हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११६

विकिस्रोतः तः
← अध्यायः ११५ हरिवंशपुराणम्
अध्यायः ११६
वेदव्यासः
अध्यायः ११७ →
भगवतः शङ्करेण बाणासुरस्य स्वस्य एवं देव्याः पार्वत्याः पुत्ररूपेण स्वीकरणं, बाणासुरेण तेन सह युद्धस्य वरप्राप्तिः, वरकारणेन बाणस्य मन्त्रिणः कुम्भाण्डस्य चिन्ता

षोडशाधिकशततमोऽध्यायः

जनमेजय उवाच
भूय एव महाबाहोर्यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रुतानि द्विजसत्तम ।। १ ।।
त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ।
यत् त्वया कथितं पूर्वं बाणं प्रति महासुरम् ।। २ ।।
कथं च देवदेवस्य पुत्रत्वमसुरो गतः ।। ३
योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना ।
सहवासं गतेनैव सगणेन गुहेन तु ।। ४ ।।
बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः ।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा ।। ५ ।।
असंख्यैश्च महाकायैर्महाबलशतैर्वृतः ।
वासुदेवेन स कथं बाणः संख्ये पराजितः ।। ६ ।।
संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः ।
वैशम्पायन उवाच
शृणुष्वावहितो राजन् कृष्णस्यामिततेजसः ।। ७ ।।
मनुष्यलोके बाणेन यथाभूद् विग्रहो महान् ।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् ।। ८ ।।
बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः ।
यथा चास्य वरो दत्तः शंकरेण महात्मना ।। ९ ।।
नित्यं सांनिध्यतां चैव गाणपत्यं तथाक्षयम् ।
यथा बाणस्य तद् युद्धं जीवन्मुक्तो यथा च सः ।। 2.116.१०।।
यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः ।
यदर्थं च महद् युद्धं तत् सर्वमखिलं शृणु ।। ११ ।।
दृष्ट्वा वपुः कुमारस्य क्रीडतश्च महात्मनः ।
बलिपुत्रो महावीर्यो विस्मयं परमं गतः ।। १२ ।।
तस्य बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् ।
रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः ।। १३ ।।
ततोऽग्लपयदात्मानं तपसा श्लाघते च सः ।
देवश्च परमं तोषं जगाम च सहोमया ।। १४ ।।
नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् ।
वरं वरय भद्रं ते यत् ते मनसि वर्तते ।। १५ ।।
अथ बाणोऽब्रवीद् वाक्यं देवदेवं महेश्वरम् ।
देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन ।। १६ ।।
शंकरस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत्।
कनीयान् कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम् ।। १७ ।।
यत्रोत्थितो महासेनः सोऽग्निजो रुधिरे पुरे ।
तत्रोद्देशे पुरं चास्य भविष्यति न संशयः ।। १८ ।।
नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् ।
मयाभिगुप्तं श्रीमन्तं न कश्चित् प्रसहिष्यति ।। १९ ।।
ततः स निवसन् बाणः पुरे शोणितसाह्वये ।
राज्यं प्रशासते नित्यं क्षोभयन् सर्वदेवताः ।। 2.116.२० ।।
अथ वीर्यमदोत्सिक्तो बाणो बाहुसहस्रवान् ।
अचिन्तयन् देवगणान् युद्धमाकाङ्क्षते सदा ।। २१ ।।
ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् ।
वाहनं चैव बाणस्य मयूरं दीप्ततेजसम् ।। २२ ।।
न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः ।
तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा ।। २३ ।।
त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः ।
भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत ।। २४ ।।
स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च ।
बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् ।। २५ ।।
असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः ।
मया मदबलोत्सेकात् ससैन्येन तवाश्रयात् ।।२६।।
इमं देशं समागम्य वसन्ति स्म पुरे सुखम् ।
ते पराजयसंत्रस्ता निराशा मत्पराजये ।। २७ ।।
नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् ।
सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये ।। २८ ।।
अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम ।
तद् ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् ।
न मे युद्धं विना देव रतिरस्ति प्रसीद मे ।। २९ ।।
ततः प्रहस्य भगवानब्रवीद् वृषभध्वजः ।
भविता बाण युद्धं वै यथा तच्छृणु दानव ।। 2.116.३० ।।
ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति ।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ।। ३१ ।।
इत्येवमुक्तः प्रहसन् बाणस्तु बहुशो मुदा ।
प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् ।। ३२ ।।
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम ।
दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे ।। ३३ ।।
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः ।
पञ्चाञ्जलिशतैर्देवं पूजयन् पतितो भुवि ।। ३४ ।।
ईश्वर उवाच
उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः स्वकुलस्य तु ।
सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत् ।। ३५ ।।
वैशम्पायन उवाच
एवमुक्तस्ततो बाणस्त्र्यम्बकेण महात्मना ।
हर्षेणात्युच्छ्रितः शीघ्रं ननाम वृषभध्वजम् ।। ३६ ।।

