हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२०
← अध्यायः ११९ | हरिवंशपुराणम् अध्यायः १२० वेदव्यासः |
अध्यायः १२१ → |
अनिरुद्धेन आर्यादेव्याः स्तुतिः, देव्या प्रसन्नं भूत्वा तस्य बन्धनानां कष्टेभिः मोचनम् |
विंशत्यधिकशततमोऽध्यायः
वैशम्पायन उवाच
यदा बाणपुरे वीरः सोऽनिरुद्धः सहोषया ।
संनिरुद्धो नरेन्द्रेण बाणेन बलिसूनुना ।। १ ।।
तदा देवीं कोटवतीं रक्षार्थं शरणं गतः ।
यद् गीतमनिरुद्धेन देव्याः स्तोत्रमिदं शृणु ।। २ ।।
अनन्तमक्षयं दिव्यमादिदेवं सनातनम् ।
नारायणं नमस्कृत्य प्रवरं जगतां प्रभुम् ।। ३ ।।
चण्डीं कात्यायनीं देवीमार्यां लोकनमस्कृताम् ।
वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतैः ।। ४ ।।
ऋषिभिर्दैवतैश्चैव वाक्पुष्पैरर्चितां शुभाम् ।
तां देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम् ।। ५ ।।
अनिरुद्ध उवाच
महेन्द्रविष्णुभगिनीं नमस्यामि हिताय वै ।
मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः।। ६।।
गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् ।
मेध्यां गोकुलसम्भूतां नन्दगोपस्य नन्दिनीम् ।। ७ ।।
प्रा्ज्ञां दक्षां शिवां सौम्यां दनुपुत्रविमर्दिनीम्।
तां देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम् ।। ८ ।।
दर्शनीं पूरणीं मायां वह्निसूर्यशशिप्रभाम् ।
शान्तिं ध्रुवां च जननीं मोहनीं शोषणीं तथा ।। ९ ।।
सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् ।
कालीं कात्यायनीं देवीं भयदां भयनाशिनीम् ।। 2.120.१० ।।
कालरात्रिं कामगमां त्रिनेत्रां ब्रह्मचारिणीम् ।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम् ।। ११ ।।
यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा ।
तिथीनां पञ्चमीं षष्ठीं पूर्णमासीं चतुर्दशीम् ।। १२ ।।
सप्तविंशतिऋक्षाणि नद्यः सर्वा दिशो दश ।
नगरोपवनोद्यानद्वाराट्टालकवासिनीम् ।। १३ ।।
ह्रीं श्रीं गङ्गां च गन्धर्वां योगिनीं योगदां सताम् ।
कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम् ।। १४।।
वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् ।
तपस्विनीं शान्तिकरीमेकानंशां सनातनाम् ।। १५ ।।
कौटीर्यां मदिरां चण्डामिलां मलयवासिनीम् ।
भूतधात्रीं भयकरीं कूष्माण्डीं कुसुमप्रियाम् ।। १६ ।।
दारुणीं मदिरावासां विन्ध्यकैलासवासिनीम् ।
वराङ्गनां सिंहरथीं बहुरूपां वृषध्वजाम् ।। १७ ।।
दुर्लभां दुर्जयां दुर्गां निशुम्भभयदर्शिनीम् ।
सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम् ।। १८ ।।
किरातीं चीरवसनां चौरसेनानमस्कृताम् ।
आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीम् ।। १९ ।।
निशुम्भशुम्भमथनीं गजकुम्भोपमस्तनीम् ।
जननीं सिद्धसेनस्य सिद्धचारणसेविताम् ।। 2.120.२० ।।
चरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् ।
पञ्चाशद्देवकन्यानां पत्न्यो देवगणस्य च ।। २१ ।।
कद्रुपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः ।
माता पिता जगन्मान्या दिवि देवाप्सरोगणैः ।। २२ ।।
ऋषिपत्नीगणानां च यज्ञगन्धर्वयं पिताम् ।
विद्याधराणां नारीषु साध्वीषु मनुजासु च ।। २३।।
एवमेतासु नारीषु सर्वभूताश्रया ह्यसि ।
नमस्कृतासि त्रैलोक्ये किन्नरोद्गीतसेविते ।। २४ ।।
