हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६१
← अध्यायः ०६० | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०६१ [[लेखकः :|]] |
अध्यायः ०६२ → |
वरुणस्य विप्रचित्तेः सार्द्धं युद्धं पराजयं च |
एकषष्टितमोऽध्यायः
वैशम्पायन उवाच
विप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगैः ।। १ ।।
स दह्यमानो दैत्येन दीप्तैः शरगभस्तिभिः ।
नाभ्यजानत कर्तव्यं संग्रामे स जलेश्वरः ।। २ ।।
सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।
न शक्नोत्यग्रतः स्थातुं विप्रचित्तेर्जलाधिपः ।। ३ ।।
वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।
तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम् ।। ४ ।।
वह्निज्वालासमं तत्र रविमण्डलसंनिभम्।
मुखमाभाति दैत्यस्य विप्रचित्तेर्महात्मनः ।। ५ ।।
वरुणस्तु महातेजा विप्रचित्तिं महासुरम् ।
प्रदहन्निव तेजोभिर्जिगीषुः प्रत्यवैक्षत ।। ६ ।।
स्रग्दाममालाभरणः केयूराङ्गदभूषणः ।
जग्राह परिघं दैत्यः कैलासशिखरोपमम् ।। ७ ।।
पिनद्धं काञ्चनैः पट्टैर्हेममालिनमायसम् ।
यमदण्डोपमं घोरं दैत्यानां भयनाशनम् ।। ८ ।।
भ्रामयामास संक्रुद्धो महाशक्रध्वजोपमम् ।
विननाद विवृत्तास्यो विप्रचित्तिर्महासुरः ।। ९ ।।
स कण्ठस्थेन निष्केण भुजस्थैरपि चाङ्गदैः ।
कुण्डलाभ्यां विचित्राभ्यां भ्राजते काञ्चनस्रजा ।। 3.61.१० ।।
दानवो भूषणैर्भाति परिघेणायसेन च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ।। ११ ।।
प्रस्फुरन् परिघास्त्रेण वातस्कन्धान्महास्वनः ।
जज्वाल च सधूमार्चिः साङ्कर्षण इवानलः ।। १२ ।।
विद्याधरगणैः सार्धं गन्धर्वनगरैरपि ।
सह चैवामरावत्या सिद्धलोकैस्तथा सह ।। १३ ।।
ग्रहनक्षत्रसहितं सार्कचन्द्रविभूषितम् ।
दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभस्तलम् ।। १४ ।।
दुरासदः सुसंजज्ञे परिघाभरणक्षमः ।
सुरेन्धनोऽसुरेन्द्राग्निर्युगान्ताग्निरिवोत्थितः ।। १५ ।।
त्रिदशा वरुणश्चैव न शेकुः स्पन्दितुं भयात् ।
तत्रासीन्निर्भयस्त्वेकः कौशिको वासवः प्रभुः ।। १६ ।।
भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम् ।
पातयामास सेनायां जलेशस्य स दानवः ।। १७ ।।
पतता तेन संग्रामे जलेशस्य महात्मनः ।
भूतानां शतसाहस्रं परिघेण समाहतम् ।
तेषां गात्राणि चासाद्य व्यशीर्यन्त सहस्रशः ।।१८ ।।
विशीर्यमाणं विबभावुल्काशतमिवाम्बरे ।
भूयश्चैनं तदाऽऽभ्राम्य वरुणाय न्यपातयत् ।। १९ ।।
पात्यमाने तदा तस्मिञ्छरीरे वारुणे तदा ।
स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत ।। 3.61.२० ।।
शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ।
स तु तेन प्रहारेण न चचाल जलाधिपः ।। २१ ।।
परिघेण हतः संख्ये यथा वज्रहतोऽचलः ।
स्वसैन्येष्वपि भग्नेषु भिन्नदेहेषु चाहवे ।। २२ ।।
मुहूर्तमगमत् क्षोभमपाम्पतिरमर्षणः ।
सोऽमर्षं च समापन्नो वरुणोऽमितविक्रमः ।। २३ ।।
सर्वसंहारमकरोत् स्वपक्षस्यारिमर्दनः ।
स सागरैश्चतुर्भिश्च वृतो दीप्तैश्च पन्नगैः ।। २४ ।।
शङ्खमुक्तामणिचितो बिभ्रत्तोयमयं वपुः ।
पाण्डुरोद्भूतवसनो नानारत्नविभूषितः ।। २५ ।।
वरुणः पाशधृक्छ्रीमान् कूर्ममीनसमाकुलः ।
वरुणस्तु तदा क्रुद्धस्तान्निरीक्ष्य स्वसैनिकान् ।। २६ ।।
उवाच दृष्ट्वा युध्यध्वं दानवानां जिघांसया ।
अहमेनं हनिष्यामि भयं मुक्त्वा तु युध्यत ।। २७ ।।
ततस्ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।
जघ्नुर्दैत्यान् रणमुखे नदन्तो जयगृद्धिनः ।। २८ ।।
ते तु नालीकनाराचैर्गदाभिर्मुसलैस्तथा ।
अभ्यघ्नन् दानवान् हृष्टा मुदिता वरुणानुगाः ।। २९ ।।
विप्रचित्तिस्तु संक्रुद्धो महाबलपराक्रमः ।
पन्नगानां शरीराणि व्यधमद् युद्धदुर्मदः ।। 3.61.३० ।।
गरुडेनापि चास्त्रेण पन्नगान् दानवोत्तमः ।
समरे घातयामास गरुडैः पन्नगाशनैः ।। ३१ ।।
स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ।
पन्नगान् समरे वीरः प्रममाथ सुदुर्जयान् ।। ३२ ।।
समरे भिन्नगात्रास्ते पन्नगाः शरपीडिताः ।
पेतुर्मथितसर्वाङ्गा गजा इव महागजैः ।। ३३ ।।
तपन्तं तमिवादित्यं दीप्तैर्बाणगभस्तिभिः ।
अभ्यधावत संक्रुद्धः समरे वरुणः प्रभुः ।। ३४ ।।
ततस्तु दानवास्तत्र भिन्नदेहाः सहस्रशः ।
व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः ।। ३५ ।।
इन्द्रस्यार्थे पराक्रम्य वरुणस्त्यक्तजीवितः ।
विनर्दमानो युयुधे समरे पाशभृद्वरः ।। ३६ ।।
वरुणः पन्नगाश्चैव मुष्टिभिः समरोत्कटाः ।
अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम् ।। ३७ ।।
ततोऽस्त्रैश्च शिलाभिश्च प्राहरत् स बलोत्कटः ।
व्यपोहत महातेजा विप्रचित्तिर्महासुरः ।। ३८ ।।
ततः पावकसंकाशैः स मुक्तैः शीघ्रगामिभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ।। ३९ ।।
कर्मणा तेन महता विप्रचित्तेर्महात्मनः ।
अग्नेराज्याहुतस्येव तेजः समभिवर्धत ।। 3.61.४० ।।
स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।
वारुणीं तां महासेनां निर्ममन्थ महाबलः ।। ४१ ।।
क्षीणास्त्रां सायकाक्रान्तां शरजालेन मोहिताम् ।
शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम् ।। ४२ ।।
स शेरैर्वह्निसंकाशैः सुमुक्तैर्नतपर्वभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ।। ४३ ।।
अभिद्रुतोऽथ दैत्येन ससैन्यः सलिलाधिपः ।
महेन्द्रं शरणं प्राप्तो विप्रचित्तेर्भयार्दितः ।। ४४।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने वरुणविप्रचित्तियुद्धे एकषष्टितमोऽध्यायः ।। ६१ ।।