हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९२
← अध्यायः ०९१ | हरिवंशपुराणम् अध्यायः ९२ वेदव्यासः |
अध्यायः ०९३ → |
हंसानां वज्रपुरे निवासः, हंस्या प्रभावतीं प्रद्युम्नस्य प्रति अनुरक्तकरणं, प्रभावत्या हंस्यां प्रद्युम्नस्य प्राप्तिकरणस्य अनुरोधं, हंस्याः वज्रनाभेन सह संवादं, हंसानां मुखतः सर्वं समाचारं श्रुत्वा श्रीकृष्णेन नटवेषे प्रद्युम्नादि यादवानां वज्रपुरे प्रेषणम् |
द्विनवतितमोऽध्यायः
वैशम्पायन उवाच
ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।
पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ।। १ ।।
ते दीर्घिका सु रम्यासु निपेतुर्वीर पक्षिणः ।
पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ।। २ ।।
ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।
पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ।। ३ ।।
अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।
दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ।। ४ ।।
आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।
स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ।। ५ ।।
त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।
यदैवेहोन्सवोऽस्माकं भवद्भिरवगम्यते ।। ६ ।।
आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।
विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ।। ७ ।।
ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।
तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ।। ८ ।।
चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।
मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ।। ९ ।।
वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।
स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः ।। 2.92.१० ।।
विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।
प्रभावतीं वरारोहां वज्रनाभसुतां तदा ।। ११ ।।
हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।
सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ।। १२ ।।
सा तां कचित्पप्रच्छ वज्रनाभसुतां सखीम् ।
विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ।। १३ ।।
त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।
रूपशीलगुणैर्देवि किंचित् त्वां वक्तुमुत्सहे ।। १४।।
व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।
यदतीतं पुनर्नैति गतं स्रोत इवाम्भसः ।। १५ ।।
कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।
स्त्रीणां जगति कल्याणि सत्यमेतद् ब्रवीमि ते ।। १६ ।।
स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।
न च कांश्चिद् वरयसे देवासुरकुलोद्भवान् ।। १७ ।।
व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।
रूपशौर्यगुणैर्युक्तान् सदृशांस्त्वं कुलस्य हि ।। १८ ।।
इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ।। १९ ।।
त्रैलोक्ये यस्य रूपेण सदृशो न कुलेन वा ।
गुणैर्वा चारुसर्वाङ्गि शौर्येणाप्यति वा शुभे ।। 2.92.२० ।।
देवेषु देवः सुश्रोणि दानवेषु च दानवः ।
मानुषेष्वपि धर्मात्मा मनुष्यः स महाबलः ।। २१ ।।
यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।
आपीनानीव धेनूनां स्रोतांसि सरितामिव ।। २२ ।।
न पूर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।
उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ।। २३ ।।
जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।
कृत्यानङ्गं वरे साङ्गं विष्णुना प्रभविष्णुना ।। २४ ।।
हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।
मायाश्च सर्वाः सम्प्राप्ता न च शीलं विनाशितम् ।।२५ ।।
यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।
एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ।। २६ ।।
रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।
तेजसा सूर्यसदृशो गाम्भीर्येण ह्रदोपमः ।
प्रभावतीं शुचिमुखीं त्वितीहोवाच भामिनी ।। २७ ।।
प्रभावत्युवाच
विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।
पितुः कथयतः सौम्ये नारदस्य च धीमतः ।। २८ ।।
शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।
कुलानि किल दैत्यानां तेन दग्धानि मानिनि ।। २९ ।।
प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।
शाखानगरदेशेषु वसन्ति किल येऽसुराः ।। 2.92.३० ।।
