हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००८ हरिवंशपुराणम्
अध्यायः ००९
वेदव्यासः
अध्यायः ०१० →
प्रलयस्योत्तरे एकार्णवस्य जले भगवतः नारायणस्य शयनम्

नवमोऽध्यायः

वैशम्पायन उवाच
भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ।। १ ।।
पीत्वार्णवांश्च सर्वान् स नदीः कूपांश्च सर्वशः ।
पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ।। २ ।।
भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम्।
रसातलगतं कृत्स्नं पिबते रसमुत्तमम् ।। ३ ।।
अप्सु सृजन्क्लेदमन्यद् ददाति प्राणिनां ध्रुवम् ।
तत् सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ।। ४ ।।
वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत्।
प्राणोदये सुराणां च वायुना कुरुते हरिः ।। ५ ।।
ततो देवगणानां च सर्वेषामेव देहिनाम् ।
ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ।
पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः ।। ६ ।।
जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ।। ७ ।।
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ।। ८ ।।
ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ।। ९ ।।
तेषां संघर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदहन्निखिलांल्लोकानुग्रः संवर्तकोऽनलः ।। 3.9.१० ।।
संपर्वतांस्तरून् गुल्माँल्लतावल्लीस्तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च ।। ११।।
आश्रमांश्च तथा पुण्यान्दिव्यान्यातनानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ।। १२ ।।
भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा ।। १३ ।।
सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ।। १४ ।।
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ।। १५ ।।
ते नगा जलसंछन्नाः पयसः सर्वतोधराः ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ।। १६ ।।
महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ।। १७ ।।
संशोषयित्वा पीत्वा च वसत्येकः सनातनः ।
पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ।। १८ ।।
एकार्णवजले ह्यासीद् योगी योगमुपागतः ।
अयुतानां सहस्राणि गतान्येकार्णवेऽम्भसि ।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ।। १९ ।।
जनमेजय उवाच
एकार्णवविधिः कोऽयं यश्चैव परिकीर्तितः ।
क एष पुरुषो नाम किं योगः कश्च योगवान् ।। 3.9.२०।।
वैशम्पायन उवाच
एतावन्तमसौ कालमेकार्णवविधिं प्रति ।
करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ।। २१ ।।
न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः ।
न स्मावगच्छते कश्चिदृते तं देवमीश्वरम् ।। २२ ।।
नभः क्षितिं पवनमथ प्रकाशयन्
प्रजापतिं भुवनचरं सुरेश्वरम् ।
पितामहं श्रुतिनिलयं महामुनिं
शशास भूः शयनमरोचयत् प्रभुः।। २३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः ।। ९ ।।