हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०४६

विकिस्रोतः तः
← अध्यायः ०४५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४६
[[लेखकः :|]]
अध्यायः ०४७ →
दैत्यानां विनाशसूचकाः महान्ति उत्पातानि, हिरण्यकशिपुना गदामादाय आक्रमणम्, तस्य पादानां धमनात् पृथ्वी, पर्वत, नदी एवं देशानां कम्पनम्

षट्चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं सर्वे विषण्णाः शरणं गताः ।। १ ।।
ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा ।
हिरण्यकशिपुर्दैत्यश्चालयामास मेदिनीम् ।। २ ।।
ततः प्रक्षुभिताः सर्वे सागराः सलिलाकराः ।
चलिता गिरयः सर्वे सकाननवनद्रुमाः ।। ३ ।।
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ।
तमसा समभूच्छन्नं न प्राज्ञायत किंचन ।। ४ ।।
आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः ।। ५ ।।
तथा परिवहः श्रीमान् मारुता भयशंसिनः ।
इत्येते क्षुभिताः सप्त मारुता गगनेचराः ।। ६ ।।
ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ।
ते ग्रहा गगने हृष्टा विचरन्ति यथासुखम् ।। ७ ।।
अयोगतश्चात्यचरद् योगं दिवि निशाकरः ।
सग्रहं सहनक्षत्रं प्रजज्वाल नभो नृप ।। ८ ।।
विवर्णत्वं च भगवान् गतो दिवि दिवाकरः ।
कृष्णः कबन्धश्च महाँल्लक्ष्यते च नभस्तले ।। ९ ।।
अमुञ्चच्चासितां सूर्यो धूमवर्तिं भयावहाम् ।
गगनस्थश्च भगवानभीक्ष्णं परितप्यते ।। 3.46.१० ।।
सप्तधूमनिभा घोराः सूर्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ।। ११ ।।
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ।। १२।।
समं समभिरोहन्ति दुर्गाणि गगनेचराः ।
शृङ्गाणि कनकैर्घोरा युगान्तावर्तका ग्रहाः ।। १३ ।।
चन्द्रमाः सह नक्षत्रैर्ग्रहैः सप्तभिरावृतः ।
चराचरविनाशार्थं रोहिणीं नाभ्यनन्दत ।। १४ ।।
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते ।
उल्काः प्रज्वलिताश्चन्द्रे प्रचेलुर्घोरदर्शनाः ।। १५ ।।
देवानामपि यो देवः सोऽभ्यवर्षत शोणितम् ।
अपतन् गगनादुल्का विद्युद्रूपाः सनिःस्वनाः ।। १६ ।।
अकाले पादपाः सर्वे पुष्यन्ति च फलन्ति च ।
लताश्च सफलाः सर्वा याः प्राहुर्दैत्यनाशनम् ।। १७ ।।
फले फलान्यजायन्त पुष्पे पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च।। १८ ।।
विक्रोशन्ति च गम्भीरं धूमयन्ति ज्वलन्ति च ।
प्रतिमाः सर्वदेवानां कथयन्ति युगक्षयम् ।। १९ ।।
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः ।
चुक्रुशुर्भैरवं तत्र मृगेन्द्रे समुपस्थिते ।। 3.46.२० ।।
नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः ।
अपराह्णगते सूर्ये लोकानां क्षयकारके ।। २१ ।।
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ।
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथंचन ।। २२ ।।
वायुवेगेन हन्यन्ते भिद्यन्ते प्रणुदन्ति च ।
तदा च सर्वभूतानां छाया न परिवर्तते ।। २३ ।।
अपराह्णगते सूर्ये लोकानां च युगक्षये ।
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः ।। २४ ।।