92
शितिकण्ठविसृष्टस्तु बाणः परपुरंजयः ।
ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत् ।। ३७ ।।
तत्रोपविष्टः प्रहसन् कुम्भाण्डमिदमब्रवीत् ।
प्रियमावेदयिष्यामि भवतो यन्मनोगतम् ।। ३८ ।।
इत्येवमुक्तः प्रहसन् बाणमप्रतिमं रणे ।
प्रोवाच राजन्किं त्वेतद्वक्तुकामोऽसि मत्प्रियम्।।३९।।
विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे ।
त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि ।। 2.116.४० ।
देवदेवप्रसादेन स्कन्दस्य च महात्मनः ।
ईप्सितं किं त्वया प्राप्तं तन्मे ब्रूहि महासुर ।। ४१ ।।
शितिकण्ठप्रसादेन स्कन्दगोपायनेन च ।
कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना ।। ४२ ।।
कच्चिद् विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः।। ४३ ।।
पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् ।
विबुधावासनिरता भविष्यन्ति महासुराः ।। ४४ ।।
बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप ।
सलिलौघाद् विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति।।४५।।
दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् ।
कच्चिद् वैरोचनिं तात द्रक्ष्यामः पितरं तव ।। ४६ ।।
कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो ।
पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः ।। ४७ ।।
स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् ।
कच्चिन्नारायणं देवं जेष्यामः समितिंजयम् ।। ४८ ।।
कच्चिद् वृषध्वजस्तात प्रसादसुमुखस्तव ।
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ।। ४९ ।।
कश्चिदीश्वरतोषेण कार्तिंकेयमतेन च ।
प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम् ।।2.116.५० ।।
इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः ।
बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः ।। ५१
बाण उवाच
चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया ।
ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ।। ५२ ।।
युद्धाभिलाषः सुमहान् देव संजायते मम ।
अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम् ।। ५३ ।।
ततोऽहं देवदेवेन हरेणामित्रघातिना ।
प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् ।
प्राप्स्यसे सुमहद् युद्धं त्वं बाणाप्रतिमं महत् ।। ५४ ।।
मयूरध्वजभङ्गस्ते भविष्यति यदासुर ।
तदा त्वं प्राप्स्यसे युद्धं सुमहद् दितिनन्दन ।। ५५ ।।
ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् ।
प्रणम्य शिरसा देवं तवान्तिकमुपागतः ।। ५६ ।।
इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा ।
अहो न शोभनं राजन यदेवं भाषसे वचः ।। ५७ ।।
एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः ।
ध्वजः पपात वेगेन शक्राशनिसमाहतः ।। ५८ ।।
तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् ।
प्रहर्षमतुलं लेभे मेने चाहवमागतम् ।। ५९ ।।
ततश्चकम्पे वसुधा शक्राशनिसमाहता ।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ।। 2.116.६० ।।
देवानामपि यो देवः सोऽप्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः परमं ततः ।। ६१ ।।
सूर्य भित्त्वा महोल्का च पपात धरणीतले ।
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ।। ६२
चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः ।
शोणितस्य स्रवन् घोरा निपेतुस्तारका भृशम् ।। ६३
राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
लोकक्षयकरे काले निर्घातश्चापतन्महान् ।। ६४ ।।
दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत्।
अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः ।। ६५ ।।
श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः ।
त्रिवर्णपरिघो भानुः संध्यारागमथावृणोत् ।। ६६ ।।
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयंकरः ।
बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः ।। ६७।।
अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् ।। ६८ ।।
एवं विविधरूपाणि निमित्तानि निशामयन् ।
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ।। ६९ ।।
विचेतास्त्वभवत् प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान्।
बाणस्य सचिवस्तत्र कीर्तयन् बहुकिल्बिषम् ।। 2.116.७० ।।
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।
तव राज्यविनाशाय भविष्यन्ति न संशयः ।। ७१ ।।
वयं चान्ये च सचिवा भृत्यास्ते च तवानुगाः ।
क्षयं यास्यन्ति नचिरात् सर्वे पार्थिव दुर्नयात् ।। ७२ ।।
यथा शक्रध्वजतरोः स्वदर्पात् पतनं भवेत् ।
बलमाकाङ्क्षतो मोहात् तथा बाणस्य नर्दतः ।। ७३ ।।
देवदेवप्रसादात् तु त्रैलोक्यविजयं गतः ।
उत्सेकाद् दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह ।। ७४ ।।
बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् ।
दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः । ७५ ।।
कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा ।
अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पातदर्शनैः ।। ७६ ।।
राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुरः ।
युद्धमेवाभिलषते न दोषान्मन्यते मदात् ।। ७७ ।।
महोत्पातभयं चैव न तन्मिथ्या भविष्यति ।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम् ।। ७८ ।।
इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् ।
तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम्।।७९।।
उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् ।
दोषाणां न भवेन्नाश इति मे धीयते मतिः ।। 2.116.८०।।
नियतो दोष एवायं भविष्यति न संशयः ।
दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः ।। ८१ ।।
देवदानवसंघानां यः कर्ता भुवनप्रभुः ।
भगवान् कातिकेयश्च कृतवाँल्लोहिते पुरे ।। ८२ ।।
प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा ।
तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः ।। ८३ ।।
दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम्।
युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति ।। ८४ ।।
यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् ।
भवित्री घनवत्प्राप्तिर्भवहस्तात्कृता भवेत् ।। ८५।।
एतयोश्च हि को युद्धं कुमारभवयोरिह ।
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ।। ८६ ।।
न च देववचो मिथ्या भविष्यति कदाचन ।
भविष्यति महद् युद्धं सर्वदैत्यविनाशनम् ।।
स एवंचिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान्।
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः ।।८८ ।।
ये हि देवैर्विरुध्यन्ते पुण्यकर्मभिराहवे ।
यथा बलिर्नियमितस्तथा ते यान्ति संक्षयम् ।। ८९।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्यायः ।। ११६ ।।