हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५२
[[लेखकः :|]]
अध्यायः ०५३ →

वैशम्पायन उवाच
श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ।। १ ।।
 सुराधिपस्तु भगवानाज्ञापयत वै सुरान् ।
मरुद्गणास्तथादित्यान् विश्वान्देवांश्च वासवः।। २ ।।
वसूनष्टौ भृशं सर्वान् यक्षरक्षोमहोरगान् ।
विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान् ।। ३ ।।
महार्णवांश्च शैलांश्च तथा रुद्रान् महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जनाधिपम् ४ ।।
ये तु सिद्धा महात्मानः पितरश्च मनस्विनः ।
राजर्षयश्च शतशो योगसिद्धास्तथैव च।। ५ ।।
त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय संनह्यन्तामिति प्रभुः ।। ६ ।।
शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
संनह्यन्त महात्मानः शक्रस्य समविक्रमाः ।। ७ ।।
नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः ।। ८ ।।
केचिदारुरुहुर्व्याघ्रान् केचिदारुरुहुर्गजान् ।
केचिदारुरुहुर्नागान् केचिदारुरुहुर्वृषान् ।। ९ ।।
हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् ।
रथं हरिहयैर्युक्तं स प्रायात् समरं प्रति ।। 3.52.१०
आदित्यवर्णं विरजं सुधौतं
त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् ।
जालैश्च जाम्बूनदभक्तिचित्रै-
रलंकृतं काञ्चनदामभिश्च ।। ११ ।।
सकूबरोपस्करबन्धुरेषं
विद्युत्प्रभाभिः कृतमाभिताम्रम् ।
कैलासशृङ्गोपमन्द्रियानं
सुचारुचारु प्रतिचक्रचक्रम् ।। १२ ।।
तारासहस्रैः खचितं ज्वलद्भि-
र्देवार्हमाल्यार्चितसर्वदेहम् ।
समुच्छ्रितश्रीध्वजमक्षयाक्षं
प्रज्वाल्यमानं पुरुषोत्तमेन ।। १३ ।।
आस्थाय तं भास्करमाशुवेगं
शचीपतिर्लोकपतिः सुरेशः ।
वज्रस्य धर्ता भुवनस्य गोप्ता
ययौ महात्मा भगवान् महेन्द्रः ।। १४ ।।
आमुच्च वर्माथ सहस्रतारं
हुताशनादित्यसमप्रभावम् ।
सूर्यप्रभं चामुमुचे किरीटं
मालां च जाम्बूनदवैजयन्तीम् ।। १५ ।।
त्वष्ट्रा कृतं भास्कररश्मिदीप्तं
सुतीक्ष्णघोरामलतीव्रधारम् ।
महासुराणां रुधिरार्द्रमुग्रं
प्रगृह्य वज्रं शतपर्व भीमम् ।। १६
महाशनी द्वे च महाग्रहाभे
दीप्ताममोघां च सशक्तिमुग्राम् ।
चक्रं तथैन्द्रं सुमहत्प्रतापं
प्रगृह्य शक्रः प्रययौ रणाय ।। १७ ।।
सहस्रदृग् भूतपतिः सनातनः
सनातनानामपि यः सनातनः ।
