सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०१३

विकिस्रोतः तः
← अध्यायः ०१२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०१३
[[लेखकः :|]]
अध्यायः ०१४ →
मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधम्

त्रयोदशोऽध्यायः मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधम्

वैशम्पायन उवाच
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ।। १ ।।
तस्यैव च सहायोऽन्यो भूतो रजसि कैटभः ।
तौ रजस्तमसाविष्टौ सम्भूतौ कामरूपिणौ ।। २ ।।
एकार्णवजलं सर्वं क्षोभयन्तौ महासुरौ ।
कृष्णरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ ।। ३ ।।
उभौ मदकटोदग्रौ केयूरवलयोज्ज्वलौ ।
महाविकृतताम्राक्षौ पीनोरस्कौ महाभुजौ ।। ४ ।।
महच्छिरःसंहननौ जङ्गमाविव पर्वतौ ।
नीलमेघाभ्रसंकाशावादित्यप्रतिमाननौ ।। ५ ।।
विद्युदम्भोदताम्राभ्यां कराभ्यामतिभीषणौ ।
पादसंचारवेगाभ्यामुत्क्षिपन्ताविवार्णवम् ।। ६।।
कम्पयन्ताविव हरिं शयानमरिसूदनम् ।
तौ तत्र विहरन्तौ स्म पुष्करे विश्वतोमुखम् ।। ७ ।।
पश्यतां दीप्तवपुषं योगिनां श्रेष्ठमुत्तमम् ।
नारायणसमाज्ञप्तं सृजन्तमखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसांश्च सुतानृषीन् ।। ८ ।।
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ ।
दृप्तौ युयुत्सुकौ क्रुद्धौ रोषसंरक्तलोचनौ ।। ९।।
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्मुखः ।
आवामगणयन् मोहादास्से त्वं विगतज्वरः ।। १० ।।
एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव ।
आवाभ्यामतिवीराभ्यां न शक्यं स्थातुमाहवे ।। ११ ।।
कस्त्वं कश्चोद्भवस्तुभ्यं केन वासीह चोदितः ।
कः स्रष्टा कश्च वै गोप्ता केन नाम्नाभिधीयसे ।। १२ ।।
ब्रह्मोवाच
यः क इत्युच्यते लोके ह्यविज्ञातः सहस्रशः ।
तत्सम्भवं योगवन्तं किं मां नाभ्यवगच्छथः ।। १३ ।।
मधुकैटभावूचतुः
नावयोः परमं लोके किंचिदस्ति महामते ।
आवाभ्यां छाद्यते विश्वं तमसा रजसा तथा ।। १४ ।।
रजस्तमोमयावावां यतीनां दुःखलक्षणौ ।
छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम् ।। १५ ।।
आवाभ्यां मुह्यते लोक उच्छ्रिताभ्यां युगे युगे ।
आवामर्थश्च कामश्च यज्ञाः सर्वपरिग्रहाः ।। १६ ।।
सुखं यत्र मुदो यत्र यत्र श्रीः सन्नतिर्नयः ।
एषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ।। १७।।
ब्रह्मोवाच
यत् तद् योगवतां श्रेष्ठं यच्च पूर्वं मयार्चितम्।
तत्समाधाय गुणवान्सत्त्वे चास्मि प्रतिष्ठितः ।। १८ ।।
यत्परं योगयुक्तानामक्षरं सत्त्वमेव च ।
रजसस्तमसश्चैव यत्स्रष्टा जीवसम्भवः ।। १९ ।।
यतो भूतानि जायन्ते सात्त्विकानीतराणि च ।
स एव युद्ध्वा समरे वशी वां शमयिष्यति ।। २० ।।
वैशम्पायन उवाच
ततः शयानं श्रीमन्तं बहुयोजनविस्तृतम् ।
पद्मनाभं हृषीकेशं प्रणम्यावोचतामुभौ ।। २१ ।।
जानीवस्त्वां विश्वयोनिमेकं पुरुषसत्तमम्।
तवोपासनहेत्वर्थमिदं नौ विद्धि कारणम् ।। २२ ।।
अमोघदर्शनं सत्यं यतस्त्वां विदुरीश्वरम् ।
ततस्त्वामभितो देव कङ्क्षावः प्रतिवीक्षितुम्।। २३ ।।
तदिच्छावो वरं दत्तं त्वया ह्यावामरिंदम ।
अमोघं दर्शनं देव नमस्तेऽस्त्वजितंजय ।। २४ ।।
श्रीभगवानुवाच
तानिच्छथो द्रुतं ब्रूतं वरानसुरसत्तमौ ।
दत्तायुषौ मया भूयस्त्वहो जीवितुमिच्छथः ।। २५ ।।
तस्माद् यदेष वां यत्नस्तत्प्राप्नुतं महाबलौ ।
वध्यौ भवन्तौ तु स्यातां तावित्येवाब्रवीद्धरिः ।
उभावपि महात्मानावूर्जितौ क्षतवर्जितौ ।। २६ ।।
मधुकैटभावूचतुः
यस्मिन्न कश्चिन्मृतवांस्तस्मिन्देशे विभो वधम्।
इच्छावः पुत्रतां यातुं तव चैव सुराधिप ।। २७
श्रीभगवानुवाच
बाढं सुतौ मे प्रवरौ भविष्ये कल्पसम्भवे ।
भविष्यथो न संदेहः सत्यमेतद् ब्रवीमि वाम्।।२८।।
वैशम्पायन उवाच
वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरोत्तमो विभुः ।
रजस्तमोभ्यां भवभावनोपमौ ममन्थ तावूरुतले सुरारिहा ।। २९
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि मधुकैटभवरप्रदाने त्रयोदशोऽध्यायः ।। १३ ।।