भाण्डागारायुधागारे निविष्टमभवन्मधु ।
तथैव चायुधागारे धूमराजिरदृश्यत ।। २५ ।।
स च दृष्ट्वा महोत्पातान् हिरण्यकशिपुस्तदा ।
पुरोहितं तदा शुक्रं वचनं चेदमब्रवीत् ।। २६ ।।
किमर्थं भगवन्नेते महोत्पाताः समुत्थिताः ।
श्रोतुमिच्छामि तत्त्वेन परं कौतूहलं हि मे ।। २७ ।।
शुक्र उवाच
शृणु राजन्नवहितो वचनं मे महासुर ।
यदर्थमिह दृश्यन्ते महोत्पाता महाभयाः ।। २८ ।।
यस्यैते सम्प्रदृश्यन्ते राज्ञो राष्ट्रे महासुर ।
देशो वा ह्रियते तस्य राजा वा वधमर्हति ।। २९ ।।
अतो बुद्धया समीक्षस्व यथा सर्वं प्रणश्यति ।
वृहद्भयं हि नचिराद् भविष्यति न संशयः।। 3.46.३० ।।
एतावदुक्त्वा शुक्रस्तु हिरण्यकशिपुं तदा ।
स्वस्तीत्युक्त्वा तु दैन्येन्द्रं जगाम स्वं निवेशनम्।। ३१ ।।
तस्मिन्गते स दैत्येन्द्रो ध्यातवान् सुचिरं तदा।
आसांचक्रे सुदीनात्मा ब्रह्मवाक्यमनुस्मरन् ।। ३२ ।।
असुराणां विनाशाय सुराणां विजयाय च ।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ।। ३३ ।।
एते चान्ये च बहवो घोरा ह्युत्पातदर्शनाः ।
दैत्येन्द्राणां विनाशाय दृश्यन्ते कालनिर्मिताः ।। ३४ ।।
ततो हिरण्यकशिपुर्गदामादाय सत्वरम् ।
अभ्यद्रवत वेगेन धरणीमनुकम्पयन् ।। ३५ ।।
हिरण्यकशिपुर्दैत्यो पदा सस्पृष्टवान् महीम् ।
संदष्टौष्ठपुटः क्रोधाद् वराह इव पूर्वजः ।। ३६ ।।
मेदिन्यां कम्प्यमानायां दैत्येन्द्रेण महात्मना ।
महीधरेभ्यो नागेन्द्रा निपेतुर्भयविक्लवाः ।। ३७ ।।
विषज्वालाकुलैर्वक्त्रैविंमुञ्चन्तो हुताशनम् ।
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ।। ३८ ।।
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।
एलापत्रश्च कालीयो महापद्मश्च वीर्यवान् ।
सहस्रशीर्षधृङ्नागो हेमतालध्वजः प्रभुः ।। ३९ ।।
शेषोऽनन्तो महीपालो दुष्प्रकम्पः प्रकम्पितः ।
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च ।। 3.46.४० ।।
तदा क्रुद्धेन दैत्येन कम्पितानि समन्ततः ।
पातालतलचारिण्यो नागतेजोधराः शिवाः ।। ४१ ।।
आपश्च सहसा क्रुद्धा दुष्प्रकम्प्यरसाः शुभाः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा ।। ४२ ।।
यमुना चैव कावेरी कृष्णा वेणा तथैव च ।
सुवेणा च महाभागा नदी गोदावरी तथा ।। ४३ ।।
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः ।
मेकलप्रभवश्चैव शोणो मणिनिभोदकः ।। ४४ ।।
सुस्रोता नर्मदा चैव तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथापूर्णा सरस्वती ।। ४५ ।।
मही कालनदी चैव तमसा पुण्यवाहिनी ।
सीता चेक्षुमती चैव देविका च महानदी ।। ४६ ।।
जम्बूद्वीपं रत्नवन्तं सर्वरत्नोपशोभितम् ।
सुवर्णकूटकं चैव सुवर्णाकरमण्डितम् ।। ४७ ।।
महानदश्च लौहित्यः शैलकाननशोभितः ।
पत्तनं कौशिकारण्यं द्रविडं रजताकरम् ।। ४८ ।।
मागधांश्च महाग्रामानङ्गान् वङ्गांस्तथैव च ।
सुह्यान् मल्लान् विदेहांश्च मालवान् काशिकोसलान्।।४९।।
भवनं वैनतेयस्य सुवर्णस्य च कम्पितम् ।
कैलासशिखराकारं यत् कृतं विश्वकर्मणा ।। 3.46.५० ।।
रक्ततोयो भीमवेगो लौहित्यो नाम सागरः ।
शुभः पाण्डुरमेघाभः क्षीरोदश्चैव सागरः ।। ५१ ।।