खड्गं च देवाधिपतिर्महात्मा
वैयाघ्रमादाय च चर्म चित्रम् ।। १८ ।।
क्षीरोदधिक्षोभसमुच्छ्रितानि
पुरामृतादुत्तमभूषणानि ।
देवासुराणां श्रमनिर्जितानि
सोमार्कनक्षत्रतडित्प्रभाणि ।। १९ ।।
दत्तान्यदित्या मणिकुण्डलानि
युद्धे प्रयातस्य सुरेश्वरस्य ।
तैर्भूषितो भाति सहस्रचक्षु-
रुद्योतयन् वै विदिशो दिशश्च।। 3.52.२० ।।
हरिः प्रभुर्नेत्रसहस्रचित्रो
विभाति युद्धाभिमुखः सुरेन्द्रः ।
यया सितं शारदमभ्रकल्पं
नभस्तलं ह्यृक्षसहस्रचित्रम् ।। २११
स्तुवन्ति यान्तं विपुलैर्वचोभि-
र्जयाशिषा चोर्जितसत्त्ववीर्यम् ।
अत्रिर्वसिष्ठो जमदग्निरूर्वो
बृहस्पतिर्नारदपर्वतौ च ।। २२ ।।
तमन्वयुर्देवगणा महेन्द्रं
प्रयान्तमादित्यसमानवर्चसम् ।
विश्वे च देवा मरुतस्तथैव
साध्यास्तथाऽऽदित्यगणाश्च सर्वे ।।२३।।
ते देवराजस्य पुरंदरस्य
हयाश्च ये मातलिसंगृहीताः ।
प्रयान्ति देवेश्वरमुद्वहन्तो
नभस्तलं पद्भिरिवाक्षिपन्तः ।। २४
ब्रह्मर्षयश्चैव महर्षयश्च
राजर्षयश्चाक्षयपुण्यलोकाः ।
सर्वेऽनुजग्मुः सहसा ज्वलन्तं
तेजोऽन्वितं शक्रममित्रसाहम् ।। २५ ।।
प्रगृह्य शूलांश्च परश्वधांश्च
दीप्तानि चापान्यशनीर्विचित्राः ।
वर्माणि चामुच्य हिरण्मयानि
प्रयान्ति सूर्यांशुसमप्रभाणि ।। २६ ।।
तथा कुबेरोऽश्वसहस्रयुक्तं
श्रेष्ठं रथं सर्वसहं महार्हम् ।
दिव्यं समारुह्य रणाय यातो
धनेश्वरो दीप्तगदाग्रहस्तः ।। २७ ।।
निशाचराः पावकधूमकाया
रक्षोवृषा रुद्रसखस्य तस्य ।
विशालनानायुधदीप्तहस्ता
यान्त्यप्रतो वैश्रवणस्य राज्ञः ।। २८ ।।
ते लोहिताक्षाः परिवार्य देवं
व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः ।
यक्षोत्तमा यक्षपतिं धनेशं
रक्षन्ति वै पाशगदासिदस्ताः ।। २९ ।।
पुण्यः प्रभुः प्राणपतिर्जितात्मा
वैवस्वतो धर्मभृतां वरिष्ठः ।
तडिद्गणाभं शतवाजियुक्तं
रथं समारोहत सूर्यकल्पम् ।। 3.52.३० ।।
तं लोकपालं पितरोऽनुजग्मु
र्विविक्तपापा ज्वलितास्तपोभिः ।
सर्वे च भूता भुवनप्रधाना
नानायुधव्यग्रकराः सुभीमाः ।। ३१ ।।
दण्डं महास्त्रं परिगृह्य देवो
लोकाङ्कुशं निग्रहनिश्चितार्थम् ।
हिरण्मयानां कमलोत्पलानां
मालां मनोज्ञामवसज्य कण्ठे ।। ३२ ।।
स्थितोऽस्थिमेदामिषलोहितार्द्रं
सर्वासुराणां निधनं विरूपम् ।
तेजोमयं मुद्गरमुग्ररूपं
विकर्षमाणोऽरुणधूम्रनेत्रः ।। ३३ ।।
समन्वितो व्याधिशतैरनेकै-
