हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०८४
← अध्यायः ०८३ | हरिवंशपुराणम् अध्यायः ८४ वेदव्यासः |
अध्यायः ०८५ → |
श्रीकृष्णेन यादवसेनायाः युद्धाय नियुक्तिः, दानवानां निष्क्रमणं, निकुम्भेन केषांचित् यादववीराणां गुहायां बन्धनम्, श्रीकृष्णेन दानवसैनिकानां संहारः, प्रद्युम्नेन राजसैनिकानां गुहायां अवरोधनम् एवं ब्रह्मदत्ताय सान्त्वना |
चतुरशीतितमोऽध्यायः
वैशम्पायन उवाच
मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा ।। १ ।।
बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम् ।। २ ।।
आवर्तया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ।। ३ ।।
प्रद्युम्नमग्रे सैन्यस्य वियति स्थाप्य मानदः ।
रक्षार्थं यज्ञवाटस्य पाण्डवान् विनियुज्य च ।। ४ ।।
शेषां सेनां गुहाद्वारि भगवान् विनियुज्य च ।
जयन्तमथ सस्मार प्रवरं च सतां गतिः ।। ५ ।।
तावापेतुरेवाथ स्वयं चापश्यतां तथा ।
वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत ।। ६ ।।
ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः ।
जलजा मुरजाश्चैव वाद्यान्येवापराणि च ।। ७ ।।
मकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा ।। ८ ।।
अनाधृष्टिश्च धर्मात्मा पृथुर्विपृथुरेव च ।
कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः ।। ९ ।।
सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ।। 2.84.१० ।।
शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन ।। ११ ।।
षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः ।। १२ ।।
मकराञ्छिशुमारांश्च द्रुतानपि च भारत ।
महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान् ।। १३ ।।
एतैरेव रथैर्युक्ता विविधायुधपाणयः ।
किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः ।। १४ ।।
नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः ।। १५ ।।
तासामसुरसेनानामुद्यतानां जनेश्वर ।
निकुम्भो निर्ययावग्रे देवानामिव वासवः ।। १६ ।।
भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः ।
नदन्तो विविधान्नादान् क्ष्वेडन्तश्च पुनः पुनः ।। १७ ।।
राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थे निश्चिता जनमेजय ।। १८ ।।
दुर्योधनभ्रातृशतं चेदिराजानुजाग्रगम् ।
स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः ।। १९ ।।
कठिनानादिनो वीर द्रुपदस्यन्दनास्तथा ।
रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे ।
तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ।। 2.84.२० ।।
शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः ।
जरासंधस्त्रिगर्तश्च विराटश्च सहोत्तरः ।। २१ ।।
युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर्देवैरिव महासुराः ।। २२ ।।
ततो निकुम्भः समरे शरैराशीविषोपमैः ।
ममर्द समरे सेनां भैमानां भीमदर्शनाम् ।। २३ ।।
सेनापतिरनाधृष्टिर्ममृषे तन्न यादवः ।
ममर्द घोरैर्बाणोघैश्चित्रपुङ्खैः शिलाशितैः ।। २४ ।।
न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः ।। २५ ।।
स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम् ।। २६ ।।
स्तम्भयित्वानयद् वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद्वीरो मायाबलमुपाश्रितः ।। २७ ।।
पुनरेव निकुम्भस्तु कृतवर्माणमाहवे ।
अनयच्चारुदेष्णं च भोजं वैतरणं तथा ।। २८ ।।
सनत्कुमारमृक्षं च तथैव निशठोल्मुकौ ।
बहूंश्चैवापरान् भोजान् मायाबलसमाश्रितः ।। २९ ।।
न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान्घोरान् गुहां षट्पुरसंशिताम् ।। 2.84.३०।।
तद् दृष्ट्वा कदनं घोरं भैमानां भयवर्धनः ।
चुकोप भगवान्कृष्णो बलः सत्यक एव च ।। ३१ ।।
सविशेषं तथा कामः साम्बश्च परवीरहा ।
अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे ।। ३२ ।।
ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।
दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः ।। ३३ ।।
