हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५०

विकिस्रोतः तः
← अध्यायः ०४९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५०
[[लेखकः :|]]
अध्यायः ०५१ →

वैशम्पायन उवाच
पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् ।
आरुरोहायसं घोरं रथं पररथारुजम् ।। १ ।।
उत्कीर्णपर्वताकारं लोहजालान्तरान्तरम् ।
नेमिघोषेण महता क्षुभ्यन्तमिव सागरम् ।। २ ।।
गदापरिघनिस्त्रिंशैः सतोमरपरश्वधैः ।
शक्तिमुद्गरसंकीर्णं सतोयमिव तोयदम् ।। ३ ।।
रथमुष्ट्रसहस्रेण संयुक्तं वायुवेगिना ।
पुलोमाऽऽरुह्य युद्धाय प्रस्थितो युद्धदुर्मदः ।। ४।।
षष्टी रथसहस्राणि पुलोमानं महारथम् ।
अन्वयुः सूर्यवर्णानि प्रदीप्तानीव तेजसा ।। ५ ।।
खड्गध्वजेन महता तप्तकाञ्चनवर्चसा ।
भ्राजते रथमध्यस्थः पर्वतस्य इवांशुमान् ।। ६ ।।
सुचारुचामीकरपट्टनद्धां
महागदां कालनिभां महाबलः ।
प्रगृह्य बभ्राज स शत्रुमध्ये
कार्ष्णायसीं केतुरिवास्थितोर्व्याम् ।। ७ ।।
हयग्रीवस्तु बलवान् हयग्रीवैर्महासुरैः ।
वृतः शतसहस्रेण रथानां रथिसत्तमः ।। ८ ।।
धराधरनिभाकारं सपत्नानीकमर्दनम्।
स्यन्दनं भीममास्थाय युद्धायाभिमुखः स्थितः।।९।।
श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषणः ।
शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः ।। 3.50.१० ।।
महता सप्तशीर्षेण शोभितो नागकेतुना ।
वैदूर्यमणिचित्रेण प्रवालाङ्कुरशोभिना ।। ११ ।।
अमितबलपराक्रमाकृतीनां
वररथिनामनुजग्मुरूर्जितानाम्।
असुरगणशतानि गच्छमानं
त्रिदशगणा इव वासवं प्रयान्तम् ।। १२ ।।
प्रह्रादस्तु महाप्राज्ञः सर्वशास्त्रविशारदः ।
सर्वमायाधरः श्रीमान् यष्टा क्रतुशतैरपि ।। १३ ।।
समनह्यत तेजस्वी पावकार्चिःसमप्रभः ।
रथानीकेन महता दुर्दिनाम्भोदनादिना ।। १४ ।।
शूरेणामितवीर्येण हेमकुण्डलधारिणा ।
वृतो दैत्यसहस्रेण देवैरिव पितामहः ।। १५ ।।
स्ववीर्यादग्रणीर्दृप्तो मत्तवारणविक्रमः ।
सुरसैन्यस्य सर्वस्य प्रतिक्षोभ इव स्थितः ।। १६४
स्ववीर्येणोदधेस्तुल्यः प्रदीप्ताग्निरिव ज्वलन् ।
तेजसा भास्कराकारः क्षमया पृथिवीसमः ।। १७ ।।
तालध्वजेन दीप्तेन रथेनातिविराजता ।
तं यान्तमनुयान्ति स्म दानवाः शतसंघशः ।। १८ ।।
सर्वे हिरण्यकवचाः सर्वे रत्नविभूषिताः ।
दिव्याङ्गरागाभरणाः समरेष्वनिवर्तिनः ।। १९ ।।
जाम्बूनदविचित्राङ्गा वैदूर्यविकृताङ्गदाः ।
दिव्यस्यन्दनमध्यस्थाः खस्था इव महाग्रहाः ।। 3.50.२० ।।
आचारवांश्चैव जितेन्द्रियश्च
धर्मे रतः सत्यपरोऽनसूयः ।
स्थितोऽग्नितोयाम्बुदवायुकल्पो
रूपी यथा सर्वहरः कृतान्तः ।। २१ ।।
शम्बरस्तु महामायो रथयूथपयूथपः ।
आरुरोह रथं दिव्यं सर्वयुद्धविशारदः ।। २२ ।।
लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः ।
जीमूतघनसंकाशो श्यियस्रगनुलेपनः ।। २३ ।।
विद्युज्ज्योतिर्निकाशेन मुकुटेनार्कवर्चसा ।
मणिरत्नविचित्रेण वैदूर्यवरशोभिना ।। २४ ।।
तपनीयेन महता कवचेन विराजता ।
संध्याभ्रेणेव संच्छन्नः श्रीमानस्तशिलोच्चयः ।। २५ ।।
त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् ।
बलिनां कालकल्पानामन्वयु शम्बरं तदा ।। २६ ।।
युक्तं हयसहस्रेण शुक्लवर्णेन राजता ।
क्रौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना ।। २७ ।
व्यासक्तवैदूर्यसुवर्णजालं
नानाविहङ्गैरपि भक्तिचित्रम् ।
विद्युत्प्रभं भीमरवं सुवेगं
रथं समारुह्य रराज दैत्यः।।२८।।

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे शम्बरादिदैत्यसन्नहने पञ्चाशत्तमोऽध्यायः ।। ५० ।।