र्ययौ हरिश्मश्रुरुदारसत्त्वः ।
महासुराणां निधनाय बुद्धिं
चक्रे तदा व्याधिपतिः कृतान्तः ।। ३४ ।।
ततस्त्रिशीर्षैर्भुजगैर्बृहद्भि-
र्युक्तं रथं हेमचितं महात्मा ।
आस्थाय कुन्देन्दुनिभं जलेशो
ययौ रणायासुरदर्पहन्ता ।। ३५ ।।
वैदूर्यमुक्तामणिभूषिताङ्ग
स्तेजोमयः पाशगृहीतहस्तः ।
महासुराणां निधनाय देवः
प्रयाति रूप्याङ्गदबद्धबाहुः ।। ३६ ।।
अन्वीयमानो जलदेवताभि-
र्निषेच्यमाणो जलजैश्च सत्त्वैः ।
संस्तूयमानश्च महर्षिवृन्दैः
सम्पूज्यमानश्च महाभुजङ्गैः ।। ३७ ।।
कैलासशृङ्गप्रतिमोऽप्रमेयः
समुद्रनाथोऽमृतपो महात्मा ।
महोरगैः स्वैस्तनयैः सुगुप्तो
ययौ रथेनार्कसमप्रभेण ।। ३८ ।।
युद्धाय तं यान्तमदीनसत्त्वं
नभस्तले चन्द्रमिवातिकान्तम् ।
पश्यन्ति भूतानि महानुभावं
संहृष्टरोमाणि कृताञ्जलीनि ।। ३९ ।।
धातार्यमांशोऽथ भगो विवस्त्रान्
पर्जन्यमित्रौ च शशी च देवः ।
त्वष्टा तथैवोर्जितविश्वकर्मा
पूषा च साक्षाद् दिवि देवराजः।। 3.52.४० ।।
सोरश्छदैः सध्वजकिङ्किणीकै-
र्वैदूर्यनिष्कैश्चितहेमकण्ठैः ।
हयैर्वरैः शक्ररथप्रकाशै-
र्युक्तान् रथानारुरुहुः सुरास्ते ।। ४१ ।।
दिवाकराकारनिभानि केचि-
द्धुताशनार्चिः प्रतिमानि केचित् ।
निशाकरांशुप्रतिमानि केचित्
तडिद्गणोद्द्योतनिभानि केचित् ।। ४२ ।।
नीलांशुमेघप्रतिमानि केचित्
कार्ष्णायसाकारनिभानि केचित् ।
वर्माणि दिव्यानि महाप्रभाणि
त्वष्ट्रा कृतान्युत्तमभानुमन्ति ।। ४३ ।।
आमुच्य मालाश्च सुवर्णपुष्पाः
प्रयान्ति तोयानिलतुल्यवेगाः ।
द्वावश्विनौ चैव महानुभावौ
रूपोत्तमौ धर्मभृतां वरिष्ठौ ।। ४४ ।।
रथं समारुह्य सुवर्णचित्रं
रणं गतौ काञ्चनतुल्यवर्णौ ।
मनोः सुता वै वसवश्च सर्वे
बलोत्कटा दैत्यवधाय देवाः ।। ४५ ।।
रथांश्च नागांश्च महाप्रमाणा-
नास्थाय जग्मुः सुशुभास्त्रहस्ताः ।
रुद्राश्च सर्वेऽरुणधूमवर्णाः
श्वेतैर्ययुर्गोपतिभिर्बृहद्भिः।।४६।।
महौजसः सर्वगुणोपपन्ना
दीप्तात्न्मनो भाभिरिव ज्वलन्तः ।
नानायुधव्यग्रकरैर्भुजैस्तै
र्लोकान् समस्तानिव निर्दहन्तः।।४७।।
ययुः ससैन्यास्तपनीयनद्धाः
सविद्युतस्तोयधरा यथैव ।
विश्वे च देवास्तपसा ज्वलन्तो
वीर्योत्तमाः सूर्यमरीचिवर्णाः ।। ४८ ।।
ययुः ससैन्या युधि दुर्निवार्या
बलोत्कटाः पद्मसहस्रमालाः ।
रथैः सुयुक्तैस्तपनीयवर्णै-
र्वैदूर्यमुक्तामणिदामचित्रैः ।। ४९ ।।