अचिन्त्या ह्यप्रमेयासि यासि सासि नमोऽस्तु ते ।
एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि गौतमि ।। २५ ।।
त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ।
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ।। २६ ।।
सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि ।
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ।। २७ ।।
अश्विनौ वसवश्चैव विश्वेसाध्यास्तथैव च ।
मरुता सह पर्जन्यो धाता भूमिर्दिशो दश ।। २८ ।।
गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा ।
सरितः सागराश्चैव नानाविद्याधरोरगाः ।। २९ ।।
तथा नागाः सुपर्वाणो गन्धर्वाप्सरसां गणाः ।
कृत्स्नं जगदिदं प्रोक्तं देव्या नामानुकीर्तनात् ।। 2.120.३० ।।
देव्याः स्तवमिमं पुण्यं यः पठेत् सुसमाहितः ।
सा तस्मै सप्तमे मासि वरमग्र्यं प्रयच्छति ।। ३१ ।।
अष्टादशभुजा देवी दिव्याभरणभूषिता ।
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा ।। ३२ ।।
कात्यायनि स्तूयसे त्वं वरमग्र्यं प्रयच्छसि ।
अतः स्तवीमि त्वां देवीं वरदे वामलोचने ।। ३३ ।।
नमोऽस्तु ते महादेवि सुप्रीता मे सदा भव ।
प्रयच्छ त्वं वरं ह्यायुः पुष्टिं चैव क्षमां धृतिम् ।। ३४ ।।
बन्धनस्थो विमुच्येयं सत्यमेतद् भवेदिति ।
वैशम्पायन उवाच
एवं स्तुता महादेवी दुर्गा दुर्गपराक्रमा ।। ३५ ।।
सांनिध्यं कल्पयामास अनिरुद्धस्य बन्धने ।
अनिरुद्धहितार्थाय देवी शरणवत्सला ।। ३६ ।।
बद्धं बाणपुरे वीरमनिरुद्धं व्यमोक्षयत् ।
सान्त्वयामास तं वीरमनिरुद्धममर्षणम् ।। ३७ ।।
पूजयामास तां वीरः सोऽनिरुद्धः प्रतापवान् ।
प्रसादं दर्शयामास अनिरुद्धस्य बन्धने ।। ३८ ।।
नागपाशेन बद्धस्य तस्योषाहृतचेतसः ।
स्फोटयित्वा कराग्रेण पञ्जरं वज्रसंनिभम् ।। ३९ ।।
रुद्धं बाणपुरे वीरं सानिरुद्धमभाषत ।
सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा ।। 2.120.४० ।।
श्रीदेव्युवाच
चक्रायुधो मोक्षयितानिरुद्ध त्वां बन्धनादाशु सहस्व कालम् ।
छित्त्वा स बाणस्य सहस्रबाहुं पुरीं निजां नेष्यति दैत्यसूदनः ।। ४१ ।।
ततोऽनिरुद्धः पुनरेव देवीं तुष्टाव हृष्टः शशिकान्तवक्त्रः ।
अनिरुद्ध उवाच
नमोऽस्तु ते देवि वरप्रदे शिवे नमोऽस्तु ते देवि सुरारिनाशिनि ।। ४२ ।।
नमोऽस्तु ते कामचरे सदाशिवे नमोऽस्तु ते सर्वहितैषिणि प्रिये ।
नमोऽस्तु ते भीतिकरि द्विषां सदा नमोऽस्तु ते बन्धनमोक्षकारिणि ।। ४३ ।।
ब्रह्माणीन्द्राणि रुद्राणि भूतभव्यभवे शिवे ।
त्राहि मां सर्वभीतिभ्यो नारायणि नमोऽस्तु ते ।। ४४ ।।
नमोऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते ।
भक्तिप्रिये जगन्मातः शैलपुत्रि वसुन्धरे ।। ४५ ।।
त्राहि मां त्वं विशालाक्षि नारायणि नमोऽस्तु ते ।
त्रायस्व सर्वदुःखेभ्यो दानवानां भयंकरि ।। ४६ ।।
रुद्रप्रिये महाभागे भक्तानामार्तिनाशिनि ।
नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः ।। ४७ ।।
वैशम्पायन उवाच
आर्यास्तवमिदं पुण्यं यः पठेत् सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बन्धनस्थो विमुच्येत सत्यं व्यासवचो यथा ।। ४८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अनिरुद्धकृत आर्यास्तवो नाम विंशत्यधिकशततमोऽध्यायः ।। १२० ।।