उदयश्चैव राजेन्द्र उच्छ्रितः शतयोजनम् ।
सुपर्णवेदिकः श्रीमान् नागपक्षिनिषेवितः ।। ५२ ।।
भ्राजमानोऽर्कसहृशैर्जातरूपमयैर्दुमैः ।
शालैस्तालैस्तमालैश्च कर्णिकाभिश्च पुष्पितैः ।। ५३ ।।
अयोमुखश्च विपुलः सर्वतो धातुमण्डितः ।
तमालवनगन्धश्च पर्वतो मलयः शुभः ।। ५४ ।।
सुराष्ट्राश्च सुबाह्लीकाः शूराभीरास्तथैव च ।
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ।। ५५।।
तथैवान्ध्राश्च पुण्ड्राश्च वामचूडाः सकेरलाः ।
क्षोभितास्तेन दैत्येन सदेवाः साप्सरोगणाः ।। ५६ ।।
अगस्तिभुवनं चैव यदगम्यं पुरा कृतम् ।
सिद्धचारणसङ्घैश्च सेवितं सुमनोहरम् ।। ५७ ।।
विचित्रनागविहगं सुपुष्पितलताद्रुमम् ।
जातरूपमयैः शृङ्गैरप्सरोगणसेवितम् ।। ५८ ।।
गिरिः पुष्पितकश्चैव लक्ष्मीवान् प्रियदर्शनः ।
उत्थितः सागरं भित्त्वा वयस्यश्चन्द्रसूर्ययोः ।। ५९ ।।
रराज सुमहाशृङ्गैर्गगनं विलिखन्निव ।
सूर्यचन्द्रांशुसंकाशैः सागराम्बुसमावृतः ।। 3.46.६० ।।
विद्युत्वान् पर्वतः श्रीमानायतः शतयोजनम् ।
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे ।। ६१ ।।
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः ।
कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं महत् ।। ६२ ।।
विशाखरथ्या दुर्धर्षा सर्पाणामालया पुरी ।
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता ।। ६३ ।।
महामेघगिरिश्चैव पारियात्रश्च पर्वतः ।
चक्रवांस्तु गिरिः श्रेष्ठो वाराहश्चैव पर्वतः ।। ६४ ।।
प्राग्ज्योतिषपुरं चैव जातरूपमयं शुभम् ।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ।। ६५ ।।
मेरुश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ।
षष्टिं तत्र सहस्राणि पर्वतानां विशाम्पते ।। ६६ ।।
तरुणादित्यसंकाशो महेन्द्रश्च महागिरिः ।
देवावासः शुभः पुण्यो गिरिराजो दिवं गतः ।। ६७ ।।
हेमशृङ्गो महाशैलस्तथा मेघसखो गिरिः ।
कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः ।। ६८ ।।
यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दरः ।
श्रीमान् मन्दरश्चैव नित्यं पुष्पितपादपः ।। ६९ ।।
हेमपुष्करसंछन्नं तेन वैखानसं सरः ।
कम्पितं मानसं चैव राजहंसैर्निषेवितम् ।। 3.46.७० ।।
विशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा ।
तुषारचयसंकाशो मन्दरश्चैव पर्वतः ।। ७१ ।।
उशीरबीजश्च गिरी रुद्रोपस्थस्तथाद्रिराट् ।
प्रजापतेश्च निलयस्तथा पुष्करपर्वतः ।। ७२ ।।
देवावृत् पर्वतश्चैव तथा वै वालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश्च धूमवर्णश्च पर्वतः ।। ७३ ।।
एते चान्ये च गिरयो देशा जनपदास्तथा ।
नद्यश्च सागराश्चैव दानवेन्द्रेण कम्पिताः ।। ७४ ।।
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ।
खेचराश्च निशापुत्राः पातालतलवासिनः ।। ७५ ।।
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः ।
ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः ।। ७६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे षट्चत्वारिंशोऽध्यायः ।। ४६ ।।