नानाविधाकारसमाकुलास्ते
पारिप्लवैश्चैव सितातपत्रैः ।
तेजोमयैः काञ्चनचारुचित्रैः
सुनिर्मलैः पावकसंनिभास्ते ।। 3.52.५० ।।
सोरश्छदैः सध्वजकिङ्किणीकै-
र्हयैश्च वायोः समवेगवद्भिः ।
दिशां गजैश्चैव महाबलैस्तैः
कैलासशृङ्गप्रतिमैर्महद्भिः ।। ५१।।
प्रजग्मुरुग्रायुधचापहस्ता-
श्चतुर्युगान्ते ज्वलिता इवोल्काः ।
साध्याश्च देवाः सुमहाप्रभावाः
स्वाधीनचक्राः प्रतिदीप्तवक्त्राः ।। ५२ ।।
प्रयान्ति जाम्बूनदभूषिताङ्गा
गाङ्गौघमात्रैर्गगनैर्बलौघैः ।
विद्योतयन्तो विदिशो दिशश्च
महाबलास्ते जयतां वरिष्ठाः ।। ५३ ।।
वरिष्ठपुष्टाष्टभुजाः सुदृप्ता
वैश्वानरार्कप्रतिमप्रभावाः ।
ते ब्रह्मविद्भिश्च नमस्यमानाः
सम्पूज्यमानाश्च सुरैः सशक्रैः ।। ५४ ।।
गन्धर्वसंघैरनुगम्यमाना
वधाय तेषामसुराधिपानाम् ।
वैदूर्यवज्रस्फटिकाग्रचित्रै-
र्ध्वजैः सुवर्णैश्च परिष्कृतानाम् ।। ५५ ।।
रूपं बभौ चोत्कटभूषणानां
दैत्येन्द्रनाशाय विभूषितानाम् ।
आत्मप्रभाभिश्च रणोत्कटाभि-
र्वर्मप्रभाभिश्च तमोनुदाभिः । ५६ ।।
ध्वजोत्थभाभिः स्वशरोरुभाभि-
र्महाप्रभाभिश्च महोज्ज्वलाभिः ।
विभान्ति ते देववराः ससाध्याः
प्रध्मातशङ्खस्वनसिंहनादाः ।। ५७ ।।
महारथस्थास्त्रिदिवौकसस्ते
महाबलाः शत्रुबलं प्रयान्ति ।
महास्त्रहस्ता ययुरुग्रकाया
महासुराणां निधनाय देवाः ।। ५८ ।।
तथैव सर्वे मरुतोऽतिवीर्या
बलोत्कटास्ते समरं प्रतीताः ।
ययुर्महामेघसमानवर्णा-
श्चक्रायुधास्तोयदनादनादाः । ५९ ।
महेन्द्रकेतुप्रतिमा महाबलाः
प्रगृह्य सर्वासुरसूदनां गदाम्।
रणोत्कटा लोहितचन्दनाक्ताः
सहेममाल्याम्बरभूषिताङ्गाः ।।3.52.६०।।
ते युद्धशौण्डाः सभुजास्त्रवीर्या
बलोत्कटाः क्रोधविलोहिताक्षाः ।
ययुः सजाम्बूनदपद्ममाला
यथेष्टनानाविधकामरूपाः ।।६१ ।।
खड्गप्रभाश्यामलितांसपीठाः
पुरंदरं वै परिवार्य देवाः ।
वैदूर्यचामीकरचारुरूपा-
ण्याबध्य गात्रेषु महाप्रभाणि ।। ६२ ।।
वर्माणि दैत्यास्त्रनिवारणानि
प्रयान्ति युद्धाय सपत्नसाहाः ।
तैरुत्थितैः काञ्चनवेदिकाढ्यै-
र्वरध्वजैर्भास्कररश्मिवर्णैः ।।६३।।
ययौ सुराणां पृतनोग्रभासा
समुन्नदन्ती युधि सिंहनादान्।
इत्येवमुक्तं त्रिदिवेश्वरस्य
सैन्यं तदासीत् सुमहत्प्रभावम् ।। ६४ ।।
युद्धं प्रयातस्य जयावहस्य
वधाय तेषामसुराधिपानाम् ।। ६५ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।