इत्येते दानवेन्द्रेण संदिश्यन्ते हि तं प्रति ।
मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते ।। ३१ ।।
भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति ।
यदि नामाभ्युपायः स्यात् तस्येहागमनं प्रति ।। ३२ ।।
महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे ।
समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ।। ३३ ।।
प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः ।
अत्यन्तवैरी दैत्यानामुद्वेजनकरो हरिः ।। ३४ ।।
असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ।
प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम् ।। ३५ ।
यथा च तेन निहतो बलवान् कालशम्बरः ।
हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ।। ३६ ।।
हेतुः स नास्ति स्यात् तेन यथा मम समागमः ।
दासी तवाहं सख्यार्हे दूत्ये त्वां च विसर्जये ।। ३७ ।।
पण्डितासि वदोपायं मम तस्य च संगमे ।
ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत् ।। ३८ ।।
शुचिमुख्युवाच
तत्र दूती गमिष्यामि तवाहं चारुहासिनि ।
इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ।। ३९ ।।
तथा चैव करिष्यामि यथैष्यति तवान्तिकम् ।
साक्षात्कामेन सुश्रोणि भविष्यति सकामिनी ।। 2.92.४०।।
इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने ।
कथाकुशलतां पित्रे कथयस्वायतेक्षणे ।। ४१।।
मम त्वं तत्र मे देवि हितं सम्यक् प्रपत्स्यसे ।
इत्युक्ता सा तथा चक्रे यत्तत् सा तामथाब्रवीत्।।४२।।
दानवेन्द्रश्च तां हंसीं पप्रच्छान्तःपुरे तदा ।
प्रभावत्या समाख्याता कथाकुशलता तव ।। ४३ ।।
तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।
किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि ।। ४४ ।।
अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते ।
सोवाच वज्रनाभं तु हंसी नरवरोत्तम ।। ४५ ।।
श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिम् ।
दृष्टा मे शाण्डिली नाम साध्वी दानवसत्तम ।
आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ।। ४६ ।।
सुमनाश्चैव कौशल्या सर्वभूतहिते रता ।
कथंचिद् वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी।।४७।।
नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः ।
कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसम्मतः ।। ४८ ।।
कुरून् यात्युत्तरान् वीर कालाम्रद्वीपमेव च ।
भद्राश्वान् केतुमालांश्च द्वीपानन्यांस्तथानघ ।। ४९ ।।
देवगन्धर्वगेयानि नृत्यानि विविधानि च ।
स वेत्ति देवान् नृत्येन विस्मापयति सर्वथा ।। 2.92.५० ।।
वज्रनाभ उवाच
श्रुतमेतन्मया हंसि न चिरादिव विस्तरम् ।
चारणानां कथयतां सिद्धानां च महात्मनाम् ।। ५१ ।।
कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि ।
नटे दत्तवरे तस्मिन् संस्तवस्तु न विद्यते ।। ५२ ।।
हंस्युवाच
सप्तद्वीपान् विचरति नटः स दितिजोत्तम ।
गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा ।। ५३ ।।
तव चेच्छृणुयाद् वीर सद्भूतं गुणविस्तरम् ।
नटं तदागतं विद्धि पुरं तव महासुर ।। ५४ ।।
वज्रनाभ उवाच
उपायः सृजतां हंसि येनेह स नटः शुभे ।
आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि ।। ५५ ।।
ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः ।
देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत् ।। ५६ ।।
अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि ।
प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा ।। ५७ ।।
दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् ।
नटवेषेण भैमानां प्रेषयामास भारत ।। ५८ ।।
प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।
पारिपार्श्वे गदं वीरमन्यान् भैमांस्तथैव च ।। ५९ ।।
वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा ।
तथैव भद्रं भद्रस्य सहायांश्च तथाविधान् ।। 2.92.६० ।।
प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।
जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम् ।। ६१ ।।
एकैकस्य समा रूपे पुरुषाः पुरुषस्य ते ।
स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः ।। ६२ ।।
ते वज्रनगरस्याथ शाखानगरमुत्तमम् ।
जग्मुर्दानवसंकीर्णं सुपुरं नाम नामतः ।। ६३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभप्रद्युम्नादिगमने द्विनवतितमोऽध्यायः ।। ९२ ।।