तं दृष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम् ।। ३४ ।।
समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान् ।। ३५ ।।
पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः ।
उत्क्षिप्य च गजान्मत्तान् रथानपि हयानपि ।।३६ ।।
नारायणाग्निस्तान् सर्वान् ददाह प्रहसन्निव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः ।।३७ ।।
शारदं वर्षणं यद्वत् सेहे धीरो गवां पतिः ।
तद्वद् यदुवृषः सेहे बाणवर्षमरिंदमः ।। ३८ ।।
न सेहिरे ऽसुरा बाणान्नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा ।। ३९।।
न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।
व्यादितास्यस्य सिंहस्य वृषभा इव भारत ।। 2.84.४० ।।
ते वध्यमानाः कृष्णेन दिवमाचक्रमुस्तदा ।
जीविताशां वहन्तस्तु नारायणभयार्दिताः ।। ४१ ।।
तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा ।
निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो ।। ४२ ।।
निपेतुरसुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात् तरोः ।। ४३ ।।
निपेतुर्बाहवश्छिन्ना दैन्यानां वसुधातले ।
कालेनोपहता वीर पञ्चवक्त्रा इवोरगाः ।। ४४ ।।
रौक्मिणेयस्ततः सृष्ट्वा घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः । ४५ ।।
गदेन सह धर्मात्मा सारणेन सुतेन च ।
साम्बेन चापरैश्चापि पूर्वं ये न प्रवेशिताः ।। ४६ ।।
प्रमथ्य तरसा कर्णे यतन्तं रणमूर्धनि ।
जग्राह बलवान् कार्ष्णिः प्रस्फुरन्तं ततस्ततः ।। ४७ ।।
विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदावपि ।। ४८ ।
शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासंधं च भारत ।। ४९ ।।
त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् ।
धृष्टद्युस्नादिकांश्चैव पञ्चालानस्त्रकोविदान् ।। 2.84.५० ।।
तथाह्वृतिमुवाचेदं मातुलं रुक्मिमेव च ।
शिशुपालं च राजानं भगदत्तं च भारत ।। ५१ ।।
सम्बन्धं च गुरुत्वं च मानयामि नराधिपाः ।
गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः ।। ५२ ।।
बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास्ते गुहायामिति धीमता ।। ५३ ।।
आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान् यादवांश्चैव मोक्षयिष्यामि सर्वथा ।। ५४ ।।
इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा ।
शरैस्ततर्द तान् भैमान् प्रद्युम्नं च विशेषतः ।। ५५ ।।
बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरभन्नृपतिं बद्धुं शिशुपालं महाबलम् ।। ५६ ।
ततः पाशसहस्त्राणि ग्रहाय प्रवरोत्तमः ।
शैलादिरब्रवीद् वीरं रौक्मिणेयं महाबलम् ।। ५७ ।।
बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथा मया।। ५८ ।।
कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान् नराधिपान्।
पाशैस्त्वमेव भोक्तुं च प्रमाणं यदुनन्दन ।। ५९ ।।
असुरांस्तु महाबाहो निःशेषान् कर्तुमर्हसि ।
एवमेव च वक्तव्यस्त्वया वीर जनार्दनः ।। 2.84.६० ।।
ततः स भगदत्तं च शिशुपालं च भूमिप ।
आह्वृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान् ।।६१।।
बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् ।
मायामयीं गुहां चैवमानयत् कुरुनन्दन ।। ६२ ।।
बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम् ।। ६३ ।।
तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनापतीन् क्षत्रियांश्च कोशाध्यक्षांश्च भारत ।। ६४ ।।
अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो ।। ६५ ।।
संनद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विस्रब्धं वर्ततां कर्म मा भैः पश्य धनंजयम् ।। ६६ ।।
न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ।। ६७ ।।
न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा ।
यज्ञवाटे निरीक्ष्यन्तां मायया निहिता मया ।। ६८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे चतुरशीतितमोऽध्यायः ।। ८४ ।।