हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६० हरिवंशपुराणम्
अध्यायः ०६१
वेदव्यासः
अध्यायः ०६२ →
रुक्मेः पुत्र्या शुभाङ्ग्या स्वयंवरे प्रद्युम्नस्य वरणम्, प्रद्युम्नपुत्र अनिरुद्धस्य रुक्मेः

पौत्र्याः रुक्मवत्या सह विवाहं एवं बलरामेण रुक्मेः वधम्

एकषष्टितमोऽध्यायः

वैशम्पायन उवाच
ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिंदमः ।। १ ।।
तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा ।
समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः ।।२।।
तत्राजगाम प्रद्युम्नः कुमारैरपरैर्वृतः ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम् ।। ३ ।।
शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता ।
पृथिव्यामभवत् ख्याता रुक्मिणस्तनया तदा ।। ४ ।।
उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु ।
वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् ।। ५ ।।
स हि सर्वास्त्रकुशलः सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके केशवस्यात्मजोऽभवत् ।। ६ ।।
वयोरूपगुणोपेता राजपुत्री च साभवत् ।
नारायणीवेन्द्रसेना जातकामा च तं प्रति ।। ७ ।।
वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते ।
उपादाय च वैदर्भी प्रद्युम्नो द्वारकां ययौ ।। ८ ।।
रेमे सह तया वीरो दमयन्त्या नलो यथा ।
स तस्यां जनयामास देवगर्भोपमं सुतम् ।। ९ ।।
अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि ।
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् ।। 2.61.१० ।।
अभवत् स यदा राजन्ननिरुद्धो वयोऽन्वितः ।
तदास्य रुक्मिणः पौत्रीं रुक्मिणी रुक्मसंनिभाम् ।
पत्न्यर्थे वरयामास नाम्ना रुक्मवतीति सा ।। ११ ।।
अनिरुद्धगुणैर्दातुं कृतबुद्धिर्नृपस्ततः ।
प्रीत्या हि रौक्मिणेयस्य रुक्मिण्याश्चाप्युपग्रहात्।। १२।।
विस्पर्द्धन्नपि कृष्णेन वैरं त्यज्य महायशाः ।
ददामीत्यब्रवीद् राजा प्रीतिमाञ्जनमेजय ।। १३ ।।
केशवः सह रुक्मिण्या पुत्रैः संकर्षणेन च ।
अन्यैश्च वृष्णिभिः सार्द्ध विदर्भान् सबलो ययौ।। १४ ।।
संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः ।। १५ ।।
शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते ।
विवाहः सोऽनिरुद्धस्य बभूव परमोत्सवः ।। १६ ।।
पाणौ गृहीते वैदर्भ्यास्त्वनिरुद्धेन तत्र वै ।
वैदर्भयादवानां च बभूव परमोत्सवः ।। १७ ।।
रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः ।
अथाश्मकानामधिपो वेणुदारिरुदारधीः ।। १८ ।।
अक्षः श्रुतर्वा चाणूरः क्राथश्चैवांशुमानपि ।
जयत्सेनः कलिङ्गानामधिपश्च महाबलः ।। १९ ।।
पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा ।
एते सम्मन्त्र्य राजानो दाक्षिणात्या महर्द्धयः ।। 2.61.२० ।।
अभिगम्याब्रुवन् सर्वे रुक्मिणं रहसि प्रभुम् ।
भवानक्षेषु कुशलो वयं चापि रिरंसवः ।। २१ ।।
प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च ।
ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् ।
इत्युक्तो रोचयामास रुक्मी द्यूतं महारथः ।। २२ ।।
ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ।। २३ ।।
तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्वासनेष्वासांचक्रिरे विजिगीषवः ।। २४ ।।
आहूतो बलदेवस्तु कितवैरक्षकोविदैः ।
बाढमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम् ।। २५ ।।
निकृत्या विजिगीषन्तो दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः ।। २६ ।।
ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ।। २७ ।।
निष्काणां च सहस्राणि सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते बलदेवो ग्लहं ददौ २८ ।।
तं जिगाय ततो रुक्मी यतमानं महाबलम् ।
