ ।।
आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ।
तीर्थे वापि वने वापि गृहे वा श्रवणं स्मृतम् ।। ७ ।।
विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ।
शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ।। ८ ।
गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ।
कर्तव्यो मण्डपः प्रोच्चैः कदलीस्तम्भमण्डितः ।। ९ ।।
फलपुष्पदलैर्विष्वग्वितानेन विराजितः ।
चतुर्दिक्षु ध्वजारोपस्तोरणेन विराजितः ।। 2.१० ।।
ऊर्ध्वं सप्तैव लोकाश्च सप्ताधः परिकल्पयेत् ।
तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य वै ।। ११ ।।
पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् ।
वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत्। १२ ।।
उदङ्मुखो भवेद् वक्ता श्रोता वै प्राङ्मुखस्तथा ।
प्राङ्मुखोऽथ भवेद् वक्ता श्रोता चोदङमुखस्तथा ।।
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशारदः ।
दृष्टान्तकुशलो धीरो वक्ता कार्यो दयान्वितः ।। १४ ।।
वेदवेदान्ततत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ।
नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ।। १५ ।।
अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः ।
नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ।। १६।।
अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।
धर्मशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ।। १७ ।।
वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ।। १८ ।।
वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग् व्रताप्तये ।
वक्तुः श्रोतुश्चन्द्रशुद्धौ दम्पत्योः शुभतारके ।। १९ ।।
अरुणोदये विनिर्वर्त्य शौचं स्नानं समाचरेत् ।
नित्यं संक्षेपतः कृत्वा संध्याद्यं प्रयतस्ततः ।। 2.२० ।।
सुक्षालितपाणिपादः स्वस्तिवाचनपूर्वकम्।
गोमयोपलिप्तदेशे सर्वतोभद्रकल्पनम् ।। २१ ।।
स्वीयशक्त्यनुसारेण पूजनं सर्वमाचरेत् ।
कथाविघ्नविनाशाय गणनाथं प्रपूजयेत् ।। २२ ।।
सलक्ष्मीपुत्रसहितं गोपालं स्थापयेत् ततः ।
निर्विघ्नेनैव सिद्ध्यर्थं देवपूजनपूर्वकम् ।। २३ ।।
संकल्पं कुर्यात्-
अद्येहेत्यादिदेशकालौ स्मृत्वा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः सपत्नीकस्य मम जन्मनि जन्मनि संचितमहापातकपटलनाशपूर्वकं तेन पापसंचयेन कृतसंतानबाधकताविनाशपूर्वकमिह जन्मनि संतानोत्पत्तिहेतवे तस्य संतानस्य शरदां शतमायुषो वृद्ध्यर्थमात्मनश्च सकलसुखाप्तिहेतवे इह शरीरशुद्धयर्थं परत्र चेन्द्रादिलोकातिक्रमणपूर्वकश्रीमद्विष्णुभक्त्युद्रेकजनितकल्पावधितल्लोकगमन तत्र वासपूर्वक तत्स्वरूपावाप्तिहेतवे आवां दम्पती श्रीमद्धरिवंशपुराणश्रवणं कर्तृकतया करिष्यावहे ।
अन्यतरकर्तृत्वे करिष्ये इत्येव संकल्पः ।
इति कृत्वा तु संकल्पं वक्तारं वृणुयात्ततः ।
श्रुताध्ययनसम्पन्नं पूजयित्वा यथाविधि ।। २४ ।।
सुवर्णमुद्रिकां गृह्य कुण्डले च विशेषतः ।
धौतवस्त्रं सोत्तरीयं चोष्णीषेण समन्वितम् ।। २५ ।।
सुवर्णषोडशपलं पुष्पताम्बूलसंयुतम् ।
पूगीफलं चाक्षतान् वै गृहीत्वा शुद्धमानसः ।। २६ ।।
संकल्पः –
अद्येहेत्यादि अमुकगोत्रममुकशर्माणं ब्राह्मणमेभिश्चन्दनताम्बूलसुवर्णवस्त्रादिभिर्हरिवंशश्रवणे वाचकत्वेनावां दम्पती त्वां वृणीवहे ।
वृतोऽस्मीति तेनोक्ते-
व्रतेन दीक्षामाप्नोति इति मन्त्रेण वक्तुर्दक्षिणकरमूले रक्षाबन्धनं कार्यम् ।
ब्राह्मणेन श्रोतॄणां रक्षाबन्धनं कार्यम् ।
( ३) यजमानः
व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम्।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते।।
चन्दनाद्युपचारैस्तु वस्त्रपुष्पाक्षतैस्तथा ।
हेमालंकरणैः पूगैः फलैर्ऋतुसमुद्भवैः ।। २७ ।।
पुराणपूजनं प्रोक्तं विधिना षोडशेन तु ।
पूजयित्वा द्विजश्रेष्ठाञ्श्रवणं फलदं स्मृतम् २८ ।।
तस्मात् सर्वप्रयत्नेन श्रोतव्यं विधिपूर्वकम् ।
अथ व्यासं नमस्कुर्युर्मन्त्रमेतमुदीरयेत् ।। २९ ।।
नमस्ते भगवन् व्यास सर्वशास्त्रार्थकोविद ।
ब्रह्मविष्णुमहेशानमूर्ते सत्यवतीसुत ।। 2.३० ।।
इति व्यासं नमस्कृत्य शुभदेशे कुशासने ।
उपविश्य प्रतिदिनमुल्लसत्प्रीतमानसः ।। ३१ ।।
बालो युवाथ वृद्धो वा दरिद्रो दुर्बलोऽपि वा ।
पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ।। ३२ ।।
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम्।। ३३ ।।
गुरवः सन्ति लोकस्य जन्मतो गुणतश्च ये ।
तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ।। ३४ ।।
भवकोटिसहस्रेषु भूत्वा भूत्वा च सीदते ।
यो ददाति पुण्यवृत्तिं कोऽन्यस्तस्मात्परो गुरुः ।।३५ ।।
पुराणज्ञः शुचिर्दान्तः शान्तोऽपि जितमत्सरः ।
साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधीः।।३६।।
व्यासासनसमारूढो यदा पौराणिको द्विजः ।
आ समाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ।। ३७
ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।
तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ।। ३८ ।।
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।
देशे नापूतसदने वदेत् पुण्यकथां सुधीः ।। ३९ ।।
सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ।
पुण्ये नदनदीतरे वदेत् पुण्यकथां सुधीः ।। 2.४० ।।
ईदृशाद् वाचकाद् राजञ्छ्रुत्वा फलमवाप्नुयात्।
ऐहिकामुष्मिकं शर्म पुण्यं पुत्रादिसिद्धिदम् ।। ४१ ।।
महापापादिशमनं पुराणं हरिवंशकम् ।
योज्यं पुत्रादिसिद्ध्यर्थं हरिवंशं जितेन्द्रियैः ।। ४२ ।।
शृणुयात् सर्वभावेन पुण्यं पापप्रणाशनम् ।। ४३ ।।
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम द्वितीयोऽध्यायः ।। २ ।।