हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०११
[[लेखकः :|]]
अध्यायः ०१२ →
परमात्मना भूतानां सृष्टिः, ब्रह्माणं प्रकटयितुं तस्य नाभ्या महत् पद्मस्य प्रादुर्भावम्

वैशम्पायन उवाच
आपवः स विभुर्भूत्वा कारयामास वै तपः ।
छादयित्वाऽऽत्मनो देहमात्मना कुम्भसम्भवः ।। १ ।।
ततो महात्मातिबलो मतिं लोकस्य सर्जने ।
महता पञ्चभूतानां विश्वस्तो व्यचिन्तयत् ।। २ ।।
तस्य चिन्तयतस्तत्र तपसा भावितात्मनः ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ।। ३ ।।
ईषत्संक्षोभयामास सोऽर्णवं सलिले स्थितः ।
सोऽनन्तरोर्मिणा सूक्ष्ममथ च्छिद्रमभूत्तदा ।। ४।।
तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ।
स लब्ध्वाऽऽन्तरमक्षोभ्यो व्यवर्धत समीरणः ।। ५ ।।
विवर्धता बलवता तेन संशोभितोऽर्णवः ।
अन्योन्यवेगाभिहता ममन्थुश्चोर्मयो भृशम् ।। ६ ।।
महार्णवस्य क्षुब्धस्य तस्मिन् नम्भसि मथ्यति ।
कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरोऽर्चिमान् ।। ७ ।।
तत्र संशोषयामास पावकः सलिलं बहु ।
क्षयाज्जलनिधेश्छिद्रमभवन्निःसृतं नभः ।। ८॥
आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः ।
आकाशं छिद्रसम्भूतं वायुराकाशसम्भवः ।। ९॥
आज्यसंघर्षणोद्भूतं पावकं चाज्यसम्भवम्।
दृष्ट्वा प्रीतियुतो देवो महाभूतादिभावनः ।। १० ।।
दृष्ट्वा भूतानि भगवाँल्लोकसृष्ट्यर्थतत्त्ववित्।
ब्रह्मणो जन्म स हितं बहुरूपो विचिन्वति ।। ११ ।।
चतुर्युगादिसंख्यान्ते सहस्रयुगपर्यये ।
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ।। १२ ।।
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुत्तमः ।
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ।। १३ ।।
तं योगवन्तं विज्ञेयं सम्पूर्णैश्वर्यविक्रमम् ।
देवो ब्रह्मणि विश्वे च नियोजयति योगवित्।। १४।।
ततस्तस्मिन् महातोये हविषो हरिरच्युतः ।
स्वपन् क्रीडंश्च विविधं मोदते चैष पावकिः । १५ ।।
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ।
सहस्रपत्रं विरजो भास्कराभं हिरण्मयम् ।। १६ ।।
हुताशनज्वलितशिखोज्ज्वलप्रभं
सुगन्धिनं शरदमलार्कतेजसम्।
विराजते कमलमुदारवर्चसं
महात्मनस्तनुरुहचारुदर्शनम् ।। १७।।

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे महापद्मोत्पत्तौ एकादशोऽध्यायः।।