हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १२७
← अध्यायः १२६ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः १२७ [[लेखकः :|]] |
अध्यायः १२८ → |
गोवर्धनपर्वतस्य समीपे हंसडिम्भकाभ्यां सार्द्धं यादवानां युद्धं, श्रीकृष्णेन भूतेश्वरानां पराजयं, श्रीकृष्णहंसयोः घोरं युद्धम् |
सप्तविंशत्यधिकशततमोऽध्यायः
वैशम्पायन उवाच
उभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् ।
जग्मतुः सहितौ राजन् गोवर्धनमथो नृप ।। १ ।।
अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।
गोवर्धनं जगामाशु केशवः केशिसूदनः ।। २ ।।
शैनेयो बलभद्रश्च यादवाः सारणादयः ।
गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम् ।। ३ ।।
जग्मुस्ते सहिता राजन् गोवर्धनमथो गिरिम् ।
गोधनैरथ सैन्यैश्च नादितं वहुधा गिरिम् ।। ४ ।।
तस्योत्तरं नृपश्रेष्ठ पार्श्वं सम्प्राप्य यादवाः ।
निकषा यमुनां राजंस्ततो युद्धमवर्तत ।। ५ ।।
विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः ।
सारणः पञ्चविंशत्या दशभिः कङ्क एव च ।। ६ ।।
हंसेन डिम्भकेनाथ यादवैश्च समन्ततः ।
उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम् ।। ७ ।।
विराटस्त्रिंशता राजन् सात्यकिश्चापि सप्तभिः ।
अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः ।। ८ ।।
प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः ।
अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वणाम् ।। ९ ।।
एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत्।
अत्यद्भुतं महाघोरं यादवाः सर्व एव हि ।। 3.127.१० ।।
चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।
सर्वानपि महाराज यादवान् बलदर्पितान् ।। ११ ।।
तावुभौ हंसडिम्भकौ नृपांस्तान् प्रत्यविध्यताम् ।
प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितनिर्मलैः ।। १२।।
जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् ।
व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ।। १३ ।।
माधवे किंशुका राजन् पुष्पिता इव ते बभुः ।
भीताश्च यादवा राजन् पलायनपरायणाः ।। १४ ।।
एतस्मिन्नन्तरे राजन् वसुदेवात्मजो नृप ।
वासुदेवो हली युद्धे प्रमुखे धन्विनौ तयोः ।। १५ ।।
चक्रतुर्युद्धमतुलं स्कन्दशक्राविवाम्बरे ।
तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः ।। १६ ।।
विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् ।
ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप ।। १७
शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः ।
हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ ।। १८ ।।
रामश्च डिम्भकश्चैव संयुक्तौ युद्धकाङ्क्षया ।
विक्रान्ताः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले ।। १९ ।।
शङ्खान् दध्मुः पृथग्घ्रादं स्वे स्वे सर्वे रथे स्थिताः ।
अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम् ।।3.127.२०।।
दध्मौ पद्मपलाशाक्षः सर्वान् विस्मापयन्निव ।
अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ।। २१ ।।
दुद्रुवतुर्महाराज शूलमादाय केशवम् ।
शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम् ।। २२ ।।
ताभ्यां समाहतो विष्णुर्देवगन्धर्वसंनिधौ ।
ईषत्स्मिताधरो देवः किंचिदुत्प्लुत्य सत्वरम् ।। २३ ।।
रथाद् रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः ।
भ्रामयित्वा शतगुणमलातमिव केशवः ।। २४ ।।
कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ।
तावुपेत्य गिरेः शृङ्गं कैलासस्य महामते ।। २५ ।।
दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ।
हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ।। २६ ।।
उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम् ।
किमर्थं राजसूयस्य विघ्नं चरसि केशव ।। २७ ।।
ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।
करं दिश यथायोगं यदि प्राणान् हि रक्षसि ।। २८।।
अथवा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु ।
ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः ।। २९ ।।
ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् ।
एष ते वीर्यमतुलं नाशयिष्यामि संयुगे ।। 3.127.३० ।।
इत्युक्त्वा सशरं चापं शालतालोपमं नृप ।
आकृष्य च यथाप्राणं नाराचेन च केशवम् ।। ३१ ।।
ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् ।
उवाच सात्यकिं कृष्णो रथं वाहय मे प्रभो ।। ३२ ।।
दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः ।
अथ तेन समादिष्टः सात्यकिर्वाहयन् रथम् ।। ३३ ।।
मण्डलानि बहून्याजौ दर्शयामास सत्वरम् ।
अथ विद्धो दृढं तेन शरेण हरिरीश्वरः ।। ३४ ।।
आग्नेयमस्त्रं संयोज्य शरे कस्मिंश्चिदव्ययः ।
उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन् रणे ।। ३५ ।।
अनेन त्वां दहे पाप यदि शक्तोऽसि वारय ।
अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ ।। ३६ ।।
मत्तश्चेत् करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् ।
यतयो बाधिता हंस पुष्करे संस्थितास्त्वया ।। ३७ ।।
शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।
स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ।। ३८ ।।
शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् ।
शापेन यतिमुख्यानां हत एव नराधम ।।३९।।
मृत्यवे त्वां निवेद्याद्य रक्षिता ब्राह्मणानहम् ।
इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः ।। 3.127.४० ।।
तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् ।
वायव्यमथ गोविन्दो मुमोच युधि हंसके ।। ४१ ।।
तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः ।
अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे ।। ४२ ।।
रौद्रेण तत् ततो हंसो वारयामास तत्क्षणात् ।
गान्धर्वं राक्षसं चैव पैशाचमथ केशवः ।। ४३ ।।
ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च ।
चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम् ।। ४४ ।।
वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ।
अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम् ।। ४१ ।।
मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः ।
योजयामास तद्धंसे महाघोरपराक्रमम् ।। ४६ ।।
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तमः ।
हंसोऽपि तेन राजेन्द्र वारयामास तं शरम् ।। ४७ ।।
यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।
अस्त्रं वैष्णवमादाय शरे स निशिते हरिः ।। ४८ ।।
योजयामास भूतात्मा भूतभावनभावनः ।
येन देवा रणे हत्वा राज्यमापुः पुरासुरान् ।
तदस्त्रं योजयामास वधार्थं तस्य भूपतेः ।। ४९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि
हंसडिम्भकोपाख्याने हंसकेशवयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः।।१२७।।