तावदेवापरं भूयो बलदेवं जिगाय सः ।। २९ ।।
असकृज्जीयमानस्तु रुक्मिणा केशवाग्रजः ।
सुवर्णकोटीर्जग्राह ग्लहं तस्य महात्मनः ।। 2.61.३० ।।
जितमित्येव हृष्टोऽथ तमाह्वृतिरभाषत ।
श्लाघ्यमानश्च चिक्षेप प्रहसन् मुसलायुधम् ।। ३१ ।।
अविद्यो दुर्बलः श्रीमान् हिरण्यममितं मया ।
अजेयो बलदेवोऽयमक्षद्यूते पराजितः ।। ३२ ।।
कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा ।
दन्तान् संदर्शयन् हृष्टस्तत्राक्रुद्ध्यद्धलायुधः ।। ३३ ।।
रुक्मिणस्तद् वचः श्रुत्वा पराजयनिमित्तजम् ।
निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिर्भीष्मकसूनुना ।। ३४ ।।
रोषमाहारयामास जितरोषोऽपि धर्मवित् ।
संकुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः ।। ३५ ।।
धैर्यात्मनः संनिधाय ततो वचनमब्रवीत् ।
दशकोटिसहस्राणि ग्लह एको ममापरः ।। ३६ ।।
एनं सम्परिगृह्णीष्व पातयाक्षान् नराधिप ।
कृष्णाक्षाँल्लोहिताक्षांश्च देशेऽस्मिंस्त्वधिपांसुले।। ३७।।
इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किंचिद् बाढमित्यब्रवीत्पुनः।। ३८ ।।
अक्षान् रुक्मी ततो हृष्टः पातयामास पार्थिवः ।
चातुरक्षे तु निर्वृत्ते निर्जितस्य नराधिपः ।। ३९ ।।
बलदेवेन धर्मेण नेत्युवाच ततो बलम् ।
धैर्यान्मनः समाधाय स न किंचिदुवाच ह ।। 2.61.४० ।।
बलदेवं ततो रुक्मी मया जितमिति स्मयन् ।
बलदेवस्तु तच्छुत्वा जिह्मं वाक्यं नराधिप ।। ४१ ।।
भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ।
ततो गम्भीरनिर्घोषा वागुवाचाशरीरिणी ।। ४२ ।।
बलदेवस्य तं क्रोधं वर्धयन्ती महात्मनः ।
सत्यमाह बलः श्रीमान् धर्मेणैव पराजितः ।। ४३ ।।
अनुक्त्वा वचनं किंचित् प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् ।। ४४ ।।
इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् ।
संकर्षणस्तथोत्थाय सौवर्णेनोरुणा बली ।। ४५ ।।
रुक्मिण्या भ्रातरं ज्येष्ठं निजघान महीतले ।
विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम ।
जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ।। ४६ ।।
ततोऽपसृत्य संक्रुद्धः कलिङ्गाधिपतेरपि ।
दन्तान् बभञ्ज संरम्भादुन्ननाद च सिंहवत् ।। ४७ ।।
स्वड्गमुद्यम्य तान्सर्वांस्त्रासयामास पार्थिवान् ।
स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः ।। ४८ ।।
गजेन्द्र इव तं स्तम्भं कर्षन् संकर्षणस्ततः ।
निर्जगाम सभाद्वारात्त्रासयामास कैशिकान्।। ४९ ।।
रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः ।
वित्रास्य विद्विषः सर्वान् सिंहः क्षुद्रमृगानिव ।। 2.61.५० ।।
जगाम शिबिरं रामः स्वयमेव जनावृतः ।
न्यवेदयत्स कृष्णाय तत्र सर्वं यथाभवत् ।। ५१ ।।
नोवाच स तदा कृष्णः किंचिद्रामं महाद्युतिः ।
निगृह्य च तदाऽऽत्मानं कृच्छ्रादश्रूण्यवर्तयत् ।। ५२ ।।
न हतो वासुदेवेन यः पूर्वं परवीरहा ।
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात्।।५३।।
स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान् राजा वज्रधरोपमः ।। ५४ ।।
तस्मिन् हते महावीर्ये नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते ।। ५५ ।।
कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् ।। ५६ ।।
वैशम्पायन उवाच
रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा ।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशवः ।। ५७ ।।
एतत् ते सर्वमाख्यातं रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ ।। ५८ ।।
वृष्णयोऽपि महाराज धनान्यादाय सर्वशः ।
रामकृष्णौ समाश्रित्य ययुर्द्वारवतीं प्रति ।। ५९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रूक्मिवधो नामैकषष्टितमोऽध्यायः ।। ६१ ।।