हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १२०
← अध्यायः ११९ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः १२० [[लेखकः :|]] |
अध्यायः १२१ → |
भगवता श्रीकृष्णेन यादवसेनासहितं पुष्करतीर्थं गत्वा हंसडिम्बकयोः प्रतीक्षणम् |
विंशत्यधिकशततमोऽध्यायः
वैशम्पायन उवाच
प्रविश्य स पुरं विष्णोः सात्यकिः शिनिपुङ्गवः ।
आचचक्षेऽथ कृष्णाय यथा वृत्तं तयोस्तथा ।। १ ।।
ततः प्रभाते विमले केशवः केशिसूदनः ।
बलाध्यक्षानुवाचेदं चक्रपाणिर्गदाधरः ।। २ ।।
संनह्यतां बलं सर्वं रथकुञ्जरवाजिमत् ।
अनेकभेरीपणवं प्रासासिपरिघाकुलम् ।। ३ ।।
सध्वजं सपताकं च सालंकारपरिच्छदम् ।
ते तथेति प्रतिज्ञाय सर्वं चक्रुरधीनगाः ।। ४ ।।
आदाय सुदृढं चापं रथमारुह्य दंशिताः ।
अग्रतो जग्मुरत्यर्थं सेनायाः पुरुषोत्तमाः ।। ५ ।।
सात्यकिश्च तथा राजन् प्रगृहीतशरासनः ।
बभौ क्रोधसमायुक्तो जगामाग्रे महाबलः ।। ६ ।।
अन्ये च यादवाः शूरा प्रगृहीतमहायुधाः ।
सिंहनादं प्रकुर्वन्तो जग्मुरत्यर्थमुत्तमाः ।। ७ ।।
हरिस्तु रथमारुह्य संस्कृतं दारुकेण ह ।
शार्ङ्गं भारसहं घोरं गृहीत्वा सशरं धनुः ।। ८ ।।
चक्रपाणिस्तदा शङ्खी गदाशरवरासिमान् ।
बद्धगोधाङ्गुलित्राणः पीतवासा जनार्दनः ।। ९ ।।
पद्ममालावृतोरस्को नवजीमूतसंनिभः ।
ययौ रथगतो विप्रैः स्तूयमानो मुदान्वितैः ।। 3.120.१० ।।
सूतैर्मागधपुत्रैश्च गीयमानस्ततस्ततः ।
आनीय सेनां सकलां ययौ काष्ठामथोत्तराम् ।। ११ ।।
पाञ्चजन्यं मुखे न्यस्य सर्वप्राणेन केशवः ।
दध्मौ महारवं कुर्वञ्छत्रूणां भयवर्धनम् ।। १२ ।।
आध्मातस्तेन हरिणा स चक्रे शङ्खराट् ध्रुवम्।
रवः स रोदसी राजन् पूरयामास सर्वतः ।। १३ ।।
तस्मिञ्छङ्खे तथाऽऽध्माते दध्मुः शङ्खान्सहस्रशः ।
भेर्यश्चापि समाध्माता मृदङ्गा बहवो नृप ।। १४ ।।
नेदुरत्यर्थमतुलं घर्मान्ते जलदा यथा ।
अथाययुर्महाराज पुष्करं पुण्यवर्धनम् ।। १५ ।।
सरसस्तस्य राजेन्द्र पुष्करस्य नृपोत्तमाः ।
प्रतीक्ष्य हंसडिम्भकौ युद्धाय समवस्थिताः ।। १६ ।।
निवेशं कारयामासुर्यादवाः सर्व एव हि ।
स्वं स्वं ययुः सुखं राजन् प्रगृहीतकुटीमठम् ।। १७ ।।
भगवानपि गोविन्दः सरो दृष्ट्वा सुशोभनम् ।
उपस्पृश्य जले तस्मिन् प्रणम्य यतिपुङ्गवान् ।। १८ ।।
तयोरागमनं लिप्सुरास्ते तीरे यथासुखम् ।
शृण्वन् वेदध्वनिं विष्णुर्ब्राह्मणानां समन्ततः ।। १९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णपुष्करप्रवेशे विंशत्यधिकशततमोऽध्यायः ।। १२० ।।