हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०७

विकिस्रोतः तः
← अध्यायः १०६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०७
[[लेखकः :|]]
अध्यायः १०८ →
सेनासहितस्य हंसडिम्भकाभ्यां पुष्करतटे विश्रमणं, महर्षेः कश्यपस्य वैष्णवसत्रस्य दर्शनं, दुर्वासादीनां यतीनां समुदाये गत्वा तेषां प्रति स्वअश्रद्धायाः प्रदर्शनम्

सप्ताधिकशततमोऽध्यायः

वैशम्पायन उवाच
जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च ।
सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान् ।। १ ।।
तानागतान् महात्मानो मुनयः शिष्यसंयुताः ।
अर्घ्यपाद्यासनादीनि चक्रुः पूजां प्रयत्नतः ।। २ ।।
तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च ।
प्रीतात्मानो महात्मान आसते ससुखं नृप ।। ३ ।।
ततो हंसो बभाषे तान् मुनीन् संयतवाङ्नृप ।
पिता हि नौ मुनिश्रेष्ठा यष्टुमैच्छत् ससाधनम् ।। ४ ।।
गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः ।
राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम् । ५ ।।
याजपिष्यामहे विप्राः पितरं धार्मिकं नृपम् ।
आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः।। ६ ।।
वयमद्यैव सहितौ दिशो जेष्यामहे वयम् ।
शक्ता वयमिहैवैतत् कर्तुं सैनिकसंचयैः ।। ७ ।।
आवयोः पुरतः स्थातुं न शक्ता देवदानवाः ।
कैलासनिलयाद् देवाद् वरं लब्धाः स्म यत्नतः ।। ८ ।।
अजय्यौ शत्रुसंघानामस्त्राणि विविधानि च ।
इत्युक्त्वा विररामैव हंसो मदबलान्वितः ।। ९ ।।
मुनय ऊचुः
यदि स्यात् तत्र गच्छामो वयं शिष्यैर्नृपोत्तम ।
आस्महे वान्यथा राजन्नित्यूचुः किल तापसाः ।। 3.107.१० ।।
वैशम्पायन उवाच
ततो देशान् महाराज गन्तुं निश्चितमानसौ ।
पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति ।। ११ ।।
यतयो नियता भूत्वा मन्त्रब्रह्मनिषेविणः ।
ब्रह्मसूत्रपदे सक्तास्तदर्थालोकतत्पराः ।। १२ ।।
निर्ममा निरहंकाराः कौपीनाच्छादनव्रताः ।
तमात्मानं जगद्योनिं विष्णुं विश्वेश्वरं विभुम् ।। १३ ।।
ब्रह्मरूपं शुभं शान्तमक्षरं सर्वतोमुखम् ।
वेदान्तमूर्तिमव्यक्तमनन्तं शाश्वतं शिवम् ।। १४ ।।
नित्ययुक्तं विरूपाक्षं भूताधारमनामयम् ।
ध्यायन्तः सर्वदा देवं मनसा सर्वतोमुखम् ।। १५ ।।
दुर्वाससा सदोपास्यं वेदान्तैकरसं गुरुम् ।
तर्कनिश्चिततत्त्वार्था ज्ञाननिर्मलचेतसः ।। १६ ।।
हंसाः परमहंसाश्च शिष्या दुर्वाससः प्रभो ।
गत्वा तत्र महात्मानौ तौ दृष्ट्वा तूर्ध्वरेतसम् ।। १७ ।।
दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् ।
क्रुद्धो यदि स दुर्वासा दग्धुं लोकानिमान् क्षमः।। १८ ।।
देवा अपि च यं द्रष्टुं क्रुद्धं वै न क्षमाः सदा ।
रोषमूर्तिः सदा यस्तु रुद्रात्मा विश्वरूपधृक् ।। १९ ।।
रक्तकौपीनवसनो हंसः परम एव च ।
दृष्ट्वैनं च तयोरेवं बुद्धिरासीन्महामते ।। 3.107.२० ।।
को नामासौ महाभूतः काषायी वर्णवित्तमः ।
कश्चायमाश्रमो नाम विहाय च गृहाश्रमम् ।। २१ ।।
गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः ।
गृहस्थो धर्मरूपस्तु गृहस्थो वर्ण एव च ।। २२ ।।
गृहस्थश्च सदा माता प्राणिनां जीवनं खदा ।
तं विनान्येन रूपेण वर्तते योऽतिमूर्खवत् ।। २३ ।।
उन्मत्तोऽयं विरूपोऽयमथवा मूर्ख एव च ।
ध्यायन्निव सदा चायमास्ते वञ्चयितापि वा ।। २४ ।।
किमेते प्राकृतज्ञाना ध्यायन्त इति किंचन ।
वयमेतान् दुरारोहानाश्रमान्तरकल्पकान् ।। २५ ।।
स्थापयिष्यामहे सर्वान् मन्दबुद्धीनिमान् गृहे ।
बलादेव द्विजानेतान् मूढविज्ञानतत्परान् ।। २६ ।।
असद्ग्राहगृहीताश्च बालिशान् दुर्मतीनिमान् ।
एषां शास्ता च को मूढो न विप्रो वयमत्र ह ।। २७ ।।
धर्म्ये वर्त्मनि संस्थाप्य पुनर्यास्याव निर्वृतौ ।
इति संचिन्त्य तौ वीरौ विप्रेण सहितौ नृप ।। २८ ।।
जनार्दनेन राजानौ मोहाद् भाग्यक्षयान्नृप ।
समीपं तस्य राजेन्द्र यतेः संयतचेतसः ।। २९ ।।
गत्वा च प्रोचतुरुभौ दुर्वाससमतीन्द्रियम् ।
यतींश्च नियतान् क्रुद्धौ राजानौ राजसत्तम ।। 3.107.३० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सप्ताधिकशततमोऽध्यायः ।। १०७।।