हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०४८

विकिस्रोतः तः
← अध्यायः ०४७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४८
[[लेखकः :|]]
अध्यायः ०४९ →
वामनावतारस्योपक्रमः, बलेः अभिषेकं, दैत्येभिः तं त्रैलोक्यविजयस्य अनुरोधं च

अष्टचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमास्थाय रूपं रूपविदां वरः ।। १ ।।
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिराक्रम्य त्रैलोक्यमखिलं हृतम् ।। २ ।।
समुद्रवसना चोर्वी नानानगविभूषिता ।
हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना ।। ३ ।।
जनमेजय उवाच
अत्र मे संशयो ब्रहान्नत्र कौतूहलं महत् ।
कथं नारायणो देवो वामनत्वमुपागतः ।। ४ ।।
यः पुराणे पुराणात्मा भूत्वा नारायणः प्रभुः ।
पद्मनाभो महाबाहुर्लोकानां प्रकृतिर्ध्रुवः ।। ५ ।।
अनादिमध्यनिधनस्त्रैलोक्यादिः सनातनः ।
देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः ।। ६ ।।
हव्यकव्यवहः श्रीमान् हव्यकव्यभुगव्ययः ।
अदित्या देवमातुश्च कथं गर्भेऽभवत् प्रभुः ।
स्रष्टा यो वासवस्यापि स कथं वासवानुजः ।। ७ ।।
प्रसूतो देवदेवेशो विष्णुत्वं प्राप्तवान् कथम् ।
एतदाचक्ष्व मे विप्र प्रादुर्भावं महात्मनः ।। ८ ।।
वैशम्पायन उवाच
शृणु राजन् कथां दिव्यामर्चितामृषिपुङ्गवैः ।
पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्राह्मणेरिताम् ।। ९ ।।
मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः ।
अदिर्तिर्दितिर्द्वे भार्ये भगिन्यौ जनमेजय ।। 3.48.१० ।।
अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।। ११ ।।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस्तथा ।
तथैकादशमस्त्वष्टा द्वादशो विष्णुरुच्यते ।। १२ ।।
दित्यां जातो हि बलवान् हिरण्यकशिपुःप्रभुः ।
तस्यानुजश्च दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ।। १३ ।।
हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः ।
प्रह्लादश्चैव संह्रादस्तथानुह्राद एव च ।
ह्रदश्चैव तु विक्रान्तः पञ्चमोऽनुह्रदस्तथा ।। १४ ।।
विरोचनश्च प्राह्लादिस्तस्य पुत्रो बलिः स्मृतः ।
पुत्रपौत्रं च बलवत् तेषामक्षयमव्ययम् ।। १५ ।।
तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् ।
गणाः सुबहुशो राजन् देशे देशे सहस्रशः ।। १६ ।।
ते दृष्ट्वा नारसिंहेन हिरण्यकशिपुं हतम् ।
दैत्या देववधार्थाय बलिमिन्द्रं प्रचक्रिरे ।। १७ ।।
दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् ।
शौर्याध्ययनसम्पन्नं सर्वज्ञानविशारदम् ।। १८ ।।
परावरगृहीतार्थं तत्त्वदर्शिनमव्ययम् ।
तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा ।। १९ ।।
अभिषेकेण दिव्येन बलिं वैरोचनिं तथा ।
दैत्याधिपत्ये दितिजास्तदा सर्वेऽभ्यपूजयन् ।। 3.48.२० ।।
अभिषिक्तस्तदा दैत्यैर्बलिर्बलवतां वरः ।
ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे ।। २१ ।।
अभिषिक्तोऽसुरगणैर्बलिर्वैरोचनिस्तदा ।
काञ्चनैः कलशैः स्फीतैः सर्वतीर्थाम्बुसंवृतैः ।। २२ ।।
जयशब्दं ततश्चक्रुरभिषिक्तस्य दानवाः ।
बलेरतुलवीर्यस्य सिंहासनगतस्य वै ।। २३ ।।
कृत्वेन्द्रं दानवाः सर्वे बलिं बलवतां वरम् ।
ततो विज्ञापयामासुः शिरोभिः पतिताः क्षितौ।। २४ ।।
दैत्या ऊचुः
विदितं तव दैत्येन्द्र हिरण्यकशिपोर्यथा ।
त्रैलोक्यमासीदखिलं जगत्स्थावरजङ्गमम् ।।२५ ।।
पितामहं तु हत्वा ते सुरेश्वरनिषूदन ।
हृतं तदैव त्रैलोक्यं शक्रश्चैवाभिषेचितः ।। २६ ।।
तत् पितामहराज्यं त्वं प्रत्याहर्तुमिहार्हसि ।
अस्माभिः सहितो नाथ त्रैलोक्यमिदमव्ययम् ।। २७ ।।
प्रत्यानयस्व भद्रं ते राज्यं पैतामहं प्रभो ।। २८ ।।
असुरगणसहस्रसंवृतस्त्वं
जय दिवि देवगणान् महानुभावान् ।
अमितबलपराक्रमोऽसि राज-
न्नतिशयसे स्वगुणैः पितामहं स्वम्।। २९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने बलेरभिषेके अष्टचत्वारिंशोऽध्यायः ।। ४८ ।।